जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

साहित्यदर्पण सप्तमः परिच्छेदः मुल संस्कृत

 

सप्तमः परिच्छेदः



इह हि प्रथमतः काव्ये दोषगुणरीत्यलङ्काराणामवस्थितिक्रमो दशितः, संप्रति के त इत्यपेक्षायामुद्देशक्रमप्राप्तानां दोषणां स्वरूपमाह---

 

रसापकर्षका दोषाः,---

 

अस्यार्थः प्रगेव स्फुटीकृतः ।

तद्विशेषानाह---

 

---ते पुनः पञ्चधा मताः ।

पदे तदंशे वाक्येर्ऽथे संभवन्ति रसे ऽपि यत् ।। साद-७.१ ।।

 

 

दुःश्रवत्रिविधाश्लीलानुचितार्थप्रयुक्तताः ।

ग्राम्याप्रतीतसन्दिग्धनेयार्थनिहतार्थताः ।। साद-७.२ ।।

 

अवाचकत्वं क्लिष्टत्वं विरुद्धमतिकारिता ।

अविमृष्टविधेयांशभावश्च पदवाक्ययोः ।। साद-७.३ ।।

 

दोषाः केचिद्भवन्त्येषु पदांशे ऽपि पदे परे ।

निरर्थकासमर्थत्वे च्युतसंस्कारता तथा ।। साद-७.४ ।।

 

परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वम् ।

यथा--- "कार्त्तर्थ्यं यातु तन्वङ्गी कदानङ्गवशंवदा" ।

अश्लीलत्वं व्रीडादुगुप्सामङ्गलव्यञ्जकत्वात्निविधम् ।

क्रमेणोदाहरणम्--- "तृप्तारिविजये राजन् ! साधनं सुमहत्तव" ।

"प्रससार शनैर्वायुर्विनाशे तन्वि ! ते तदा" ।

अत्र साधन-वायु-विनाश-शब्दा अश्लीलाः ।

"शूरा अमरतां यान्ति पशुभूता रणाध्वरे ।

अत्र पशुत्वं कातर्यमभिव्यनक्तीत्यनुचितार्थत्वम् ।

अप्रयुक्तत्वं तथा प्रसिद्धावपि कविभिरनादृतत्वम् ।

यथा--- "भाति पद्मः सरोवरे" ।।

 

अत्र पद्मशब्दः पुंल्लिङ्गः ।

ग्राम्यत्वं यथा--- "कटिस्ते हरते मनः" ।।

 

अत्र कटिशब्दो ग्राम्यः ।

अप्रतीतत्वमेकदेशमात्रप्रसिद्धत्वम् ।

यथा--- योगेन दलिताशयः" ।।

 

अत्र योगशास्त्र एव वासनार्थ आशयशब्दः ।

"आशईः परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु" ।

अत्र वन्द्यामिति किं बन्दीभूतायामुत वन्दनीयामिति संदेहः ।

नोत्यर्थत्वं रूढीप्रयोजनाभावादशक्तिकृतं लक्ष्यार्थप्रकाशनम् ।

यथा--- "कमले चरणाघातं मुखं सुमुखि ! ते ऽकरेत् ।

अत्र चरणाघातेन निर्जितत्वं लक्ष्यम् ।

निहतार्थत्वमुभयार्थस्य शब्दस्याप्रसिद्धेर्ऽथे प्रयोगः ।

यथा--- "यमुनाशम्बरमम्बरं व्यतानीत्" ।

शम्बरशब्दो दैत्ये प्रसिद्धः, इह तु जले निहतार्थः ।

"गीतेषु कर्णमादत्ते" ।

अत्राङ्--पूर्वो दाञ्-धातुर्दानार्थे ऽवाचकः ।

यथा वा--- "जिनं मे त्वयि संप्राप्ते ध्वान्तच्छन्नापि यामिनी" ।

अत्र दिनमिति प्रकाशमयार्थे ऽवाचकम् ।

क्लिष्टत्वमर्थप्रतीतेर्व्यवहितम्, यथा--- "क्षीरोदजावसतिजन्मभुवः प्रसन्नाः" ।

अत्र क्षीरोदजा लक्ष्मीस्तस्या वसतिः पद्मं तस्य जन्मभुवो जलानि ।

"भूतये ऽस्तु भवानीशः" ।

अत्र भवानीशशब्दो भवान्याः पत्यन्तरप्रतीतिकारित्वाद्विरुद्धमतिकृत् ।

विधेयस्य विमर्शाभावेन गुणीभूतत्वम् अविमृष्टविधेयांशत्वम् ।

यथा--- "स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः" ।

अत्र वृथात्वं विधेयम्, तच्च समासे गुणीभावादनुवाद्यत्वप्रतीतिकृत् ।

यथा वा--- "रक्षांस्यपि पुरः स्थातुमलं रामानुजस्य मे" ।

अत्र रामस्येति वाच्यम् ।

यथा वा--- "आसमुद्रक्षितीशानाम्" ।

अत्रासमुद्रमिति वाच्यम् ।

यथा वा--- "यत्र ते पतति सुभ्रु ! कटाक्षः षष्ठबाण इव पञ्चशरस्य" ।

अत्र षष्ठ इवेत्युत्प्रेक्ष्यम् ।

यथा वा--- "अमुक्ता भवता नाथ ! मुहूर्त्तमपि सा पुरा" ।

अत्रामुक्तेत्यत्र "नञः प्रसज्यप्रतिषेधत्व" मिति विधेयत्वमेवोचितम् ।

यदाहुः--- "अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।

प्रसज्यप्रतिषेधो ऽसौ क्रियया सह यत्र नञ्" ।।

 

यथा--- "नवजलधरः संनद्धो ऽयं न दृप्तनिशाचरः" ।

उक्तोदाहरणो तु तत्पुरुषसमासे गुणीभावे नञः पर्युदासतया निषेधस्य विधेयतयानवगमः ।

यदाहुः--- "प्रधानत्वं विधेर्यत्र प्रतिषेधे ऽप्रधानता ।

पर्युदासः स विज्ञेयो, यत्रोत्तरपदेन नञ्" ।।

 

तेन---"जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।

अगुध्नुराददे सोर्ऽथानसक्तः सुखमन्वभूत्" ।।

 

अत्रात्रस्तताद्यनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गुणीभावो युक्तः ।

ननु "अश्राद्धभोजी ब्राह्मणः" "असूर्यंपश्या राजदाराः" इत्यादिवत् "अमुक्ता" इत्यत्रापि प्रसज्यप्रतिषेधो भवतीति चेद् ? , अत्रापि यदि भोजनादिरूपक्रियांशेन नञः सम्बन्धः स्यात्तदैव तत्र प्रसज्यप्रतिषेधत्वं वक्तुं शक्यम, न च तथा ॑ विशेष्यतया प्रधानेन तद्धोज्यार्थेन कर्त्रंशेनैव नञः सम्बन्धात् ।

यदाहुः--- "श्राद्धभोजनशीलो हि यतः कर्ता प्रतीयते ।

न तद्भोजनमात्रं तु कर्तरीनेर्विधानतः" ।।

 

इति ।

"अमुक्ता" इत्यत्र तु क्रिययैव सह संबन्ध इति दोष एव ।

एते च क्लिष्टत्वादयः समासगता एव पददोषाः ।

वाक्ये दुः श्रवत्वं यथा--- "स्मरार्त्त्यन्धः कदा लप्स्ये कार्त्तार्थ्यं विरहे तव" ।।

 

कृतप्रवृत्तिरन्यार्थे कविर्वान्तं समश्नुते ।।

 

अत्र जुगुप्साव्यञ्जिकाश्लीलता ।

"उद्यत्कमललौहित्यैर्वक्राभिर्भूषता तनुः" ।।

 

अत्र कलललौहित्यं पद्मरागः, वक्राभिर्वामाभिः, इति नेयार्थता ।

"धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः ।

रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम्" ।।

 

अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न सज्यतीति संबन्धः क्लिष्टः ।

"न्यक्कारो ह्ययमेव मे यदरयः" इति ।

अत्र चायमेव न्यक्कार इति न्यक्कारस्य विधेयत्वं विवक्षितम् ।

तच्च शब्दरचनावैपरीत्यैन गुणीभूतम् ।

रचना च पदद्वयस्य विपरीतेति वाक्यदोषः ।

"आनन्दयति ते नेत्रे यो ऽसौ सुभ्रु ! समागतः" ।

इत्यादिषु "यत्तदोनित्यसंबन्धः" इति न्यायादुपक्रान्तस्य यच्छब्दस्य निराकाङ्क्षत्वप्रतिपत्तये तच्छब्दसमानार्थतया प्रतिपाद्यमाना इदमेतदः शब्दा विधेया एव भवितुं युक्ताः ।

अत्र तु यच्छब्दनिकटस्थतया अनुवाद्यत्वप्रतीतिकृत् ।

तच्छब्दस्यापि यच्छब्दनिकटस्थितस्य प्रसिद्धपरामर्शित्वमात्रम् ।

यथा--- "यः स ते नयनानन्दकरः सुभ्रु ! स आगतः" ।

यच्छब्दव्यवधानेन स्थितास्तु निराकाङ्क्षत्वमवगमयन्ति ।

यथा--- "आनन्दयति ते नेत्रे यो ऽधुनासौ समागतः" ।

एवमिदमादिशब्दोपादाने ऽपि ।

यत्र च यत्तदोरेकस्यार्थत्वं संभवति, तत्रैकस्योपादाने ऽपि निराकाङ्क्षत्वप्रतीतिरिति न क्षतिः ।

तथाहि यच्छब्दस्योत्तरवाक्यगत्वेनोपादाने सामर्थ्यात् पूर्ववाक्ये तच्छब्दस्यार्थत्वम् ।

यथा--- "आत्मा जानाति यत्पापम्" ।

एवम्---"यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।

भास्वन्ति रत्नानि महौषधीश्च---" इत्यादावपि ।

तच्छब्दस्य प्रक्रान्तप्रसिद्धानुभूतार्थत्वे यच्छब्दस्यार्थत्वम् ।

क्रमेण यथा--- "स हत्वा वालिनं वीरस्तत्पद्रे चिरकाङ्क्षिते ।

धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत्" ।।

 

"स वः शशिकलामौलिस्तादात्म्यायोपकल्पताम्" ।

"तामिन्दुसुन्दरमुखीं हृदि चिन्तयामि" ।

यत्र च यच्छब्दनिकटस्थितानामपीदमादिशब्दानां भिन्नलिङ्गविभक्तित्वं तत्रापि निराकाङ्क्षत्वमेव ।

क्रमेण यथा-- "विभाति मृगशावाक्षी येदं भुवनभूषणम्" ।

"इन्दुर्विभाति यस्तेन दग्धाः पथिकयोषितः" ।

क्वचिदनुपात्तयोर्द्वयोरपि सामर्थ्यादवगमः ।

यथा--- "न मे शमयिता को ऽपि मारस्येत्युवि ! मा शुचः ।

नन्दस्य भवने को ऽपि बालो ऽस्त्यद्भुतपौरुषः" ।।

 

अत्र यो ऽस्ति, स ते भारस्य शमयितेति बुध्यते ।

"यद्यद्विरहदुःखं मे तत्को वापहरिष्यति" ।

इत्यत्रैको यच्छब्दः साकाङ्क्ष इति न वाच्यम्, तथाहि---यद्यदित्यनेन केनचिद्रूपेण स्थितं सर्वात्मकं वस्तु विवक्षितम् ।

तथाभूतस्य तस्य तच्छब्देन परामर्शः ।

एवमन्येषामपि वाक्यगतत्वेनोदाहरणं बोध्यम् ।

पदांशे दुः श्रवत्वं यथा--- "तद्रच्छ सिद्धयै कुरु देवकार्यम्" ।

"धातुमत्तां गिरिर्धत्ते" ।

अत्र मत्ताशब्दः क्षीबार्थे निहतः ।

"वर्ण्यते किं महासेनो विजेयो यस्य तारकः" ।

अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थे ऽवाचकः ।

"पाणिः पल्लवपेल्लत्रः" ।

पेलवशब्दस्याद्याक्षरे अश्लीले ।

"संग्रामे निहताः शूरा वचो बाणत्वमागताः" ।

अत्र वचः शब्दस्य गीः शब्दवाचकत्वे नेयार्थात्वम् ।

तथा तत्रैव बाणस्थाने शरेति पाठे ।

अत्र पदद्वयमपि न परिवृत्तिसहम् ।

जलध्यादौ तूत्तरपदम्, वाडवानलादौ पूर्वपदम् ।

एवमन्ये ऽपि यथासंभवं पदांशदोषा ज्ञेयाः ।

निरर्थकत्वादीनां त्रयाणां च पदमात्रगतत्वेनैल लक्ष्ये संभवः ।

क्रमतो यथा--- "मुञ्च मानं हि मानिनि !" ।।

 

अत्र हिशब्दो वृत्तपूरणमात्रप्रयोजनः ।

कुञ्जं हन्ति कृशोदरी ।

अत्र हन्तीति गमनार्थे पठितमपि न तत्र समर्थम् ।

"गण्डीवी कनकशिलानिभं भुजभ्यामाजध्ने विषमविलोचनस्य वक्षः" ।

"आङो यमहनःऽ, "स्वाङ्गकर्मकाच्च" इत्यनुशासनबलादाङ्पूर्वस्य हनः स्वाङ्गकर्मकस्यैवात्मनेपदं नियमितम् ।

इह तु तल्लाङ्घतमिति व्याकरणलक्षणहीनत्वात् च्युतसंस्कारत्वम् ।

नन्वत्र "आजध्ने" इति पदस्य स्वतो न दुष्टता, अपि तु पदान्तरापेक्षयैव इत्यस्य वाक्यदोषता ? मैवम्, तथाहि गुणदोषालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेस्तदन्वयव्यतिरेकानुविधायित्वं हेतुः ।

इह तु दोषस्य "आजघ्ने" इति पदमात्रस्यैवान्वयव्यतिरेकानुविधायित्वम, पदान्तराणां परिवर्त्तने ऽपि तस्य तादवस्थ्यादिति पददोषत्वमेव ।

तथा यथेहात्मनेपदस्य परिवृत्तावपि न पददोषः, तथा हन्प्रकृतेरपीति न पदांशदोषः ।

एवं "पद्मः" इत्यत्राप्रयुक्तस्य पदगतत्वं बोध्यम् ।

एवं प्राकृतादिव्याकरणलक्षणहानावपि च्युतसंस्कारत्वमूह्यम् ।

इह तु शब्दानां सर्वथा प्रयोगाभावे ऽसमर्थत्वम् ।

विरलप्रयोगे निहतार्थत्वम् ।

निहतार्थत्वमनेकार्थशब्दविषयम् ।

अप्रतीतत्वं त्वेकार्थस्यापि शब्दस्य सार्वत्रिकप्रयोगविरहः ।

अप्रयुक्तत्वमेकार्थशब्दविषयम् ।

असमर्थत्वमनेकार्थशब्दविषयम् ।

असमर्थत्वे हन्त्यादयो ऽपि गमनार्थे पठिताः ।

अवाकचत्वे दिनादयः प्रकाशमयाद्यर्थे, न तथेति परस्परभेदः ।

एवं पददोषसजातीया वाक्यदोषा उक्ताः, सम्प्रति तद्विजातीया उच्यन्ते---

 

"वर्णानां प्रतिकूलत्वं, लुप्ताऽहतविसर्गते ।

अधिकन्यूनकथितपदताहतवृत्तता ।। साद-७.५ ।।

 

पतत्प्रकर्षता, सन्धौ विश्लेषाश्लीलकष्टताः ।

अर्धान्तरैकपदता समाप्तपुनरात्तता ।। साद-७.६ ।।

 

अभवन्मतसम्बन्धाक्रमामतपरार्थताः ।

वाच्यस्यानभिधानं च भग्नप्रकमता तथा ।। साद-७.७ ।।

 

त्यागः प्रसिद्धेरस्थाने न्यासः पदसमास्योः ।

संकीर्णता गर्भितता दोषाः स्युर्वाक्यमात्रगाः ।। साद-७.८ ।।

 

वर्णानां रसानुगुण्यविपरीतत्वं प्रतिकूलत्वम् ।

यथा मम--- "ओवट्टै उल्लट्टै सअणो कहिंपि मोट्टाऐ णो परिहट्टै ।

हिअएण फिट्टै लज्जाइ खुट्टै दिहीए सा" ।।

 

अत्र टकाराः शृङ्गारसपरिपन्थिनः केवलं शक्तिप्रदर्शनाय निबद्धाः ।

एषां चैकद्वित्रिचतुः प्रयोगे न तादृशग्रसभङ्ग इति न दोषः ।

"गता निशा इमा बाले !" ।

अत्र लुप्तविसर्गाः ।

आहता ओत्वं प्राप्ता विसर्गा यत्र ।

यथा--- "धीरो वरो नरो याति" ।

"पल्लवाकृतिरक्तोष्ठी" ।

अत्राकृतिपदमधिकम् ।

एवम्---"सदाशिवं नौमि पिनाकपाणिम्" ।

इति विशेषणमधिकम् ।

"कुर्यां हरस्यापि पिनाकपाणोःऽिति ।

अत्र तु पिनाकपाणिपदं विशेषप्रतिपत्त्यर्थमुपात्तमिति युक्तमेव ।

यथा वा--- "वाचमुवाच कौत्सः" ।

अत्र वाचमित्यधिकम् ।

उवाचेत्यनेनैव गतार्थत्वात् ।

क्वचित्तु विशेषणदानार्थं तत्प्रयोगो युज्यते ।

यथा--- "उवाच मधुरा वाचम्" इति ।

केचित्त्वाहुः---यत्र विशेषणस्यापि क्रियाविशेषणत्वं सम्भवति तत्रापि तत्प्रयोगो न घटते ।

यथा--- "उवाच मधुरं धीमान्" इति ।

"यदि मय्यर्पिता दृष्टिः किं ममेन्द्रतया तदा" ।

अत्र प्रथमे त्वयेति पदं न्यूनम् ।

"रतिलीलाश्रमं भिन्ते सलीलमनिलो वहन्" ।

अत्र लीलाशब्दः पुनरुक्तः ।

एवम्---"जक्षुर्विसं धृतविकासिविसप्रसूनाः" ।

अत्र विसशब्दस्य धृतपरिस्फुटतत्प्रसूना इति सर्वनाम्नैव परामर्शो युक्तः ।

हतवृत्तम्---लक्षणानुसरणो ऽप्यश्रव्यम्, रसाननुगुणम्, अप्राप्तगुरुभावान्तलघु च ।

क्रमेण यथा--- "हन्त ! सततमेतस्य हृदयं भिन्ते मनोभवः कुपितः" ।

"अयि ! मयि मानिनि ! मा कुरु मानम्" ।

इदं वृत्तं हास्यरसस्यैवानुकूलम् ।

"विकसित-सहकार-भार-हारि-परिमल एष समागतो वसन्तः" ।

यत्पादान्ते लघोरपि गुरुभावः उक्तः, तत्सर्वत्र द्वितीयचतुर्थपादविषयम् ।

प्रथमतृतीयपादविषयन्तु वसन्ततिलकादेरेव ।

अत्र"प्रमुदितसौरभ आगतो वसन्तः" इति पाठो युक्तः ।

यथा वा--- "अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा सम्भाराः खलु ते ऽन्य एव विधिना यैरेष सृष्टो युवा ।

श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां निग्तबस्थलात् दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च" ।।

 

अत्र "वस्त्राणि च" इति बन्धस्य श्लथत्वश्रुतिः ।

"वस्त्राण्यपि" इति पाठे तु दार्ढ्यमिति न दोषः ।

"इदमप्राप्तगुरुभावान्तलघु" इति काव्यप्रकाशकारः ।

वस्तुतस्तु "लक्षणानुसरणो ऽप्यश्रव्यम्" इत्यन्ये ।

प्रोज्जलज्ज्वालनज्वाला-विकटोरुसटाच्छटः ।

श्वासक्षिप्तकुलक्ष्माभृत् पातु वो नरकेशरी ।।

 

अत्र क्रमेणानुप्रासप्रकर्षः पतितः ।

"दलिते उत्पले एते अक्षिणी अमलाङ्गि ! ते" ।

एवंविधसन्धिविश्लेषस्य असकृत प्रयोग एव दोषः ।

अनुशासनमुल्लङ्घ्य वृत्तभङ्गभयमात्रेण सन्धैविश्लेषस्य तु सकृदपि ।

यथा--- "वासवाशामुखे भाति इन्दुश्चन्दनबिन्दुवत्" ।

"चलण्डामरचेष्टितः" इति ।

अत्र सन्धौ जुगुप्साव्यञ्जकमश्लीलत्वम् ।

"उर्व्यसावत्र तर्वालीमर्वन्ते चार्ववस्थितिः" ।

"अत्र सन्धौ कष्टत्वम् ।

"इन्दुर्विभाति कर्पूरगौरैर्धवलयन् करैः ।

जगन्मा कुरु तन्वङ्गि ! मानं पादानते प्रिये" ।।

 

अत्र जगदिति प्रथमार्द्धे पठितमुचितम् ।

"नाशयन्तो घनध्वान्तं तापयन्तो वियोगिनः ।

पतन्ति शशिनः पदा भासयन्तः क्षमातलम्" ।।

 

अत्र चतुर्थपादो वाक्यसमाप्तावपि पुनरुपात्तः ।

श्रभवन्मतसम्बन्धो यथा--- "या जयश्रीर्मनोजस्य यया जगदलङ्कृतम् ।

यामेणाक्षीं विना प्राणा विफला मे कुतो ऽद्य सा" ।।

 

अत्र यच्छब्दनिद्दिष्टनां वाक्यानां परस्परनिरपेक्षत्वात् तदेकान्तः पातिना एणाक्षीशब्देन अन्येषां सम्बन्धः कवेरभिमतो नोपपद्यत एव ।

"यां विनामी वृथा प्राणा एणाक्षी सा कृतो ऽद्य मे" ।

इति तच्छब्दनिर्दिष्टवाक्यान्तः पातित्वे ऽपि यच्छब्दनिद्दिष्टवाक्यैः सम्बन्धो घटते ।

यथा वा--- "ईक्षसे यत्कटाक्षेण तदा धन्वी मनोभुवः" ।

अत्र यदित्यस्य तदेत्यनेन सम्बन्धो न घटते ।

"ईक्षसे चेत्" इति तु युक्तः पाठः ।

यथा वा--- "ज्योत्स्नाचयः पयः पूरस्तारकाः कैरवाणि च ।

राजति व्योमकासारराजहंसः सुधाकरः" ।।

 

अत्र व्योमकासारशब्दस्य समासे गुणीभावात्तदर्थस्य न सर्वैः संयोगः ।

विधेयाविमर्शे यदेवाविमृष्टं तदेव दुष्टम् ।

इह तु प्रधानस्य कासारपदार्थस्य प्राधान्येनाप्रतीतेः सर्वो ऽपि पयः पूरादिशब्दार्थस्तदङ्गतया न प्रतीयत इति सर्ववाक्यार्थविरोधावभास इत्युभयोर्भेदः ।

"अनेन च्छिन्दता मातुः कण्ठं पशुना तव ।

बद्धस्पर्द्धः कृपाणो ऽयं लज्जते मम भार्गव !" ।।

 

अत्र "भार्गवनिन्दायां प्रयुक्तस्य मातृकण्ठच्छेदनकर्त्तृत्वस्य परशुना सम्बन्धो न युक्तः" इति प्राच्याः ।

"परशुनन्दामुखेन भार्गवनिन्दाधिक्यमेव वैदग्ध्यं द्योतयति " इत्याधुनिकाः ।

अक्रमता यथा--- समय एव करोति बालबलं प्रणिगदन्त इतीव शरीरिणाम् ।

शरदि हंसरवाः परुषीकृताः स्वरमयूरमयूरयणीयताम् ।।

 

अत्र परामृश्यमानवाक्यानन्तरमेवेति शब्दोपयोगो युज्यते, न तु "प्रणिगदन्त" इत्यनन्तरम् ।

एवम् ---- "द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।

कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी" ।।

 

अत्र त्वमित्यनन्तरमेव चकारो युक्तः ।

अमतपरार्थता यथा--- "राममन्मथशरेण ताडिता-" इत्यादि ।

अत्र शृङ्गारसस्य व्यञ्जको द्वितीयोर्ऽथः प्रकृतरसविरोधित्वादनिष्टः ।

वाच्यस्यानिभिधानं यथा--- "व्यतिक्रमलवं कं मे वीक्ष्य वामाक्षि ! कुप्यसि" ।

अत्र व्यतिक्रमलवमपीत्यपरिवश्यं वक्तत्र्यो नोक्तः ।

न्यूनपदत्वे वाचकपदस्यैव न्यूनता विवक्षिता, अपेस्तु न तथात्वमित्यनयोर्भेदः ।

एवमन्यत्रापि ।

यथा वा--- "चरणानतकान्तायास्तन्वि ! कोपस्तथापि ते" ।।

 

अत्र चरणानतकान्तासीति वाच्यम् ।

भग्नप्रक्रमता यथा--- "एतमुक्तो मन्त्रिमुख्यैः रावणः प्रत्यभाषत" ।

अत्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैव वक्तुमुचितम् ।

तेन "रावणः प्रत्यवोचत" इति पाठो युक्तः ।

एवं च सति न कथितपदत्वदोषः, तस्योद्देश्यव्यतिरिक्तविषयकत्वात् ।

इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिनिर्देशत्वम् ।

यथा--- "उदेति सविता ताम्रस्ताम्र एवास्तमेति च" ।

इत्यत्र हि यदि पदान्तरेण स एवार्थः प्रतिपाद्यते तदान्योर्ऽथ इव प्रतिभासमानः प्रतीतिं स्थगयति ।

यथा वा--- "ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।

सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः" ।।

 

अत्र "अस्मै" इतीदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतदः शब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन ।

यथा वा--- "उदन्वच्छिन्ना भूः स च पतिरपां योजनशतम्" ।

अत्र "मिता भूः पत्यापां स च पतिरपाम्" इति युक्तः पाठः ।

एवम्--- "यशो ऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा ।

निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः" ।।

 

अत्र "सुखमीहितुम्" इत्युचितम् ।

अत्राद्ययोः प्रकृतिविषयः प्रक्रमभेदः ।

तृतीये पर्यायविषयः, चतुर्थे प्रत्ययविषयः ।

एवमन्यत्रापि ।

प्रसिद्धत्यागो यथा--- "घोरो वारिमुचां रवः" ।

अत्र मेघानां गर्जितमेव प्रसिद्धम् ।

यदाहुः--- "मञ्जीरादिषु रणतिप्रायं पक्षिषु च कूजितप्रभृति ।

स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम्" ।।

 

इत्यादि ।

अस्थानस्थपदता यथा--- "तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतो ऽस्य गङ्गाम् ।

अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः" ।।

 

अत्र तदीयपदात्पूर्वं गङ्गामित्यस्य पाठो युक्तः ।

एवम् --- "हितान्न यः संशृणुते स किं प्रभुः" ।।

 

अत्र संशृणुत इत्यतः पूर्वं नञः स्थितिरुचिता ।

अत्र च पदमात्रस्यास्थाने निवेशे ऽपि सर्वमेव वाक्यं विवक्षितार्थप्रत्यायने मन्थरमिति वाक्यदोषता ।

एवमन्यत्रापि ।

इह के ऽप्याहु--"पदशब्देन वाचकमेव प्रायशो निगद्यते, न च नञो वाचकता, निर्विवादात्स्वातन्त्र्येणार्थबोधनविरहात्" इति ।

यथा---"द्वयं गतम्-" इत्यादौ त्वमित्यनन्तरं चकारानुपादानादक्रमता तथात्रापीति ।

अस्थनस्थसमासता यथा--- "अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगति क्रोधादिवालोहितः ।

प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा त्फुल्लत्कैरवकोषनिः सरदलिश्रेणीकृपाणां शशी" ।।

 

अत्र कोपिन उक्तौ समासो न कृतः, कवेरुक्तौ कृतः ।

वाक्यान्तरपदानां वाक्यान्तरे ऽनुप्रवेशः सङ्कीर्णात्वम् ।

यथा--- "चन्द्रं मुञ्च कुरङ्गाक्षि ! पश्य मानं नभो ऽङ्गने" ।

अत्र नभो ऽङ्गने चन्द्रं पश्य मानं मुञ्चेति युक्तम् ।

"क्लिष्टत्वमेकवाक्यविषयम्" इत्यस्माद्भिन्नम् ।

वाक्यान्तरे वाक्यान्तरानुप्रवेशो गर्भितता ।

यथा--- "रमणे चरणप्रान्ते प्रणतिप्रवणे ऽधुना ।

वदामि सखि ! तत्त्वं ते कदाचिन्नोचिताः क्रुधः" ।।

 

अर्थदोषानाह---

 

अपुष्टदुष्कमग्राम्यव्यावहताश्लीलकष्टताः ।

अनवीकृतनिर्हेतुप्रकाशितविरुद्धताः ।। साद-७.९ ।।

 

सन्दिग्धपुनरुक्तत्वे ख्यातिविद्याविरुद्धते ।

साकाङ्क्षता सहचरभिन्नतास्थानयुक्तता ।। साद-७.१० ।।

 

अविशेषे विशेषश्चानियमे नियमस्तथा ।

तयोर्विपर्ययौ विध्यनुवादायुक्तते तथा ।। साद-७.११ ।।

 

निर्मुक्तरुनरुक्तत्वमर्थदोषाः प्रकीर्तिताः ।

तद्विपर्ययो विशेषे ऽविशेषो नियमे ऽनियमः ।

अत्रापुष्टत्वं मुख्यानुपकारित्वम् ।

यथा--- "विलोक्य वितते व्योम्नि विधुं मुञ्च रुषं प्रिये !" अत्र विततशब्दो मानत्यागं प्रति न किञ्चिदुपकुरुते ।

अधिकपदत्वे पदार्थान्वयप्रतीतेः समकालमेव बाधप्रतिभासः, इह तु पश्चादिति विशेषः ।

दुष्क्रमता यथा--- "देहि मे वाजिनं राजन् ! गजेन्द्रं वा मदालसम्" ।

अत्र गजेन्द्रस्य प्रथमं याचनमुचितम् ।

"स्वपिहि त्वं समीपे मे स्वपिम्येवाधुना प्रिय !" अत्रार्थो ग्राम्यः ।

कस्यचित्प्रगुत्कर्षमपकर्षं वाभिधाय पश्चात्तदन्यप्रतिपादनं व्याहतत्वम् ।

यथा---"हरन्ति हृदयं यूनां न नवेन्दुकलादयः ।

वीक्ष्यते यैरियं तन्वी लोकलोचनचन्द्रिका" ।।

 

अत्र येषामिन्दुकला नानन्दहेतुस्तेषामेवानन्दाय तन्व्याश्चन्द्रिकात्वारोपः ।

"हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।

यथाशु जायते पातो न तथा पुनरुन्नतिः" ।।

 

अत्रार्थो ऽश्लीलः ।

"वर्षत्येतदहर्पतिर्न तु घनो धामस्थामच्छं पयः सत्यं सा सवितुः सुता सुरसरित्पूरो यथा प्लावितः ।

व्यासस्योक्तिषु विश्वसित्यपि न कः, श्रद्धा न कस्य श्रुतौ न प्रत्येति तथापि मुग्धहरिणी भास्वन्मरीचिष्वपः" ।।

 

अत्र यस्मात्सूर्याद्वृष्टेर्यमुनायाश्च प्रभवस्तस्मात्तयोर्जलमपि सूर्यप्रभम् ।

ततश्च सूर्यमरीचीनां जलप्रत्ययहेतुत्वमुचितम्, तथापि मृगी भ्रान्ततत्वात्तत्र जलप्रत्ययं न करोति ।

अयमप्रस्तुतो ऽप्यर्थो दुर्बोधः, दूरे चास्मत्प्रस्तुतार्थबोध इति कष्टार्थत्वम् ।

"सदा चरति खे भानुः सदा वहति मारुतः ।

सदा धत्ते भुवं शेषः सदा धीरो ऽविकत्थनः" ।।

 

अत्र सदेत्यनवीकृतत्वम् ।

अत्रास्य पदस्य पर्यायान्तरणोपादाने ऽपि यदि नान्यद्विच्छित्त्यान्तं तदास्य दोषस्य सद्भाव इति कथितपदत्वाद्भेदः ।

नवीकृतत्वं यथा--- "भानुः सकृद्युक्ततुरुङ्ग एवं रात्रिन्दिवं गन्धवहः प्रयाति ।

विभर्त्ति शेषः सततं धरित्रीं षष्ठांशवृत्तेरपि धर्म एषः ।।

 

ऽिति ।

"गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः ।

परित्यक्तं तेन त्वमपि सुतशोकान्न तु भया- द्विमोक्ष्ये शस्त्र !त्वामहमपि यतः स्वस्ति भवते" ।।

 

अत्र द्वितीयशस्त्रमोचने हेतुर्नोक्त इति निर्हेतुत्वम् ।

"कुमारस्ते नराधीश ! श्रियं समधिगच्छतु" ।

अत्र "त्वं म्रियस्व" इति विरुद्धार्थप्रकाशनात्प्रकाशितविरुद्धत्वम् ।

"अचला अबला वा स्युः सेव्या ब्रूत मनीषिणः ?"

अत्र प्रकरणाभावच्छान्तशृङ्गारिणोः को वक्तेति निश्चयाभावात्सन्दिग्धत्वम् ।

"सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।

वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः" ।।

 

अत्र द्वितीयार्धे व्यतिरेकेण द्वितीयपादस्यैवार्थ इति पुनरुक्तता ।

प्रसिद्धिविरुद्धता यथा--- "ततश्चार समरे शितशूलधरो हरिः" ।

अत्र हरेः शूलं लोके ऽप्रसिद्धम् ।

यथा वा--- "पदाघातादशोकस्ते सञ्जाताङ्कुरकण्टकः" ।

अत्र पादाधातादशोकेषु पुष्पमेव जायत इति प्रसिद्धं न त्वङ्कुर इति कविसमयख्यतिविरुद्धता ।

"अधरे करजक्षतं मृगाक्ष्याः" ।

अत्र शृङ्गार (काम) शास्त्रीविरुद्धत्वाद्विद्याविरुद्धता ।

एवमन्यशास्त्रविरुद्धत्वमपि ।

"ऐसस्य धनुषो भङ्गं क्षत्त्त्रस्य च समुन्नतिम् ।

स्त्रीरत्नं च कथं नाम मृष्यते भार्गवो ऽधुना" ।।

 

अत्र स्त्रीरत्नमुपेक्षितुमिति साकाङ्क्षता ।

"सज्जनो दुर्गतौ मग्नः कामिनी गलितस्तनी ।

खलः पूज्यः समज्यायां तापाय मम चेतसः" ।।

 

अत्र सज्जनः कामिनी च शोभनौ तत्सहचरः खलो ऽशोभन इति सहचरभिन्नत्वम् ।

"आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ।

उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः" ।।

 

अत्र न रावण इत्येतावतैव समाप्यम् ।

"हीरकाणां निधेरस्य सिन्धोः किं वर्णयामहे" ।

अत्र रत्नानां निधेरित्यविशेष एव वाच्यः ।

"आवर्त्त एव नाभिस्ते नेत्रे नीलसरोरुहे ।

भङ्गाश्च वलयस्तेन त्वं लावण्याम्बुवापिका" ।।

 

अत्रावर्त एकेति नियमो न वाच्यः ।

"यान्ति नीलनिचोलिन्यो रजनीष्वभिसारिकाः" ।

अत्र तमिस्त्रास्विति रजनीविशेषो वाच्यः ।

"आपातसुरसे भोगे निमग्नाः किं न कुर्वते" ।

अत्र आपात एवेति नियमो वाच्यः ।

ननु वाच्यस्यानिभिधाने "व्यतिक्रमलवम्" इत्यादावपेरभावः, इह चैवकारस्येति को ऽनयेर्भेदः ।

अत्राह---"नियमस्य वचनमेव पृथग्भूतं नियमपरिवृत्तेविषयः" इति, तन्न तथा सत्यपि द्वयोः शब्दार्थदोषतायां नियामकाभावात् ।

तत्का गतिरिति चेत् ? "व्यतिक्रमलवम्" इत्यादौ शब्दोच्चारणानन्तरमेव दोषप्रतिभासः, इह त्वर्थप्रत्ययानन्तरमिति भेदः ।

एवं च शब्दपरिवृत्तिसहत्वासहत्वाभ्यां पूर्वैरादृतो ऽपि शब्दार्थदोषविभाग एवं पर्यवस्यति--यो दोषः शब्दपरिवृत्त्यासहः स शब्ददोष एव ।

यश्च पदार्थन्वयप्रतीतिपूर्वबोध्यः सो ऽपि शब्ददोषः ।

यश्चार्थप्रतीत्यनन्तरं बोध्यः सोर्ऽथाश्रय इति ।

एवं चानियमपरिवृत्तित्वादेरप्यधिकपदत्वाद्भेदो बोद्धव्यः ।

अमतपरार्थत्वे तु "राममन्मथशरेण-" इत्यादौ नियमेन वाक्यव्यापित्वाभिप्रायाद्वाक्यदोषता ।

अश्लीलत्वादौ तु न नियमेन वाक्यव्यापित्वम् ।

"आनन्दितस्वपक्षो ऽसौ परपक्षान् हनिष्यति" ।

अत्र परपक्षं हत्वा स्वपक्षमानन्दयिष्यतीति वेधेयम् ।

"चण्डीशचूडाभारण ! चन्द्र ! लोकतमोपह ! ।

विरहिप्राणहरण ! कदर्थय न मां वृथा" ।।

 

अत्र विरहिण उक्तौ तृतीयपादस्यार्थो नानुवाद्यः ।

"लग्नं रागावृताङ्ग्या सदृढमिह यथैवासियष्ट्यापरिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।

तत्सक्तो ऽयं न किञ्चिद्रणयति विदितं ते ऽस्तु तेनास्मदत्ता भृत्येभ्यः श्रीनियोगाद्रदितुमिति गतेवाम्बुधिं यस्य कीर्तिः ।।

 

अत्र विदितं ते ऽस्त्वित्यनेन समापितमपि वचनं तेनेत्यादिना पुनरुपात्तम् ।

अथ रसदोषानाह---

 

रसस्योक्तिः स्वशब्देन स्थायिसंचारिणोरपि ।। साद-७.१२ ।।

 

परिपन्थिरसाङ्गस्य विभावादेः परिग्रहः ।

आक्षेपः कल्पितः कृच्छ्रादनुभावविभावयोः ।। साद-७.१३ ।।

 

अकाण्डे प्रथनच्छेदौ तथा दीप्तिः पुनः पुनः ।

अङ्गिनो ऽननुसंधानमनङ्गस्य च कीर्तनम् ।। साद-७.१४ ।।

 

अतिविस्तृतिरङ्गस्य प्रकृतीनां विपर्ययः ।

अर्थानौचित्यमन्यच्च दोषा रसगता मताः ।

रसस्य स्वशब्दो रसशब्दः शृङ्गारादिशब्दश्च ।

क्रमेण यथा--- "तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः को ऽप्यजायत" ।

"चन्द्रमण्डलमालोक्य शृङ्गारे मग्नमन्तरम्" ।

स्थायिभावस्य स्वशब्दवाच्यं यथा--- "अजायत रतिस्तस्यास्त्वयि लोचनगोचरे" ।

व्यभिचारिणः स्वशब्दवाच्यत्वं यथा--- "जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने" ।

अत्र प्रथमे पादे "आसीन्मुकुलिताक्षी सा" इति लज्जाया अनुभावमुखेन कथने युक्तः पाठः ।

"मानं मा कुरु तन्वङ्गि ! ज्ञात्वा यौवनमस्थिरम्" ।

अत्र यौवनास्थैर्यनिवेदनं शृङ्गाररसस्य परिपन्थिनः शान्तरसस्याङ्गं शान्तस्यैव च विभाव इति शृङ्गारे तत्परिग्रहो न युक्तः ।

"धवलयति शिशिररोचिषि भुवनतलं लोकलोचनान्दे ईषत्क्षिप्तकटाक्षा स्मेरमुखई सा निरीक्ष्यतां तन्वी" ।।

 

अत्र रसस्योद्दीपनालम्बनविभावपर्यवसायिनौ स्थिताविति कष्टकल्पना ।

"परिहरति रतिं मतिं लुनीते स्खलतितरां परिवर्तते च भूयः ।

इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः" ।।

 

अत्र रतिपरिहारादीनां करुणादावपि सम्भवात्कामिनीरूपो विभावः कृच्छ्रादाक्षेप्यः ।

अकाण्डे प्रथनं यथा---वेणीसंहारे द्वितीये ऽङ्के प्रवर्तमानानेकवीरसंक्षये ऽकाले दुर्योधनस्य भानुमत्या सह शृङ्गारप्रथनम् ।

छेदो यथा--वीरचरिते राघवभार्गवयोर्धाराधिरूढे ऽन्योन्यसंरम्भे कङ्कणमोचनाय गच्छामीति राघवस्योक्तिः ।

पुनः पुनर्देप्तिर्यथा--कुमारसंभवे रतिविलापे ।

अङ्गिनो ऽननुसंधानां यथा--रत्नावल्यां चतुर्थेङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः ।

अनङ्गस्य कीर्तनं यथा--कर्पूरमञ्जर्या राजनायिकयोः स्वयं कृतं वसन्तस्य वर्णनमनादृत्य बन्दिवर्णितस्य प्रशंसनम् ।

अङ्गस्यातिविस्तृतिर्यथा---किराते सुराङ्गनाविलासादिः ।

प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्चेति ।

तेषां धीरोदात्तादिता ।

तेषामप्युत्तमाधममध्यमत्वम् ।

तेषु च यो यथाभूतस्तस्यायथावर्णने प्रकृतिविपर्ययो दोषः ।

यथा--धीरोदात्तस्य रामस्य धीरोद्धतवच्छद्मना वालिवधः ।

यथा वा---कुमारसंभवे उत्तमदेवतयोः पार्वतीपरमेश्चरयोः संभोगशृङ्गारवर्णनम् ।

"इदं पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम्" इत्याहुः ।

अन्यदनौचित्यं देशकालादीनामन्यथा यद्वर्णनम् ।

तथा सति हि काव्यस्यासत्यताप्रतिभासेन विनेयानामुन्मुखीकारासंभवः ।

एभ्यः पृथगलङ्कारदोषाणां नैव संभवः ।। साद-७.१५ ।।

 

पभ्य उक्तदोषेभ्यः ।

तथाहि--उपमायामसादृश्यासंभवयोरुपमानस्य जाति प्रमाणगतन्यनत्वाधिकत्वयोरर्थान्तरन्यासे उत्प्रेक्षितार्थसमर्थने चानुचितार्थत्वम् क्रमेण यथा--- "ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम्" ।

"प्रज्वलज्जलधारावान्नपतन्ति शरास्तव" ।

"चण्डाल इव राजासौ संग्रामे ऽधिकसाहसः" ।

"कर्परखण्ड इव राजति चन्द्रबिम्बम्" ।

"हरवन्नीलकण्ठो ऽयं विराजति शिखावलः" ।

"स्तनावद्रिसमानौ ते" ।

"दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।

क्षुद्रे ऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव" ।।

 

एवमादिषूत्प्रेक्षितार्थस्यासं त्रततयैव प्रतिभासनं स्वरूपमित्यनुचितमेव तत्समर्थनम् ।

यमकस्य पादत्रयगतस्याप्रयुक्तत्वं दोषः ।

यथा--- "सहसाभिजनैः स्निग्धैः सह सा कुञ्जमन्दिरम् ।

उदिते रजनीनाथे सहतायाति सुन्दरी" ।।

 

उत्प्रेक्षायां यथाशब्दस्योत्प्रेक्षाद्यंतकत्वे ऽवाचकत्वम् ।

यथा--- "एष मूर्तो यथा धर्मः क्षितिपो रक्षति क्षितिम्" ।

एवमनुप्रासे वृत्तिविरुद्धस्य प्रतिकूलवर्णत्वम् ।

यथा--- "ओवट्टै उल्लट्टै-- इत्यादौ ।

उपमायां च साधारणधर्मस्याधिकन्यूनत्वयोरधिकपदत्वं न्यूनपदत्वं च ।

क्रमेणोदाहरणम्--- "नयनज्योतिषा भाति शंभुमूतिसितद्युतिः ।

विद्युतेव शरन्मेघो नीलवारिदखण्डवृक्" ।।

 

अत्र भगवतो नीलकण्ठत्वस्याप्रतिपादनाच्चतुर्थपादो ऽधिकः ।

"कमलालिङ्गितस्तारहारहारी मुरं द्विषन् ।

विद्युद्वभूषितो नीलजीमूत इव राजते" ।।

 

अत्रोपमानस्य सबलाकत्वं वाच्यम् ।

अस्यामेवोपमानोपमेययोलिङ्गवचनभेदस्य कालपुरुषविध्यादिभेदस्य च भग्नप्रक्रमत्वम् ।

क्रमेणोदाहरणम्--- "सुधेव विमलश्चन्द्रः" ।

"ज्योत्स्ना इव सिता कीर्तिः" ।

"काप्यभिख्या यतोरासीद्व्रजतोः शुद्धवेषयोः ।

हिमनिर्मुक्तयोयागे चित्रचन्द्रमसोरिव" ।।

 

अत्र तथाभूतचित्राचन्द्रमसोः शोभा न खल्वासीत् ।

अपि तु सर्वदापि मवति ।

"लतेव राजसे तन्वि !" अत्र लता राजते, त्वं तु राजसे ।

"चिरं जीवतु ते सूतुर्माकण्डेयमुनिर्यथा" ।

अत्र मार्कण्डेयमुनिर्जावत्येव, न खल्वेतदस्य "जीवतु" इत्यनेन विधेयम् ।

इह तु यत्र लिङ्गवचनभेदे ऽपि न साधारणधपर्मस्यान्यथाभावस्तत्र न दोषः ।

क्रमेणोदाहरणम्--- "मुखं चन्द्र इवाभाति" ।

"तद्वेशो ऽसदृशो ऽन्याभिः स्त्रीभिर्मधुरताभृतः ।

दधते स्म परां शोभां तदीया विभ्रमा इव" ।।

 

पूर्वोदाहरणोषु उपमानोपमेययोरेकस्यैव साधारणधर्मेणान्वयसिद्धेः प्रक्रान्तस्यार्थस्य स्फुटो ऽनिर्वाहः ।

एवमनुप्रासे वैफल्यस्यापुष्टार्थत्वम् ।

यथा--"अनणुरणन्मणिमेखलमविरलशिञ्जानमञ्जुमञ्जीरम् ।

परिसरणमरुणचरणो ! रणरणकमकारणं कुरुते" ।।

 

एवं समासोक्तौ साधारणविशेषणवशात्परार्थस्य प्रतीतावपि पुनस्तस्य शब्देनोपादानस्याप्रस्तुतप्रशंसायां व्यञ्जनयैव प्रस्तुतार्थावगतेः शब्देन तदभिधानस्य च पुनरुक्तत्वम् ।

क्रमेणोदाहरणम्--- "अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।

निरकासयद्रविमपेतवसुं वियदालयादपरिदग्गणिका" ।।

 

अत्रापरदिगित्येतावतैव तस्या गणिकात्वं प्रतीयते ।

"आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां धुरम् ।

खद्योतो ऽपि न कम्पते प्रचलितुं मध्ये ऽपि तेजस्विनां धिक्सामान्यमचेतसं प्रभुमिवानामृष्टतत्त्वान्तरम्" ।।

 

अत्राचेतसः प्रभोरभिधानमनुचितम् ।

एवमनुप्रासे प्रसिद्ध्यभावस्य ख्यातविरुद्धत्वम् ।

यथा--- "चक्राधिष्ठततां चक्री गोत्रं गोत्रभिदुच्छ्रितम् ।

वृषं वृषभकेतुश्च प्रायच्छन्नस्य भूभुजः" ।।

 

उक्तदोषाणां च क्वचिददोषत्वं क्वचिद्गुणत्वमित्याह---

 

वक्तरि क्रोधसंयुक्ते तथा वाच्ये समुद्धते ।

रौद्रादौ तु रसे ऽत्यन्तं दुः श्रवत्वं गुणो भवेत् ।। साद-७.१६ ।।

 

एषु चास्वादस्वरूपविषात्मकतया मुख्यगुणप्रकर्षोपकारित्वाद्गुण इति व्यपदेशो भाक्तः ।

क्रमेण यथा--- "तद्विच्छेदकृशस्य कण्ठलुठितप्राणस्य मे निर्दयं क्रूरः पञ्चशरः शररतिशितैर्भिन्दन्मनो निर्भरम् ।

शम्भोर्भूतकृपाविधेयमनसः प्रोद्दामनेत्रानल- ज्वालाजालकरालितः पुनरसावास्तां समस्तात्मना" ।।

 

अत्र शृङ्गारे कुपितो वक्ता ।

"मूर्धव्याधूयमानध्वनदमरधुनीलोलकल्लोलजालो- द्धूताम्भः क्षोददम्भात्प्रसभमभिनभः क्षिप्तनक्षत्रलक्षण् ।

ऊर्ध्वन्यस्ताङिघ्रदण्डभ्रमिभररभसोद्यन्नभस्वत्प्रवेग- भ्रान्तब्रह्मण्डखण्डं प्रवितरतु शिवं शाम्भवं ताण्डवं वः" ।।

 

अत्रोद्धतताण्डवं वाच्यम् ।

इमे पद्ये मम ।

रौद्रादिरसत्व एतदिद्वतयोपेक्षयापि दुः श्रवत्वमत्यन्तं गुणः ।

यथा-- "उत्कृत्योत्कृत्य कृत्तिम--" इत्यादि ।

अत्र बीभत्सो रसः ।

सुरतारम्भगोष्ठ्यादावश्लीलत्वं तथा पुनः ।

तथा पुनरिति गुण एव ।

यथा--- "करिहस्तेन संबाधे प्रविश्यान्तविलोडिते ।

उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते" ।।

 

अत्र हि सुरतारम्भगोष्ठ्याम्--- "ताम्बूलदानविधिना विसृजेद्वयस्यां व्द्यर्थैःपदैः पिशुनयेच्च रहस्यवस्तु" इति कामशास्त्रस्थितिः ।

आदिशब्दाच्छमकथाप्रभृतिषु बोद्धव्यम् ।

स्यातामदोषौ श्लेषादौ निहतार्थाप्रयुक्तते ।। साद-७.१७ ।।

 

यथा---"पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतं गहनम् ।

हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत" ।।

 

अत्रैन्द्रपक्षे पवित्रशब्दो निहतार्थः ।

सिंहपक्षे मतङ्गशब्दो मातङ्गर्थे ऽप्रयुक्तः ।

गुणः स्यादप्रवतीतत्वं ज्ञत्वं चेद्वक्तृवाच्ययोः ।

यथा---"त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवतिनीम् ।

मद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः" ।।

 

स्वयं वापि परामर्शे---

 

अप्रतीतत्वं गुण इत्यनुषज्यते ।

यथा---"युक्तः कलाभिस्तमसां विवृद्ध्यै क्षीणश्च ताभिः क्षतये य एषाम् ।

शुद्धं निरालम्बपदावलम्बं तमात्मचन्द्रं परिशीलयामि" ।।

 

---कथितं च पदं पुनः ।। साद-७.१८ ।।

 

विहितस्यानुवाद्यत्वे विषादे विस्मये क्रुधि ।

दैन्ये ऽथ लाटानुप्रासे ऽनुकम्पायां प्रसादने ।। साद-७.१९ ।।

 

अर्थान्तरसंक्रमितवाच्ये हर्षे ऽवधारणो ।

गुण इत्येव ।

यथा--- "उदेति सविता ताम्रः---" इत्यादि ।

अत्र विहितानुवादः ।

"हन्त ! हन्त ! गतः कान्तो वसन्ते सखि ! नागतः" ।

अत्र विषादः ।

"चित्रं चित्रमनाकाशे कथं सुमुखै ! चन्द्रमाः" ।

अत्र विस्मयः ।

"सुनयने नयने निधोहि" इति ।

अत्र लाटानुप्रासः ।

"नयने तस्यैव नयने च" ।

इत्यादावर्थान्तरसंक्रमितवाच्यो ध्वनिः ।

एवमन्यत्रापि ।

सन्दिग्धत्वं तथा व्याजस्तुतिपर्यवसायि चेत् ।। साद-७.२० ।।

 

गुण इत्येव यथा--- "पृथुकार्तस्वरपात्रं भूषितनिः शोषपरिजनं देव ! ।

विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम्" ।।

 

वैयाकरणमुख्ये तु प्रतिपाद्ये ऽथ वक्तरि ।

कष्टत्वं दुः श्रवत्वं वा---

 

गुण इत्येव ।

यथा--- "दीधीवेवीट्समः कश्चिद्गुणवृद्ध्योरभाजनम् ।

क्विप्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते न ते" ।।

 

अत्रार्थः कष्टः ।

वैयाकरणश्च वक्ता ।

एवमस्य प्रतिपाद्यत्वे ऽपि ।

"अत्रास्मार्षमुपाध्यायं त्वामहं न कदाचन" ।

अत्र दुः श्रवत्वम् ।

वैयाकरणो वाच्यः ।

एवमस्य वक्तृत्वे ऽपि ।

---ग्रम्यत्वमधमोक्तिपु ।। साद-७.२१ ।।

 

गुण इत्येव ।

यथा मम--- "एसो ससहरबिम्बो दीसै हेअङ्गवीणपिण्डो व्व ।

एदे अस्ससमोहा पडन्ति आसासु दुद्धधार व्व" ।।

 

इयं विदूषकोक्तिः ।

निर्हेतुता तु ख्यातेर्ऽथे दोषतां नैव गच्छति ।

यथा---"सप्रति संध्यासमयश्चक्रद्वन्द्वानि विघटयति" ।

कवीनां समये ख्याते गुणः ख्यातविरुद्धता ।। साद-७.२२ ।।

 

कविसमयख्यातानि च---

 

मलिन्यं व्योम्नि पापे, यशसि धवलता वर्ण्यते हासकीर्त्योः रक्तौ च क्रोधरागौ॑ सरिदुदधिगतं पङ्कजेन्दीवरादि ।

तोयाधारे ऽखिले ऽपि प्रसरति च मरालादिकः पक्षिसङ्घो ज्योत्स्ना पेया चकोरैर्जलधरसमये मानसं यान्ति हंसाः ।। साद-७.२३ ।।

 

पादाघातादशोकं विकसति बकुलं योषितामास्यमद्यैर्- यूनामङ्गेषु हाराः, स्फुटति च हृदयं विप्रयोगस्य तापैः ।

मौर्वीरोलम्बमाला धनुरथ विशिखाः कौसुमाः पुष्पकेतो- र्भिन्नं स्यादस्य बाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ।। साद-७.२४ ।।

 

अह्न्यम्भोजं, निशायां विकसति कुमुदं, चन्द्रिका शुक्लपक्षे मेघध्वानेषु नृत्यं भवति च शिखिनां नाप्यशोके फलं स्यात् ।

न स्याज्जाती वसन्ते॑ न च कुसुमफले गन्धसारद्रुमाणा- मित्याद्युन्नेयमन्यत्कविसमयगतं सत्कवीनां प्रबन्धे ।। साद-७.२५ ।।

 

एषामुदाहरणान्याकरेषु स्पष्टानि ।

धनुर्ज्यादिष शब्देषु शब्दास्तु धनुरादयः ।

आरूढत्वादिबोधाय---

 

यथा---"पूरिते रोदसी ध्वानैर्धनुर्ज्यास्फालनोद्भवैः" ।

अत्र ज्याशब्देनापि गतार्थत्वे धनुः शब्देन ज्याया धनुष्यायत्तीकरणं बोध्यते ।

आदिशब्दात्--- "भाति कर्णावतंसस्ते" ।

अत्र कर्णस्थितत्वबोधनाय कर्णशब्दः ।

एवं श्रवणकुण्डलशिरःशेखरप्रभृतिः ।

एवं निरुपपदो मालाशब्दः पुष्पस्त्रजमेवाभिधत्त इति स्थितावपि "पुष्पमालाविभाति ते" ।

अत्र पुष्पशब्द उत्कृष्टपुष्पवृद्ध्यै ।

एवं "मुक्ताहार" इत्यत्र मुक्ताशब्देनान्यरत्नामिश्रितत्वम् ।

---प्रयोक्तव्याः स्थिता अमी ।। साद-७.२६ ।।

 

धनुर्ज्यादयः सत्काव्यस्थिता एव निबद्धव्याः, न त्वस्थिता जघनकाञ्जीकरकङ्कणादयः ।

उक्तावानन्दमग्नदेः स्यान्न्यूनपदता गुणः ।

यथा--- "गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्रमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नतम्बाम्बरा ।

मा मा मानद ! माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्" ।।

 

अत्र पीडयेति न्यूनम् ।

क्वचिन्न दोषो न गुणः---

 

न्यूनपदत्वमित्येव ।

यथा--- "तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।

तां हर्तुं विबुधद्विषो ऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्जातेति को ऽयं विधैः" ।।

 

अत्र प्रभावपिहितेतिं भवेदिति चेत्यनन्तरं "नैतद्यतः" इति पदानि न्यूनानि ।

एषां पदानां न्यूनतायामप्येतद्वाक्यव्यङ्ग्यस्य वितर्काख्यव्यभिचारिभावस्योत्कर्षाकरणान्न गुणः ।

"दीर्घं न से" त्यादिवाक्यजन्यया च प्रतिपत्त्या तिष्ठेदित्यादिवाक्यप्रतिपत्तेर्बोधः स्फुटमेवावभासत इति न दोषः ।

---गुणः क्वाष्यधिकं पदम् ।। साद-७.२७ ।।

 

यथा--- "आचरिति दुर्जनो यत्सहसा मनसो ऽप्यगोचरानर्थान् ।

तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम्" ।।

 

अत्र "न न जान" इत्ययोगव्यवच्छेदे ।

द्वितीये "जान" इत्यनेन नाहमेव जाने इत्यन्ययोगव्यवच्छेदाद्विच्छित्तिविशेषः ।

समाप्तपुनरा त्तत्वं न दोषो न गुणः क्वचित् ।

यथा---"अन्यास्ता गुणरत्न-" इत्यादि ।

अत्र प्रथमार्धेन वाक्यसमाप्तावपि द्वितीयार्घवाक्यं पुनरुपात्तम् ।

एवं च विशेषणमात्रस्य पुनरुपादाने समाप्तपुनरात्तत्वं न वाक्यान्तरस्येति विज्ञेयम् ।

गर्भितत्वं गुणः क्वापि---

 

