श्रीवेङ्कटेश क्षमात्रयस्त्रिंशच्छ्लोकी

 


श्रीवेङ्कटेश क्षमात्रयस्त्रिंशच्छ्लोकी

श्रीमद्वेङ्कटशैलवर्यशिखरे रत्नप्रदीपो महां त्रैलोक्यान्धतमिस्र चूषणकृते यो जाज्वलीति स्फुटम् । कल्याणव्रजरोध्यनादिसु दृढाघध्वान्त विध्वंसनं कुर्वन्मङ्गलमातनोतु नितरामात्मानुरूपं स नः ॥ १॥ महामोहमय्यां भवाब्ध्यन्तरीपे महाधन्वमह्यां मदीयं चरन्तम् । मृगं स्वान्तनामानमार्ते परीतं महांहोमृगेन्द्रै रमेशाशु रक्ष ॥ २॥ प्रभो वेङ्कटेश प्रभा भूयमी ते तमः सञ्छिनर्त्ति प्रदेशे ह्यशेषे । अहो मे हृदद्रेर्गुहागूढमन्धन् तमो नैति नाशं किमेतन्निदानम् ॥ ३॥ अथावैमि वैतन्निदानं हृदाहं सहा त्वत्सपर्याविपर्यासहेतौ । कुमार्गे महामोहमार्गे सनिष्ठः सुनिष्ठातृभावं प्रभो यद्वहामि ॥ ४॥ जनं तावकीनं किमेनं सुदीनं वृथाजातमेवं वृथोपेक्षसे त्वम् । रमेशैवमेवं वृथोपेक्षसे चेत् क्षमायाः प्रकाशो मदन्येन केन ॥ ५॥ मदन्यः क्व विप्रेषु वैश्येषु- राजस्वथो शूद्रजातिष्वथो सङ्करेषु । निकृष्टः क्व दृष्टः क्व वा ते क्षमायाः प्रकाशो रमेष ध्रुवं स्यात्प्रहीणः ॥ ६॥ रमा सा क्व याता क्षमोद्वोधिनी ते ममातुल्यमाता तवोरस्थलस्था । ममाभाग्यजातात्तवाभोग्यभूता रमापि प्रभो किं प्रमोदावहा ते ॥ ७॥ क्षमा यातु गुप्ता रमाया विधेयं क्व वात्सल्यभूमा यतो दोषिवृन्दम् । महानन्दमेति ह्यहो मत्प्रवर्जे प्रवृत्तिः किमस्य प्रभो वेङ्कटेश ॥ ८॥ दया सा क्व याता यया दुःखिबन्धो परेषां विषादो वृषाद्रीश नाश्यः । ममामन्ददुःखप्रणाशे प्रकाशं न सा यातुमर्हा किमस्याव्रतं किम् ॥ ९॥ परित्यज्य भोगं परव्योमनिस्वं महानन्दधामन्यपीहाहि शैले । यदर्थे समायास्तदर्थे विचिन्त्य प्रभो वेङ्कटेश द्रुतं मां सुरक्ष ॥ १०॥ पुरा कस्य चिद्रो महापापदाहात् अभूत्ते भिदा श्रीगिरे वेङ्कटेति । ममा तुल्यपाप प्रदाहात्तवाद्य अभिधा स्यान्नवीना रमेशाखिलेड्या ॥ ११॥ ममामन्द पापप्रवृत्तेर्निवृत्तिं यदीक्षेत भो भो भवान् रक्षितुं माम् । तदामन्दकल्लोलजालाकुलेब्धौ भवान् स्नातुमिच्छेद्विरामं निरीक्ष्य ॥ १२॥ क्व तञ्चक्रमास्ते निकृत्तारिचक्रं भवद्भक्तचक्रे शुभं येन चक्रे । हरे चक्रमेतत्तवैतज्जनस्य प्रभूंताघचक्रं न किम् छेत्तुमीष्टे ॥ १३॥ नियुज्य स्वचक्रं ममाघौघचक्रं न चेच्छेत्स्यसि त्वं नदा कस्य हानिः तवैवेति सत्यं यदेतज्जगत्या वशं कोऽपि यायादिनीक्षा कृतेयम् ॥ १४॥ निकृष्टोत्तमं मा विक्रुद्वं विवायानु कम्पां विदध्या यदि त्वं रमेश । तदैतत्समीक्ष्येह वश्या भवेयु स्तवानेकलोका निकृष्टाश्च शिष्टा ॥ १५॥ ममोत्तुङ्गचेतस्तुरंगोधिरोहो चितस्तेधिरूढो मनोजाधिराजा । निरस्याशु तं भोः सभारोह तं किं वृथोपेक्षसे त्वं त्वं त्वदीयं तुरङ्गम् ॥ १६॥ मदीये त्वदीयालयेनादिसिद्धे ह्वदीश त्वदन्ये परीवारयुक्ताः । कदाचित्समागत्य तिष्ठन्ति तान्नो निरस्येर्यदि स्यात्तदीयं गृहं तत् ॥ १७॥ महादुष्टकाम प्रभृत्यन्त्यवर्णो षितेस्वान्तसद्मन्यशुद्धे मदीये । निरस्याशु तं ते पदाम्भोजयुग्म प्रवेशे न शुद्धं गृहं तद्विधेहि ॥ १८॥ भवद्दिव्यदेह प्रभादीपजाल प्रभाभिर्विधुन्वन् प्रकृष्टं तमिस्रम् । त्वदीयैः सह त्वं कुटुम्बै रमेश वसास्मिन् गृहे मे सुखी स्वान्तनाम्नि ॥ १९॥ अविद्यार्कवृक्षं हृदावालरूढ ममानादिमूलं विभिन्दन् विमूलम् । समावाप्य बीजं त्वदीयांघ्रिभक्ति प्रकृष्टाम्रबीजम् रमेशेह रक्ष ॥ २०॥ त्वदाज्ञावशेनादधानोऽपि किञ्चित् स्वतन्त्रोऽहमेवं करोमी त्यहंयुः । सुधा भावमेनं वृथा भावय त्वं त्वदाधीन्यभावं सदा भावयेश ॥ २१॥ बहिर्भावयामि स्ववाचाखिलानि त्वदीयान्यमूनीति भो वेङ्कटेश । हृदि त्वध्यवस्ये ममैवोपभोग्य अन्यमूनीति नित्यं जहीदं रमेश ॥ २२॥ परस्वस्पृहा मे सदा वोभवीति प्रथीयस्यमुष्याशुभेनैमि मोदम् । परस्यासु नाशे तदीयं मदीयं भवेदिव्यहोमे दुराशां जहीश ॥ २३॥ परालाभलब्धप्रणाशाववेक्ष्य प्रपद्ये महालाभयुग्मप्रमोदम् । धनाप्तौ परस्य स्वीकीयस्य नाशं भजामीत्यसूयां जहि श्रीनिवास ॥ २४॥ परस्वापहारे मम स्वापहारः परानर्थदृष्टौ ममानर्थलाभः । परानन्दलाभे ममानन्दलाभो महानित्यमूं मे मनीषां विधत्स्व ॥ २५॥ महाकण्टकारिं महासङ्कटं भोस्त्वंघ्रिप्रफुल्लारविन्दार्पणेन । इमं देशमाधा मुदं संदधानं भवद्भक्तसंघं महान्तं रमेश ॥ २६॥ अकल्याणमेतं सकल्याणमाधाः किमत्रादिमूलं न जाने रमेश । अथावैमि हेतुं तवाध्याजभूयः कृपापारिसिन्धो प्ररीराहमेव ॥ २७॥ सकृते पदाब्जप्रचारेण नालं विवा यान्यदेशे निवासे निकामम् । इहैवास त्वं ममत्वं वह त्वं किमर्थे तवार्थे त्वदन्यः प्रपश्ये ॥ २८॥ अथैकोऽपि को वा त्वदर्थे त्वदन्यः समालक्षितुं वा समारक्षितुं वा । समर्थोऽस्ति लक्ष्मीपते वेङ्कटाद्रेः पते तत्र किम् वाधिकं नेह किं वा ॥ २९॥ यद्रप्यस्ति तत्र त्वदावासभूम्ना तदत्रापि च स्यत्त्वदीयागमश्चेत् । ममामन्द पापप्रवृत्तिं निरीक्ष्य अगमश्चेन्न ते स्यादत्ता कस्य हानिः ॥ ३०॥ अथाल्पस्य हेतोर्विहातुं बहु स्यात् तवेदं न युक्तं प्रभो वेङ्कटेश । अथानल्प पापप्रवृत्तिर्मदीया निवर्त्या न किं तेऽखिलाघौघनाशिन् ॥ ३१॥ मृगपतिपदं श्वारूढश्वेन्निबद्धसटाजटीम- प्यनलमिभराट्कुंभाभेदिप्रभूतरवे यया । प्रथमगुरुभिर्गीतं नेच्ये विडम्बयता मया शुनयसदृशं हास्यं प्राप्तं तथा नियतं त्विदम् ॥ ३२॥ इत्थं श्री वेङ्कटाद्रिप्रभुपदयुगली भक्तवर्यस्य गङ्गाविष्णोर्याञ्चाविशेषाद् व्यरचि कृतिरियं वेङ्कटेशक्षमायः । श्रीशैलानन्तवर्यान्वयसमुदयिना वेङ्कटार्येण भक्त्या निक्षिप्ता तत्पदाब्जे मुदमतितनुतां तन्वतां स्वान्तदेशे ॥ ३३॥ ॥ इति श्रीमदनन्ताचार्यविरचितं श्री वेङ्कटेश क्षमात्रयस्त्रिंशच्छ्लोकीस्तोत्रं सम्पूर्णम् ॥

एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने