शृंगारशतकं भर्तृहरिविरचितम् संस्कृत

शृंगारशतकं भर्तृहरिविरचितम्  संस्कृत

शृंगारशतकं भर्तृहरिविरचितम्  संस्कृत


 श‍ृंगारशतकं भर्तृहरिविरचितम् 


॥ श्री ॥


वसंततिलका


शम्भुः स्वयम्भुहरयो हरिणेक्षणानां

येनाक्रियन्त सततं गृहकर्मदासाः ॥

वाचामगोचरचरित्रविचित्रिताय

तस्मै नमो भगवते कुसुमायुधाय ॥ १॥

शिखरिणी

क्वचित्सुभ्रूभङ्गैः क्वचिदपि च लज्जापरिणतैः

क्वचिद् भीतित्रस्तैः क्वचिदपि च लीलाविलसितैः ॥

कुमारीणामेभिर्वदनकमलैर्नेत्रचलितैः

स्फुरन्नीलाब्जानां प्रकरपरिपूर्णा इव दिशः ॥ २॥

अनुष्टुभ्

मुग्धे! धानुष्कता केयमपूर्वा त्वयि दृश्यते ।

यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ ३॥

शिखरिणी

अनाघ्रातं पुष्पं; किसलयमलूनं कररुहै-

रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ॥

अखण्डं पुण्यानां फलमिव च तद्रूपमनघं

न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ ४॥शाकुन्तल

शिखरिणी

स्मितं किञ्चिद् वक्त्रे सरलतरलो दृष्टिविभवः

परिस्पन्दो वाचामभिनवविलासोक्तिसरसः ॥

गतानामारम्भः किसलयितलीलापरिकरः

स्पृशन्त्यास्तारुण्यं किमिह न हि रम्यं मृगदृशः? ॥ ५॥

शार्दूलविक्रीडित

व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना

नीलाब्जद्युतिनाऽहिना वरमहं दष्टो, न तच्चक्षुषा ॥

दष्टे सन्ति चिकित्सका दिशि-दिशि प्रायेण धर्मार्थिनो

मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥ ६॥

वंशस्थ

स्मितेन भावेन च लज्जया भिया

पराङ्मुखैरर्धकटाक्षवीक्षणैः ॥

वचोभिरीर्ष्याकलहेन लीलया

समस्तभावैः खलु बन्धनं स्त्रियः ॥ ७॥

शालिनी

भ्रूचातुर्याकुञ्चिताक्षाः कटाक्षाः

स्निग्धा वाचो लज्जिताश्चैव हासाः ॥

लीलामन्दं प्रस्थितं च स्थितं च

स्त्रीणामेतद् भूषणं चायुधं च ॥ ८॥

शार्दूलविक्रीडित

वक्त्रं चन्द्रविडम्बि पङ्कजपरीहासक्षमे लोचने

वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः ॥

वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली

वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥ ९॥

शार्दूलविक्रीडित

द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखं

घ्रातव्येष्वपि किं? तदास्यपवनः, श्रव्येषु किं? तद्वचः ॥

किं स्वाद्येषु? तदोष्ठपल्लवरसः; स्पृश्येषु किं ? तद्वपुः

ध्येयं किं? नवयौवनं सहृदयैः सर्वत्र तद्विभ्रमाः ॥ १०॥

वसन्ततिलका

एताश्चलद्वलयसंहतिमेखलोत्थ

झंकारनूपुरपराजितराजहंस्यः ॥

कुर्वन्ति कस्य न मनो विवशं तरुण्यो

वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ ११॥

दोधक

कुङ्कुमपङ्ककलङ्कितदेहा गौरपयोधरकम्पितहारा ।

नूपुरहंसरणत्पदपद्मा कं न वशीकुरुते भुवि रामा ? ॥ १२॥

वसन्ततिलका

नूनं हि ते कविवरा विपरीतबोधा

ये नित्यमाहुरबला इति कामिनीस्ताः ॥

याभिर्विलोलतरतारकदृष्टिपातैः

शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ? ॥ १३॥

अनुष्टुभ्

नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।

यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥ १४॥

शार्दूलविक्रीडित

केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने

अन्तर्वक्त्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः ॥

मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमा

वित्थं तन्वि! वपुः प्रशान्तमपि ते क्षोभं करोत्येव नः ॥ १५॥

अनुष्टुभ्

सति प्रदीपे सत्यग्नौ सत्सु नानामणिष्वपि ।

विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥ १६॥

शार्दूलविक्रीडित

उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते

रागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ॥

सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं

मध्यस्थाऽपि करोति तापमधिकं रोमावली केन सा ? ॥ १७॥

अनुष्टुभ्

मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।

पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ १८॥

अनुष्टुभ्

गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ।

शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ १९॥

वसंततिलका

तस्याः स्तनौ यदि घनौ, जघनं च हारि

वक्त्रं च चारु तव चित्त किमाकुलत्वम् ॥

पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा

पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ २०॥

वसन्ततिलका

सम्मोहयन्ति मदयन्ति विडम्बयन्ति

निर्भर्त्सयन्ति रमयन्ति विषादयन्ति ॥

एताः प्रविश्य सदयं हृदयं नराणां

किं नाम वामनयना न समाचरन्ति ॥ २१॥

रत्थोद्धता

तावदेव कृतिनां हृदि स्फुरत्येष निर्मलविवेकदीपकः ।

यावदेव न कुरङ्गचक्षुषां ताड्यते चटुललोचनाञ्चलैः ॥ २२॥

मालिनी

वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता

श्रुतिमुखमुखराणां केवलं पण्डितानाम् ॥

जघनमरुणरत्नग्रन्थिकाञ्चीकलापं

कुवलयनयनानां को विहातुं समर्थः ? ॥ २३॥

आर्या

स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतिम् ।

यस्मात्तपसोऽपि फलं स्वर्गस्तस्यापि फलं तथाप्सरसः ॥ २४॥

अनुष्टुभ्

अजितात्मसु सम्बद्धः समाधिकृतचापलः ।

भुजङ्गकुटिलः स्तब्धो भ्रूविक्षेपः खलायते ॥ २५॥

स्रग्धरा

सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवीन्द्रियाणां

लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ॥

भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते

यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ २६॥

शार्दूलविक्रीडित

विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनाः

तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ॥

शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवाः

तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरम् ॥ २७॥

उपजाति

सुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन ॥

अनङ्गसंजीवनदृष्टशक्तिर्मुखामृतं ते पिबतीव चन्द्रः ॥ २८॥

शिखरिणी

असाराः सन्त्वेते विरसविरसाश्चैव विषया

जुगुप्सन्तां यद्वा ननु सकलदोषास्पदमिति ॥

तथाप्यन्तस्तत्त्वे प्रणिहितधियामप्यनबलः

तदीयो नाख्येयः स्फुरति हृदये कोऽपि महिमा ॥ २९॥

वसंततिलका

विस्तारितं मकरकेतनधीवरेण

स्त्रीसंज्ञितं बडिशमत्र भवाम्बुराशौ ॥

येनाचिरात्तदधरामिषलोलमर्त्य-

मत्स्याद्विकृष्य स पचत्यनुरागवह्नौ ॥३०॥

अनुष्टुभ्

कामिनीकायकान्तारे स्तनपर्वतदुर्गमे ।

मा सञ्चर मनःपान्थ ! तत्रास्ते स्मरतस्करः ॥ ३१॥

शिखरिणी

न गम्यो मन्त्राणां न च भवति भैषज्यविषयो

न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ॥

भ्रमावेशादङ्गे कमपि विदधद्भङ्गमसकृत्

स्मरापस्मारोऽयं भ्रमयति दृशं धूर्णयति च ॥ ३२॥

अनुष्टुभ्

तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता ।

यावज्ज्वलति नाङ्गेषु हन्त पञ्चेषुपावकः ॥ ३३॥

शार्दूलविक्रीडित

स्त्रीमुद्रां झषकेतनस्य परमां सर्वार्थसम्पत्करीं

ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ॥

ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः

केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ ३४॥

शिखरिणी

कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो

व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ॥

क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः

शुनीमन्वेति श्वा ! हतमपि च हन्त्येव मदनः ॥ ३५॥

वसंततिलका

मत्तेभकुम्भदलने भुवि सन्ति शूराः

केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ॥

किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य

कंदर्पदर्पदलने विरला मनुष्याः ॥ ३६॥

हरिणी

परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो

मधुरविरुतोत्कण्ठा वाचः प्रियाः पिकपक्षिणाम् ॥

विरलसुरतस्वेदोद्गारा वधूवदनेन्दवः

प्रसरति मधौ रात्र्यां जातो न कस्य गुणोदयः ? ॥ ३७॥

द्रुतविलम्बित

मधुरयं मधुरैरपि कोकिला

कलरवैर्मलयस्य च वायुभिः ॥

विरहिणः प्रहिणस्ति शरीरिणो

विपदि हन्त सुधाऽपि विषायते ॥ ३८॥

शार्दूलविक्रीडित

आवासः किलकिञ्चितस्य दयिताः पार्श्वे विलासालसाः

कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ॥

गोष्ठी सत्कविभिः समं कतिपयैः सेव्याः सितांशो कराः

केषाञ्चित्सुखयन्ति धन्यहृदयं चैत्रे विचित्राः क्षपाः ॥ ३९॥

शार्दूलविक्रीडित

पान्थस्त्रीविरहाग्नितीव्रतरतामातन्वती मञ्जरी

माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ॥

अप्येते नवपाटलीपरिमलप्राग्भारपाटच्चरा

वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥४०॥

आर्या

प्रियपुरतो युवतीनां तावत्पदमातनोति हृदि मानः ।

भवति न यावच्चन्दनतरुसुरभिर्निर्मलः पवनः ॥ ४१॥

आर्या

सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते ।

मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ ४२॥

वसन्ततिलका

अच्छाच्छचन्दनरसार्द्रकरा मृगाक्ष्यो

धारागृहाणि कुसुमानि च कौमुदी च ॥

मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं

ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ ४३॥

शिखरिणी

स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः

परागः कासारो मलयजरसः सीधु विशदम् ॥

शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो

निदाधार्ता ह्येतत्सुखमुपलभन्ते सुकृतिनः ॥ ४४॥

दोधक

तरुणीवैषोहीपितकामा विकसितजातीपुष्पसुगन्धिः ।

उन्नतपीनपयोधरभारा प्रावृट् कुरुते कस्य न हर्षम् ? ॥ ४५॥

मालिनी

वियदुपचितमेघं भूमयः कन्दलिन्यो

नवकुटजकदम्बामोदिनो गन्धवाहाः ॥

शिखिकुलकलकेकारावरम्या वनान्ताः

सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ४६॥

आर्या

उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ।

क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व यापयतु ? ॥ ४७॥

शिखरिणी

इतो विद्युद्वल्लीविलसितमितः केतकितरोः

स्फुरद्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ॥

इतः केकीक्रिडाकलकलरवः पक्ष्मलदृशां

कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः ? ॥ ४८॥

शिखरिणी

असूचीसंचारे तमसि नभसि प्रौढजलद

ध्वनिप्राये तस्मिन् पतति दृशदां नीरनिचये ॥

इदं सौदामिन्याः कनककमनीयं विलसितं

मुदं च ग्लानिं च प्रथयति पथिष्वेव सुदृशाम् ॥ ४९॥

शार्दूलविक्रीडित

आसारेषु न हर्म्यतः प्रिततमैर्यातुं यदा शक्यते

शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते ॥

जाताः शीकरशीतलाश्च मरुतश्चात्यन्तखेदच्छिदो

धन्यानां बत दुर्सिनं सुदिनतां याति प्रियासङ्गमे ॥ ५०॥

स्रग्धरा

अर्धं नीत्वा निशायाः सरभससुरतायासखिन्नश्लथाङ्गः

प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ॥

सम्भोगाक्लान्तकान्ताशिथिलभुजलताऽऽवर्जितं कर्करीतो

ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मंदभाग्यः ॥ ५१॥

शार्दूलविक्रीडित

हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः

काश्मीरद्रवसान्द्रदिग्धवपुषः खिन्ना विचित्रै रतैः ॥

पीनोरुस्तनकामिनीजनकृताश्लेषा गृह्याभ्यन्तरे

ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ ५२॥

स्रग्धरा

प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृति विदलत्कुन्दमाद्यद्द्विरेफे

