जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

साहित्यदर्पण अष्टमः परिच्छेदः मुल संस्कृत

 

अष्टमः परिच्छेदः

 


गुणानाह---

 

रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा ।

गुणाः--- यथा खल्वङ्गित्वमाप्तस्यात्मन उत्कर्षहेतुत्वाच्छौर्यादयो गुणशब्दवाच्याः, तथा काव्ये ऽङ्गित्वमाप्तस्य रसस्य धर्माः स्वरूपविशेषा माधुर्यादयो ऽपि स्वसमर्पकपदसन्दर्भस्य काव्यव्यपदेशस्यौपयिकानुगुण्यभाज इत्यर्थः ।

यथा चैषां रसमात्रस्य धर्मत्वं तथा दर्शितमेव ।

माधुर्यमोजो ऽथ प्रसाद इति ते त्रिधा ।। साद-८.१ ।।

 

ते गुणाः ।

तत्र---

 

चित्तद्रवीभावमयो ङ्लादो माधुर्यमुच्यते ।

यत्तु--केनचिदुक्तम्--"माधुर्यं द्रुतिकारणम्" इति तन्न, द्रवीभावस्यास्वादस्वरूपाह्लादाभिन्नत्वेन कार्यत्वाभावात् ।

द्रवीभावश्च स्वाभाविकानाविष्टत्वात्मककाठिन्यमन्युक्रोधादिकृतदीप्तत्वविस्मयहासाद्युपहितविक्षेपपरित्यागेन रत्याद्याका रानुविद्धानन्दोद्वोधेनसहृदयचित्तार्द्रप्रायत्वम् ।

तच्च---

 

संभोगे करुणो विप्रलम्भे शान्ते ऽधिकं क्रमात् ।। साद-८.२ ।।

 

सम्भोगादिशब्दा उपलक्षणानि ।

तेन सम्भोगाभासादिष्वप्येतस्य स्थितिर्ज्ञेया ।

मूर्ध्नि वर्गान्त्यवर्णोन युक्ताष्टठडढान्विना ।

रणौ लधू च तद्व्यक्तौ वर्णाः कारणतां गताः ।। साद-८.३ ।।

 

अवृत्तिरल्पवृत्तिर्वा मधुरा रचना तथा ।

यथा--- "अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः ।

जनयन्ति मुहुर्यूनामन्तः सन्तापसन्ततिम्" ।।

 

यथा वा मम--- "लताकुञ्जं गुञ्जन् मदवदलिपुञ्जं चपलयन् समालिङ्गन्नङ्गं द्रुततरमनङ्गं प्रबलयन् ।

मरुन्मन्दं मन्दं दलितमरविन्दं तरलयन् रजोवृन्दं विन्दन् किरति मकरन्दं दिशि दिशि" ।।

 

ओजश्चित्तस्य विस्ताररूपं दीप्तत्वमुच्यते ।। साद-८.४ ।।

 

वीरबीभत्सरौद्रेषु क्रमेणाधिक्यमस्य तु ।

अस्यौजसः ।

अत्रापि वीरादिशब्दा उपलक्षणानि ।

तेन वीराभासादावप्यस्यावस्थितिः ।

वर्गस्याद्यतृतीयाभायां युक्तौ वर्णौ तदन्तिमौ ।। साद-८.५ ।।

 

उपर्यधो द्वयोर्वा सरेफौ टठडढैः सह ।

शकारश्च षकारश्र तस्य व्यञ्जकतां गताः ।। साद-८.६ ।।

 

तथा समासो बहुलो घटनौद्धत्यशालिनी ।

यथा---"चञ्चद्भुज--" इत्यादि ।

चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः ।। साद-८.७ ।।

 

स प्रसादः समस्तेषु रसेषु रचनासु च ।

व्याप्नोति आविष्करोति ।

शब्दास्तद्व्यञ्जका अर्थबोधकाः श्रुतिमात्रतः ।। साद-८.८ ।।

 

यथा--- "सूचीमुखेन सकृदेव कृतव्रणस्त्वं मुक्ताकलाप ! लुठसि स्तनयोः प्रियायाः ।

बाणैः स्मरस्य शतशो विनिकृत्तमर्मा स्वप्ने ऽपि तां कथमहं न विलोकयामि" ।।

 

एषां शब्दगुणत्वं च गुणवृत्त्योच्यते बुधैः ।

शरीरस्य शौर्यादिगुणयोग इव इति शेषः ।

श्लेषः समाधिरौदार्यः पसाद इति ये पुनः ।। साद-८.९ ।।

 

गुणाश्चिरन्तनैरुक्ता औजस्यान्तर्भवन्ति ते ।

ओजसि भक्त्या औजः पदवाच्ये शब्द (अर्थ) धर्मविशेषे ।

तत्र श्लेषो बहूनामपि पदानामेकपदवद्भासनात्मा ।

यथा--- "उन्मज्जज्जलकुञ्जरेन्द्ररभासास्फालानुबन्धोद्धताः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः ।

उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायप्रेंखदसंख्यशङ्खधवला वेलेयमुद्रच्छति" ।।

 

अथं बन्धवैकट्यात्मकत्वादोज एव ।

समाधिरारोहावरोहक्रमः ।

आरोह उत्कर्षः, अवरोहो ऽपकर्षः, तयोः क्रमो वैरस्यतानावहो विन्यासः ।

यथा---"चञ्चद्भुज--" इत्यादि ।

अत्र पदात्रये क्रमेण बन्धस्य गाढता ।

चतुर्थपादे त्वपकर्षः ।

तस्यापि च तीव्रप्रयत्नोच्चार्यतया ओजस्विता ।

उदारता विकटत्वलक्षणा ।

विकटत्वं पदानां नृत्यत्प्रायत्वम् ।

यथा--- सुचरणविनिविष्टैर्नूपुरैर्नर्तकीनां भ्क्तणिति रणितमासीत्तत्र चित्रं कलं च ।

अत्र च तन्मतानुसारेण रसानुसन्धानमन्तरेणैव शब्दप्रौढोक्तिमात्रेणौजः ।

प्रसाद ओजोमिश्रितशौथिल्यात्मा ।

यथा--- "यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदात् पाण्डवीनां चमूनाम्" इति ।

माधुर्यव्यञ्जकत्वं यदसमासस्य दर्शितम् ।। साद-८.१० ।।

 

पृथक्पदत्वं माधुर्यं तेनैवाङ्गीकृतं पुनः ।

यथा---"श्वासान्मुञ्चति-" इत्यादि ।

अर्थव्यक्तेः प्रसादाख्यगुणेनैव परिग्रहः ।। साद-८.११ ।।

 

अर्थव्यक्तिः पदानां हि झटित्यर्थसमर्पणम् ।

स्पष्टमुदाहरणम् ।

ग्राम्यदुः श्रवतात्यागात्कान्तिश्च सुकुमारता ।। साद-८.१२ ।।

 

अङ्गीकृतेति सम्बन्धः ।

तच्च हालिकादिपदविन्यासवैपरीत्येनालौकिकशोभाशालित्वम् ।

सुकुमारता अपारुष्यम् ।

अनयोरुदाहरणे स्पष्टे ।

क्वचिद्दोषस्तु समता मार्गाभेदस्वरूपिणी ।

अन्यथोक्तगुणेष्वस्या अन्तः पातो यथायथम् ।। साद-८.१३ ।।

 

मसृणेन विकटेन वा मार्गेणोपक्रान्तस्य सन्दर्भस्य तेनैव परिनिष्ठानं मार्गाभेदः ।

स च क्वचिद्दोषः ।

तथाहि--- "अव्यूढाङ्गमरूढपाणिजठराभोगं च बिभ्रद्वपुः पारीन्द्रः शिशुरेष पाणिपुटके सम्मातु किं तावता ।

उद्यद्दुर्धरगन्धसिन्धुरशतप्रोद्दामदानार्णव- स्त्रोतः शोषणरोषणात्पुनरितः कल्पाग्निरल्पायते" ।।

 

अत्रोद्धतेर्ऽथे वाच्ये सुकुमारबन्धत्यागो गुण एव ।

अनेवंविधस्थाने माधुर्यादावेवान्तः पातः ।

यथा---"लताकुञ्जं गुञ्जन्-" इत्यादि ।

ओजः प्रसादो माधुर्यं सौकुमार्यमुदारता ।

तदभावस्य दोषत्वात्स्वीकृता अर्थगा गुणाः ।। साद-८.१४ ।।

 

ओजः साभिप्रायत्वरूपम् ।

प्रसादोर्ऽथवैमल्यम् ।

माधुर्यमुक्तिवैचित्र्यम् सौकुमार्यमपारुष्यम् ।

उदारता अग्रम्यत्वम् ।

एषां पञ्जानामप्यर्थगुणानां यथाक्रममपुष्टार्थाधिकपदानवीकृतामङ्गलरूपाश्लीलग्राम्याणांनिराकरणेनैवाङ्गीकारः ।

स्पष्टान्युदाहरणानि ।

अर्थव्यक्तिः स्वभावोक्त्यालङ्कारेण तथा पुनः ।

रसध्वनिगुणीभूतव्यङ्ग्यानां कान्तिनामकः ।। साद-८.१५ ।।

 

अङ्गीकृत इति सम्बन्धः ।

अर्थव्यक्तिर्वस्तुस्वभावस्फुटत्वम् ।

कान्तिर्देप्तरसत्वम् ।

स्पष्टे उदाहरणे ।

श्लेषो विचित्रतामात्रमदोषः समता परम् ।

श्लेषः क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा ।

तत्र क्रमः क्रियासन्ततिः, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनाविरहो ऽनुल्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः एषां योगः सम्मेलनं स एव रूपं यस्या घटनायास्तद्रूपः श्लेषो वैचित्र्यमात्रम् ।

अनन्यसाधारणरसोपकरित्वातिशयविरहादिति भावः ।

यथा--- "दृष्ट्वैकानसांस्थिते प्रियतमे-" इत्यादि ।

अत्र दर्शनादयः क्रियाः, उभयसमर्थनरूपं कौटिल्यम्, लोकसंव्यवहाररुपमनुल्वणत्वम्, एकासनसंस्थिते, "पश्चादुपेत्य" "नयने पिधाय" "ईषद्वक्त्रितकन्धरः" इति चोपपादकानि, एषां योगः ।

अनेन च वाच्योपपत्तिग्रहणव्यग्रतया रसत्वादौ व्यवहितप्राय इत्यस्यागुणता ।

समता च प्रक्रान्तप्रकृतिप्रत्ययाविपर्यासेनार्थस्य विसंवादिताविच्छेदः ।

स च प्रक्रमभङ्गरूपविरह एव ।

स्पष्टमुदाहरणम् ।

न गुणत्वं समाधेश्च---

 

समाधिश्चायोन्यन्यच्छायायोनिरूपद्विविधार्थदृष्टिरूपः ।

तत्रायोनिरर्थो यथा--- "सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम् ।

अन्यच्छायायोनिर्यथा--- "निजनयनप्रतिविम्बैरम्बुनि बहुशः प्रतारिता कापि ।

नीलोत्पले ऽपि विमृशति करमर्पयितुं कुसुमलावी" ।।

 

अत्र नीलोत्पलनयनयोरतिप्रसिद्धं सादृश्यं विच्छित्तिविशेषेण निबद्धम् ।

अस्य चासाधारणशोभानाधायकत्वान्न गुणत्वम्, किन्तु काव्यशरीरमात्रनिर्वर्तकत्वम् ।

क्वचित् "चन्द्रम्" इत्येकस्मिन् पदार्थे वक्तव्ये "अत्रेर्नयनसमुत्थं ज्योतिः" इति वाक्यवचनम् ।

क्वचित् "निदाघशीतलहिमकालोष्ण्सुकुमारशरीरावयवा योषित्" इति वाक्यार्थे वक्तव्ये "वरवणिनी" इति पदाभिधानम् ।

क्वचिदेकस्य वाक्यार्थस्य किञ्चिद्विशेषनिवेशादनेकैर्वाक्यारभिधानमित्येवंरूपो व्यासः ।

क्वचिद्वहुवाक्यप्रतिपाद्यस्यैकवाक्येनाभिधानमित्येवंरूपः समासश्च, इत्येवमादीनामन्यैरुक्तानां न गुणत्वमुचितम्, अपि तुवैचित्र्यमात्रावहत्वम् ।

---तेन नार्थगुणाः पृथक् ।। साद-८.१६ ।।

 

तेनोक्तप्रकारेण ।

अर्थगुण ओजः प्रभृतयः प्रोक्ताः ।

इति साहित्यदर्पणे गुणविवेचनो नामाष्टमः परिच्छेदः ।

एक टिप्पणी भेजें

0 टिप्पणियाँ