Ad Code

शिवप्रोक्तं अरुणाचलक्षेत्रवर्णनम्

शिवप्रोक्तं अरुणाचलक्षेत्रवर्णनम् 



(शिवरहस्यान्तर्गते उग्राख्ये)
श्रीशिव उवाच
शिवे सुक्षेत्रमस्त्येकमरुणाचलनामकम् ।
अरुणाचलनाथस्य स्मरणं मङ्गलप्रदम् ॥ १॥

तत्र सन्ति महान्तो हि शिवशास्त्रविशारदाः ।
रुद्राक्षभस्माभरणाः श्रीरुद्राध्यायजापकाः ॥ २॥

तत्र ब्रह्मसरो नाम सरस्तिष्ठति शोभने ।
तत्रैकस्नानमात्रेण मुच्यन्ते सर्वकिल्बिषैः ॥ ३॥

शिवे मकरसङ्क्रान्तावरुणाचलनायकम् ।
दृष्ट्वा विमुच्यते पापैरन्तैरपि सर्वथा ॥ ४॥

तत्रारुणाचलेशस्य रविसङ्क्रमणे शुचिः ।
एकं प्रदक्षिणं कृत्वा न पुनर्गर्भभाग्भवेत् ॥ ५॥

विष्णुब्रह्मादयो देवा रविसङ्क्रमणे शिवे ।
तत्रारुणाचलेशस्य कुर्वन्त्येव प्रदक्षिणम् ॥ ६॥

अरुणाचलनाथं यो रथारूढं विलोकयेत् ।
न तस्य भूयः संसारसागरे पतनं शिवे ॥ ७॥

वेदाः स्तुवन्ति सततमरुणाचलनायकम् ।
मुनयः सिद्धगन्धर्वाः स्तुवन्ति सततं शिवे ॥ ८॥

॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं अरुणाचलक्षेत्रवर्णनं सम्पूर्णम् ॥

- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २१। १-८॥

Post a Comment

0 Comments

Ad Code