द्वादशस्तोत्राणि श्रीमध्वकृत

 


द्वादशस्तोत्राणि श्रीमध्वकृत

॥ द्वादश स्तोत्राणि॥ अथ प्रथमस्तोत्रम् वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् । इन्दिरापतिमाद्यादि वरदेश वरप्रदम् ॥ १॥ नमामि निखिलाधीश किरीटाघृष्टपीठवत् । हृत्तमः शमनेऽर्काभं श्रीपतेः पादपङ्कजम् ॥ २॥ जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः । स्वर्णमञ्जीरसंवीतं आरूढं जगदम्बया ॥ ३॥ उदरं चिन्त्यं ईशस्य तनुत्वेऽपि अखिलम्भरम् । वलित्रयाङ्कितं नित्यं आरूढं श्रियैकया ॥ ४॥ स्मरणीयमुरो विष्णोः इन्दिरावासमुत्तमैः । var इन्दिरावासमीशितुः इन्दिरावासमुत्तमम् अनन्तं अन्तवदिव भुजयोरन्तरङ्गतम् ॥ ५॥ शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः । पीनवृत्ता जगद्रक्षा केवलोद्योगिनोऽनिशम् ॥ ६॥ सन्ततं चिन्तयेत्कण्ठं भास्वत्कौस्तुभभासकम् । वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यतः ॥ ७॥ स्मरेत यामिनीनाथ सहस्रामितकान्तिमत् । भवतापापनोदीड्यं श्रीपतेः मुखपङ्कजम् ॥ ८॥ पूर्णानन्यसुखोद्भासिं अन्दस्मितमधीशितुः । गोविन्दस्य सदा चिन्त्यं नित्यानन्दपदप्रदम् ॥ ९॥ स्मरामि भवसन्ताप हानिदामृतसागरम् । पूर्णानन्दस्य रामस्य सानुरागावलोकनम् ॥ १०॥ ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् । भ्रूभङ्गं पारमेष्ठ्यादि पददायि विमुक्तिदम् ॥ ११॥ सन्ततं चिन्तयेऽनन्तं अन्तकाले var अन्त्यकाले विशेषतः । नैवोदापुः गृणन्तोऽन्तं यद्गुणानां अजादयः ॥ १२॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु प्रथमस्तोत्रं सम्पूर्णम्
अथ द्वितीयस्तोत्रम् स्वजनोदधिसंवृद्धि पूर्णचन्द्रो गुणार्णवः ।var सुजनोदधिसंवृद्धि अमन्दानन्द सान्द्रो नः सदाव्यादिन्दिरापतिः ॥ १॥ var प्रीयातामिन्दिरापतिः रमाचकोरीविधवे दुष्टदर्पोदवह्नये (दुष्टसर्पोदवह्नये) । सत्पान्थजनगेहाय नमो नारायणाय ते ॥ २॥ चिदचिद्भेदं अखिलं विधायाधाय भुञ्जते । अव्याकृतगुहस्थाय रमाप्रणयिने नमः ॥ ३॥ अमन्दगुणसारोऽपि मन्दहासेन वीक्षितः । नित्यमिन्दिरयाऽनन्दसान्द्रो यो नौमि तं हरिम् ॥ ४॥ वशी वशो (वशे) न कस्यापि योऽजितो विजिताखिलः । सर्वकर्ता न क्रियते तं नमामि रमापतिम् ॥ ५॥ अगुणायगुणोद्रेक स्वरूपायादिकारिणे । विदारितारिसङ्घाय वासुदेवाय ते नमः ॥ ६॥ आदिदेवाय देवानां पतये सादितारये । अनाद्यज्ञानपाराय नमः पारावराश्रय ॥ ७॥ var नमो वरवराय ते अजाय जनयित्रेऽस्य विजिताखिलदानव । अजादि पूज्यपादाय नमस्ते गरुडध्वज ॥ ८॥ इन्दिरामन्दसान्द्राग्र्य कटाक्षप्रेक्षितात्मने । अस्मदिष्टैक कार्याय पूर्णाय हरये नमः ॥ ९॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु द्वितीयस्तोत्रं सम्पूर्णम्
अथ तृतीयस्तोत्रम् कुरु भुङ्क्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततम् । हरिरेव परो हरिरेव गुरुः हरिरेव जगत्पितृमातृगतिः ॥ १॥ न ततोऽस्त्यपरं जगदीड्यतमं (जगतीड्यतमं) परमात्परतः पुरुषोत्तमतः । तदलं बहुलोकविचिन्तनया प्रवणं कुरु मानसमीशपदे ॥ २॥ यततोऽपि हरेः पदसंस्मरणे सकलं ह्यघमाशु लयं व्रजति । स्मरतस्तु विमुक्तिपदं परमं स्फुटमेष्यति तत्किमपाक्रियते ॥ ३॥ श‍ृणुतामलसत्यवचः परमं शपथेरितं उच्छ्रितबाहुयुगम् । न हरेः परमो न हरेः सदृशः परमः स तु सर्व चिदात्मगणात् ॥ ४॥ यदि नाम परो न भवेत (भवेत्स) हरिः कथमस्य वशे जगदेतदभूत् । यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत् ॥ ५॥ न च कर्मविमामल कालगुणप्रभृतीशमचित्तनु तद्धि यतः । चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः ॥ ६॥ व्यवहारभिदाऽपि गुरोर्जगतां न तु चित्तगता स हि चोद्यपरम् । बहवः पुरुषाः पुरुषप्रवरो हरिरित्यवदत्स्वयमेव हरिः ॥ ७॥ चतुरानन पूर्वविमुक्तगणा हरिमेत्य तु पूर्ववदेव सदा । नियतोच्चविनीचतयैव निजां स्थितिमापुरिति स्म परं वचनम् ॥ ८॥ आनन्दतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा । कृतं हर्यष्टकं भक्त्या पठतः प्रीयते हरिः ॥ ९॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु तृतीयस्तोत्रं सम्पूर्णम्
अथ चतुर्थस्तोत्रम् निजपूर्णसुखामितबोधतनुः परशक्तिरनन्तगुणः परमः । अजरामरणः सकलार्तिहरः कमलापतिरीड्यतमोऽवतु नः ॥ १॥ यदसुप्तिगतोऽपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः । स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥ २॥ var सुमतिप्रभवम् बहुचित्रजगत् बहुधाकरणात्परशक्तिरनन्तगुणः परमः । सुखरूपममुष्यपदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥ ३॥ स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम् । विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥ ४॥ विमलैः श्रुतिशाणनिशाततमैः सुमनोऽसिभिराशु निहत्य दृढम् । बलिनं निजवैरिणमात्मतमोभिदमीशमनन्तमुपास्व हरिम् ॥ ५॥ न हि विश्वसृजो विभुशम्भुपुरन्दर सूर्यमुखानपरानपरान् । सृजतीड्यतमोऽवति हन्ति निजं पदमापयति प्रणतां स्वधिया ॥ ६॥ परमोऽपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च । क्वचिदद्यतनोऽपि न पूर्णसदागणितेड्यगुणानुभवैकतनोः ॥ ७॥ इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः । सुखतीर्थपदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥ ८॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु चतुर्थस्तोत्रं सम्पूर्णम्
अथ पञ्चमस्तोत्रम् वासुदेवापरिमेयसुधामन् शुद्धसदोदित सुन्दरीकान्त । धराधरधारण वेधुरधर्तः सौधृतिदीधितिवेधृविधातः ॥ १॥ अधिकबन्धं रन्धय बोधा च्छिन्धिपिधानं बन्धुरमद्धा । केशव केशव शासक वन्दे पाशधरार्चित शूरपरेश (शूरवरेश) ॥ २॥ नारायणामलतारण (कारण) वन्दे कारणकारण पूर्ण वरेण्य । माधव माधव साधक वन्दे बाधक बोधक शुद्ध समाधे ॥ ३॥ गोविन्द गोविन्द पुरन्दर वन्दे स्कन्द सनन्दन वन्दित पाद । विष्णु सृजिष्णु ग्रसिष्णु विवन्दे कृष्ण सदुष्ण वधिष्ण सुधृष्णो ॥ ४॥ var विष्णो सृजिष्णो ग्रसिष्णो विवन्दे कृष्ण सदुष्णवधिष्णो सुधृष्णो मधुसूदन दानवसादन वन्दे दैवतमोदन (दैवतमोदित) वेदित पाद । त्रिविक्रम निष्क्रम विक्रम वन्दे सुक्रम सङ्क्रमहुङ्कृतवक्त्र ॥ ५॥ var सङ्क्रम सुक्रम हुङ्कृतवक्त्र वामन वामन भामन वन्दे सामन सीमन सामन सानो । श्रीधर श्रीधर शंधर वन्दे भूधर वार्धर कन्धरधारिन् ॥ ६॥ हृषीकेश सुकेश परेश विवन्दे शरणेश कलेश बलेश सुखेश । पद्मनाभ शुभोद्भव वन्दे सम्भृतलोकभराभर भूरे । दामोदर दूरतरान्तर वन्दे दारितपारक पार (दारितपारगपार) परस्मात् ॥ ७॥ आनन्दसुतीर्थ मुनीन्द्रकृता हरिगीतिरियं परमादरतः । परलोकविलोकन सूर्यनिभा हरिभक्ति विवर्धन शौण्डतमा ॥ ८॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु पञ्चमस्तोत्रं सम्पूर्णम्
अथ षष्ठस्तोत्रम् मत्स्यकरूप लयोदविहारिन् वेदविनेत्र चतुर्मुखवन्द्य । कूर्मस्वरूपक मन्दरधारिन् लोकविधारक देववरेण्य ॥ १॥ सूकररूपक दानवशत्रो भूमिविधारक यज्ञावराङ्ग । देव नृसिंह हिरण्यकशत्रो सर्व भयान्तक दैवतबन्धो ॥ २॥ वामन वामन माणववेष दैत्यवरान्तक कारणरूप । राम भृगूद्वह सूर्जितदीप्ते क्षत्रकुलान्तक शम्भुवरेण्य ॥ ३॥ राघव राघव राक्षस शत्रो मारुतिवल्लभ जानकिकान्त । देवकीनन्दन नन्दकुमार वृन्दावनाञ्चन गोकुलचन्द्र ॥ ४॥ कन्दफलाशन सुन्दररूप नन्दितगोकुलवन्दितपाद । इन्द्रसुतावक नन्दकहस्त चन्दनचर्चित सुन्दरिनाथ ॥ ५॥ इन्दीवरोदर दळनयन मन्दरधारिन् गोविन्द वन्दे । चन्द्रशतानन कुन्दसुहास नन्दितदैवतानन्दसुपूर्ण ॥ ६॥ देवकीनन्दन सुन्दररूप रुक्मिणिवल्लभ पाण्डवबन्धो । दैत्यविमोहक नित्यसुखादे देवविबोधक बुद्धस्वरूप ॥ ७॥ दुष्टकुलान्तक कल्किस्वरूप धर्मविवर्धन मूलयुगादे । नारायणामलकारणमूर्ते पूर्णगुणार्णव नित्यसुबोध ॥ ८॥ आनन्दतीर्थकृता हरिगाथा पापहरा शुभनित्यसुखार्था ॥ ९॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु षष्ठस्तोत्रं सम्पूर्णम्
अथ सप्तमस्तोत्रम् विश्वस्थितिप्रळयसर्गमहाविभूति वृत्तिप्रकाशनियमावृति बन्धमोक्षाः । यस्या अपाङ्गलवमात्रत ऊर्जिता सा श्रीः यत्कटाक्षबलवत्यजितं नमामि ॥ १॥ ब्रह्मेशशक्ररविधर्मशशाङ्कपूर्व गीर्वाणसन्ततिरियं यदपाङ्गलेशम् । आश्रित्य विश्वविजयं विसृजत्यचिन्त्या श्रीः यत्कटाक्षबलवत्यजितं नमामि ॥ २॥ धर्मार्थकामसुमतिप्रचयाद्यशेषसन्मङ्गलं विदधते यदपाङ्गलेशम् । आश्रित्य तत्प्रणतसत्प्रणता अपीड्या श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ३॥ षड्वर्गनिग्रहनिरस्तसमस्तदोषा ध्यायन्ति विष्णुमृषयो यदपाङ्गलेशम् । आश्रित्य यानपि समेत्य न याति दुःखं श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ४॥ शेषाहिवैरिशिवशक्रमनुप्रधान चित्रोरुकर्मरचनं यदपाङ्गलेशम् । आश्रित्य विश्वमखिलं विदधाति धाता श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ५॥ शक्रोग्रदीधितिहिमाकरसूर्यसूनु पूर्वं निहत्य निखिलं यदपाङ्गलेशम् । आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः श्रीः यत्कटाक्ष बलवति अजितं नमामि ॥ ६॥ तत्पादपङ्कजमहासनतामवाप शर्वादिवन्द्यचरणो यदपाङ्गलेशम् । आश्रित्य नागपतिः अन्यसुरैर्दुरापां श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ७॥ नागारिरुग्रबलपौरुष आप विष्णुवाहत्वमुत्तमजवो यदपाङ्गलेशम् । var विष्णोर्वाह आश्रित्य शक्रमुखदेवगणैः अचिन्त्यं श्रीः यत्कटाक्ष बलवति अजितं नमामि ॥ ८॥ आनन्दतीर्थमुनिसन्मुखपंकजोत्थं साक्षाद्रमाहरिमनः प्रियं उत्तमार्थम् । भक्त्या पठति अजितमात्मनि सन्निधाय यः स्तोत्रमेतभियाति तयोरभीष्टम् ॥ ९॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु सप्तमस्तोत्रं सम्पूर्णम्

एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने