Ad Code

नीतिप्रदीपः

  नीतिप्रदीपः 


रत्नाकरः किं कुरुते स्वरत्नैर्विन्ध्याचलः किं करिभिः करोति ।

श्रीखण्डखण्डैर्मलयाचलः किं परोपकाराय सतां विभूतिः ॥ १॥


कर्णावघातैरपि ताड्यमाना दूरीकृताः करिवरेण मदान्धबुद्या ।

तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ २॥


येनाकारि मृणालपत्रमशनं क्रीडा करिण्या सह

      स्वच्छन्दं भ्रमणश्च कन्दरगणे पीतं पयो निर्झरम् ।

सोऽयं वन्यकरी नरेषु पतितः पुष्णाति देहं तृणै-

      र्यद्दैवेन ललाटपत्रलिखितं तत् प्रोज्झितुं कः क्षमः ॥ ३॥


शशिदिवाकरयोर्ग्रहपीडनं गजभुजङ्गमयोरपि वन्धनम् ।

मतिमताञ्च विलोक्य दरिद्रतां विधिरहो बलवान् इति मे मतिः ॥ ४॥


व्योम्न्येकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं

      वध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि ।

दुर्नीते हि विधौ किमस्ति चरितं कः स्थानलाभे गुणः

      कालो हि व्यसनप्रसावितकरो गृह्णाति दूरादपि ॥ ५॥


अपि दलन्मुकुले बकुले यया पदमधायि कदापि न तृष्णया ।

अहह सा सहसा विधुरे विधौ मधुकरी बदरीमनुवर्तते ॥ ६॥


गतोऽस्मि तीरं जलधेः पिपासया स चापि शुष्कश्शुलुकी कृतो मया ।

न दृश्यते दोषलवोऽपि तोयधेर्ममैव तत्कर्मफलं विजृम्भते ॥ ७॥


सिंहक्षुण्णकरीन्द्रकुम्भगलितं रक्ताक्तमुक्ताफलं

      कान्तारे बदरीधिया द्रुतमगात् भिल्लस्य पत्नी मुदा ।

पाणिभ्यामगुह्य शुक्लकठिनं तद्वीक्ष्य दूरे जहा-

      वस्थाने पततामतीव महतामेतादृशी स्याद्गतिः ॥ ८॥


किन्ते नम्रतया किमुन्नततया किन्ते घनच्छायया

      किन्ते पल्लवलीलया किमनया चाशोक पुष्यश्रिया ।

यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वयं

      न स्वादूनि मृदूनि खादति फलान्युत्कण्ठमुत्कण्ठितम् ॥ ९॥


दूरे मार्गान्निवससि पुनः कण्टकैरावृतोऽसि

      छायाशून्यः फलमपि च ते वानरैरप्यभक्ष्यम् ।

निर्गन्धस्त्वं मधुपरहितः शाल्मले सारशून्यः

      सेवास्माकं भवति विफला तिष्ठ निश्वस्य यामः ॥ १०॥


हंसाः पद्मवनाशया मधुलिहः सौरभ्यलाभाशया

      पानथाः स्वादुफलाशया बलिभुजो गृध्राश्च माम्साशया ।

दूरादुन्नतपुष्परागनिकरैर्निःसारमिथ्योन्नतैः

      रे रे शाल्मलिपादप प्रतिदिनं केन त्वमावञ्चितः ॥ ११॥


किन्तेन हेमगिरिणा रजताद्रिणा वा यत्र स्थिता हि तरवस्तरवस्त एव ।

वन्दामहे मलयमेव यदाश्रयेण शाकोटनिम्बकुटजान्यपि चन्दनानि ॥ १२॥


निर्वाणदीपे किमु तैलदानं चौरे गते वा किमु सावधानम् ।

वयोगते किं वनिताविलासः पयोगते किं खलु सेतुबन्धः ॥ १३॥


शीतेऽतीते वसनमशनं वासरान्ते निशान्ते

      क्रीडारम्भः कुवलयदृशां यौवनान्ते विवाहः ।

सेतोर्बन्धः पयसि गलिते प्रस्थिते लग्नचिन्ता

      सर्वञ्चैतद्भवति विफलं स्वस्वकाले व्यतीते ॥ १४॥


नवं वस्त्रं नवच्छत्रं नव्या स्त्री नूतनं गृहम् ।

सर्वञ्च नूतनं शस्तं सेवकान्ने पुरातने ॥ १५॥


समायाति यदा लक्ष्मीर्नारिकेलफलाम्बुवत् ।

विनिर्याति यदा लक्ष्मीर्गजभुक्तकपित्थवत् ॥ १६॥


इति श्रीमहाकवि वेतालभट्टविरचितं नीतिप्रदीपकाव्यं समाप्तम् ॥


Post a Comment

0 Comments

Ad Code