गुणरत्नम् पुण्यरत्न
सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारवर्हि
त्रासान्नासाग्ररन्धं विशतिफणिपतौ भोगसङ्कोचभाजि ।
गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणे-
र्वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चित्कारवत्यः ॥ १॥
यत्कण्ठे गरलं विराजति सदा मौलौ च मन्दाकिणी
यस्याङ्के गिरिजाननं कटितटे शार्दूलचर्माम्बरम् ।
यन्माया हि रुणद्धि विश्वमखिलं पायात् स वः शङ्करः
जम्बूवत् जलबिन्दुवत् जलजवत् जम्बालवत् जालवत् ॥ २॥
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशःशुभकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं
विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥ ३॥
गुणी गुणं वेत्ति न वेत्ति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बलः ।
पिको वसन्तस्थ गुणं न वायसः करी च सिंहस्य बलं न मूषिकः ॥ ४॥
गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः ।
सुस्वादुतोयाः प्रभवन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः ॥ ५॥
गुणायन्ते दोषाः सुजनवदने दुर्जनमुखे
गुणा दोषायन्ते किमिति जगतां विस्मयपदम् ।
यथा जीमूतोऽयं लवणजलधेर्वारि मधुरं
फणी पीत्वा क्षीरं वमति गरलं दुःसहतरम् ॥ ६॥
विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय ।
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥ ७॥
मतिरेव बलात् गरीयसी तदभावे करिणामियन्दशा ।
इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्कणन् ॥ ८॥
वरं गर्भस्त्रावो वरमपि च नैवाभिगमनं
वरं जातप्रेतो वरमपि च कन्याभिजननम् ।
वरं वन्ध्या भार्या वरमपि च गर्भेषु वसति-
र्न चाविद्वान् रूपद्रविणगुणयुक्तोऽपि तनयः ॥ ९॥
या राका शशिशोभना गतघना सा यामिनी यामिनी
या सौन्दर्यगुणान्विता पतिरता सा कामिनी कामिनी ।
या गोविन्दरसप्रमोदमधुरा सा माधुरी माधुरी
या लोकद्वयसाधनी तनुभृतां सा चातुरी चातुरी ॥ १०॥
ज्ञातिभिर्बन्ध्यते नैव चौरेणापि न नीयते ।
दाने नैव क्षयं याति विद्यारत्नं महाधनम् ॥ ११॥
अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ १२॥
गुणेन स्पृहनीयः स्यात् न रूपेण यतो जनः ।
सौगन्ध्यवर्ज्यं नादेयं पुष्यं कान्तमपि क्वचित् ॥ १३॥
इति श्रीमहाकवि भवभूति विरचितं गुणरत्नकाव्यं समाप्तम् ॥
0 Comments
If you have any Misunderstanding Please let me know