श्रीकृष्णजयन्ती निर्णयः

 


श्रीकृष्णजयन्ती निर्णयः

श्री गुरुभ्यो नमः हरिः ॐ श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचितः श्रीकृष्णजयन्ती निर्णयः रोहिण्या मध्यरात्रे तु यदा कृष्णाष्टमी भवेत् । जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशनी(नं) ॥ १॥ यस्यां जातो हरिः साक्षान्नि शेते भगवानजः । तस्मात्तद्दिनमत्यर्थं पुण्यं पापहरं शुभपरम् ॥ २॥ तस्मात्सर्वैर्रुपोश्या सा जयन्ती नाम सा(वै) सदा । द्विजातिभिर्विशेषेण तद्भक्तैश्च विशेषतः ॥ ३॥ यो भुङ्क्ते तद्दिने मोहा(लोभा)त् पूयशोणितमत्ति सः । तस्मादुपवासेन्नित्य(पुण्य)ं तद्दिने(नं) श्रद्धयान्वितः ॥ ४॥ कृत्वा शौचं यथा न्यायं स्नानं कुर्यादतंद्रितः । प्रभात काले कुर्वीत यूगायेत्यादिमन्त्रतः ॥ ५॥ नित्याह्निकं प्रकुर्वीत भगवन्तमनुस्मरन् । मध्याह्न काले च पुमान् सायङ्काले त्वतन्द्रितः ॥ ६॥ स्नायेत पूर्वमन्त्रेण वासुदेवमनुस्मरन् । ततः पूजां प्रकुर्वेत विधिवत्सुसमाहितः ॥ ७॥ यनायेति च मन्त्रेण श्रद्धाभक्तियुतः पुमान् । कृष्णं च बलभद्रं च वसुदेवं च देवकीम् ॥ ८॥ नन्दगोपं यशोदाञ्च सुभद्रां तत्र पूजयेत् । (अर्घ्यं दत्वा समभ्यच्यार्भ्युधिते शशिमण्डले) । जातः कंसवधार्ताय भूभारोत्थारणाय च ॥ ९॥ कौरवानां विनाशाय दैत्यानां निधनाय च । पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ॥ १०। गृहाणर्घ्यं मया दत्तं देवक्या सहितो हरिः । अर्घ्यं दत्वासमभ्यर्च्याभ्युदिते शशिमण्डले ॥ ११॥ क्षीरोदार्णवसम्भूत अत्रिनेत्र समुद्भवः । गृहाणर्घ्यं मया दत्तं रोहिण्या सहितः शशिम् ॥ १२॥ दत्वार्घ्यं मनुनानेन उपस्थाय विधुं बुधः । शशिने चन्द्रदेवाय सोमदेवाय छेन्दवे ॥ १३॥ मृगिणे शी(सि)त बिम्बाय लोकदीपाय दीपिणे । (रोहिणीसक्तचित्ताय कन्यादानप्रदायिने) शीतदीदितिबिम्बाय तारकापतये नमः ॥ १४॥ उपसम्हृत्य तत्सर्वं ब्रह्मचारी जितेन्द्रियः । विश्वायेति च मन्त्रेण ततः स्वापं समाचरेत् ॥ १५॥ ततो नित्यान्हि कं कृत्वा शक्तितो दीयतां धनम् । सर्वायेति च मन्त्रेण ततः पारणमाचरेत् । धर्मायेति ततः स्वस्थो मुच्यते सर्वकिल्बिषैः ॥ १६॥ ॥ इति श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचितम् ॥ ॥ जयन्ती निर्णयः सम्पूर्णम् ॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु

एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने