अपराधाष्टकम् अथवा शिवाष्टकम्
आशावशादष्टदिगन्तराले
देशान्तरभ्रान्तमशान्तबुद्धिम् ।
आकारमात्रादवनीसुरं मा-
मकुत्सकुत्स्यं शिव पाहि शम्भो ॥ १॥ (मकृत्यकृत्यं)
मांसास्थिमज्जामलमूत्रपात्र-
गात्राभिमानं क्रिमिकृस्नजालम् । (गात्राभिमानोत्सितकृत्यजालम्)
मद्भावनं मन्मथपीडिताङ्गं
मायामयं मां शिव पाहि शम्भो ॥ २॥
संसारमायाजलधिप्रवाह-
सम्मग्नमुद्भ्रान्तमशान्तचित्तम् ।
त्वत्पादसेवाविमुखं सकामं
सुदुर्ज्जनं मां शिव पाहि शम्भो ॥ ३॥
इष्टानृतं भ्रष्टमनिष्टधर्म्मं
नष्टात्मबोधं नयलेशहीनम् ।
कष्टारिषड्वर्ग्गनिपीडिताङ्गं
दुष्टोत्तमं मां शिव पाहि शम्भो ॥ ४॥
वेदागमाभ्यः सरसानभिज्ञं
पादारविन्दं तव नार्च्चयन्तम् ।
वेदोक्तकर्म्माणि विलोपयन्तं
वेदाकृते मां शिव पाहि शम्भो ॥ ५॥
अन्यायवित्तार्ज्जन सक्तचित्तं
अन्यासु नारीष्वनुरागवन्तम् ।
अन्यान्नभोक्तारमशुद्धदेहं
आचारहीनं शिव पाहि शम्भो ॥ ६॥
पुरात्ततापत्रयतप्तदेहं
परां गतिं गन्तुमुपायवर्ज्जम् ।
परावमानैकपरात्मभावं
नराधमं मां शिव पाहि शम्भो ॥ ७॥
पिताऽथ संरक्षतु पुत्रमीशो (पिता यथा रक्षति)
जगत्पिता त्वं जगत्सहायः । (जगतः सहायम्)
कृतापराधं तव सर्वकार्ये
कृपानिधे मां शिव पाहि शम्भो ॥ ८॥
इति अपराधाष्टकं अथवा शिवाष्टकं सम्पूर्णम् ।
अपराधस्तोत्राष्टकम्
0 Comments
If you have any Misunderstanding Please let me know