सुन्दरकाण्डरामायणनिर्णयः

 


सुन्दरकाण्डरामायणनिर्णयः

रामाय शाश्वतसुविस्तृतषड्गुणाय सर्वेश्वराय बलवीर्यमहार्णवाय । नत्वा लिलङ्घयिषुरर्णवमुत्पपात निष्पीड्य तं गिरिवरं पवनस्य सूनुः ॥ १॥ चुक्षोभ वारिधिरनुप्रययौ च शीघ्रं यादोगणैः सह तदीयबलाभिकृष्टः । वृक्षाश्च पर्वतगताः पवनेन पूर्वं क्षिप्तोऽर्णवे गिरिरुदागमदस्य हेतोः ॥ २॥ शैलो हरस्य गिरिपक्षविनाशकाले क्षिप्तोऽर्णवे स मरुतोर्वरितात्मपक्षः । हैमो गिरिः पवनजस्य तु विक्रमार्थ- मुद्भिद्य वारिधिमवर्धदनेकसानुः ॥ ३॥ नैवात्र विक्रमणमैच्छदविश्रमोऽसौ निःसीमपौरुषबलस्य कुतः श्रमोऽस्य । आश्लिष्य पर्वतवरं स ददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण ॥ ४॥ जिज्ञासुभिर्निजबलं तव भक्षमेतु यद्यत्त्वमिच्छसि तदित्यमरोदितायाः । आस्यं प्रविश्य सपदि प्रविनिःसृतोऽस्मात् देवाननन्दयदुत स्वकमेषु रक्षन् ॥ ५॥ दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं देवाः प्रतुष्टुवुरमुं सुमनोऽभिवृष्ट्या । तैरादृतः पुनरसौ वियतैव गच्छन् छायाग्रहं प्रतिददर्श च सिंहिकाख्यम् ॥ ६॥ लङ्कावनाय सकलस्य च निग्रहेऽस्याः सामर्थ्यमप्रतिहतं प्रददौ विधाता । छायामवाक्षिपदसौ पवनात्मजस्य सोऽस्याः शरीरमनुविश्य बिभेद चाशु ॥ ७॥ निःसीममात्मबलमित्यसुदर्शयानो हत्वैव तामपि विधातृवराभिगुप्ताम् । लम्बे स लम्बशिखरे निपपात लङ्का- प्राकाररूपकगिराथ च सञ्चुकोचे ॥ ८॥ भूत्वा बिडालसमितो निशि तां पुरीं च प्राप्स्यन् ददर्श निजरूपवतीं स लङ्काम् । रुद्धोऽनयाऽऽश्वथ विजित्य च तां स्वमुष्टि- पिष्टां तयानुमत एव विवेश लङ्काम् ॥ ९॥ मार्गमाणो बहिश्चान्तः सोऽशोकवनिकातले । ददर्श शिंशपावृक्षमूलस्थितरमाकृतिम् ॥ १०॥ नरलोकविडम्बस्य जानन् रामस्य हृद्गतम् । तस्य चेष्टानुसारेण कृत्वा चेष्टाश्च संविदम् ॥ ११॥ तादृक्चेष्टासमेताया अङ्गुलीयमदात्ततः । सीताया यानि चैवासन्नाकृतेस्तानि सर्वशः ॥ १२॥ भूषणानि द्विधा भूत्वा तान्येवासन् तथैव च । अथ चूडामणिं दिव्यं दातुं रामाय सा ददौ ॥ १३॥ यद्यप्येतन्न पश्यन्ति निशाचरगणास्तु ते । द्युलोकचारिणः सर्वे पश्यन्त्यृषय एव च ॥ १४॥ तेषां विडम्बनायैव दैत्यानां वञ्चनाय च । पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत् ॥ १५॥ कृत्वा कार्यमिदं सर्वं विशङ्कः पवनात्मजः । आत्माविष्करणे चित्तं चक्रे मतिमतां वरः ॥ १६॥ अथ वनमखिलं तद्रावणस्यावलम्ब्य क्षितिरुहमिममेकं वर्जयित्वाऽऽशु वीरः । रजनिचरविनाशं कांक्षमाणोऽतिवेलं मुहुरतिरवनादी तोरणं चारुरोह ॥ १७॥ अथाश‍ृणोद्दशाननः कपीन्द्रचेष्टितं परम् । दिदेश किङ्करान् बहून् कपिर्निगृह्यतामिति ॥ १८॥ समस्तशो विमृत्यवो वराद्धरस्य किङ्कराः । समासदन्महाबलं सुरान्तरात्मनोऽङ्गजम् ॥ १९॥ अशीतिकोटियूथपं पुरःसराष्टकायुतम् । अनेकहेतिसङ्कुलं कपीन्द्रमावृणोद्बलम् ॥ २०॥ समावृतस्तथाऽऽयुधैः स ताडितश्च तैर्भृशम् । चकार तान् समस्तशस्तलप्रहारचूर्णितान् ॥ २१॥ पुनश्च मन्त्रिपुत्रकान् स रावणप्रचोदितान् । ममर्द सप्तपर्वतप्रभान् वराभिरक्षितान् ॥ २२॥ बलाग्रगामिनस्तथा स शर्ववाक्सुगर्वितान् । निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत् ॥ २३॥ अनौपमं हरेर्बलं निशम्य राक्षसाधिपः । कुमारमक्षमात्मनः समं सुतं न्ययोजयत् ॥ २४॥ स सर्वलोकसाक्षिणः सुतं शरैर्ववर्ष ह । शितैर्वरास्त्रमन्त्रितैर्न चैनमभ्यचालयत् ॥ २५॥ स मण्डमध्यगासुतं समीक्ष्य रावणोपमम् । तृतीय एष भांशको बलस्य हीत्यचिन्तयत् ॥ २६॥ निधार्य एव रावणो राघवस्य नान्यथा । युधीन्द्रजिन्मया हतो न चास्य शक्तिरीक्ष्यते ॥ २७॥ अतस्तयोः समो मया तृतीय एष हन्यते । विचार्य चैवमाशु तं पदोः प्रगृह्य पुप्लुवे ॥ २८॥ स चक्रवद्भ्रमातुरं विधाय रावणात्मजम् । अपोथयद्धरातले क्षणेन मारुतीतनुः ॥ २९॥ विचूर्णिते धरातले निजे सुते स रावणः । निशम्य शोकतापितस्तदग्रजं समादिशत् ॥ ३०॥ अथेन्द्रजिन्महाशरैर्वरास्त्रसम्प्रयोजितैः । ततश्च वानरोत्तमं न चाशकद्विचालने ॥ ३१॥ अथास्त्रमुत्तमं विधेर्मुमोच सर्वदुःसहम् । स तेन ताडितो हरिर्व्यचिन्तयन्निराकुलः ॥ ३२॥ मया वरा विलङ्घिता ह्यनेकशः स्वयम्भुवः । स माननीय एव मे ततोऽत्र मानयाम्यहम् ॥ ३३॥ इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणाः । इतीह लक्ष्यमेव मे स रावणश्च दृश्यते ॥ ३४॥ इदं समीक्ष्य बद्धवत् स्थितं कपीन्द्रमाशु ते । बबन्धुरन्यपाशकैर्जगाम चास्त्रमस्य तत् ॥ ३५॥ अथ प्रगृह्य तं कपिं समीपमानयंश्च ते । निशाचरेश्वरस्य तं स पृष्टवांश्च रावणः ॥ ३६॥ कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् । इतीरितः स चावदत् प्रणम्य राममीश्वरम् ॥ ३७॥ अवेहि दूतमागतं दुरन्तविक्रमस्य माम् । रघूत्तमस्य मारुतिं कुलक्षये तवेश्वरम् ॥ ३८॥ न चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा । सपुत्रमित्रबान्धवो विनाशमाशु यास्यसि ॥ ३९॥ न रामबाणधारणे क्षमाः सुरेश्वरा अपि । विरिञ्चशर्वपूर्वकाः किमु त्वमल्पसारकः ॥ ४०॥ प्रकोपितस्य तस्य कः पुरः स्थितौ क्षमो भवेत् । सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः ॥ ४१॥ इतीरिते वधोद्यतं न्यवारयद्विभीषणः । स पुच्छदाहकर्मणे न्ययोजयन्निशाचरान् ॥ ४२॥ अथास्य वस्त्रसञ्चयैः पिधाय पुच्छमग्नये । ददुर्ददाह नास्य तन्मरुत्सखो हुताशनः ॥ ४३॥ ममर्ष सर्वचेष्टितं स रक्षसां निरामयः । बलोद्धतश्च कौतुकात् प्रदग्धुमेव तां पुरीम् ॥ ४४॥ ददाह चाखिलां पुरीं स्वपुच्छगेन वह्निना । कृतिस्तु विश्वकर्मणोऽप्यदह्यतास्य तेजसा ॥ ४५॥ सुवर्णरत्नकारितां स राक्षसोत्तमैः सह । प्रदह्य सर्वशः पुरीं मुदान्वितो जगर्ज वै ॥ ४६॥ स रावणं सपुत्रकं तृणोपमं विधाय वै । तयोः प्रपश्यतोः पुरीं विधाय भस्मसाद्ययौ ॥ ४७॥ विलङ्घ्य चार्णवं पुनः स्वजातिभिः प्रपूजितः । प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान् ॥ ४८॥ रामं सुरेश्वरमगण्यगुणाभिरामं सम्प्राप्य सर्वकपिवीरवरैः समेतः । चूडामणिं पवनजः पदयोर्निधाय सर्वाङ्गकैः प्रणतिमस्य चकार भक्त्या ॥ ४९॥ रामोऽपि नान्यदनुदातुममुष्य योग्यम्- अत्यन्तभक्तिभरितस्य विलक्ष्य किञ्चित् । स्वात्मप्रदानमधिकं पवनात्मजस्य कुर्वन् समाश्लिषदमुं परमाभितुष्टः ॥ ५०॥ इति श्रीमदानन्दतीर्थीयमहाभारततात्पर्यनिर्णये रामचरिते हनुमत्प्रतियानं सुन्दरकाण्डकथानिर्णयः ॥

एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने