नवरत्नम
मित्रमर्थी तथा नीतिर्धर्मकार्पण्यमूर्खकाः ।
स्त्रीणां विद्वान् तथोत्खातान् नवरत्नमिदं क्रमात ॥
मित्रं स्वच्छतया रिपुं नयबलैर्लुब्धं धनैरीश्वरं
कार्य्येण द्विजमादरेणयुवतीं प्रेम्ना समैर्बान्धवान् ।
अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभिर्बुधं
विद्याभीरसिकं रसेन सकलं शीलेन कुर्य्याद्वशम् ॥ १॥
अर्थी लाघवमुच्छ्रितो निपतनं कामातुरो लाञ्छनं
लुब्धोऽकीर्तिमसङ्गरः परिभवं दुष्टोऽन्यदोषे रतिम् ।
निःस्वो वञ्चनमुन्मना विकलतां शोकाकुलः संशयं
दुर्वागप्रियतां दुरोदरवशः प्राप्नोति कष्टं मुहुः ॥ २॥
नीतिर्भूमिभुजां नतिर्गुणवतां ह्रीरङ्गनानां धृति
र्दम्पत्योः शिशवो गृहस्य कविता बुद्धेः प्रसादो गिराम् ।
लावन्यं वपुषः स्मृतिः सुमनसां शान्तिर्द्विजस्य क्षमा
सक्तस्य द्रविणं गृहाश्रमवतां स्वास्थ्यं सतां मण्डनम् ॥ ३॥
धर्मः प्रागेवचिन्त्यः सचिवमतिगतिर्भावनीया सदैव
ज्ञेयं लोकानुवृत्तं वरचरनयनैर्मण्डलं वीक्षणीयम् ।
प्रच्छाद्यौ रागरोषौ मृदुपरुषगुणौ योजनीयौ च काले
आत्मा यत्नेन रक्ष्यो रणशिरसिपुनःसोऽपि नापेक्षणीयः ॥ ४॥
कार्पण्येन यशः क्रुधा गुणचयो दम्भेन सत्यं क्षुधा
मर्यादा व्यसनैर्धनानि विपदा स्थैर्यं प्रमादैर्दिजः ।
पैशुन्येन कुलं मदेन विनयो दुश्चेष्टया पौरुषं
दारिद्र्येण जनादरो ममतया चात्मप्रकाशो हतः ॥ ५॥
मूर्खोऽशान्तस्तपस्वी क्षितिपतिरलसो मत्सरो धर्मशीलो
दुःस्थो मानी गृहस्थः प्रभुरतिकृपणः शास्त्रविद्धर्महीनः ।
आज्ञाहीनो नरेन्द्रः शुचिरपि सततं यः परान्नोपभोगी
वृद्धो रोगी दरिद्रः स च युवतिपतिर्धिग्विडम्बप्रकारम् ॥ ६॥
स्त्रीणां यौवनमर्थिनामनुगमो राज्ञां प्रतापः सतां
सत्यं स्वल्पधनस्य सञ्चितिरसदृत्तस्य वाग्डम्बरः ।
साचारस्य मनोदमः परिणतेर्विद्या कुलस्यैकता
सेवाया धनमुन्नतेर्गुणचयः शान्तेर्विवेको बलम् ॥ ७॥
विद्वान् संसदि पाक्षिकः परवशोमानी दरिद्रो गृही
वित्ताद्यः कृपणः सुखी परवशो वो न तीर्थाश्रितः ।
राजा दुःसचिवप्रियः कुलभवो मूर्खः पुमां स्त्रीजितो
वेदान्ती हतसक्रियः किमपरं हास्यास्पदं भूतले ॥ ८॥
उत्खातान् प्रतिरोपयन् कुसुमितांश्चिन्वन् शिशून्वर्द्धयन्
प्रोत्तुङ्गान् नमयन्नतान्समुदयन् विश्लेषयन् संहतान् ।
तीवान् कण्टकिनो बहिर्नियमयन् ग्लानान्मुहुःसेचयन्
मालाकार इव प्रयोगनिपुणो राजा चिरं नन्दतु ॥ ९॥
इति नवरत्नं समाप्तम् ।
0 Comments
If you have any Misunderstanding Please let me know