काले प्रालेयवातप्रचलविकसितोद्दाममन्दारदाम्नि ॥

येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी

तेषामायामयामा यमसदनसमा यामिनी याति यूनाम् ॥ ५३॥

शिशिरऋतु

स्रग्धरा

चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना

वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः ॥

ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तोंऽशुकानि

व्यक्तं कान्ताजनानां विटचरितकृतः शैशिरा वान्ति वाताः ॥ ५४॥

शार्दूलविक्रीडित

केशानाकुलयन् दृशो मुकुलयन् वासो बलादाक्षिपन्

आतन्वन् पुलकोद्गमं प्रकटयन्नावेगकम्पं गतैः ॥

वारंवारमुदारसीत्कृतकृतो दन्तच्छदान्पीडयन्

प्रायः शैशिर एष सम्प्रति मरुत्कान्तासु कान्तायते ॥ ५५॥

उपजाति

विश्रम्य विश्रम्य वनद्रुमाणां छायासु तन्वी विचचार काचित् ।

स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥ ५६॥

हरिणी

प्रणयमधुराः प्रेमोद्गाढा रसादलसास्ततो

भणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ॥

प्रकृतिसुभगा विश्रम्भार्हाः स्मरोदयदायिनो

रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ ५७॥

उपजाति

अदर्शने दर्शनमात्रकामा

दृष्ट्वा परिष्वङ्गसुखैकलोलाः ॥

आलिङ्गितायां पुनरायताक्ष्यां

आशास्महे विग्रहयोरभेदम् ॥ ५८॥

रथोद्धता

मालती शिरसि जृम्भणोन्मुखी

चन्दनं वपुषि कुङ्कुमान्वितम् ॥

वक्षसि प्रियतमा मनोहरा

स्वर्ग एव परिशिष्ट आगतः ॥ ५९॥

शार्दूलविक्रीडित

प्राङ्मामेति मनागनागतरसं जाताभिलाषां ततः

सव्रीडं तदनु श्लथीकृततनु प्रध्वस्तधैर्यं पुनः ॥

प्रेमार्द्रं स्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो

निःशङ्काङ्गविकर्षणाधिकसुखं रम्यं कुलस्त्रीरतम् ॥ ६०॥

मालिनी

उरसि निपतितानां स्रस्तधम्मिल्लकानां

मुकुलितनयनानां किञ्चिदुन्मीलितानाम् ॥

उपरिसुरतखेदस्विन्नगण्डस्थलीनां

अधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ ६१॥

अनुष्टुभ्

उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः ॥

तत्र प्रत्यूहमाधातुं ब्रह्माऽपि खलु कातरः ॥ ६२॥

आर्या

आमीलितनयनानां यत्सुरतरसोऽनु संविदं भाति ।

मिथुनैर्मिथोऽवधारितमवितथमिदमेव कामनिर्वहणम् ॥ ६३॥

वसंततिलका

मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे

कान्तापयोधरतटे रसखेदखिन्नः ॥

वक्षो निधाय भुजपञ्जरमध्यवर्ती

धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ ६४॥

अनुष्टुभ्

एतत्कामफलं लोके यद्द्वयोरेकचित्तता ।

अन्यचित्तकृते कामे शवयोरेव सङ्गमः ॥ ६५॥

शालिनी

एको देवः केशवो वा शिवो वा ह्येकं मित्रं भूपतिर्वा यतिर्वा ।

एको वासः पत्तने वा वने वा ह्येका भार्या सुंदरी वा दरी वा ॥ ६५-अ॥

उपजाति

मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु ॥

सेव्या नितम्बाः किमु भूधरणामुत स्मरस्मेरविलासिनीनाम् ॥ ६६॥

अनुष्टुभ्

आवासः क्रियतां गाङ्गे पापवारिणि वारिणि ।

स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि ॥ ६७॥

मालिनी

दिशः वनहरिणीभ्यः स्निग्धवंशच्छवीनां

कवलमुपलकोटिच्छिन्नमूलं कुशानाम् ॥

शुकयुवतिकपोलापाण्डु ताम्बूलवल्ली-

दलमरूणनखाग्रैः पाटितं वा वधूभ्यः ॥ ६९॥

स्रग्धरा

संसारेऽस्मिन्नसारे परिणतितरले द्वे गती पण्डितानां

तत्त्वज्ञानामृताम्भःप्लवलुलितधियां यातु कालः कथञ्चित् ॥

नोचेन्मुग्धाङ्गनानां स्तनजघनभराभोगसम्भोगिनीनां

स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलोलोद्यतानाम् ॥ ७०॥

शिखरिणी

भवन्तो वेदान्तप्रणिहितधियामाप्तगुरवो

विशित्रालापानां वयमपि कवीनामनुचराः ॥

तथाप्येतद् ब्रूमो न हि परहितात्पुण्यमधिकं

न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥ ७१॥

मालिनी

किमिह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैः

द्वयमिह पुरुषाणां सर्वदा सेवनीयम् ॥

अभिनवमदलीलालालसं सुंदरीणां

स्तनभरपरिखिन्नं यौवनं व वनं वा ॥ ७२॥

स्रग्धरा

रागस्यागारमेकं नरकशतमहादुःखसम्प्राप्तिहेतुः

मोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ॥

कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं

लोकेऽस्मिन्न ह्यनर्थव्रजकुलभवनं यौवनादन्यदस्ति ॥ ७३॥

शार्दूलविक्रीडित

श‍ृंगारद्रुमनीरदे प्रसृमरक्रीडारस स्रोतसि

प्रद्युम्नप्रियबान्धवे चतुरतामुक्ताफलोदन्वति ॥

तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ

धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ ७४॥

स्रग्धरा

राजंस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं

को वार्थोऽर्थै प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ॥

गच्छामः सद्म तावद्विकसितकुमुदेन्दीवरालोकिनीनां

यावच्चाक्रम्य रूपं झटिनि न जरया लुप्यते प्रेयसीनाम् ॥ ७५॥

शार्दूलविक्रीडित

जान्त्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च

ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ॥

यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवाकाङ्क्षया

पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ? ॥ ७६॥

अनुष्टुभ्

वेश्याऽसौ मदनज्वाला रूपेन्धनविवर्धिता ।

कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥ ७७॥

आर्या

कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि ।

चारभटचौरचेटकनटविटनिष्ठीवनशरावम् ? ॥ ७८

स्रग्धरा

संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवावलम्ब

व्यासङ्गध्वस्तधैर्यं कथममलधियो मानसं संविदध्यु: ? ॥

यद्येताः प्रोद्यदिन्दुद्युतिनि वयभृतो न स्युरम्भोजनेत्राः

प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ? ॥ ७९॥

शार्दूलविक्रीडित

सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमे

गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ॥

कः कुर्वीत शिरः प्रमाणमलिनं म्लानं मनस्वी जनो

यद्वित्रस्तरकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ ८०॥

अनुष्टुभ्

संसारोदधिनिस्तार पदवी न दवीयसी ।

अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणा ॥ ८१॥

इंद्रवज्रा

सत्यं जना वच्मि न पक्षपाताल्लोकेषु सप्तस्वपि तथ्यमेतत् ।

नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्न च कश्चिदन्यः ॥ ८२॥

शार्दूलविक्रीडित

कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युत्सुकः

पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति ॥

दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि

प्रत्यक्षाशुचिभस्त्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ! ॥ ८३॥

अनुष्टुभ्

स्मृता भवति तापाय दृष्ट्वा चोन्मादवर्धिनी ।

स्पृष्टा भवति मोहाय ! सा नाम दयिता कथम् ? ॥ ८४॥

अनुष्टुभ्

तावदेवामृतमयी यावल्लोचनगोचरा ।

चक्षुःपथादतीता तु विषादप्यतिरिच्यते ॥ ८५॥

अनुष्टुभ्

नामृतं न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम् ।

सैवामृतरुता रक्ता विरक्ता विषवल्लरी ॥ ८६॥

स्रग्धरा

आवर्तः संशयानामविनयभवनं पत्तनं साहसानां

दोषाणां संविधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ॥

स्वर्गद्वारस्य विघ्नौ नरकपुरमुखं सर्वमायाकरण्डं

स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥ ८७॥

शार्दूलविक्रीडित

नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर-

द्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता ॥

किं त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि

त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥ ८८॥

उपजाति

लीलावतीनां सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति ॥

रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव वृथा षडङ्घ्रिः ॥ ८९॥

शिखरिणी

यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृतिवरं

मुखाब्जं तन्वङ्ग्याः किल वसति तत्राधरमधु ॥

इदं तत्किम्पाकद्रुमफलमिवातीव विरसं

व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ॥ ९०॥

शार्दूलविक्रीडित

अग्राह्यं हृदयं यथैव वदनं यद्दर्पणान्तर्गतं

भावः पर्वतसूक्ष्ममार्गविषमः स्त्रीणां न विज्ञायते ॥

चित्तं पुष्करपत्रतोयतरलं विद्वद्भिराशंसितं

नारी नाम विषाङ्कुरैरिव लता दोषैः समं वर्धिता ॥ ९१॥

अनुष्टुभ्

जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम् ।

हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ? ॥ ९२॥

वैतालीय

मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् ।

अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥ ९३॥

मालिनी

इह हि मधुरगीतं नृत्यमेतद्रसोऽयं

स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् ।

इति हतपरमार्थैरिन्द्रियैर्भाम्यमाणः

स्वहितकरणदक्षैः पञ्चभिर्वञ्चितोऽसि ॥ ९४॥

मन्दाक्रान्ता

शास्त्रज्ञोऽपि प्रथितविनयोऽप्यात्मबोधोऽपि बाढं

संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनाम् ॥

येनैतस्मिन्निरयनगरद्वारमुद्घाटयन्ती

वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ ९५॥

शार्दूलविक्रीडित

उन्मीलत्त्रिवलितरङ्गनिलया प्रोत्तुङ्गपीनस्तन-

द्वन्द्वेनोद्यतचक्रवाकमिथुना वक्त्राम्बुजोद्भासिनी ॥

कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यते

संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥ ९६॥

हरिणी

अपसर सखे दूरादस्मात्कटाक्षविषानलात्

प्रकृतिकुटिलाद्योषित्सर्पाद्विलासफणाभृतः ॥

इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधे-

श्चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥ ९७॥

पुष्पिताग्रा

इदमनुचितमक्रमश्च पुंसां

यदिह जरास्वपि मान्मथा विकाराः ।

यदपि च न कृतं नितम्बिनीनां

स्तनपतनावधि जीवितं रतं वा ॥ ९८॥

वसन्ततिलका

धन्यास्त एव तरलायतलोचनानां

तारुण्यदर्पघनपीनपयोधराणाम् ॥

क्षामोदरोपरिलसत्त्रिवलीलतानां

दृष्ट्वाऽऽकृतिं विकृतिमेति मनो न येषाम् ॥ ९९॥

आर्या

विरहोऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् ।

हृदयमपि विघट्टितं चेत्सङ्गो विरहं विशेषयति ॥ १००॥

रथोद्धता

किं गतेन यदि सा न जीवति

प्राणिति प्रियतमा तथाऽपि किम् ॥

इत्युदीर्य नवमेघदर्शने

न प्रयाति पथिकः स्वमन्दिरम् ॥ १०१॥

हरिणी

विरमत बुधा योषित्सङ्गात् सुखात्क्षणभङ्गुरात्

कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ॥

न खलु नरके हाराक्रान्तं घनस्तनमण्डलं

शरणमथवा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ १०२॥


शिखरिणी

यदा योगाभ्यासव्यसनवशयोरात्ममनसो-

रविच्छिन्ना मैत्री स्फुरति यमिनस्तस्य किमु तैः ॥

प्रियाणामालापैरधरमधुभिर्वक्त्रविधुभिः

सनिःश्वासामोदैः सकुचकलशाश्लेषसुरतैः ? ॥ १०३॥

शिखरिणी

सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः

प्रियावक्त्राम्भोजं मलयजरसश्चातिसुरभिः ॥

स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने

करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे ॥ १०४॥

मंदाक्रान्ता

बाले लीलामुकुलितममी सुंदरा दृष्टिपाताः

किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते ॥

सम्प्रत्यन्त्ये वयसि विरतं बाल्यमास्था वनान्ते

क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः ॥ १०५॥

शिखरिणी

इयं बाला मां प्रत्यनवरतमिन्दीवरदल-

प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ? ॥

गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकर-

ज्वलज्ज्वालाः शांतास्तदपि न वराकी विरमति ॥ १०६॥

शार्दूलविक्रीडित

किं कन्दर्प ! शरं कदर्थयसि रे कोदण्डझङ्कारितै ?

रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि ॥

मुग्धे ! स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरलं

चेतः सम्प्रति चंद्रचूडचरणध्यानामृते वर्तते ॥१०७॥

शिखरिणी

यदाऽऽसीदज्ञानं स्मरतिमिरसञ्चारजनितं

तदा सर्वं नारीमयमिदमशेषं जगदभूत् ।

इदानीमस्माकं पटुतरविवेकाञ्जनदृशां

समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ १०८॥

भर्तृहरिकृत शतकत्रयी

एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने