Ad Code

शिव अपराधस्तवः

शिव अपराधस्तवः 


शम्भो शङ्कर शान्त शाश्वत शिव स्थाणो भवोमापते
      भूतेश त्रिपुरान्तक त्रिनयन श्रीकण्ठ कालान्तक ।
शर्वोग्राभय भर्ग भीम जगतां नाथाक्षय श्रीनिधे
      रुद्रेशान महेश्वरेश्वर महायोगीशतुभ्यं नमः ॥ १॥

स्वामिन् सर्वजगद्गुरो हर महालीलाक्षमाक्षेत्रस-
      च्चिद्रूपाखिलभूतभाव्यजगतां नाथ प्रपन्नार्तिहन् ।
पापघ्नाशुभपाशदुःखभयहृद्भक्तेष्टद ज्ञानद
      श्रीदातर्क्य षडङ्ग मोक्षण महायोगीश तुभ्यं नमः ॥ २॥

क्रूरं कष्टतरं विनष्टहृदयं भ्रष्टं शठं निष्ठुरं
      निर्लज्जं कृपणं कृतघ्नमशुचिं बह्वाशिनं हिंसकम् ।
आशापाशशतप्रबद्धमनसं दुष्कीर्तिभाजं जडं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३॥

मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं
      कामान्धं क्षणिकं कदर्थनपरं दौश्शील्यजन्मस्थलम् ।
अज्ञं लुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ४॥

क्षुद्रं दुर्भगमल्पसत्त्वमलसं भग्नव्रतं रागिणं
      भीरुं डाम्भिकमीर्ष्यकं व्यसनिनं पापात्मकं सूतकम् ।
आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ५॥

आकाङ्क्षाश्रयमार्यवर्तिविमुखं क्षीणं गुणद्वेषिणं
      धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम् ।
दीनं पापरतं समस्त विषयेष्वासक्तमन्यायिनं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ६॥

अश्रद्धं गतपौरुषं कुपथगं जाज्वल्यमानं हृषा
      संसारार्णवमग्नमूर्मितरलं नीचप्रियं निर्दयम् ।
वैराग्यानतिदानयोगनियमद्वेष्टारमुन्मादिनं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ७॥

द्वन्द्वग्रस्तसमस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणं
      दुःसङ्गप्रियमप्रतिष्ठवचनं कामातुरं तस्करम् ।
शैवज्ञानपराङ्मुखं खलजनव्यापारपारङ्गतं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ८॥

दुर्मत्यावमतिप्रवृद्धरजसं सद्वृद्धसेवारिपुं
      सद्धर्मेष्वसमुत्सुकं गुरुजने मान्येषु चात्युद्धतम् ।
शिष्टाशिष्टकरप्रियं च सततं दुष्टस्य तुष्टिप्रदं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ९॥

स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं
      ध्यानाध्यानविचारणागुणरिपुं तुच्छं मदोच्छृङ्खलम् ।
दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्याश्रयं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १०॥

आत्मातिस्तुतिकारिणं परमहानिन्दाकरं निन्दितं
      लुण्टाकं पतितं विपर्ययगतस्वान्तं सदा याचकम् ।
व्याक्रोशाद्विहतस्वकार्यनिचयं सर्वापदां सञ्चयं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ११॥

कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महावञ्चकं
      दुर्बुद्धिं मदमानमत्सरनिधिं दुर्वृत्तवृत्त्याश्रयम् ।
मिथ्याज्ञानिनमार्यकण्टकमलं लोकत्रये दूषितं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १२॥

दुष्कर्मप्रचये प्रहृष्टहृदयं क्लेशैश्च सम्पीडितं
      चार्वाकं कुमतिं कुचेलमलसं कार्पण्यजन्मस्थलम् ।
भार्यापुत्रगृहादिसक्तमनसं गाम्भीर्यधैर्यच्युतं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १३॥

चित्तक्षोभकरं कलङ्कहृदयं शोकास्पदं लोलुपं
      सारासारविचारहीनमनसं नीचप्रियं नीरसम् ।
मत्तोन्मत्तनिकृष्टनष्टचकितं शून्यं हृदालापिनं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १४॥

आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषं
      सङ्कल्पैर्बहुभिर्विभिन्नहृदयं दैत्यप्रसक्तं सदा ।
मर्माविद्वचनं कठोरहृदयं मित्रद्रुहं चुम्बकं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १५॥

वेदोक्ताचरणाशिवात्मचरितं स्वेच्छाप्रवृत्तिं सदा
      सच्छास्नेष्वपरागिणं प्रियतमालक्ष्मीगुणावेष्टितम् ।
दाक्षिण्यप्रतिपन्नताविरहितं स्वार्थैकदृष्टिं सदा
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १६॥

सत्यत्यागदयाक्षमाशमदमाद्यर्थानभिज्ञात्मकं
      देवब्राह्मणगोव्रजातिथिपितृज्ञानात्मकापूजकम् ।
विश्वस्तेष्वपकारवञ्चनपरं मैत्रीरिपुं दुर्जनं
      कारुण्याकरवारिधे भव पितर्दोषकरं पाहि माम् ॥ १७॥

कृत्वाधर्ममतिं कथञ्चिदपरः को मत्समोऽस्मिन्भवे-
      दित्येवं बहुजल्पिनं कुपुरुषं भ्रान्त्याश्रयं राक्षसम् ।
दृष्टादृष्टसुखैषिणं बत मुदा मुक्त्वा शिवाराधनं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १८॥

मार्जालाखुबकाश्वकुक्कुटकपिक्रोडाहिवृत्तिं सदा
      तीर्थध्वाङ्क्षमनर्थकं परसुखे सन्तापिनं दुःसहम् ।
त्यक्तोपायममेयकाङ्क्षिणमहो शुण्ठं च चोरोपमं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १९॥

अस्पृश्यं विकलं कुधैर्यमखिले दोषे स्वकीये गुणं
      पश्यन्तं चलमात्मकार्यनिरतं पूज्यं विषादात्मकम् ।
चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २०॥

दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं
      दासीमेषखरस्वभावमपटुं सम्मानने भाजने ।
रिक्तं बालकदीर्घसूत्रिणमलं हृच्छल्यशीलं सदा
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि भाम् ॥ २१॥

अत्यादेशिनमुत्तमस्थितिमतां सन्त्यागिनं नास्तिकं
      रन्ध्रान्वेषिणमन्धमूकबधिरं शम्भोस्तु विश्वात्मनः ।
माहात्म्य श्रवणस्तुतीक्षणविधौ माहेश्वरा वत्सलं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २२॥

दुष्कार्यालघुभारवाहनपशुं तृष्णातृणग्राहिणं
      संसारार्णवदुःखपङ्कपतितं यान्तं सदाधो भृशम् ।
स्वत्वाहन्त्वममत्वमोहमकरैराकृष्यमाणं सदा
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २३॥

भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं
      सम्भ्रान्तं चपलं विधानविहितव्यापारविद्वेषिणम् ।
शम्भो त्वत्पदभक्तिहीनमदृढं सम्मूढमात्मद्विषं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २४॥

ज्येष्ठावासमतिप्रमादितमतिं क्षुत्तृड्जराद्यर्दितं
      स्वप्नेऽप्यन्यपरोपकाररहितं सर्वाहितं दुर्लभम् ।
लोके सत्परिहार्यनिन्दितमहो दुःखप्रदेशक्रियं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २५॥

त्वक्चुक्लान्त्रसिरातनूरुहमयं काराख्यरन्ध्रस्थितं
      नानापायपतिष्णु कालशिखिना पापच्यमानं भृशम् ।
दृष्ट्वापि स्वकलेवरं कृशतरं तत्रापि रक्तं पशुं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २६॥

किं वाचा बहुविस्तरेण भगवन् मत्सन्निभो भूतले
      नाभून्नास्ति च नो भविष्यति पुमान् निर्भाग्यचूडामणिः ।
तस्मादीदृशमात्मवञ्चकमहो त्रैलोक्यचूडामणे
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २७॥

सर्वश्रेष्ठ गुणैकभाजन विभो सत्त्वोत्तमेषूत्तमा-
      सङ्ख्येयावगुणैकभाजनमलं कष्टातिकष्टक्रियम् ।
श्रीशाश्रीशमतीन्द्रियेन्द्रियवशं निस्सङ्गिनं सङ्गिनं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २८॥

विण्मूत्रकृमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं
      निर्गन्धैकनिधिं जरापरिगतं वातादिदोषात्मकम् ।
दृष्ट्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २९॥

विष्ठामूत्रकुजन्त्वनिष्टमशुभं स्वाभाव्यतो नश्वरं
      कृष्णक्षेण्यविषूचिकाज्वरशिरश्शूलादिरोगास्पदम् ।
ज्ञात्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३०॥

पङ्गुत्वान्ध्यजरित्वमौर्ख्यखलताबाधिर्यजन्मस्थलं
      क्लेद्यच्छेद्यविशोष्यदाह्यकृशतास्थौल्यस्वभावात्मकम् ।
सम्पश्यन्नपि दोषमत्र तु सदा सम्प्रीतियुक्तं पशुं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३१॥

देहक्षालनलेपनादिविधिना संस्पर्शयोग्यं त्वचा
      छन्नं क्लिन्नमहार्णवं व्रणमुखैर्नित्यं स्रवन्तं मलम् ।
तं दृष्ट्वाप्यविरागिणं च नरके शूनं सरागं पशुं
      कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३२॥

॥ इति अपराधस्तवः सम्पूर्णः ॥

Post a Comment

0 Comments

Ad Code