१.१.१०
सूत्राणि:॥ नाज्झलौ ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - न अव्ययपदम् । अच्-हलौ १।२
समासः - अच् च हल् च तौ - अज्झलौ (इतरेतरयोगद्वन्द्वः) ।
अनुवृत्तिः - तुल्यास्यप्रयत्नं सवर्णम् इत्यनुवर्तते ।
अन्वयः - तुल्यास्यप्रयत्नम् अज्झलौ सवर्णं न ।
अर्थः - तुलास्यप्रयत्नावपि अच्-हलौ परस्परं सवर्णसंज्ञकौ न भवतः ।
उदाहरणम् - दण्डहस्तः । दधिशीतम् ।
आर्यभाषार्थ - (तुलास्यप्रयत्नम्) तुल्य स्थान और तुल्य आभ्यन्तर प्रयत्नवाले (अच्-हलौ) अच् और हल् वर्णों की परस्पर (सवर्णम्) सवर्णसंज्ञा (न) नहीं होती है ।
उदाहरणम् - दण्ड+हस्तः । दण्ड है हाथ में जिसके वह । दधि+शीतम् । ठण्डी दही ।
सिद्धिः - (१) दण्डहस्त: । यहां अ और ह का स्थान कष्ठ है । अ का आभ्यन्तर प्रयत्न विवृत और ह का आभ्यन्तर प्रयत्न ईषद् विवृत है । इस प्रकार अ और ह का स्थान और प्रयत्न में सादृश्य है किन्तु 'अ' अच् और 'ह' हल् है । अत: इनकी परस्पर सवर्ण संज्ञा नहीं होती है । सवर्ण संज्ञा न होने से 'अकः सवर्णे दीर्घः' (६.१.१०१) से सवर्ण दीर्घत्व नहीं होता है ।
(२) दधिशीतम् - यहां इकार और शकार का स्थान तुल्य है और पूर्ववत् प्रयत्न की भी समानता है । यहां भी पूर्वोक्त कारण से सवर्ण संज्ञा नहीं होती है ।
॥ काशिका ॥
अच्च हल् च अज्झलौ । तुल्यास्यप्रयत्नावपि अज्झलौ परस्परं सवर्णसंज्ञौ न भवतः । अवर्णहकारौ - दण्डहस्तः । इवर्णशकारी - दधि शीतम्, सवर्णदीर्घत्वं न भवति । वैपाशो मत्स्यः, आनडुहं चर्मेति - “यस्येति च” (६.४.१४८/३११) इति लोपो न भवति ।
॥ न्यासः ॥
‘तुल्यास्यप्रयत्नावपि’ इति प्रसङ्गे हेतुमाह, प्रसङ्गपूर्वकत्वात् प्रतिषेधस्य । ‘दण्डहस्त’ इत्यत्राकारहकारयोर्द्वयोरपि कण्ठस्थानत्वात् तुल्यस्थानत्वम्, उभयोर्विवृतकरणत्वात् तुल्यप्रयत्नत्वम्; ‘दधि शीतम्’ इत्यत्राप्यत एव तुल्युप्रयत्नत्वम्, उभयोस्तालव्यत्वात् तुल्यस्थानत्वम् । ‘सवर्णदीर्घत्वं न भवति’ इति प्रतिषेधस्य फलं दर्शयति । ननु च अकः सवर्णे दीर्घविधौ (६.१.१०१) ‘अचि’ इति वर्तते, तत्रासत्यपि प्रतिषेधे दीर्घत्वं न भविष्यति, यथा - कुमारी शेते इत्यत्र, तदयुक्तमे-वोदाहरणद्वयम् । स्यादेतत् - ‘अणुदित् सवर्णस्य चाप्रत्ययः’ (१.१.६९) इत्यकारेका- राभ्यां सावर्ण्येन ग्रहणादच्त्वमस्ति, तथापि हल्षूपदेशाद् हल्त्वमप्यस्तीति न तावद्धकारश्कारवचावेव, अपि तु हलावपीति, सत्यमेतत् । अयं पुनरत्र वृत्तिकारस्याभिप्रायः- अवश्यं तावदन्यार्थं ‘नाज्झलौ’ (१.१.१०) इत्येतत् कर्तव्यम्, यस्येति लोपा-भावार्थम् । तदन्यार्थं कृतमेतदर्थमपि स्यात् । एवं तर्ह्यजनुवृत्तिद्वारेण दीर्घत्वाभावप्रतिपत्तौ साध्यायां यत् प्रतिपत्तिगौरवमापद्यते, तदपास्तं भवती - ‘वैपाशः’ इति । विपाशि भव इत्यण् । ‘यस्येति च’ (६.४.१४८) इत्यत्रेवर्ण उपादीयमानः सावर्ण्येन शकारमप्युपादत्ते । एवं च तस्य लोपः प्रसज्येत । ‘आनहुहम्’ इति । अनडुहो विकार इति ‘प्राणिरजतादिभ्योऽञ्’ (४.३.१५४),तत्र ‘यस्येति च’ (६.४.१४८) इत्यत्राकारो गृह्यकारो हकारमपि गृह्णीयात्, ततश्च पूर्ववत् तस्य लोपः स्यात् ।
॥ पदपञ्जरी ॥
अत्राज्झलौ न केनापि सवर्णसंज्ञौ भवत इति तावदर्थो न भवति; संज्ञाया निर्विषयत्वात् । एतावन्तो वर्णा अचश्च हलश्च । नाप्यचामज्भिर्हलां हभिः सवर्णत्वनिषेधः; अत एव निर्देशात् । अन्यथाऽकारस्याकारे दीर्घो न स्यान्नाजिति, नाप्यज्झलाविति पूर्वसवर्णः । तस्मादचां हलां च मिथः सवर्णसंज्ञा निषिध्यते । तत्र च यद्यपि “ नाज्झलौ” इति सामान्येनोक्तम्, तथाप्यकारहकारयोरिकारशकारयोश्च प्राप्तिरिति तत्रैव निषेधः । यद्येवम्, नाणुशलाविति वक्तव्यम् ? न तावदेवं लाघवे विशेषः । किं च प्रागुक्तं पक्षद्वयं सम्भाव्येत । “अच्च हल् चे”ति । अनेन नात्राज्झलोर्निर्देश इति दर्शयति । तत्रापि न दोषः कश्चित्, किन्तु पक्षान्तरसम्भावनैव । तुल्यास्यप्रयत्नाविति प्रसङ्गे हेतुमाह । सवर्णदीर्घत्वं न भवतीति प्रतिषेधस्य फलं दर्शयति । ननु दीर्घविधावचीत्यनुवर्तते, तच्चावश्यमनुवर्त्यम्, कुमारी शेते इत्यत्र मा भूदिति, न ह्यात्रानेन निषेधः सिद्ध्यति । किं कारणम् ? वाक्यापरिसमाप्तेः । इह हि वर्णानामुपदेशः पूर्वम्, तत इत्संज्ञा, ततः “आदिरन्त्येन सहेता” इति प्रत्याहारः, ततः “नाज्झलौ” इत्यस्य निष्पत्तिः, तस्मिंश्च निष्पन्ने सत्यपवादविषयपरिहारेणेष्टविषये सवर्णसंज्ञा प्रवर्त्तते, न त्वेतत्सूत्रनिष्पत्तिसमये । ततश्च “अणुदित्सवर्णस्य च” इत्येतत् स्वाङ्गभूतेषु उपदेशेत्संज्ञाप्रत्याहारसवर्णत्वेषु निष्पन्नेषु “अस्य च्वौ” इत्यादिषु वर्त्तते, न त्वङ्गेषूपदेशादिष्विति “नाज्झलौ” इत्यगृहीतसवर्णानामचां ग्रहणमिति सिद्धम् । अवश्यं चागृहीतसवर्णानामेवाचां ग्रहणमेष्टव्यम्, अन्यथा ह्यजिति गृह्यमाण इकारः शकारस्य ? ग्राहकः स्यात् । न चास्मिन्नपि सूत्रेऽयमेव निषेधः, स्वात्मनि क्रियाविरोधात् । अतोऽज्ग्रहणेनापि शकारस्य ग्रहणम्, हल्षु चोपदेशाद्धल्ग्रहणेनापीति शकारद्वयस्य मिथः सवर्णसंज्ञा न स्यात् । ततश्च “परःशतानि कार्याणि” इत्यत्र शतात्पराणि, शतादधिकानीति विगृह्य “कर्तृकरणे कृता बहुलम्” इति बहुलवचनात्समासे पारस्करादित्वात्सुटि कृते “अनचि च” इति शकारस्य द्विर्वचने परश्श्शतानीति स्थिते मध्यमस्य शकारस्य “झरो झरि सवर्णे” इति लोपो न स्यादिति सर्वदा शकारत्रयश्रवणप्रसङ्गः । अतोऽगृहीतसवर्णानामचां ग्रहणादीकारशकारयोरप्रतिषिद्धं सवर्णत्वमिति “कुमारी शेते” इत्यत्र मा भूदिति दीर्घविधौ “अचि “ इत्यनुवर्त्यं तदनुवृत्तिसामर्थ्याच्चाजेव योऽज् न कथञ्चन हल्, तत्रैव दीर्घत्वविज्ञानाद्धकारशकारयोरकारेकाराभ्यां सावर्ण्येन ग्रहणादच्त्वे सत्यपि हल्त्वस्यापि भावाद्दीर्घाभावः सिद्धः, सत्यम्; अज्ग्रहणमप्यन्यार्थमनुवर्त्यम्, इदमपि वैपाशो मत्स्यः, आनडुहं चरमेत्यत्र यस्येति लोपाभावार्थं कर्तव्यं दण्डहस्तो दधिशीतमित्येतदुभयथापि सिद्ध्यतीति प्रदर्शनार्थमुदाहरणद्वयमुपन्यस्तम् । “वैपाशा “इति भवार्थेऽण् । “आनडुहमिति - विकारे “प्राणिरजतादिभ्योऽञ्” ॥
॥ शब्दकौस्तुभः ॥
अज्ज्ञलौ मिथः सवर्णौ न स्तः अकारहकारयोरिकारशकारयो ऋकारषकारयोर्लृकारसकारयोश्चेति स्थलचतुष्टये पूर्वसूत्रेण प्राप्तं सावर्ण्यमनेन निषिद्यते । तेन ‘आनडुहं चर्म’ ‘वैपाशो मत्स्यः’ इत्यत्र अन्यथा हि ‘यस्य’ इत्यनेन दीर्घाणामिव इकारशकारयोरपि ग्रहणं स्यात् । तथा ‘दण्डहस्तः’ ‘दधिशीतं’ ‘कर्तृषट्कम्’ इत्यादौ सवर्णदीर्घः स्यात् । तथा ‘दण्डहस्तः’ ‘दण्डहस्तः’ ‘कर्तृषट्कम्’ इत्यादौ सवर्णदीर्घः स्यात् । ‘दधिसान्द्रम्’ इत्यौदौ यणादेशश्च स्यात् । इहाज्झलौ कस्यापि न सवर्णौ स्त इति वाक्यार्थो न ग्राह्यः संज्ञारम्भवैयर्थ्यापत्तेः । विहितप्रतिषिद्धत्वेन विक्लपे तु लाघवात् तुल्यास्यप्रयत्नं वा इत्येव सूत्रयेत् । नाप्यचामज्भिर्हलां हल्भिः सावर्ण्यं निषिध्यते । नाज्ज्ञलौ (२.२.२०) इत्यत्रैव सूत्रे सवर्णदीर्घस्य झयो हः (८.४.६२) इति पूर्वसवर्णादेशस्य च निर्द्देशात् । ननु झलवात्र निर्द्दिष्टो न तु हल्, तावतैवेष्टसिद्धोरिति चेत्तर्हि दीर्गार्निर्द्देश एव ज्ञापकोऽस्तु । तेन ह्यचामज्भिः सावर्ण्यमनिषिद्धमिति ज्ञापिते परिशेषादज्ज्ञलोर्मिथो निषेध एव पर्यवस्यति,। झरो झरि सवर्णो (८.४.६५) इति ज्ञापकाच्च । यत्तु नाण्शलावित्येव कुतो न सूत्रितमिति । तन्न, ‘कर्तृषट्कं’ ‘दधिसान्द्रम्’ इत्याद्यसिद्ध्यापत्तेः, ऋलृका; ग्रहणकसूत्रातिरिक्ते पूर्व एवाणित्युक्तत्वात् । अस्तु , तथाप्यजपेक्षया व्यक्तिगौरवमेव स्यादित्यज्ग्रहणमपनीयाण्ग्रहणं क्रियतामिति शङ्काया गर्भाया गर्भस्रावेणैव गतार्थत्वात् । शलंशे तु व्यक्तिलाघवे सत्यपि वर्णोच्चारणे विशेषो नास्तीत्येवोत्तरम् । वस्तुतस्तु नाक्शलौ इत्येव सूत्रयितुमुचितम् ।
स्यादेतत् शारां शर्भिरपि सावर्ण्यं निषिद्ध्येत । ते हीकारादिभिर्गृहीतत्वादच्संज्ञकाः हल्पूपदेशाद्धलश्च । न चास्मादेव निषेधादिकारादयो न सवर्णा इति वाच्यम्, एतद्बाक्यार्थबोधात्प्राक् पदार्थोपस्तितेरावश्यकतया तस्यामवस्थायामिकारादिभिः शरामुपस्थापनस्य दुर्वारत्वात् । ततश्च ‘परश्शताः’ ‘रामष्षष्ठः’ ‘यशस्सारम्’ इत्यादौ झरो झरि (८.४.६५) इत्यस्य प्रवृत्तिर्न स्यात् । ततश्चैकेकत्र शर्त्रयं श्रूयेत । इष्यते तु द्वयम् । तथा च पूर्वपक्षवार्त्तिकम् अज्झलोः प्रतिषेधे षकारप्रतिषेधोऽज्झल्त्वात् इति । अत्र शकारग्रहणं शरामुपलक्षण्म्। किञ्चावर्णस्याष्टादशधा भिन्नस्य परस्परं सावर्ण्यं न स्यात् । ततश्च ‘दण्कडाग्रम्’ इत्यादौ दीर्घो न स्यात् । तथाहि, हकारेण ग्रहणादकारो हल् अक्षु पाठाच्चाच् । न चास्मिन्नेव सूत्रे एतस्य प्रवृत्तिः येन ग्रहणकशास्त्रमसावर्ण्यान्न प्रवर्त्तेतेति । अत्र सिद्धान्तं वार्त्तिककार एवाह”सिद्धमनच्त्वाद्वाक्यापरिसमाप्तेर्वा इति । तत्र सूत्रप्रत्याख्यानेनोत्तरं प्रथमवार्त्तिकेऽभिप्रेतम् । तथाहि, शिक्षावाक्ये विवृतमूष्मणामिति योगो विभज्यते । तत्र चेषदित्यनुवर्त्तते । स्वराणाञ्चेति विवृतमित्यनुवर्त्तते । ईषदिति निवृत्तम् । तथाच प्रयत्नभेदादूष्मस्वरयोः सावर्ण्याप्राप्तौ किं सूत्रेण ? तथाच शरामनच्त्वादेव सिद्धमित्यर्थः । उपलक्षणञ्चेदमकारस्याहल्त्वादित्यपि बोध्यम् । सूत्रारम्भमभ्युपेत्येदम् । वस्तुतस्तूक्तरीत्या सूत्रमेव नारम्भणीयमित्यर्थः ।
ईषदित्यस्याननुवृत्तिं समानप्रयत्नताञ्च स्वीकृत्य सूत्रारम्भपक्षेऽप्याह वाक्यापरिसमाप्तेर्वेति । अयमाशयः इह पूर्वं वर्णानामुपदेशः । तत इत्संज्ञा । तत आदिरन्त्येन सहेता(१.१.७१) इति प्रत्याहारसिद्धिः । ततो नाज्झलौ (१.१.१०) इत्येतद्वाक्यार्थबोधः । ततोऽपवादविषयपरिहारेण सवर्णसंज्ञानिश्चये सति ग्रहणकशास्त्रप्रवृत्तिः, नत्वेतत्सूत्रनिष्पत्तिसमये । अन्यथा तत्सूत्रेणैवेकारशकारादीनां सावर्ण्यनिषेधादिकारेण शकाराग्रहणे सत्यज्झल्त्वादिति हेतोरसिद्ध्या त्वदीयः पूर्वपक्षोऽसम्भवदुक्तिक् एव स्यात् । अथ पदर्थज्ञानस्य वाक्यार्थबोधहेतुनयैतद्वाक्यस्थापदार्थबोधकालं एतद्वाक्यर्थग्रहाभावादिह सूत्रे इकारेण शकारग्रहः स्यादेवेतः पूर्वं सावर्ण्यनिषेधाग्रहादिति ब्रूषे तर्हीतः पूर्वं ग्रहणकशास्त्रमेव न निष्पन्नमिति कथं न पर्यालोचयेः ? नन्वेवं तुल्यास्यप्रयत्नं (१.१.९) नाज्ज्ञलौ (पा.सू.१.१.१०) इत्यादौ अकः सवर्णे दीर्घः (६.१.१०१) इति दीर्घोऽपि न प्रवर्त्तेतेति चेत् ? न, सवर्णसंज्ञाद्युत्तरकाले प्रवर्त्तमानस्य दीर्घशास्त्रस्य दण्डाढकादाविवेहाप्यप्रतिबद्धप्रवृत्तिकत्वात्, उद्देश्यतावच्छेदकरूपाक्रान्तत्वाविशेषात् । न च सवर्णदीर्घविदानात्प्रागेतत्सूत्रार्थबोधानुपपत्तिरिति वाच्यम्, पदार्थोपस्थितिप्रभृतिसामग्रीसम्पत्तौ सत्यां साधुत्वबोधकवक्यार्थज्ञानविलम्बेन शाब्दबोधे विलम्बादर्शनात् । अन्यथा व्याकरणशास्त्रपरिशीलनविकलानां क्वापि शाब्दबोधो न स्यात् । तथा वैयाकरणानामपि व्याकरणसूत्रघटकशब्देषु व्याकरणादेव साधुत्वबोधे तदुत्तरकाले च वाक्यार्थावगतावात्माश्रयान्योन्याश्रयचक्रकाणां दुर्वारत्वादिति दिक् ।
साधुत्वज्ञानं तु न शाब्दबोधहेतुः । अस्तु वाभियुक्तवाक्यत्वेन साधुत्वानुमितिः, ततः शब्दबोधे जाते लक्ष्यान्तरेष्विव लक्षणवाक्यान्तर्गतेष्वपि लक्षणप्रवृत्तिरिति दिक् । वस्तुतस्तु शरां परस्परं सावर्ण्यनिषेधे सत्यपि न क्षतिः । परः शतादिषु हि रूपद्वयं सिद्धान्तेऽपिष्यते । शतात्पराणीति विग्रहे कर्तृकरणे कृता बहुलम् (२.१.३२) इति बहुलवचनाद्वा सुप्सुपा (२.१.४) इति वा समासे कृते पारस्करादित्वात्सुटि सकारस्य श्चुत्वम् । ततः अनचि च (७.४.४७) इति द्विर्वचनम् । ननु शरोऽचि (७.४.४९) इति अनचि (७.४.४७) इति वा द्वित्वनिषेधोऽस्त्विति चेत् ? न, तत्र नाज्झलौ (१.१.१०) इति निषेधादिकारेण शकाराग्रहणात् । ततो झरो झरि (७.४.६५) इति लोपविकल्पाद् द्विशकारं त्रिशकारं वा रूपमिति सावर्ण्यनिषेधेऽपि सिद्ध्यत्येवेदं रूपद्वयम्, अनचि च (८.४.४७) इति द्वित्वस्यापि वैकल्पिकत्वात् । तत्र द्वित्वस्य वैकल्पिकत्वं यरोनुनासिकेऽनुनासिको वा (८.४.४५) इत्यतो वेत्यनुवर्तनात् सर्वत्र शाकल्यस्य (८.४.५१) इति पाक्षिकनिषेधाद्वा । लोपस्य वैकल्पिकत्वं तु झयो होऽन्यतरस्याम् (८.४.६२) इत्यतोऽन्यतरस्यांग्रहणानुवृत्तेरित्यवधेयम् । तस्मात्सावर्ण्ये सत्यसति वा ‘परश्शताः’ इति द्विशकारकत्रिशकारकरूपयोरविशेषः परशशताद्यास्ते येषां परा संख्या शतादिकात् । (अ.को.३.१.६४)
इत्यमरः । एवं ‘रामष्षष्ठः’ ‘यशस्सारम्’ इत्यादावपि । अत एव भाष्ये अपर आह इत्युपक्रम्य वार्त्तिकद्वयमप्येकहेतुतया व्याख्याय अस्तु वा ग्रहणमिकारादिभिः शकारादीनाम् इति वाक्यशेषाध्याहारेण प्रतिज्ञविकल्पार्थो वाशब्द इति व्याख्यातम् । तत्र अपर आहेत्यपरितोषोद्भावनम् । तद्बीजन्तूक्तरीत्या शर्षु सावर्ण्यनिषेधानिषेधयोः फलाविशेषेऽपि प्रागुक्तरीत्या ‘दण्डाग्रम्’ इत्यादि न सिद्ध्येत् । तदर्थं च सूत्रप्रत्याख्यानस्य वाक्यापरिसमाप्तिन्यायस्य वाऽऽश्रयणे आवश्यके शरां शर्भिः सावर्ण्याभावाभ्युपगमो निर्मूल एवेति ।
स्यादेतत्, अगृहीतसवर्णानामेव नाज्ज्ञलौ (१.१.१०) इति निषेध इति तावत्स्थितम् । तथा चेकारादीनां शकरादिभिः सावर्ण्यानिषेधात् ‘कुमारी शेते’ इत्यादौ सवर्णदीर्घः स्यादित्याशङ्क्याचीत्यनुवृत्त्या समाहितम् । एवं स्थिते ‘मालासु’ इत्यादौ षत्वं स्यात् । हकारेणाकारग्रहणे सति ‘गोरीषु’ इत्यादिवदिणः परत्वानपायात् । किञ्च ‘विश्वपाभिः’ इत्यत्र हो ढः’ (७.२.३१) इति ढत्वं स्यात्, ‘वागाशीः’ इत्यत्र झयो होन्यतरस्याम् (७.४.६२) इत्याकारस्य घकारः स्यात्, ‘गासीध्वम्’ इत्यत्र इणः षीध्वम् (८.३.७८) इति मूर्द्धन्यादेशः स्यात्, ‘दासीष्ट’ इत्यादौ दादेर्धातोर्घः (८.२.३२) इति घत्वं स्यात्, ‘राम आयाति’ इत्यादौ हसिच (६.१.११४) इत्युत्वं स्यात्, ‘देवा आयान्ति’ इत्यादौ हलि सर्वेषाम् (८.३.२२) इति नित्यो यलोपः स्यात्, ‘चाखायिता’ इत्यादौ यस्य हलः (६.४.४९) इति यलोपः स्यात्, ‘श्येना यिता’ इत्यादौ क्यस्य विभाषा(६.४.५०) इति लोपः स्यात्, ‘निचाय्य’ इत्यादौ हलो यमाम् (८.४.६४) इति यलोपश्च भ्यादिति बहूपप्लवप्रसङ्गः ।
अत्रोच्यते, आकारो न हकारस्य सवर्मः ततोऽप्याकारः इति अइउण्सुत्रोदाहृतशिक्षारीत्या भिन्नप्रयत्नत्वात् । सवर्णेणग्रहणमपरिभाष्यमाकृतिग्रहणात् इति वार्त्तिकमते तु हकाराकारयोरेकजात्यनाक्रान्तत्वादेव नातिप्रसङ्गः । यद्वा, आकारसहितोऽच् आच् स च हल्च आज्ज्ञलाविति सूत्रे आकारप्रश्लेषो व्याक्येयः । तेनाकारस्याचां च हल्भिः सह सावर्ण्यं निषिध्यते । आकारप्रश्लेषे लिङ्गं तु कालसमयवेलासु तुमुन् (३.३.१६४) इत्यादिनिर्द्देशाः। अत्र पक्षे आश्च आश्चेति द्वन्द्वेन सवर्णदीर्घण च नाज्झलौ (१.१.१०) इति सूत्रे दीर्घात् परः प्लुतोऽपि निर्द्दिष्ट इति व्याख्येयम् । तेन ‘यियासो’ इत्यादौ गुरोरनृतः(८.२.८३) इति प्लुतादाकारात्परस्य सनः सस्य षत्वं नेत्यवधेयम् । भाष्यमते तूष्मणार्मीषद्विवृतताभ्युपगमेन सावर्ण्यप्रसक्तिरेव नास्तीति सूत्रप्रत्याख्यानात्सकलमनाविलम् ॥ इति शब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमे पादे चतुर्थमान्हिकम् ॥ ४ ॥
॥ व्याकरणसिद्धान्तसुधानिधिः ॥
तुल्यस्थानप्रयत्नावप्यज्झलौ मिथः सवर्णसंज्ञौ न स्तः । अप्यन्तं प्रसक्तिप्रदर्शनमात्रार्थम् । सवर्णपदं संज्ञापरम् । पूर्व विधेयतयोपस्थितत्वात् । तुल्यास्यप्रयत्नत्वस्य वस्तुधर्मतया निषेधानर्हत्वाच्च । तेन आनडुहं चर्म वैपाशो मत्स्य इत्यत्र हकारशकारयोर्लोपो न । अन्यथा यस्येति च इत्यत्र अकारेकाराभ्यां ग्रहणकसूत्रेण दीर्घादीनामिव हकारशकारयोरपि ग्रहणापत्तेः । ऋकारषकारयोर्तृकारसकारयोरपि सावण्य प्राप्तमत्र निषिध्यत इति कौस्तुभकृतः ।
कैयटादयस्तु अकारहकारयोरिकारशकारयोश्चेति स्थलद्वयमेव दर्शयन्ति । तेषां चायमाशयः - बह्वचप्रातिशाख्योक्तरीत्या ऋकारलृकारयोर्जिह्वामूलस्थानत्वात् मूर्द्धदन्तस्थानाभ्यां षकारसकाराभ्यां सावर्ण्यप्रसक्तिरेव नास्ति । न च तत्प्रातिशाख्यमात्रोक्तत्वादनादृत्यम् । पूर्वोक्तरीत्या सूत्रवार्तिकसम्मतत्वात् । अत एव नाण्लावित्येव सूत्रयितुं युक्तमिति प्रामाणिकाः ।
एवं च ग्रहणकशास्त्रादन्यत्र पूर्वेणैवाण्ग्रहणनियमात् कर्तृषट्कमित्यादौ सवर्णदीर्घः स्यात् । परेणाज्ग्रहणेऽपि अजपेक्षया व्यक्तिगौरवमेव । तस्मात्राकुशलाविति सूत्रं युक्तम् इत्यलग्नकं वेदितव्यम् । अत एवाग्रे पूर्वपक्षवार्तिक शकारसावर्ण्यप्रतिषेध एवोक्तो न तु षकारादेः । एतेन शकारग्रहणं शरामुपलक्षणम् इत्युक्त्वा रामष्यष्ठः यशस्सारमित्युदाहरणान्तरकल्पनं च तेषामपास्तम् । आद्यन्तभाष्ये शकारमात्रस्यैव श्रवणादुपलक्षणत्वे मानाभावात् ।
स्यादेतत् शकारस्यापि परस्परं सावण्र्ण्यनिषेधः स्यात् । स हि इकारादिभिर्गृहीतत्वादच्, स्वरूपतस्तु हल् । न चास्मादेव निषेधादिकारेण शकारग्रहणं नेति वाच्यम् । एतद्वाक्यार्थबोधौपयिक्यां पदार्थबुद्धौ पूर्वसूत्रप्राप्तसंज्ञामुपजीव्य ग्रहणकशास्त्रप्रवृत्तौ बाधकाभावात् । न हि तदानीं सावर्ण्यनिषेधधीरस्ति, तदुत्तरभावित्वात् । न चैतद्वाक्यार्थबोधात्पूर्व तुल्यास्यसूत्रार्थबोध एव न भवतीति वाच्यम् । प्रतियोगिप्रसक्तिविरहे निषेधानुपफ्तेः । यस्येति च इत्यादौ तु एतद्वाक्यार्थबोधात्सावर्ण्यभावज्ञानान्त्र तग्रहणमिति वैषम्यम् । अत एवं ग्रहणकसूत्रस्थमण्पदं न सवर्णग्राहकम्, सूत्रान्तरस्थं तु सवर्णग्राहकमेवेति सिद्धान्तः । एवं नाज्झलौ इत्यस्यापि निषेधस्य न स्वस्मिन्प्रवृत्तिः । स्वात्मनि व्यापारविरोधस्य तुल्यत्वात् । परिहृत्यापवादविषयमित्यस्यापि नार्य विषयः । अपवादस्यैवानवगतत्वात् । न चेष्टापत्तिः । परश्शतानि कार्याणीत्यत्र दोषापत्तेः ।
परश्शताद्यास्ते येषां परा संख्या शतादिकात् । इत्यमरः । कर्तृकरणे कृता बहुलम् इति बहुलोक्तेः शतात्पराणीति समासः । पारस्करादित्वात्सुट् । श्रुत्वेन शकारः । अनचि च इति तस्य द्विर्वचनं च । तत्र झरो झरि सवर्णे इति लोपाप्रवृत्त्या शकारत्रयश्रवणं स्यात् । न च अनचि इति शरोऽचि इति वा द्वित्वनिषेधो भविष्यतीति वाच्यम् । तत्र नाज्झलौ इति सावण्र्ण्यनिषेधेन ग्रहणकशास्त्राप्रवृत्त्या अच्पदेन ‘शरामुपस्थानासम्भवात् । उक्तनिषेधयोर्नित्यत्वात् । तथा च वार्त्तिकम् अञ्झलोः प्रतिषेधे शकारप्रतिषेधोऽज्झल्त्वादिति प्रतिषेधे प्रकरणवशात्सावर्ण्यस्य प्रतियोगित्वेनान्वयः । सावर्ण्यप्रतिषेधो वक्तव्यः स्यादित्यर्थः । किञ्ज अवर्णस्य स्वभेदैः सह सावर्ण्य न स्यात् । हकारेण तद्ग्रहणे सति हल्त्वात्स्वरूपेण त्वच्त्वात् इति प्राप्ते सिद्धान्तवार्तिकम् सिद्धमनच्त्वात्, वाक्यापरिसमाप्तेर्वा इति सूत्रप्रत्याख्यानाभिप्रायं प्रथममुत्तरम् । तथाहि विवृतमुष्मणामिति योगे ईषदित्यनुवर्त्तते । स्वराणां चेत्यत्र विवृतमित्यस्यैवानुवृत्तिः, ईषदिति तु निवृत्तम् । तथा च प्रयत्नभेदात्सावर्ण्यप्रसक्तिरेव नास्तीति भावः । एवं चाकारस्य हल्त्वमपि नास्तीति दण्डाग्रमित्यादावपि न दोषः ।
यथाश्रुतमभ्युपेत्याप्याह वाक्यापरिसमाप्तेर्वेति । प्रथमं हि वर्णानामुपदेशः, तत इत्संज्ञा, ततः प्रत्याहारः, ततोऽपवादपरिहारेण सवर्णसंज्ञानिष्पत्तिः । ततो ग्रहणकशास्त्रप्रवृत्तिः । यद्यपि निषेधप्रतियोगिप्रवृत्त्यर्थम् नाञ्झलौ इति वाक्यार्थबोधात्प्राक् सवर्णसूत्रार्थबोध आवश्यकः, तथाऽपि अपवादविषयांशे तद्वाक्यतात्पर्यज्ञानस्थ अपवादवाक्यार्थबोधोत्तरमप्रामाण्यज्ञानसम्पादनद्वारा तदंशे उत्सर्गवाक्यस्य तात्पर्याभावव्यवस्थापनात्स बोधो न शास्त्रप्रवृत्तावुपयोगी । यदंशे शास्त्रतात्पर्य तद्विषयकबोधस्यैव प्रमाणत्वात् । अन्यथा सर्वत्र बोधस्यानियतत्वेन व्यवस्थाभङ्गप्रसङ्गात् । तथा च भ्रमरूपप्रतियोगिप्रसिद्धिमादाय निषेधप्रवृत्तावपि न ग्रहणकशास्त्रस्य प्रवृत्तिसम्भवः । अतो निषेधोपयोगितुल्यास्यसूत्रार्थबोधदशायामिकारेण शकारस्यानुपस्थानाच्छकारस्याच्त्वं नास्तीति न तस्य तेनैव समं सावर्ण्यनिषेधापत्तिः । निषेधप्रवृत्त्युत्तरकाले च सावर्ज्याभावादेवानुपस्थानमिति समाधानतात्पर्यम् । अत एव भाष्ये प्रत्याहारोत्तरकाला सवर्णसंज्ञा, सवर्णसंज्ञोत्तरकालं सवर्णग्रहणमिति उक्तम् । नाप्झलौ इत्यस्य सवर्णसंज्ञायामेवोपयोगात् । हरिणाऽप्युक्तम् -
अनेकाख्यातयोगेऽपि वाक्यं न्यायापवादयोः । एकमेवेष्यते कैश्चिद्भिन्नरूपमिव स्थितम् ॥
इति । न्याय उत्सर्गः । भिन्नरूपमिव परस्परानपेक्षबोधजनकमिव । अपवादज्ञानाभावे उत्सर्गस्य तात्पर्यभ्रमेण स्वतात्पर्याविषयकस्यापि बोधजनकत्वादप्रामाण्यापत्तौ स्वतात्पर्यविषयमात्रबोधजननार्थमपवादज्ञानस्य तेनोपेक्षणीयत्वात् प्रमाणतावच्छेदकरूपसम्पत्तिः पश्चादेव भवतीति तदर्थात् । न चैवं नाज्झली इति सूत्रे सवर्णदीर्घोऽपि न स्यादिति शङ्क्यम् । तत्प्रकारकज्ञानस्य शास्त्रप्रवृत्तावनपेक्षितत्वात् । तदेवं द्वेधा समाधानम् । भाष्ये तु एकवाक्यतयाऽपि हेतुद्वयम् अपर आहेत्यादिना व्याख्यातम् । तथाहि अनच्त्वादिति पूर्वोक्तदोषनिवृत्तिसिद्धौ हेतुः, अनच्वे तु वाक्यापरिसमाप्तेरिति । सा च यथोक्तरीत्यैव ।
नन्वेवं वाशब्दोऽसङ्गतः स्यात्, एकस्मिन् साध्ये हेतुद्वयस्य साधकत्वएव तत्सङ्गतेः, इह तु साध्यभेदोक्त्या एकत्र द्वयोरसमावेशात् । न हि भवति पर्वतो वह्निमान् धूमात् आर्डेन्धनाद्वेति । भवति तु घूमादालोकाद्वा इति चेत् सत्यम्, अस्तु वा ग्रहणमिकारेण शकारस्येति वाक्यशेषमध्याहृत्य प्रतिज्ञाविकल्पार्थत्वेन वाशब्दोपपत्तेः । शकारस्य शकारेण समं सावर्ण्यनिषेधे इष्टापत्तिरिति तदर्थः । न चात्र पक्षे शकारयोः सावर्ण्यनिषेधात्परश्शतादावुक्तदोष इति वाच्यम् । रूपद्वयं हि तत्र इष्टमेव । तच्च अनचि च इति द्वित्वस्य वैकल्पिकत्वादेव सिद्ध्यति । तत्र यरोऽनुनासिके इत्यतो विकल्पानुवृत्तेः ।
न च झरो झरि इति लोपस्य नित्यत्वात् द्विशकारकमेव रूपमिष्यत इति वाच्यम् । तत्रापि झयो होऽन्यतरस्याम् इत्यतो विकल्पानुवृत्तेः । एतत्पक्षे त्वपरितोषो दण्डाग्रमित्यत्र सवर्णदीर्घासिद्धिरित्याहुः । नन्वगृहीतसवर्णानामेवायं निषेध इति स्थिते दीर्घस्य ईकारस्य शकारेण सह सावर्ण्यनिषेधाभावात् कुमारी शेते इत्यत्र सवर्णदीर्घः स्यादिति चेन्न, तत्राचीत्यनुवृत्त्या समाधानात् ।
अथ तथाऽप्याकारस्य दीर्घस्य प्लुतस्य च हकारेण सह सावण्यै स्यात् । तथा च विश्वपाभिरित्यत्र होढः इति ढत्वं स्यादिति केचित् । अन्ये तु संयोगान्तलोप एवापाद्यः । ढत्वस्यासिद्धत्वात् पूर्वत्रासिद्धे विप्रतिषेधाभावादित्याहुः । एवं मालास्वित्यत्र षत्वम्, वागाशीरित्यत्र झयो होऽन्यतरस्याम् इत्याकारस्य घत्वम् । गासीध्वमित्यत्र इणः षीध्वम् इति धस्य ढत्वम्, दासीष्टेत्यत्र दादेर्धातोः इति घत्वम्, राम आयाही ‘त्यादौ हशि च इत्युत्वम्, देवा आयान्तीत्यादौ हलि सर्वेषाम् इति यलोपः, चाखायितेत्यादौ यस्य हल इति यलोपः । श्येनायितेत्यादौ क्यस्य विभाषा इति यलोपः, निचाय्येत्यादौ हलो यमाम् इति यलोपश्च स्यादिति चेदत्राहुः आकारस्य अइउण्सूत्रोदाहृतशिक्षोक्तरीत्या विवृततरत्वाद्विवृतेन हकारेण न सावर्ण्यम् । मतान्तरे तु दीर्घप्लुताकारयोः सवर्णदीर्घ कृत्वा तत्सहितोऽच् आच् इति व्याख्याय दीर्घप्लुताकारयोरपि सावर्ण्यनिषेधो व्याख्येयः । अत्र लिङ्गे च कालसमयवेलासु इत्यादि निर्देशः । प्लुतस्यापि प्रश्लेषात् यियासो इत्यादौ गुरोरनृत इति प्लुतादाकारात्परस्य सनः सस्य षत्वं नेति । वार्त्तिकमते तु हलामचां चोभयसाधारणैकवर्णत्वव्याप्यजात्यभावात् कुत्रापि नातिप्रसङ्ग शङ्केति । इति श्रीसिद्धान्तसुधानिधौ प्रथमस्याध्यायस्य प्रथमे पादे चतुर्थमाह्निकम् ॥
॥ सिद्धान्तकौमुदी ॥
आकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णौ न स्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् ॥ तथा हि ॥
॥ बालमनोरमा ॥
एवं प्राप्ते प्रतिषेधति - नाज्झलौ । आसहितः अच् - आच् । शाकपार्थिवादित्वात्सहितशब्दस्य लोपः । आ च हस्व - आज्झलौ । तुस्यास्यसूत्रात्सवर्णमित्यनुवर्तते । तच्च पुँल्लिङ्गाद्विवचनान्ततया विपरिणम्यते । तदाह - अकारसहितोऽजित्यादिना । ननु किमर्थोऽयं प्रतिषेध इत्यत आह - तेनेत्यादि यणादिकं नेत्यन्तम् । तेन = प्रतिषेधेन । आदिना सवर्णदीर्घसङ्ग्रहः । दधीति इकारस्य हकारे षकारे सकारे च परे 'इको यणचि' इति यणादेशः, शीतलमित्यत्र शकारे परे सवर्णदीर्घश्च न भवतीत्यर्थः । नन्वस्त्वकारहकारयोरिकारशकारयोर्ऋकारषकारयोर्लृकारसकारयोश्च सावर्ण्यं, तथापि 'दधि षष्ठ'मित्यादौ यणादिकं न प्रसक्तम्, अचपरकत्वाऽभावादित्यत आह - अन्यथेत्यादिना । अन्यथा = तेषां सावर्ण्याभ्युपगमे, दीर्घादीनामिव हकारादीनामप्यच्त्वं स्यादित्यन्वयः । ननु वर्णसमाम्नाये हकारादीनामकारचकारमध्यगत्वाऽभावात्कथमच्त्वमित्यत आह - ग्रहणकशास्त्रबलादिति । गृह्णन्त्यकारादयः स्वसवर्णान् येन तद्ग्रहणम् । करणे ल्युट् । स्वार्थे कः । अणुदित्सूत्रादित्यर्थः । यद्यप्यच्छब्दवाच्यत्वं वार्णसमाम्नायिकानामेव वर्णानान्तथापीको यणचीत्यादावच्छब्देनाऽकारादिषूपस्थितेषु तैरणुदित्सूत्रबलेन स्वस्वसवर्णानामाकारादीनामुपस्थितिरस्ति । ततश्चाऽत्राच्पदवाच्याकारादिवाच्यत्वादाकारादीनामिव हकारादीनामपि लक्षणया अच्छब्देन ग्रहणं स्यादित्यर्थः । न च इको यणचीत्यादौ शक्यार्थमादायैवोपपत्तेर्न लक्षणासंभवः । अणुदित्सूत्रे तु अस्य च्वावित्यादौ सावकाशमिति वाच्यं, स्वादिभ्य इत्यादिनिर्देशबलेन प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाऽवश्यंभावात् । तथा च 'अच्त्वं स्या'दित्यस्य अचपदबोध्यत्वं स्यादित्यर्थः । किं तद्ग्रहणकशास्त्रमित्याकाङ्क्षायां तदुपपादनं प्रतिजानीते - तथा हीति ॥
॥ बृहच्छब्देन्दुशेखरः ॥
कौमुदीमूलम् - आकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णौ न स्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् ॥ तथा हि ॥
सूत्रे द्विवचनोपपत्तये मध्यमपदलोपिसमासं दर्शयति-आकारसहित इति । अत एव 'वेलास्वि'ति निर्देश उपपद्यते । समाहारद्वन्द्वे तु टच्प्रसङ्गः, अज्झलिति समाहारद्वन्द्वं कृत्वा आपदेन द्वन्द्वे तु अज्भिरप्याकारस्य सावर्ण्यं न स्यादिति भावः । अत एव भाष्ये प्रयत्नभेदेनैषां सावर्ण्याभावः साधितः । एतेषु परेष्विति । इदमुपलक्षणम्- 'एतेषु विद्यमानस्ये'त्यपि बोद्ध्यम्, तेन हकारादीनामकारादिषु परतो दीर्घादिसङ्ग्रहः । अच्त्वं स्यादिति । अच्पदबोद्ध्यत्वं स्यादित्यर्थः । इदं प्रत्याहारघटकेष्वपि ग्राहकशास्त्रप्रवृत्तिः इति मते व्यक्तिपक्षे च बोध्यम् ।
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
सवर्णसञ्ज्ञानिषेधकमिदं सूत्रम् । तुल्यास्यप्रयत्नं सवर्णम् इति सूत्रेण तुल्यस्थानानां वर्णानां या सवर्णसञ्ज्ञा कृता, सा तुल्यस्थानप्रयत्नत्वात् अकारहकारयोः इकारशकारयोश्च प्राप्नुयादिति तन्निषेधार्थं सूत्रमिदमारब्धम् । अच्च हल् चेति इतरेतरद्वन्द्वसमासे ‘ अज्झलौ ’ इति पदम् । ‘ न ’ इति पृथक्पदम् । “तुल्यास्यप्रयत्नं सवर्णम्” इत्यतोऽनुवृत्तं सवर्णमिति पदम् अज्झलौ इत्युद्देशपदानुरोधेन पुँल्लिङ्गत्वेन द्विवचनेन च विपरिणम्यते । तथा च सूत्रार्थः - ‘ तुल्यास्यप्रयत्नौ अच् हल् च एतौ परस्परं सवर्णसञ्ज्ञकौ न भवतः ’ इति निष्पद्यते । ‘ दण्ड हस्तः, दधि शीतम्, वैपाशो मत्स्यः, आनडुहं चर्म ’ इत्युदाहरणानि । अत्रोदाहरणेषु दण्डशब्दाकारस्य हकारे परे हकारादकारे परे च सवर्णदीर्घो न, दधिशब्देकारस्य शकारे परे शकारादीकारे परेऽपि सवर्णदीर्घो न स्यात् । एवं विपाड् नदी, तत्र भवो वैपाशो मत्स्यः, अनडुह इदम् आनडुहं चर्म इत्यादौ “ यस्येति च” इति सूत्रेण इकारेण शकारस्य अकारेण हकारस्य सावर्ण्याल्लोपो न ।
अज्झलौ केनापि समं सवर्णसञ्ज्ञौ न भवत इति तु नार्थः, तुल्यास्यसूत्रवैयर्थ्यापत्तेः । अचामज्भिर्हलां हल्भिर्न सावर्ण्यमित्यपि नार्थः, सवर्णविधिवैयर्थ्यापतेः, “नाज्झलौ” इत्यत्र दीर्घानापत्तेर्झकाररूपपूर्वसवर्णासिद्धेश्च । किन्तु हलामाचाञ्च परस्परं सवर्णसञ्ज्ञा न भवतीत्येवार्थः ।
ननु अकारहकारयोः सावर्ण्यस्य “नाज्झलौ” इत्यनेन निषेधेऽपि दीर्घाकारप्लुताकारयोर्हकारेण सह सावर्ण्यं दुर्वारम्, न च “नाज्झलौ” इति सूत्रघटकाच्पदेन अणुदित्सूत्रसहकारेण दीर्घादीनामपि ग्रहणान्न हकारेण सह सावर्ण्यमिति वाच्यम्, “नाज्झलौ” इति सूत्रस्य वाक्यार्थबोधककाले ‘ अणुदित् ’ इत्यस्य वाक्यार्थबोधाभावेन नाज्झलाविति सूत्रघटकाच्पदे तदप्रवृत्तेः । तथाहि - ‘ अणुदित्सवर्णस्य ’ इति वाक्यार्थबोधे पदार्थोपस्थितिः कारणम् इति न्यायेन वाक्यघटकपदार्थोपस्थितिरपेक्ष्यते । शाब्दबोधकारणीभूतपदार्थोपस्थितिश्च पदनिष्ठवृत्तिज्ञानं विना न सम्भवति । तत्राण्पदवृत्तिज्ञानाय ‘ अइउण् ’ इत्यादिवर्णसमाम्नायज्ञानमपेक्ष्यते, तज्ज्ञानं विना ‘ आदिरन्त्येन ’ इति सूत्रवाक्यार्थबोधासम्भवात् । ‘ आदिरन्त्येन ’ इति वाक्यार्थबोधश्च इत्पदार्थज्ञानमन्तरा असम्भवि । इत्पदशक्तिज्ञानं च “ उपदेशेऽजनुनासिक इत्” “ हलन्त्यम्” इत्यादिशास्त्राधीनम् । एतावता वाक्यकदम्बेन ‘ अणुदित् ’ इति सूत्रघटकाण्पदार्थोपस्थितिः । सवर्णपदशक्तिज्ञानाय “तुल्यास्यप्रयत्नं सवर्णम्” इति सूत्रवाक्यार्थज्ञानापेक्षा । तद्यदि स्वातन्त्र्येण सवर्णसञ्ज्ञां विदध्यात्तदा अज्झलोरपि सवर्णसञ्ज्ञा स्यात् । ततः “नाज्झलौ” इति सूत्रं ‘ भुक्तवन्तं प्रति ब्रूयाद् मा भुक्थाः ’ इति न्यायेन व्यर्थमेव स्यादिति ‘ पूर्वं हि अपवादा अभिनिविशन्ते पश्चादुत्सर्गाः ’ इति न्यायेन पूर्वमपवादशास्त्रीयोद्देश्यभिन्नत्वेनोत्सर्गशास्त्रीयोद्देश्ये सङ्कोचं कृत्वा उत्सर्गशास्त्रवाक्यार्थबोधः । तथा च प्रकृते अज्भिन्नेन तुल्यास्यप्रयत्नमज्भिन्नं सवर्णसञ्ज्ञं भवति इत्यर्थेन हलां हल्भिः सवर्णसञ्ज्ञा, हल्भिन्नेन तुल्यास्यप्रयत्नं हल्भिन्नं सवर्णसञ्ज्ञं भवति इत्यर्थान्तरेण च अचामज्भिः सवर्णसञ्ज्ञा भवति । एतदर्थे एव तात्पर्य्यग्राहकं नाज्झलाविति सूत्रम् । तथा च तुल्यास्यसूत्रे एव नाज्झलावित्यस्य प्रवेशेन तदानीमणुदित्सूत्रवाक्यार्थबोधाभावेन वर्णसमाम्नाये पठितानामेव “नाज्झलौ” इति सूत्रस्थाच्पदेन ग्रहणम्, सवर्णविधानकाले अणुदित्सूत्रार्थज्ञानाभावेन अच्पदवाच्या ये अकारादयस्ते नाष्टादशानां सञ्ज्ञाः, किन्तु स्वरूपबोधका एव । तदुक्तं भाष्ये - ‘ वाक्यपरिसमाप्तेर्वा पुनः सिद्धमेतत् । किमिदं वाक्यपरिसमाप्तेरिति ? वर्णानामुपदेशस्तावत् । उपदेशोत्तरकाला इत्सञ्ज्ञा । इत्सञ्ज्ञोत्तरकालः “आदिरन्त्येन सहेता” इति प्रत्याहारः । प्रत्याहारोत्तरकाल- सवर्णसञ्ज्ञा । सवर्णसञ्ज्ञोत्तरकालम् “ अणुदित् सवर्णस्य चाप्रत्ययः” इति सवर्णग्रहणम् । एतेन सर्वेण समुदितेन वाक्येनान्यत्र सवर्णानां ग्रहणं भवति ’ ।
अयं भावः - 1. अइउण् 2. इत्सञ्ज्ञाशास्त्रम् हलन्त्यम् 3. आदिरन्त्येन 4. तुल्यास्यप्रयत्न नाज्झलौ 5. अणुदित् इति पञ्चानां वाक्यानामर्थबोधानन्तरमेव अणुदित्सूत्रप्रवृत्तिः न स्वस्मिन्नपि ‘ अइउण् ’ इत्यादिषु चतुर्षु । अयं भावः - “ तुल्यास्यप्रयत्नं सवर्णम्” इति सूत्रस्य प्रामाणिको वाक्यार्थबोधस्तावन्न सम्भवति, यावत् “ नाज्झलौ” इति निषेधशास्त्रस्य बोधो न स्यात् । निषेधरूपबाधकविषयस्य परिहारेण उत्सर्गशास्त्रस्य प्रवृत्तेरभ्युपगमेन निषेधशास्त्रविषयातिरिक्तत्वेन तुल्यास्य सूत्रबोधे सङ्कोचस्यावश्यकत्वात् । तथा च तुल्यास्यसूत्रबोधात् प्रागेव “नाज्झलौ” इत्यस्य बोधोऽपेक्षितः । तदानीं सवर्णसञ्ज्ञाया अभावेन सवर्णपदार्थस्यानिश्चयेन सवर्णबोधकस्य “अणुदित्सवर्णस्य चाप्रत्ययः” इति सूत्रस्य कथमपि प्रामाणिकबोधस्य कर्तुमशक्यतया “नाज्झलौ” इत्यत्र अच्पदेन दीर्घादीनां ग्रहणं कथमपि न स्यात् । “नाज्झलौ” इत्यस्य वर्णसमाम्नाये श्रूयमाणानामेव अकारादीनां बोधकस्य अचो हला सह सवर्णसञ्ज्ञाया निषेधरूपे वाक्यार्थसम्पन्ने तद्विषयं परिहाय “तुल्यास्यप्रयत्नं सवर्णम्” सूत्रस्य असन्दिग्धो वाक्यार्थबोधो जायते । ततः परम् “अणुदित्सवर्णस्य चाप्रत्ययः” सूत्रस्यापि सवर्णपदार्थनिश्चयेन सन्देहप्रतिबन्धकनिश्चयसत्त्वात् प्रामाणिको बोधो जायते इति भाष्याशयः ।
अत एव “नाज्झलौ” इति सूत्रे “अणुदित्सवर्णस्य चाप्रत्ययः” इति सूत्रेण दीर्घाकारादीनामग्रहणात् “नाज्झलौ” इति सूत्रेण दीर्घाकारहकारयोः सवर्णसञ्ज्ञाया निषेधाभावेन दीर्घाकारहकारयोः सवर्णसञ्ज्ञायाम् “हो ढः” इत्यत्र ग्रहणशास्त्रबलात् हकारग्रहणेन दीर्घाकारस्य ग्रहणे विश्वपाभिरित्यादौ “हो ढः” इति सूत्रेण ढत्वं स्यादिति चेन्न, “नाज्झलौ” इति सूत्रे दीर्घाकारादीनां प्रश्लिष्टत्वात् । “नाज्झलौ” इति सूत्रे दीर्घाकारादीनां प्रश्लेषेण दीर्घाकारहकारयोरपि सवर्णसञ्ज्ञाया निषेद्धत्वात् “हो ढः” इत्यत्र हकारग्रहणेन दीर्घाकारस्याग्रहणे विश्वपाभिरित्यादौ “हो ढः” इत्यनेन ढत्वस्याप्रवृत्तेरिति भावः । यदि हकाराकारयोः सावर्ण्यं स्यात्तदा “कालसमयवेलासु तुमुन्” इत्यत्र सूत्रे ढत्वस्य षत्वस्य च प्राप्त्या पाणिनेराकारसकारोच्चारणमसङ्गतं स्यात् । तत्र “हो ढः” इति सूत्रेण आकारस्य ढत्वे, इण्प्रत्याहारे हकारस्य पाठेन, अकारस्य हकारसवर्णत्वेन आकारस्यापि इण्त्वात् “आदेशप्रत्यययोः” इति सूत्रेण सकारस्य षत्वे निर्देशासङ्गतिश्च स्यात् । तदुच्चारणेन पाणिनिना ज्ञाप्यते - आकारप्रश्लेषो “नाज्झलौ” इति सूत्रेऽस्तीति । एवमत्राकारप्रश्लेषे प्रमाणञ्च “नाज्झलौ” इति सूत्रप्रत्याख्यानपरं भाष्यमपि । आकारप्रश्लेषाभावे प्रयत्नभेदेन हकारप्रयोज्यं कार्यमाकारे न प्राप्नोति । सूत्रारम्भे च हकाराकरयोः सावर्ण्याद् हकारप्रयुक्तं कार्यमाकारे प्राप्नोतीति फलभेदः ।
न च प्लुताकारप्रश्लेषाभावात् ‘ हे यियासो ’ इत्यादौ षत्वं दुर्वारं स्यादिति वाच्यम् ? ।
‘ हेयिया३सो ’, ‘ हेपिपा३सो ’ इति भाष्यप्रयोगात् प्लुताकारस्यापि प्रश्लेषोऽत्र बोध्यः । तत्र “गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्” इत्याकारस्य प्लुतत्वे इण्पदबोध्य इकारेऽणुदित्सूत्रप्रवृत्त्या हकारसवर्णप्लुताकारस्यापि इण्ग्रहणेन ग्रहणे “आदेशप्रत्यययोः” इति सूत्रेण षत्वापत्तिः । तत्र षत्वस्येष्टत्वं तु न, ‘ ईषद्विवृतमुष्मणाम् ’ इति भाष्यमते हकारस्य सकलाकारैः सावर्ण्याभावेन षत्वाप्राप्तेः । प्लुतस्यापि प्रश्लेषे तु न सुत्रकारभाष्यकारयोः फलभेदः, अथ च यदा पक्षद्वये फलभेदस्तदा प्रत्याख्यानं न युक्तं भवतीति, प्रत्याख्यानपक्षे सर्वेषामकाराणां सवर्णसञ्ज्ञा न भवति, अथ च सूत्रारम्भपक्षे ह्रस्वदीर्घयोर्द्वयोरेव सावर्ण्यनिषेधो भवतीति प्रत्याख्यानपरकभाष्यासङ्गत्या सूत्रारम्भपक्षेऽपि सर्वेषामकाराणां सवर्णसञ्ज्ञा न भवतीति भावः । अत एव उभयमते षत्वाप्राप्तेः । तथा च समासः आश्च आ३ च औ, आभ्यां सहित इत्यर्थे “कर्तृकरणे कृता बहुलम्” इति सूत्रेण समासे , आसहितः इति । ‘ आसहितश्चासौ अच् चेति आच् ’ इत्युत्तरपदलोपसमासे सवर्णदीर्घेण आकारस्यापि संयुक्तत्वात् । आच् च हल् चेति आज्झलौ, न आज्झलौ इति नाज्झलौ । दीर्घाकारेण प्लुताकारेण वर्णसमाम्नायपठितेन अकारादिस्वरेण च सह हल्वर्णानां सवर्णसञ्ज्ञा न भवतीत्यर्थः ।
ननु हकाराकरयोः सावर्ण्येऽपि आकारेण हकारग्रहणन्तु नैव स्यात्, आकारस्यानण्त्वेन अणुदित्सवर्णसूत्राप्रवृत्तेः । हकारेण आकारं गृहीत्वा यत्कार्यं ढत्वादिकं प्राप्नोति तत्सर्वं त्रिपादीस्थमेव । तथा च “अणुदित्सवर्णस्य चाप्रत्ययः” इत्यस्य सपादसप्ताध्यायीस्थतया तद् दृष्ट्या “पूर्वत्रासिद्धम्” इति सूत्रेण “हो ढः” इत्यादीनामसिद्धतया हकारेण आकारग्रहणाप्राप्तिः स्पष्टैवेति वाच्यम्, अणुदित्सूत्रस्य त्रिपाद्यां प्रवृत्तेर्मुनित्रयसम्मतत्वात् । यदि तत्सूत्रस्य त्रिपाद्यां प्रवृत्तिर्न स्यात्तदा “गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्” “इदुदुपधस्य चाप्रत्ययस्य” इति सूत्रे अणुदित्सूत्राप्रवृत्त्या तद्वारणाय कृतं तपरत्वं व्यर्थमेव स्यादिति तद्वैयर्थ्यमेव ज्ञापयति - अणुदित्सूत्रदृष्ट्या त्रिपाद्या नासिद्धत्वमिति । तेन तपरत्वस्य चारितार्थ्यम्, “ङमो ह्रस्वादचि ङमुण् नित्यम्” इत्यादौ प्रवृत्त्या ‘ सुगण्णीशः ’ इत्यादौ णुडादिकञ्च सिद्ध्यति ।
न चैवं दीर्घेकारस्य शकारेण, दीर्घऋकारस्य षकारेण सह सावर्ण्यवारणाय यत्नान्तरं वक्तुमुचितमिति वाच्यम्, तेषां सत्यपि दोषाभावात् । न च ‘ कुमारी शेते ’,‘ कृ षष्ठः ’ इत्यादौ सवर्णदीर्घापत्तिः । शकारषकारयोरण्त्वाभावेन न शकारषकाराभ्यामीकारऋकारयोर्ग्रहणम्, नापीकारऋकाराभ्यां शकारषकारयोर्ग्रहणम्, दीर्घयोस्तयोराक्षरसमाम्नायिकत्वाभावेन अणुदित्सूत्राप्रवृत्तेः । तेन “शि तुक्” “ङ्णोः कुक्टुक् शरि” इत्यादौ न शकारषकारग्रहणेन ईकारऋकारयोर्ग्रहणम् । ह्रस्वेकारादिना तु न सावर्ण्यम्, “नाज्झलौ” इति सूत्रेण निषेधात् । तथा च कथमपि शकारषकाराभ्यामचाम् अजादिना च शकारषकारयोर्वा ग्रहणाप्रात्या न तेषां सावर्ण्यनिषेधाय यत्नान्तरानुसरणं करणीयम् ।
न च व्यक्तिपक्षे दीर्घाकारप्रश्लेषेण दीर्घाकारहकारयोः सवर्णसञ्ज्ञायाः निषेधेऽपि दीर्घेकारशकारयोः सवर्णसञ्ज्ञायाम् ‘ गौरीभ्याम् ’ इत्यत्र इकारग्रहणेन ईकारस्य ग्रहणे “व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः” इति सूत्रेण ईकारस्य षत्वं स्यादिति वाच्यम्, अण्प्रत्याहारे हकारस्य पाठेन हकारग्रहणेनाकारस्य बोधेऽपि अण्प्रत्याहारे शकारस्य पाठाभावेन ग्राहकसूत्रेण शकारग्रहणेन ईकारस्य ग्रहणं न भवति ।
भाष्ये प्रयत्नभेदोऽज्झलोरुन्नीतः तद्यथा - ‘ सिद्धमनच्त्वात् । कथमनचत्वम् । ‘ स्पृष्टं करणं स्पर्शानाम् ’ । ‘ ईषत्स्पृष्टमन्तःस्थानाम् ’ । ‘ विवृतमूष्मणाम् ’ । ईषदित्येवानुवर्त्तते । ‘ स्वाराणां च ’ विवृतम् । ईषदिति निवृत्तम् ’ । एवं चेदं प्रत्याख्यानमिति कैयटीयाः ।
अपरे तु प्रयत्नभेदप्राप्तसावर्ण्याभावानुवादकं सत्तस्यैव बोधकमिदं सूत्रम् । अत एव भाष्ये एतन्न कर्तव्यमिति नोक्तमित्याहुः ।
अनया रीत्या अस्मिन्नध्याये (क) अथ शब्दानुशासनम्, (ख) प्रत्याहारसूत्राणि, (ग) वृद्ध्यादिसञ्ज्ञाप्रकरणम् - वृद्धिरादैच्, अदेङ् गुणः, इको गुणवृद्धी, न धातुलोप आर्धधातुके, क्क्ङिति च, दीधीवेवीटाम्, हलोऽनन्तराः संयोगः, मुखनासिकावचनोऽनुनासिकः, तुल्यास्यप्रयत्नं सवर्णम्, नाज्झलौ इत्येतानि सूत्राणि यथामति व्यचारिषत ।
॥ प्रौढमनोरमा - संस्कृतव्याख्या ॥
आकारसहित इति ॥ अत्र च कालसमयवेलासु इत्यादिनिर्देशाः प्रश्लेषे लिङ्गम् । न चैवमपि यि३सो, इत्यादौ गुरोरनृत इति प्लुतादकारात्परस्य सनः सस्य षत्वं स्यादेवेति वाच्यम्, आश्च आश्चेति द्वन्द्वे सवर्णदीर्घेण दीर्घात्परत्र प्लुतादपि प्रश्लिष्यत इति व्याख्यानात् । यणादिकमिति । शीतलशब्दे सवर्णदीर्घ आदिशब्दार्थः ।
॥ प्रौढमनोरमा-शब्दरत्न - हिन्दी ॥
कौमुदी - नाऽज्झलौ (१.१.१०) आकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णौ न स्तः। तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् ।
मनोरमा–नाज्झलौ (पा.सू.१.१.१०) आकारसहित इति । अत्र च 'कालसमयवेलासु' (पा. सू.३.३.१६७) इत्यादिनिर्देशाः प्रश्लेषे लिङ्गम् । न चैवमपि यिया उसो, इत्यादी 'गुरोरनृत' (पा. सू.८.२.८६) इति प्लुतादाकारात्परस्य सनः सस्य षत्वं स्यादेवेति वाच्यम्, आश्च आश्चेति द्वन्द्वे सवर्णदीर्घेण दीर्घात्परत्र प्लुतोऽपि प्रश्लिष्यत इति व्याख्यानात् ।
शब्दरत्न - अत्र चेति । सूत्रे इत्यर्थः । प्रश्लेषे - आकारप्रश्लेषे निर्देशालिङ्गमित्यन्वयः । निर्देशेन आकारहकारयोः सावर्ण्यभावबोधकानुमानिकवचनकल्पनापेक्षया प्रश्लेषे एव तात्पर्यकल्पनं लघीय इति भावः ।
अत्र च अर्थात् इस सूत्र में दीर्घ आकार का प्रश्लेष है इसमें ‘कालसमयवेलासु' इत्यादि पाणिनि के निर्देश लिए हैं अर्थात् ज्ञापक हैं । अर्थात ‘कालसमय' इत्यादिसूत्र में पाणिनि ने जो 'वेलासु' यह प्रयोग किया वही इस बात का ज्ञापक है कि ‘नाज्झलौ' सूत्र में दीर्घ आकार का प्रश्लेष है । अन्यथा 'वेला' में जो 'आ' है उसकी हकार के साथ सवर्णसंज्ञा होने से 'आ' भी हकार की तरह इण् कहलाने लगता तो उससे परे विभक्ति वाले 'सु' के सकार को षत्व होना चाहिए था । परन्तु सूत्रकार ने षत्व तो किया नहीं । इसका अर्थ है कि वे 'आ' कार में इण्त्व नहीं मानते । एवञ्च इससे यह सिद्ध हुआ कि वे दीर्घ आकार की हकार के साथ सवर्णसंज्ञा नहीं मानते और यह तभी संभव है जब सवर्णसंज्ञा का निषेध करने वाले सूत्र में आकार का प्रश्लेषण मानें तभी उस दीर्घ आकार की हल् के साथ सवर्णसंज्ञा का निषेध हो पाएगा ।
अब प्रश्न यहाँ यह है कि जहाँ भी कोई निर्देश ज्ञापक होता है तो उस ज्ञापक रूप लिन से ज्ञाप्य वचन 'आनुमानिक अर्थ को कहता है । ' जैसे प्रकृत में ही 'वेलासु' यह निर्देश ‘आकार: हकारसावर्ण्याभाववान्, षत्वाभावप्रयोजकत्वात्' इस आनुमानिक अर्थ को कहने वाले वचन की कल्पना कर सकता है । पुनः सूत्र में आकारप्रश्लेष की कल्पना क्यों की जाए? इसीके उत्तर में शब्दरत्नकार कहते हैं - निर्देशेन आकारहकारयोः इत्यादि । तात्पर्य यह है कि निर्देश के आधार पर आकार और हकार की सवर्णसंज्ञा के अभाव का ज्ञान कराने वाले किसी आनुमानिक वचन की कल्पना करने की अपेक्षा आकार का प्रश्लेष मानने में ही लाघव है क्योंकि अनुमान व्याप्तिज्ञान, परामर्श आदि गुरुतर सामग्री प्रयोज्य होती है अर्थात आधारित होती है । अतः उसमें गौरव है । उसकी अपेक्षा प्रश्लेष मानने में ही लाघव है । अतः मनोरमाकार ने आकार का प्रश्लेष ही कहा ।
मनोरमा में आगे 'न च' इत्यादि से प्रश्न होता है कि नाज्झलौ में दीर्घ आकार का प्रश्लेष मानने पर भी 'वियाउसो' में यकारोत्तरवर्ती आकार को सम्बोधनवाक्यघटक - गुरुहोने से 'गुरोरनृत' सूत्र से प्लुत होता है । एवञ्च प्लुत उस आकार से परे सन् के सकार को अर्थात् 'सो' के सकार को षत्व तो होगा ही । क्योंकि 'नाज्झलौ' में अच् से हस्व अकार का तथा प्रश्लेष से दीर्घ आकार का ही ग्रहण है तो ह्रस्व तथा दीर्घ आकार की ही हकार के साथ सवर्णसंज्ञा का निषेध होगा । प्लुत आकार इण् कहलाएगा तो उससे परे 'सो' के सकार को षत्व होना ही चाहिए था । क्यों नहीं होता । मनोरमाकार इस प्रश्न के उत्तर में कहते हैं कि वहाँ आश्च आश्च ऐसा द्वन्द्वसमास करके बचे हुए दोनों आकार को सवर्णदीर्घ हुआ है । अत: वहाँ दीर्घ आकार से परे प्लुत आकार भी प्रश्लिष्ट है ऐसा व्याख्या से समझना चाहिए ।
अब प्रश्न होता है किसके व्याख्यान से वहाँ प्लुत आ उकार का प्रश्लेष मानें? तो इस पर शब्दरत्नकार कहते हैं
शब्दरत्न - व्याख्यानादिति । एवं व्याख्याने मानं तु प्रयत्नभेदेन 'नाज्झलौ' इत्येतत्प्रत्या - ख्यानपरं भाष्यम् । तद्ध्वनयन् वक्ष्यति 'सूत्रं मास्त्विति भाष्ये स्थितम्' इति ।
इस प्रकार के व्याख्यान में प्रमाण है 'प्रयत्नभेद से इस सूत्र का प्रत्याख्यान परकभाष्य । भाष्यकार ने 'शल' प्रत्याहार घटक वर्णों का 'ईषद्विवृत' आभ्यन्तर प्रयत्न, तथा अच् का विवृत आभ्यन्तर मानकर इस सूत्र का प्रत्याख्यान कर दिया । क्योंकि उपर्युक्त रीति से शल् प्रत्याहार घटक हल् वर्णों का तथा अच् का जब आभ्यन्तरप्रयत्न तुल्य ही नहीं है तो सवर्णसंज्ञा की प्राप्ति ही नहीं रही । पुनः अच् की हल् के साथ सवर्णसंज्ञा का निषेध करने के लिए इस सूत्र की क्या आवश्यकता? अर्थात् कोई नहीं । एक बात यहाँ यह ध्यान रखने की है कि किसी वचन का प्रत्याख्यान तभी उचित माना जाता है जब उस वचन से जिस फल की सिद्धि होती हो, उस फल की सिद्धि उस वचन के नहीं रहने पर भी किसी दूसरे प्रकार से हो जाए । प्रकृत में यदि 'नाज्झलौ' सूत्र में प्लुत आकार का प्रश्लेषण नहीं मानते हैं और सूत्र रहता है तो इसका फल यह होगा 'प्लुत आकार का हकार के साथ सवर्णसंज्ञा होगी । ' (क्योंकि प्लुत आकार का प्रश्लेष नहीं होने से उसकी हकार के साथ सवर्ण संज्ञा का निषेध यह सूत्र नहीं करेगा)। जबकि प्रयत्न - भेद से सूत्र का जब प्रत्याख्यान हो जाता है अर्थात् सूत्राभावस्थिति में सभी प्रकार के अकार की हकार के साथ सवर्णसंज्ञा का अभाव रूप फल सिद्ध होता है । क्योंकि सभी प्रकार के अकार का आभ्यन्तर प्रयत्न विवृत ही है तो प्रयत्नभेदात् किसी भी अकार की हकार के साथ सवर्ण संज्ञा नहीं होगी । इस प्रकार सूत्र के रहने पर जिस फल की सिद्धि हो रही थी, (प्लुत आकार तथा हकार की सवर्ण संज्ञा) उस फल की सिद्धि प्रयत्नभेदेन प्रत्याख्यान से नहीं होने से प्रत्याख्यान असंगत हो जाएगा । परन्तु भाष्यकार ने प्रत्याख्यान तो इस सूत्र का किया है । अतः प्रत्याख्यान को संगत बनाने के लिए यह मानना पड़ेगा कि 'नाज्झलौ' सूत्र में प्लुत आकार का भी प्रश्लेष है । तब सूत्र रहने पर भी सभी प्रकार के अकार की हकार के साथ सवर्ण संज्ञा का अभाव हो जाएगा जो कि प्रयत्नभेदेन भी हो जाता है । अतः सूत्र का प्रत्याख्यान उचित ही होगा । शब्दरत्नकार आगे कहते हैं कि इसी बात को ध्वनित करते हुए मनोरमाकार सवयं कहेंगे ‘सूत्रं मास्तु इति भाष्ये स्थितम् । '
मनोरमा - यणादिकमिति । शीतलशब्दे सवर्णदीर्घ आदिशब्दार्थः ।
शब्दरत्न - शीतलशब्दे इति । शस्य ईकारे परे, दधीतीकारस्य शकारे परे चेत्यर्थः । न च शीङः शकारोच्चारणेन तच्छकारस्येकारे न दीर्घ इति वाच्यम् । शीतलशब्दे शीङोऽभावात् । किंतु श्याधातोः क्ते 'द्रवमूर्तिस्पर्शयोः श्य:' (पा. सू.६.१.२४) इत्यनेन सम्प्रसारणे 'श्योऽस्पशें' (पा.सू. ८.२.४७) इत्युक्तेर्नत्वाभावे च निष्पन्नाश्च्छीतशब्दात् सिध्मादित्वाल्लचि शीतलशब्द इत्यदोषात् । शीतशब्दो हि सिध्मादिषु गणरत्ने वृत्तौ च पठ्यते । किंच तेनापूर्ववचन कल्पनापेक्षया सूत्रोदाहरणत्वमेव तस्य युक्तमिति भावः ।
कौमुदी में जो कहा गया कि अच् और हल् की परस्पर सवर्ण संज्ञा का निषेध हो जाने से 'दधि' शब्द से हरति शीतलम् षष्ठम्, सान्द्रम्, इन सबके पर होने पर भी यणादि नहीं होता । इसमें 'यणादि' में आदि शब्द से किस कार्य का ग्रहण होगा ? इसे बताते हुए मनोरमाकार कहते हैं - 'शीतलशब्दे सवर्णदीर्घ आदिशब्दार्थः। ' शब्दरत्नकार अपनी पण्डिताई दिखाते हुए मनोरमोक्त 'शीतलशब्दे' के दो अर्थ करते हैं । एक तो 'शीतलशब्दे परे दधि इति इकारस्य सवर्णदीर्घो न’ । अर्थात 'दधि' शब्द से 'शीतल' शब्द के परे होने पर भी 'दधि' के इकार को शीतल शब्द के शकार के साथ सवर्ण दीर्घ नहीं हुआ। क्योंकि इकार तथा शकार का यद्यपि उच्चारण स्थान तथा आभ्यन्तरप्रयत्न (विवृत) एक है तथापि शकार के हल होने से इस 'नाज्झलौ' सूत्र से उन दोनों की (इकार शकार की) परस्पर सवर्ण संज्ञा का निषेध हो जाने से इकार से परे सवर्णी नहीं रहा ।
शब्दरत्नकार 'शीतले' का दूसरा अर्थ करते हैं । 'शीतल' इस शब्द में जो श्कार से परे ईकार (मात्रा वाला) है उस ईकार के परे श्कार को सवर्णदीर्घ नहीं हुआ 'अच् हल् की सवर्णसंज्ञा का निषेध होने से। ' शब्दरत्न में अब 'न च' से, दूसरे वाले उदाहरण अर्थात् 'शीतल' के 'शी' में जो श्कार तथा ईकार का सवर्ण दीर्घ नहीं हुआ। उस पर प्रश्न करते हैं कि धातु पाठ में 'शी' ऐसा पाठ है । इस पाठ में ईकार के पर होने पर भी श्कार का उच्चारण किया गया (सवर्णदीर्घ होता तो 'ई' मात्र सुनाई पड़ता है । इससे यह कल्पना करेंगे कि 'शीतल' शब्द के 'शी' में श्कारको ईकार के परे दीर्घ नहीं होता है । इसे नाज्झलौ के निषेध का फल क्यों मानें।
शब्दरत्नकार इसका खण्डन करते हुए कहते हैं कि 'शीतल' शब्द में 'शीङ्' धातु नहीं है कि आप उसके आधार पर उपर्युक्त कल्पना कर सको। 'शीतल' शब्द तो 'श्या' धातु से 'क्त' प्रत्यय होने पर 'द्रवमूर्तिस्पर्शयोः श्य:' इस सूत्र से 'य'कार को सम्प्रसारणहोकर पूर्वरूप दीर्घ होकर 'शीत' ऐसा बनता है । यहाँ 'क्त' के तकार को 'श्योऽस्पर्शे' इस सूत्र में 'अस्पर्शे' इस उक्ति के कारण नत्व नहीं होता । इस प्रकार निष्पन्न 'शीत' शब्द से सिध्मादित्वात् 'लच्' प्रत्यय होकर शीतल शब्द बनता है । इस प्रकार यहाँ 'शीङ्' धातु ही नहीं है तो उसमें शकरोच्चारण के सामर्थ्य का आश्रय लेकर सवर्णदीर्घापत्ति का वारण नहीं हो सकता । उसका वारणतो इसी सूत्र से होगा । इस प्रकार कोई दोष नहीं है । शब्दरत्नकार तुष्यतुदुर्जनन्याय से किंच से कहते हैं कि - यदि कथञ्चित ‘शीतल' शब्द में शीङ् धातु मान भी लो तो उसके आधार पर 'अपूर्व वचन' की कल्पना करने की अपेक्षा अर्थात् 'शीङ् में शकारोच्चारणसामर्थ्यात् ईकारे परे श्कारस्य न सवर्णदीर्घः' ऐसे अपूर्ववचन की कल्पना करने की अपेक्षा उसे सूत्र का उदाहरण अर्थात् अच् हल् की सवर्णसंज्ञा के निषेध का उदाहरण मानना ही युक्त है ।
॥ लघुशब्देन्दुशेखरः - संस्कृतव्याख्या ॥
अकारहकारयोरिति । एकारस्य तालव्यत्वमोकारस्योष्ठ्यत्वमिति मते एकार-शकारादीनामप्युपलक्षणमिदम् । एतेन 'नाकालौ' इत्येव सूत्रयितुमुचितमित्यपास्तम् । 'हशि च' (६.१.११४) इत्येव सिद्धे 'अतो रो:' (६.१.११३) इत्याकारे व्यावृत्त्यर्थम् ।
सूत्रे द्विवचनोपपत्तये मध्यमपदलोपिसमासं दर्शयति - कारसहित इति । अत एव 'बैलासु' इति निर्देश उपपद्यते । समाहारद्वन्द्वे तु टच्प्रसङ्गोऽज्झलिति समाहारद्वन्द्व कृत्वा आ-पदेन द्वन्द्वे तु अभिरप्याकारस्य सावण्यं न स्यादिति भावः । अत एव भाष्ये प्रयत्नभेदेनैषां सावर्ण्यभावः साधितः ।
एतेषु परेष्विति । इदमुपलक्षणम् । एतेषु विद्यमानस्येत्यपि बोद्धयम् । तेन हका- रादीनामकारादिषु परतो दीर्घादिसङ्ग्रहः ।
अच्त्वं स्यादिति । अच्पदबोद्धयत्वं स्यादित्यर्थः । इवं प्रत्याहारघटकेष्वपि ग्राहकशास्त्रप्रवृत्तिरिति मते व्यक्तिपक्षे च बोद्धधम् ॥
नाज्झलौ । एकारस्येति । अकारहकारयोः इका रशकारयोः क्रमेण कण्ठस्थानकत्वेन तालुस्थानकत्वेन यावत्स्थानप्रयत्नसाम्यात् सवर्णसंज्ञा यथा प्राप्ता तथा एकारस्य केवल- तालुस्थानकत्वम्, ओकारस्य केवलोष्ठस्थानकत्वमिति बहुवृच प्रातिशाख्यमते एकारशकारयोः ओकारोपध्मानीययोः परस्परं सवर्णसंज्ञा प्राप्नोति । तत्प्रतिषेधाय नाज्झला- विति सूत्रम् । ‘नाक्शलौ' इत्येवं सूत्रकरण तु अक्प्रत्याहारे एकारस्य ओकारस्य च पाठाभानेन पूर्वोक्तरीत्या प्राप्तायाः सवर्णसंज्ञायाः निषेधो न स्यात्; अक्-शलोरेव सवर्ण- संज्ञायाः तथान्यासे प्रतिषेधात् । अतस्तादृशो न्यासो न कृतः ।
नच ह्काराकारयोः परस्परं सावर्ण्ये हकार ग्रहणेन अकारस्यापि ग्रहणाद् रामोऽस्तीत्यादी 'हशि च' इत्यनेनैव उत्वे सिद्धे 'अतो रोरप्लुतात्' इति सूत्रारम्भो व्यर्थः । तत्सामर्थ्याद् अज्झलोः सावण्यं न भवतीति ज्ञाप्यते। तथा च 'नाज्झलो' इति सूत्रं व्यर्थमिति वाच्यम्, हकारभिन्ने स्वसवर्णे परस्मिन् सति ह्रस्वाकारात् परस्य रोः उत्वञ्चेत् तदा परस्मिन् ह्रस्वत्वविशिष्टे अकारे सत्येवेति नियमबोधनाय 'अतो रो:' इत्यस्य चारितार्थ्यात् । एतन्नियमाभावे तु श्वः आगन्ता इत्यादावपि हकारस्य आकारेणापि सह सावर्थ्याद् उत्वापत्तेः । एकारस्य केवलतालुस्थानकत्वपक्षे इकारेण सह तस्य सवर्ण- संज्ञा प्राप्नोत्येव । अचो हला सह परस्परं सवर्णसंज्ञायाः 'नाज्झलौ' इत्यनेन निषेधेऽपि अचोः परस्परं सवर्णसंज्ञायाः प्रतिषेधे तस्याप्रवृत्तेः । तथा च एतत्सिद्धये एकारस्य विवृततरः प्रयत्न आस्थेयः । अतः प्रयत्नभेदात् सवर्णसंज्ञा न भवति ।
अत्र सूत्रे अच् - पदेन वर्णसमाम्नाये पठितस्य ह्रस्वाकारस्यैव ग्रहणम् एतस्य सूत्रस्य वाक्यार्थबोधकाले अणुदित्सूत्रस्य वाक्यार्थबोधाभावेन अणुदित्सूत्र सहकारेण दीर्घाकारादीनां ग्रहीतुमशक्यत्वात् । अत एव 'न स्वस्मिन् न स्वाङ्गे' इत्युक्तं भाष्ये । तथा च आकारहकारयोः सावण्यं प्रसक्तमेवेति तद्वारणाय नाज्झलो इत्यत्र प्रश्लेषः, तत्र आ च अच् च हल् चेति द्वन्द्वे सति बहुवचनं प्रसज्येत। अतो मध्यमपदलोपिसमासेन व्याचष्टे परममूले - आकारसहित इति । नच आ च अच् चेत्यनयोः समाहारद्वन्द्वं कृत्वा ततो हल्पदेन सह इतरेतरयोगद्वन्द्रे द्विवचनस्योपपत्तिः स्यादिति वाच्यम्; तथा सति 'द्वन्द्वाच्चदसहान्तात् समाहारे' इत्यनेन टचि आच इति रूपं स्यात् । तस्य हल्पदेन समासे चकारे अकारः श्रूयेत । नच अच् च हल् चेत्येवं समाहारे कृते ततः आकारेण सह इतरेतरयोग - द्वन्द्वे न टचः प्रसङ्गः, अन्ते चकाराभावात् । एवं सति द्विवचनमप्युपपद्यते इति वाच्यम्; आकारस्य हल्भिरिव अज्भिरपि सह सवर्णसंज्ञायाः प्रतिषेधः प्राप्नुयात् । समस्तयोः अज्झलोरेकदेशे एव हलि आकारस्य प्रश्लिष्टस्यान्वयः कर्तुमशक्यः । इष्यते च अज्भिः सह आकारस्य सवर्णसंज्ञा । किश्ञ्च, अज्झलोः समाहारे कृते 'स नपुंसकम्' इति नपुंसकत्वनियमेन आकारेण सह इतरेतरयोगे 'परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' इत्यनेन परवल्लिङ्ग- तायां नपुंसकत्वापत्तिश्च ।
अतएव अचां हल्भिः सह प्रयत्नभेदात् सावर्ण्यभावं संसाध्य सूत्रं प्रत्याख्यातं भाष्यकृता । अन्यथा भाष्यमते आकारस्य अकारेण सह प्रयत्नभेदाभावात् सावण्यं सूत्रमते पूर्वोक्त समासपक्षे तन्निषेधात् सावर्ण्याप्रसक्तिरिति परस्परं मतभेदः स्यात् । अतः पूर्वोक्तसमासरीतिरेव साधीयसी इति तात्पर्यम् । एतेन एकारस्य शकारेण सह सावण्यंदोषेण । अतो रोरित्याकारे इति । अतो रोरप्लुताद् इत्यंशस्य हृशि चेत्यत्र अनुवृत्त्यर्थमावश्यकत्वेऽपि अप्लुतेऽति इत्यंश इति भावः । अत एव आकारप्रश्लेषादेव । द्वन्द्वे तु इति । इतरेतर- योगे इति पूरणीयम् । अत एव दीर्घप्लुतयोः ह्रस्वाकारेण सह सावर्ण्यंस्येष्टत्वादेव । दधि हरति, दधि शीतलमित्येतत्पदद्वयप्रयोजनप्रदर्शनापेक्षया एकस्मिन् एव पदे हरतीत्यत्र हकाराकारयोः सावर्ण्ये, शीतलमित्यत्र शकारेकारयोः सावण्य च दीर्घस्य दोषस्य सम्भवात् पदद्वये दोषदानमनावश्यकमित्याह- इदमुपलक्षणम् । परेषु इति विद्यमानेषु इत्युपलक्षयति । अतस्तेषामपि संग्रहः । अच्पदस्य प्रत्याहारबोध्यवर्णानां बोधकतया संज्ञारूपतया ततः त्वप्रत्यये स्वरूपस्य तस्य बोधः स्यात् । अत आह-अच्पदेति । 'उच्चारित एव शब्दोऽयं प्रत्याययति नानुच्चारितः' इति न्यायमनादृत्य प्रत्याहारघटकेषु प्रत्याहारेण बोध्याः घटकाः येऽनुच्चारिता द्वितीयादिवर्णाः तेष्वपि, ग्राहकशास्त्रस्य अणुदित्सूत्रस्य । जातिपक्षे तु इत्वशकारत्वजातेर्भेदादेव दोषाभावात् नाज्झलावित्यस्य अनारम्भ एव ।
॥ लघुशब्देन्दुशेखरः - हिन्दी ॥
अकारहकारयोरिति । “एकारस्य तालव्यत्वमोकारस्योष्ठ्यत्वमिति मतेएकारशकारादीनामप्युपलक्षणमिदम् । एतेन 'नाक्शला' इत्येव सूत्रयितुमुचितमित्यपास्तम् । 'हशि चे 'त्येव सिद्धे' ऽतोरोरि' त्याकारे व्यावृत्त्यर्थम् । सूत्रे द्विवचनोपपत्तये मध्यमपदलोपिसमासं दर्शयति - आकारसहित इति । अत एव 'वेलास्वि'ति निर्देश उपपद्यते । समाहारद्वन्द्वे तु टच्प्रसङ्गः, अज्झलिति समाहारद्वन्द्वं कृत्वा आपदेन द्वन्द्वे तु अभिरप्याकारस्य सावर्ण्य न स्यादिति भावः । अत एव भाष्ये प्रयत्नभेदेनैषां सावर्ण्यभावः साधितः । एतेषु परेष्विति । इदमुपलक्षणम् - 'एतेषु विद्यमानस्ये' त्यपि बोद्ध्यम्, तेन हकारादीनामकारादिषु परतो दीर्घादिसङ्ग्रहः । अच्त्वं स्यादिति । अच्पदबोद्ध्यत्वं स्यादित्यर्थः । इदं 'प्रत्याहारघटकेष्वपि ग्राहकशास्त्रप्रवृत्तिरिति मते व्यक्तिपक्षे च बोध्यम् ।
“तुल्यास्यप्रयत्नं सवर्णम्” इस सूत्र से समान स्थान और प्रयत्न वाले वर्णों की सवर्ण संज्ञा की जाती है । ऐसी स्थिति में समान स्थान और प्रयत्न वाले अच् वर्णों की हल् वर्णों के साथ सवर्ण संज्ञा होनी चाहिए । इसी अभिप्राय से दीक्षितजी ने कौमुदी में कहा है कि “अकारहकारयोः” इत्यादि । तात्पर्य यह है कि “अकार और हकार, इकार और शकार, ऋकार और षकार तथा लृकार और सकार” - इन वर्णों का परस्पर स्थान और आभ्यन्तर प्रयत्न समान हैं । इसलिए इनकी परस्पर सवर्ण संज्ञा की प्राप्ति होती है । दीक्षितजी का प्रस्तुत वाक्य न केवल उक्त आठ वर्णों की ही परस्पर सवर्ण संज्ञा की आशंका से कहा गया है अपितु यह एकार और शकारादि का भी उपलक्षण (बोधक) है । कारण यह है कि बढ्च् प्रातिशाख्य में कहा हुआ है कि “तालव्यावेकारचवर्गाविकारैकारौ यकारः शकारः शेष औष्ठ्योपपादयितव्यः” । तात्पर्य यह है कि एकार, चवर्ग, इकार, ऐकार, यकार और शकार -ये वर्ण तालव्य हैं और इन से शेष वर्ण औष्ठ्य हैं । इसके अनुसार एकार और शकार की भी स्थान और प्रयत्न की एकता के कारण सवर्ण संज्ञा प्राप्त होती है । यदि इनकी सवर्ण संज्ञा हो जायेगी तब “पर्यङ्के शेते”, “करवावहै शयनम्” इन प्रयोगों में अय् और आय् आदेश की आपत्ति हो जायेगी । इस प्रकार हकारादि वर्णों के साथ अकारादि वर्णों की सवर्ण संज्ञा की प्राप्ति होने पर उसके निवारण के लिए पाणिनि का “नाज्झलौ” यह सूत्र प्रस्तुत होता है । इसके द्वारा दीर्घ और प्लुत अकार और अच् की हल् वर्णों के साथ सवर्ण संज्ञा का निषेध कर दिया जाता है, जिससे “दधि + हरति” आदि प्रयोगों में यणादि की आपत्ति नहीं रहती है ।
न्यासकार ने “नाज्झलौ” की जगह “नाक्शलौ” ऐसा न्यास करना चाहिए, ऐसा कहा था । उनका तात्पर्य यह रहा होगा कि तीनों सकार और हकार इन चार वर्णों की ही अकारादि चार वर्णों (अ, इ, ॠ, लृ) के साथ स्थान और प्रयत्न की एकता के कारण सवर्ण संज्ञा प्राप्त होती है । ये चारों वर्ण अक् प्रत्याहार में आते हैं और तीनों शकार और हकार - ये शल् प्रत्याहार में आते हैं । इसलिए “नाक्शलौ” यही न्यास उचित है । किन्तु न्यासकार का यह कथन इसलिए ठीक नहीं है कि न केवल उपर्युक्त चार स्थानों में ही सवर्ण संज्ञा की प्राप्ति होती है अपितु एकार और शकार की भी सवर्ण संज्ञा की प्राप्ति होती है, जैसा की ऊपर बताया जा चुका है । ऐसी स्थिति में “नाक्शली” इस न्यास से कार्य नहीं चल सकता है, इसलिए “नाज्झलौ” यही न्यास ठीक है । यहाँ “एतेन” इस पद का अर्थ है - “पर्यङ्के शेते” इत्यादि प्रयोगों में एकार और शकार विषयक सवर्ण संज्ञा के दोष के कारण न्यासकार का कथन परास्त है । यदि कहा जाय कि अकार और हकार की सवर्ण संज्ञा यदि हो जाय तो “शिवोऽर्च्य” इस प्रयोग में हकारग्रहणेन अकार का ग्रहण करके “हशि च” इस सूत्र से ही रुके स्थान पर ठकार करके कार्य चल सकता है । ऐसी स्थिति में अतो रो” यह सूत्र व्यर्थ होकर अच् और हल की परस्पर सवर्ण संज्ञा नहीं होती है, ऐसा ज्ञापन कर देगा । इस प्रकार “नाज्झलौ” यह सूत्र अनावश्यक है ? तो इस शंका के उत्तर में नागेश भट्ट का कहना है कि “अतो रो” यह सूत्र व्यर्थ नहीं है, वह तो “श्व आगन्ता” इस प्रयोग में जहाँ दीर्घ आकार पर में है वहाँ रुत्व को उत्व की व्यावृत्ति के लिए सार्थक है । “अति” इस पद में तपरकरण से दीर्घ आकार पर में रहने पर इसकी प्रवृत्ति वहाँ नहीं होती है । इस प्रकार दीर्घ आकार में उत्व की व्यावृत्ति के लिए सार्थक “अतो रो” यह सूत्र अच् और हल् के सावर्ण्यभाव का ज्ञापक नहीं हो सकता, इसलिए “नाज्झलौ “यह सूत्र आवश्यक है । इस सूत्र में “आज्झलौ” इस पद में द्विवचन की उपपत्ति के लिए कौमुदीकार ने कहा है - “आकारसहितोऽय् आय् यहाँ मध्यमपद “सहित” का लोप कर दिया गया है । इस प्रकार यहाँ मध्यमपदलोपी समास है । इस सूत्र में पूरी समास की प्रक्रिया इस प्रकार है - “आरश्च आ३श्च इति औ” । दीर्घ और प्लुत आकारों को दीर्घ करके आ शब्द से औ विभक्ति लाने पर वृद्धि करने से “औ” यह रूप बनता है । इसके बाद “आभ्यां सहित:” इस विग्रह में “कर्तृकरणे कृता” इस सूत्र से समास करके “आसहितः” इस पद की सिद्धि होती है । तत्पश्चात् “आसहितश्चासौ अव चेति आ” यह मध्यमपदलोपी समास होता है । इसके बाद आच् च चेति आलो इस द्विवचनान्त पद की निष्पत्ति होती है । सूत्र में न आज्जलौ ऐसा पदच्छेद है ।
इस उपर्युक्त प्रक्रिया से स्पष्ट है कि आज्झली इस पद में दीर्घ और प्लुत आकार भी प्रश्लिष्ट हैं । इसका परिणाम यह होता है कि दीर्घ और प्लुत आकार तथा अच् की हल् के साथ सवर्ण संज्ञा नहीं होती । इसका फल यह होता है कि 'कालममयवेलासु तुमुन” इस सूत्र में “वेलासु” यह निर्देश संगत होता है । अन्यथा दीर्घ आकार की हल के साथ सवर्ण संज्ञा का निषेध न करने पर उन दोनों की परस्पर सवर्ण संज्ञा हो जाती । इसका परिणाम यह होता कि “आदेशप्रत्यययोः” सूत्र के इण् पद से हकार के सवर्णी आकार का ग्रहण करके उससे पर में “वेलासु” के सकार को मूर्धन्य षकार हो जाता । इस प्रकार आकार के प्रश्लेष का यह फल है ।
