Ad Code

श्रीअरुणाचलाष्टकम्

श्रीअरुणाचलाष्टकम् 


दर्शनादभ्रसदसि जननात्कमलालये ।
काश्यां तु मरणान्मुक्तिः स्मरणादरुणाचले ॥ १॥

करुणापूरितापाङ्गं शरणागतवत्सलम् ।
तरुणेन्दुजटामौलिं स्मरणादरुणाचलम् ॥ २॥

समस्तजगदाधारं सच्चिदानन्दविग्रहम् ।
सहस्ररथसोपेतं स्मरणादरुणाचलम् ॥ ३॥

काञ्चनप्रतिमाभासं वाञ्छितार्थफलप्रदम् ।
मां च रक्ष सुराध्यक्षं स्मरणादरुणाचलम् ॥ ४॥

बद्धचन्द्रजटाजूटमर्धनारीकलेवरम् ।
वर्धमानदयाम्भोधिं स्मरणादरुणाचलम् ॥ ५॥

काञ्चनप्रतिमाभासं सूर्यकोटिसमप्रभम् ।
बद्धव्याघ्रपुरीध्यानं स्मरणादरुणाचलम् ॥ ६॥

शिक्षयाखिलदेवारिभक्षितक्ष्वेलकन्धरम् ।
रक्षयाखिलभक्तानां स्मरणादरुणाचलम् ॥ ७॥

अष्टभूतिसमायुक्तमिष्टकामफलप्रदम् ।
शिष्टभक्तिसमायुक्तान् स्मरणादरुणाचलम् ॥ ८॥

विनायकसुराध्यक्षं विष्णुब्रह्मेन्द्रसेवितम् ।
विमलारुणपादाब्जं स्मरणादरुणाचलम् ॥ ९॥

मन्दारमल्लिकाजातिकुन्दचम्पकपङ्कजैः ।
इन्द्रादिपूजितां देवीं स्मरणादरुणाचलम् ॥ १०॥

सम्पत्करं पार्वतीशं सूर्यचन्द्राग्निलोचनम् ।
मन्दस्मितमुखाम्भोजं स्मरणादरुणाचलम् ॥ ११॥

॥ इति श्रीअरुणाचलाष्टकं सम्पूर्णम् ॥

Post a Comment

0 Comments

Ad Code