यथा--- "दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सापि वदन्त एव हि वयं रोमाञ्जिताः पश्यत ।

विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मात्प्रादुरभूत्कथाद्भुतमिदं यत्रैव चास्तं मतम्" ।।

 

अत्र वदन्त एवेत्यादि वाक्यं वाक्यान्तरप्रवेशात् चमत्कारातिशयं पुष्णाति ।

---पतत्प्रकर्षता तथा ।। साद-७.२८ ।।

 

तथेति क्वचित् गुणः ।

यथा---"चञ्चद्भुज-" इत्यादि ।

अत्र चतुर्थपादे सुकुमारार्थतया शब्दाडम्बरत्यागो गुणः ।

क्वचिदुक्तौ स्वशब्देन न दोषो व्यभिचारिणः ।

अनुभावविभावाभ्यां रचना यत्र नोचिता ।। साद-७.२९ ।।

 

यत्रानुभावविभावमुखेन प्रतिपादने विशदप्रतीतिर्नास्ति, यत्र च विभावानुभावकृतपुष्टिराहित्यमेवानुगुणं तत्र व्यभिचारिणः स्वशब्देनोक्तौ न दोषः ।

यथा--- "औत्सुक्येन कृतस्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नोताभिमुख्यं पुनः ।

दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सह्गमे संहोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः" ।।

 

अत्रोत्सुक्यस्य त्वरारूपानुभावमुखेन प्रतिपादने सङ्गमे न भ्क्तटिति प्रतीतिः, त्वराया भयादिनापि सम्भवात् ।

ह्रियो ऽनुभावस्य च व्यावर्तमानस्य कोपादिना सम्भवात् ।

साध्वसहासयोस्तु विभावादिपरिपोषस्य प्रकृतरसप्रतिकूलप्रायत्वादित्येषां स्वशब्दाभिधानमेव न्याय्यम् ।

सञ्चार्यादेर्विरुद्धस्य बाध्यत्वेन वचो गुणः ।

यथा--"क्वाकार्यं शशलक्ष्मणः क्व च कुलम्-" इत्यादि ।

अत्र प्रशमाङ्गानां वितर्कमतिशङ्काधृतीनामभिलाषाङ्गौत्सुक्यस्मृतिदैन्यचिन्ताभिस्तिरस्कारः पर्यन्ते चिन्ताप्रधानमास्वादप्रकर्षमाविर्भावयति ।

विराधिनो ऽपि स्मरणो साम्येन वचने ऽपि वा ।। साद-७.३० ।।

 

भवेद्विरोधो नान्योन्यमङ्गिन्यङ्गत्वमाप्तयोः ।

क्रमेण यथा---"अयं स रसनोत्कर्षो-" इत्यादि ।

अत्रालम्बनविच्छेदे रतेररसात्मतया स्मर्यमाणानां तदङ्गानां शोकोद्दीपकतया कुणानुकूलता ।

"सरागया स्त्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया ।

मुहुर्मुहुर्दशनविलङ्घितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे" ।।

 

अत्र सम्भोगशृङ्गारो वर्णनीयवीरव्यभिचारिणः क्रोधस्यानुभावसाम्येन विवक्षितः ।

"एकं ध्यानिमीलनान्मुकुलितप्रायं द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनभरे सम्भोगभावालसम् ।

अन्दद्दूरविकृष्टचापकमनक्रोधानलोद्दीपितं शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः" ।।

 

अत्र शान्तशृङ्गाररौद्ररसपरिपुष्टा भगवद्विषया रतिः ।

यथा वा--- "क्षिप्तो हस्तावलग्नः प्रसभमभिहतो ऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।

आलिङ्गन् यो ऽवधूतस्त्रिपुरयुवतिभैः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः" ।।

 

अत्र कविगता भगवद्विषया रतिः प्रधानम् ।

तस्याः परिपोषकतया भगवतस्त्रिपुरध्वंसं प्रत्युत्साहस्यापरिपुष्टतया रसपदवीमप्राप्ततया भावमात्रस्य करुणो ऽङ्गम् ।

तस्य च कामीवेतिसाम्यबलादायातः शृङ्गारः ।

एवं चाविश्रान्तिधामतया करुणस्याप्यङ्गतैवेति द्वयोरपि करुणशृङ्गारयोर्भगवदुत्साहपरिपुष्टतद्विषयरतिभावास्वादप्रकष्रकतया यौगपद्यसम्भावादङ्गत्वेन न विरोधः ।

ननु समूहालम्बनात्मकपूर्णघनानन्दरूपस्य रसस्य तादृशेनेतररसेन कथं विरोधः सम्भावनीयः ? एकवाक्ये निवेशप्रादुर्भावैर्यौगपद्यविरहेण परस्परोपमर्दकत्वानुपपत्तेः ।

नाप्यङ्गाङ्गिभावः, द्वयोरपि पूर्णतया स्वातन्त्र्येण विश्रान्तेः ।

सत्यमुक्तम् ।

अत एवात्र प्रधानेतरेषु रसेषु स्वातन्त्र्यविश्रामराहित्यात्पूर्णरसभावमात्राच्च विलक्षणतया संचारिरसनाम्ना व्यपदेशः प्राच्यानाम् ।

अस्मत्पितामहानुजकविपण्डितमुख्यश्रीचण्डीदासपादानां तु खण्डरसनाम्ना ।

यदाहुः--- "अङ्गं बाध्यो ऽथ संसर्गो यद्यङ्गी स्याद्रसान्तरे ।

नास्वाद्यते समग्रं तत्ततः खण्डरसः स्मृतः" ।।

 

इति ।

ननु "आद्यः करुणवीभत्सरौद्रवीरभयानकैः" इत्युक्तनयेन विरोधिनोर्बोरशृङ्गारयोः कथमेकत्र--- "कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरस्फारोड्डमरपुलकं वक्त्रकमलम् ।

मुहुः पश्यञ्छृण्वन् रजनिचरसेनाकलकलं जटाजूट्ग्रन्थिं द्रढयति रघूणां परिवृढः" ।।

 

इत्यादौ समवेशः ।

अत्रोच्यते---इह खलु रसानां विरोधिताया अविरोधितायाश्च त्रिधा व्यवस्था ।

कयोश्चिदालम्बनैक्येन, कयोश्चिदाश्रयैक्येन, कयोश्चिन्नैरन्तर्येणोति ।

तत्र वीरशृङ्गारयोरालम्बनैक्येन विरोधः ।

तथा हास्यरौद्रबीभत्सैः सम्भोगस्य ।

वीरकरुणरौद्रादिभिर्विप्रलम्भस्य ।

(आलम्बनैक्यने) आश्रयैक्येन च वीरभयानकयोः ।

नैरन्तर्यविभावैक्याभ्यां शान्तशृङ्गारयोः ।

त्रिधायं विरोधो वीरस्याद्भुतरौद्राभ्याम् ।

शृङ्गारस्याद्भुतेन भयानकस्य बीभत्सेनेति ।

तेनात्र वीरशृङ्गारयोभिन्नालम्बनत्वान्न विरोधः ।

एवं च वीरस्य नायकनिष्ठत्वेन भयानकस्य प्रतिनायकनिष्ठत्वेन निबन्धे भिनानश्रयत्वेन न विरोधः ।

यश्च नागानन्दे प्रशमाश्रयस्यापि जीमूतवाहनस्य मलयवत्यनुरागो दर्शितः, तत्र "अहो गीतमहो वादित्रम्" इत्यद्भुतस्यान्तरा निवेशनान्नैरन्तर्याभावान्न शान्तशृङ्गारयोर्विरोधः ।

एकमन्यदपि ज्ञेयम् ।

"पाण्डुक्षामं वदनम्-" इत्यादौ च पाण्डुतादीनामङ्गभावः करुणविप्रलम्भे ऽपीति न विरोधः ।

अनुकारे च सर्वेषां दोषाणां नैव दोषता ।। साद-७.३१ ।।

 

सर्वेषां दुः श्रवत्वप्रभृतीनाम् ।

यथा--- "एष दुश्च्यवनं नौमीत्यादि जल्पति कश्चन" ।

अत्र दुश्च्यवनशब्दो ऽप्रयुक्तः ।

अन्येषामपि दोषाणामित्यौचित्यान्मनीषिभिः ।

अदोषता च गुणता ज्ञेया चानुभयात्मता ।। साद-७.३२ ।।

 

अनुभयात्मता अदोषगुणता ।

इति साहित्यदर्पणे दोषनिरूपणो नाम सप्तमः परिच्छेदः ।

एक टिप्पणी भेजें

0 टिप्पणियाँ