यहाँ सन्देह होता है कि यदि आकार का अच् के साथ समाहार द्वन्द्व कर दिया जाय और उसके बाद हल पद के साथ इतरेतरयोगद्वन्द्व किया जाय, तब भी “नाज्झलौ” इस सूत्र में द्विवचन की उपपत्ति हो सकती हैं । ऐसी स्थिति में यहाँ मध्यमपदलोपी समास क्यों किया गया ? इस शंका के उत्तर में नागेश भट्ट का कहना है कि यदि यहाँ समाहारद्वन्द्व किया आजायेगा तो 'इन्द्वाच्युपहान्तात् सूत्र से टच् प्रत्यय होने लगेगा, जिससे सूत्र का स्वरूप ही नहीं बन सकेगा । आ और अच् का इतरेतरयोग इन्द्र करने पर टच की प्राप्ति नहीं होगी, किन्तु उसके बाद जब हल् पद के साथ “आचौ च हल च” इस विग्रह में इतरेतरयोग द्वन्द्व किया जायेगा तब बहुवचनापत्ति होगी । यद्यपि अच् और हल का पहले समाहार द्वन्द्व करके “अज्झल्” इस पद का 'आ' पद के साथ इतरेतरयोग द्वन्द्व करके “आज्झलौ” यह निर्देश बनाया जा सकता है, तथापि यह प्रक्रिया इसलिए ठीक नहीं है कि ऐसा करने पर सूत्रार्थ इस प्रकार होगा कि “अज्झल् की आकार के साथ सवर्ण संज्ञा नहीं होती है”। इस प्रकार अच् के साथ भी आकार की सवर्ण संज्ञा नहीं हो सकेगी । इसे इष्टापत्ति नहीं कह सकते अर्थात् आकार की अच् के साथ सवर्ण संज्ञा नहीं होती है, ऐसा स्वीकार नहीं किया जा सकता; क्योंकि ऐसा करने से “दैत्यारिः” आदि प्रयोगों में सवर्णदीर्घ की अनापत्ति आदि अनेक दोष उपस्थित हो जायेंगे । अत एव = दीर्घ और प्लुत आकार का प्रश्लेष करके हल के साथ उनके सावर्ण्य का निषेध करने से ही यह बात संगत होती है कि आकार सहित अच् और हल् की परस्पर सवर्ण संज्ञा के निषेध में ही सूत्रकार का तात्पर्य है । इसीलिए भाष्यकार ने अच् प्रत्याहार के वर्णों का विवृत और शल् प्रत्याहार के वर्णों का ईषद्विवृत प्रयत्न मान कर प्रयत्नभेद के आधार पर इनके सावर्ण्यभाव को सिद्ध किया है । यदि अकार और आकार का भी सावर्ण्यभाव सूत्रकार को अभिप्रेत होता तो भाष्यकार के द्वारा उसका भी संकेत किया गया होता ।
“नाज्झलौ” इस सूत्र का उदाहरण देते हुए कौमुदीकार ने कहा है कि “दधि” के आगे “हरति”, “शीतलम्” “षष्ठम्” और “सान्द्रम्” के पर में रहने पर यणादि कार्य नहीं हुए। यहाँ यणादि के आदि शब्द से सवर्णदीर्घ का ग्रहण करना चाहिए, क्योंकि यदि इकार और शकार की सवर्ण संज्ञा हो जाती तो “दधि + शीतलम्” इस स्थिति में सवर्णदीर्घ होने लगता । कौमुदी में जो “इत्येतेषु परेषु” में “परेषु” यह पद है वह “हरति” इत्यादि पदों में विद्यमान अचों का उपलक्षण है । तात्पर्य यह है कि यदि अच् और हल की सवर्ण संज्ञा हो जाती तो “हरति “आदि पदों में विद्यमान अचों के आधार पर भी सन्धिकार्य होने लगता । जैसे - हरति में हकार के आगे अकार को लेकर हकार और अकार का सवर्णदीर्घ होने लगता । इसी प्रकार शीतल शब्द में शकार के आगे ईकार को लेकर शकार और ईकार के स्थान पर सवर्णदीर्घ होने का प्रसंग था । इसी प्रकार “षष्ठम्” और “सान्द्रम्” पदों में यण् की आपत्ति हो सकती थी, किन्तु “नाज्झलौं” सूत्र से अच् और हल् की सवर्ण संज्ञा का निषेध होने के कारण ये सभी कार्य न हो सके ।
दीक्षितजी ने कौमुदी में कहा है कि यदि “नाज्झलौ” सूत्र नहीं रहता तो जिस प्रकार ग्रहणक - सूत्र के बल से दीर्घादि में अच्त्व धर्म आ जाता है, उसी प्रकार हकारादि में भी अच्त्व आ जाता ।
यहाँ प्रश्न होता है कि दीर्घ आकारादि तो स्वयं अच् हैं, इसलिए उनमें अच् का धर्म अच्त्व तो स्वयं सिद्ध है, किन्तु हकारादि हल् वर्णों में अच् का धर्म अच्त्व कैसे आयेगा ? नागेश भट्ट इस प्रश्न का उत्तर देते हुए कह रहे हैं कि यहाँ “अच्त्वं स्यात्” इस वाक्य का अर्थ है - “अच्मदबोध्यत्वं स्यात्” अर्थात् यदि अच् और हल् की सवर्ण संज्ञा का निषेध नहीं किया गया होता तो जिस प्रकार वर्णसमाम्न्याय में अपठित दीर्घादि अच्पदबोध्य होते हैं, उसी प्रकार अकारादि के सवर्णी हकारादि भी अचुपदबोध्य हो जाते । हल में अनिष्ठ धर्म अच्त्व तो यत्नसहस्र से भी नहीं लाया जा सकता, किन्तु सवर्ण संज्ञा के आधार पर हकारादि वर्णों की अच्पदबोध्यता तो हो ही जाती ।
अब यहाँ एक यह विचार उपस्थित होता है कि “उच्चारितः शब्दः प्रत्यायको भवति नानुच्चारितः” यह एक नियम है । इस नियम के आधार पर अच् पद में उच्चारित अकार अपने सवर्णों का प्रत्यायक (बोधक) हो सकता है, किन्तु इकारादि वर्ण, जो अनुच्चारित हैं, वे अपने सवर्णी के प्रत्यायक किस प्रकार होंगे ? ऐसी स्थिति में शकारादि वर्णों में अच्पदबोध्यत्व की आशंका से कहा गया “हकारादि” पद में आदि ग्रहण की क्या आवश्यकता है ? इसका उत्तर देते हुए शेखरकार का कहना है कि इदम् = हकारादि वर्णों में 'अणुदित्' सूत्र से जो अच्पदबोध्यत्व के आपादन की बात है, वह इस आशय से कही गई है कि प्रत्याहारघटक और अनुच्चारित द्वितीयादि वर्णों में भी अणुदित् सूत्र की प्रवृत्ति होती है । प्रस्तुत में इकारादि वर्ण, जो अनुच्चारित हैं, उनमें भी “अणुदित्” सूत्र की प्रवृत्ति हो सकती है और वह भी अपने सवर्णी का बोधक हो सकता है । इसीलिए “हकारादीनाम्” इस पद में आदिग्रहण करके उससे शकारादि का ग्रहण किया जाता है । यदि “नाज्झलौ” सूत्र नहीं रहता तो दीर्घादि की भाँति शकारादि भी अच्पदबोध्य होने लगते ।
यह सारा शंका - समाधान व्यक्तिपक्ष में ही है, क्योंकि जातिपक्ष में तो इत्व और शत्व जाति के भिन्न - भिन्न होने से इकार आदि वर्णों से शकार आदि के ग्रहण का प्रश्न ही नहीं होता है ।
॥ महाभाष्यम् ॥
(९. सज्ञानिषेधसूत्रं परिभाषासूत्रं वा १.१.४ आ. ७)
नाज्झलौ १.१.१०
(१४४. आक्षेपवार्त्तिकम् - १) * अज्झलोः प्रतिषेधे शकारप्रतिषेधोऽज्झल्त्वात् *
भाष्यम् - अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति । किं कारणम् ? अज्झल्त्वात् । अच्चैव हि शकारो हल्च । इकारः सवर्णग्रहणेन शकारमपि गृह्णातीत्येवमच्त्वम् । हल्षु चोपदेशाद्धल्त्वम् ।
वार्तिकांशावतरणभाष्यम् - तत्र को दोषः ?
(१४५. आक्षेपसाधकवार्तिकम् - २) * तत्र सवर्णलोपे दोषः *
भाष्यम् - तत्र सवर्णलोपे दोषो भवति । परश्शतानि कार्याणि ' झरो झरि सवर्णे ' इति लोपो न प्राप्नोति ।
(१४६. समाधानवार्त्तिकम् - ३) * सिद्धमनच्त्वात् *
भाष्यम् - सिद्धमेतत् ? कथम् ? अनच्त्वात् । कथमनच्त्वम् । ' स्पृष्टं करणं स्पर्शानाम् ' । ' ईषत्स्पृष्टमन्तः स्थानाम् ' । ' विवृतमूष्मणाम् ' । ईषदित्येवानुवर्तते । ' स्वराणां च ' विवृतम् । ईषदिति निवृत्तम् ।
(१४७. समाधानान्तरवार्त्तिकम् - ४) * वाक्यापरिसमाप्तेर्वा *
भाष्यम् - वाक्यापरिसमाप्तेर्वा पुनः सिद्धमेतत् । किमिदं वाक्यापरिसमाप्तेरिति ? वर्णानामुपदेशस्तावत् । उपदेशोत्तरकाला इत्सञ्ज्ञा । इत्सञ्ज्ञोत्तरकालः ' आदिरन्त्येन सहेता ' इति प्रत्याहारः । प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा । सवर्णसञ्ज्ञोत्तरकालम् ' अणुदित्सवर्णस्य चाप्रत्ययः ' इति सवर्णग्रहणम् । एतेन सर्वेण समुदितेन वाक्येनान्यत्र सवर्णानां ग्रहणं भवति । न चात्रेकारः शकारं गृह्णाति ।
आक्षेपभाष्यम् - यथैव तहींकारः शकारं न गृह्णाति । एवमीकारमपि न गृह्णीयात् । तत्र को दोषः ? कुमारी ईहते कुमारीहते, ' अकः सवर्णे ' (इति) दीर्घत्वं न प्राप्नोति ।
समाधानभाष्यम् - नैष दोषः । यदेतत् ' अकः सवर्णे दीर्घः ' इति प्रत्याहारग्रहणं, तत्रेकार ईकारं गृह्णाति, शकारं न गृह्णाति ।
व्याख्यान्तरभाष्यम् - अपर आह - ' अज्झलोः प्रतिषेधे शकारप्रतिषेधोऽज्झल्त्वात् ' । अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति । किं कारणम् ? अज्झल्त्वात् । अच्चैव हि शकारो हल्च । कथं तावदच्त्वम् ? इकारः सवर्णग्रहणेन शकारमपि गृह्णातीत्येवमच्त्वम्, हल्षु चोपदेशाद्धल्त्वम् । तत्र को दोषः ? ' तत्र सवर्णलोपे दोषः ' । तत्र सवर्णलोपे दोषो भवति । परश्शतानि कार्याणि । ' झरो झरि सवर्णे ' इति लोपो न प्राप्नोति । ' सिद्धमनच्त्वात् ' । सिद्धमेतत् । कथम् ? अनच्त्वात् । कथमनच्त्वम् ? ' वाक्यापरिसमाप्तेर्वा ' । उक्ता वाक्यापरिसमाप्तिः ।
आक्षेपभाष्यम् - अस्मन्पक्षे - वेत्येतदसमर्थितं भवति ।
समाधानभाष्यम् - एतच्च समर्थितम् । कथम् ? अस्तु वा शकारस्य शकारेण सवर्णसञ्ज्ञा, मा वा भूत् ।
आक्षेपस्मारणभाष्यम् - ननु चोक्तम् - परश्शतानि कार्याणि, ' झरो झरि सवर्णे ' इति लोपो न प्राप्नोति ।
आक्षेपबाधकभाष्यम् - भा भूल्लोपः ।
आक्षेपसाधकभाष्यम् - ननु च भेदो भवति - सति लोपे द्विशकारम्, असति लोपे त्रिशकारम् ।
आक्षेपबाधकभाष्यम् - नास्ति भेदः; असत्यपि लोपे द्विशकारमेव । कथम् ? विभाषा द्विर्वचनम् ।
आक्षेपसाधकभाष्यम् - एवमपि भेदः, असति लोपे कदाचिद् द्विशकारम्, कदाचित् त्रिशकारम् । सति लोपे द्विशकारमेव ।
तटस्थाक्षेपनिरासभाष्यम् - स्यात्, यदि नित्यो लोपः स्यात् । विभाषा तु स लोपः ।
तटस्थाक्षेपभाष्यम् - स एष कथं भेदो न ?
समाधानभाष्यम् - यथाऽभेदस्तथास्तु । नाज्झलौ ।
इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे चतुर्थमाह्निकम्प्रथमेऽध्याये प्रथमे पादे पञ्चममाह्निकम् ।

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know