अन्यापदेशशतकम्
॥ श्रीः ॥
छायावृक्षमुपाश्रयन्ति पथिषु श्रान्ता हि पान्थाः समं
तेष्वेकोऽस्य शुभं शुभेन मनसा हृष्यन्ननुध्यायति ।
अन्यो हर्तुमपेक्षतेऽस्य विटपानाधारयष्टेः कृते
कश्चिनिश्चिनुते कवाटफलकं कर्तुं तमेव क्षणात् ॥ १॥
श्वानः सन्त्यभितोऽपि दन्तमुकुलव्यावर्तनोत्पाटित-
स्वैरोत्तानितविड्वराहपृथुकाः किं तैः स्थितैर्वा मृतैः ।
वस्तव्यं गिरिराजमौलिषु विहर्तव्यं पुनः स्वेच्छया
हन्तव्याः करिणो मृगेन्द्र इति च प्राप्तव्यमुच्चैर्यशः ॥ २॥
किं पुष्णासि मृगान्मृगादनकुलात्किं वा परित्रायसे
त्वद्भाग्येन तथाप्यमी वनभुवि स्वैरं चरित्वा तृणम् ।
त्वां राजानमुपासितुं यदि किल श्रद्धां निबध्नन्ति त-
कि पारीन्द्र गुहागृहादपि विनिर्गन्तुं तवैष श्रमः ॥ ३॥
उन्मुच्य स्वजनानुपेक्ष्य तृणवत्प्राणानपि प्रेयस-
स्तीर्वा दुस्तरमर्णवं च वणिजः प्राप्ताः पटीराशया ।
श्वासैस्ते विनिवर्तिताः प्रतिभयैः स्वस्थो भवातः परं
त्वं वा केवलमङ्गमङ्गमुरग व्यालिम्प गन्धद्रवैः ॥ ४॥
भ्रान्त्वा दिग्वलभीर्विचित्य विपिनान्यासाद्य दैवादिह
क्वापि क्वापि मुखेन केवलमथैकैकां शलाकां हरन् ।
कृत्वा नीडकुटीं चिरात्तरुशिरस्यध्यास्त यावन्न तां
काकस्तावदहो तदेव विपिनं दग्धं दवज्वालया ॥ ५॥
नाम्भोजाय शशी न चापि शशिने यद्रोचतेऽम्भोरुहं
किं तेन क्षतमस्ति किञ्चन जगत्येतस्य वा तस्य वा ।
लोकानन्दकयोः परं त्विह तयोः प्रेम्णैव भाव्यं मिथ-
स्तच्चेन्नाजनि तत्प्ररूढमयशः स्फारं विधेः केवलम् ॥ ६॥
अस्तप्रत्युपकारगन्धमकृतस्वप्रार्थनापेक्षम-
प्यम्भोभिर्भुवमार्द्रयन्ति जलदा जीवन्त्यतो जन्तवः ।
दैवज्ञः पुनरस्ति वृष्टिरिति वागेका मयोक्तेति य-
द्विश्वं क्रीतमिवाधिगच्छति तदेवाघूर्णते मर्मणि ॥ ७॥
अस्ति स्वादु फलं किमस्ति किमथ घ्रातुं क्षमः कोरक-
स्तद्विश्राम्यतु नाम भोक्तुमुचितं पत्रं किमस्त्यन्ततः ।
सेव्यो हन्त यदीदृशोऽपि मनुजैर्वृनाधमः पिप्पलो
दुःस्वातन्त्र्यमिदं विधेः कथय तत्कस्याग्रतो रुद्यताम् ॥ ८॥
सर्वासां सरितां पतिर्यदि यदि व्याप्ताः समस्ता दिशः
कल्पान्तेष्वपि वा न शुष्यति यदि स्वैरं तदङ्गीकृतम् ।
अम्भः स्वादु पिपासतः पथि परिश्रान्तस्य पान्थस्य किं
तेन स्यात्फलमर्णवोऽयमिति चेदिन्दुग्रहे स्नास्यताम् ॥ ९॥
स्थित्वा तीरभुवि प्रसार्य सरसि स्वैरं कराग्रं पयः
पातव्यं पिब तावता न विरमेद्दन्तीन्द्र किं ते तृषा ।
उन्मृद्नासि तटीरपः कलुषयस्युन्मूलयस्यब्जिनी-
हानिः कस्य तवैव मृग्यमुदकं भ्रातः पुनस्तृष्यतः ॥ १०॥
को दोषः परतो गते मधुकरे क्रीतः किमेष त्वया
क्रीतेनापि किमास्यते क्वचिदिह ग्लानोदरेण क्षणम् ।
जानास्येवमथापि चेक्षिपसि तं कर्णानिलैर्दूरतो
दुर्धर्षोऽसि निरङ्कुशोऽसि भवतो मत्तेभ वक्तैव कः ॥ ११॥
नेतव्यः समयः कियानिव सखे काक त्वया भ्राम्यता
हंसीभूय सुखेन भुङ्क्ष्व नलिनीनालानि पद्माकरे ।
व्यावर्तव्यमिहास्ति किं विमलता किञ्चित्तु कार्या तनो-
र्हसत्वे यदि ते जनो विवदते दण्ड्योऽहमस्म्यग्रतः ॥ १२॥
किं त्वं दोहदमीहसे किमुदकैः सिक्तोऽसि किं केनचि-
द्बद्धस्ते सकृदालवालवलयः किं ते मही संस्कृता ।
द्विस्त्रिः पुष्प्यसि वासरस्य न गुणान्धुत्तूर ते निह्नुवे
दुर्गन्धो न भवेदियान्यदि ततस्त्वं पारिजातोऽसि नः ॥ १३॥
गन्तव्यं जलमध्य एव गतवन्मन्तव्यमेतद्वपुः
क्षन्तव्या लवणानिला इति कृतं निर्विद्य सांयात्रिक ।
अन्तर्वेश्मनि हंसतूलशयने सुप्त्वा सुखं जाग्रतो
हस्ताग्रे धनमेष्यति स्वयमिति भ्रातः किमास्ते हृदि ॥ १४॥
आसीनः सुखमापणे यदि वणिक्श्रद्धालुभिः प्रार्थितः
किञ्चिच्छंसति पञ्चकं दशकमित्येतन्न तस्याद्भुतम् ।
आपातालविघूर्णिताम्भसि चलत्यौत्पातिके मारुते
मज्जन्त्यामपि नावि मुञ्चति न यस्तामेव मूल्यस्थितिम् ॥ १५॥
विद्धं मर्मसु येन येन गरलोन्मिश्रा गिरः श्राविता
जज्वाल ज्वलनास्त्रवन्निशि निशि क्रूरैः करैर्यः सदा ।
सर्वे ते सुहृदो बभूवुरधुना सङ्गे मिथः कामिनो-
र्दौर्जन्यस्य विभावनात्परिणतौ दूती परं दूषिता ॥ १६॥
सन्नद्धेषु पयोधरेषु चलिते मन्दं पुरोमारुते
कादम्बैः कमलाभिमानिभिरपि त्यक्त्वा सरः प्रस्थितम् ।
मिथ्यारोपितपौरुषैर्मधुकरैर्मुग्धैर्यदध्यासितं
तस्येदं फलमम्भसा प्रवहता सैवाब्जिनी मज्जिता ॥ १७॥
सन्त्यक्ता यदि केतकी त्रिभुवनश्लाघ्या पुरद्रोहिणा
तस्मिन्नेव हि पर्यवस्यति ततो वस्तुष्वसारज्ञता ।
किं वेणीषु न तां वहन्ति सुदृशः किं सा न विक्रीयते ।
किं नेमामुपलालयन्ति रसिकाः पृथ्वीभुजो मौलिभिः ॥ १८॥
कोणे क्वाप्यवतीर्य गात्रमभितः सिक्त्वा पयःशीकरै-
रास्वाद्योदकमागतोऽस्मि पुनरित्यास्ते गजस्याशये ।
कासारस्य दशा त्वसौ कलुषितान्यम्भांसि भग्नास्तटाः
प्रध्वस्ता नलिनी किमत्र बहुना खातव्यमास्ते पुनः ॥ १९॥
द्यौरित्थं क्षितिरित्थमित्थमुदधेर्मुद्रेति कृत्वा स्थितिं
विश्वस्याहनि विश्रमाय शयितुं प्रारम्भि धात्रा यदा ।
दग्धं चण्डकरैस्तदैव पवनैरौत्पातिकैः शोषितं
मेघैः प्लावितमद्भुतैरपि जगत्स्रष्टव्यमासीत्पुनः ॥ २०॥
स्वस्ति स्वागतमास्यते सुखममी जाताः कुतः पल्लवाः
हन्तासन्कुसुमान्यपीह किमतो माध्वी च तत्रेक्ष्यते ।
किं भृङ्गा अपि सन्ति साधु शिरसि न्यस्तं पदं शाखिनां
धुत्तूरास्ति न दुर्लभं किमपि ते यावद्वसन्तः सुखी ॥ २१॥
दृष्टाश्चन्द्रसमुद्गमाः शतमतिक्रान्ताः शतं प्रावृषः
सीमामेष न जात्वलङ्घत किलेत्यब्धिर्न विश्वस्यताम् ।
योऽसौ शेत इवायमेव विधिना वामेन चेच्चाल्यते
का सीमेति तदास्ति के जनपदाः का मेदिनी का दिशः ॥ २२॥
सर्वत्र स्रवतोऽस्य किञ्चिदुदकं दिष्ट्या मुहूर्ते क्वचि-
च्छुक्तीनामुदरेषु मौक्तिकमभूत्काले कदाचित्किल ।
अद्यत्वेऽपि तथा करोतु पटुता यद्यस्ति तद्धूरतः
शुष्कैरेव तु गर्जितैर्व्यथयति श्रोत्राणि धाराधरः ॥ २३॥
आयुस्ते कियदस्ति तत्र च कियत्तारुण्यमत्रापि ख-
ल्वर्धं निर्गलितं निशात्मकतया यत्रास्ति सङ्गो न ते ।
शेषाः सन्ति कति क्षणाः प्रणयजस्तत्रापि कोपो यदि
व्यर्थं निश्चिनु चक्रवाकि जननं कस्ते हितं वक्ष्यति ॥ २४॥
सर्वेषां विदिताः सुधाकरकराः साक्षात्सुधारूपिणः
सन्देहोऽपि न तद्भुजः सुमनसो जाता अमर्त्या इति ।
तानेव ह्युपभुञ्जते प्रतिनिशं दीनाश्वकोरा इमे
क्षीयन्ते तृणवच्च को नु गहनां जानातु धातुर्गतिम् ॥ २५॥
अर्चामः सततं गणाधिपमथाप्याखून्निहन्मः शतं
ध्यायामो हृदि भैरवं तदपि तु प्रोत्सारयामः शुनः ।
भूतेशं प्रणुमस्तथापि शतशो भूतान्निगृह्णीमहे
न ह्येकस्य गुणः परस्य महतो दोषानपि प्रोणुते ॥ २६॥
अन्तः क्षोभकृतः कतीह तिमयः कत्युच्छ्रिताः पर्वताः
कीहक्चान्तरबिन्धनो हुतवहः कीदृक्च नौकागतिः ।
आगच्छत्प्रतिगच्छदुच्चलदुपश्लिष्यत्प्रधावत्पत-
त्कल्लोलारभटीभिरेव जलधेः सर्वं तदाच्छाद्यते ॥ २७॥
जामाता कमलाक्ष एव गृहिणी गङ्गा जगत्पावनी
शीतांशुप्रमुखाः सुता भगवती श्रीरेव कन्या स्वयम् ।
ईदृक्ते गृहमेधिता त्रिभुवनाधारस्य वारान्निधे
कः शक्नोति जनो मनोरथपथेऽप्येतावदुत्प्रेक्षितुम् ॥ २८॥
यन्मूले निखिलागमानुपदिशत्तत्त्वं परं शाङ्करं
यत्पर्णे जगतां निधिः स तु वटो नाम्नापि न स्वीकृतः ।
यच्छाखानिलयः पिशाचनिचयो यन्मूलगाः पन्नगा-
स्तस्याश्वत्थतरोः पुनः कति नमस्काराः कति प्रार्थनाः ॥ २९॥
आगच्छन्त्यवगुण्ठयन्त्यथ पुनः पश्यन्ति जिघ्रन्ति च
स्वारब्धं मधु मक्षिका न कणमप्यस्य स्वयं भुञ्जते ।
धन्यस्त्वन्य उपेत्य निर्दयममूरुत्सारयन्दूरतः
स्वादं स्वादमिदं स्वसम्भृतमिव स्वच्छन्दमानन्दति ॥ ३०॥
आसन्नो मधुरागतं वनभुवः साम्राज्यमित्यद्भुताः
श्रूयन्ते गिर एव तत्त्वमिह तु ज्ञातुं विधातुः क्षमम् ।
यत्पर्णैस्त्रुटितं यदप्युपरतं पुष्पोद्गमैः शाखिनां
यद्ग्लानं विटपैरिदं पुनरिह प्रत्यक्षमालक्ष्यते ॥ ३१॥
उत्सन्नो मधुरस्ति कोकिलरवैरुत्सन्नमस्त्येतद-
प्युत्सन्नं मलयानिलैरिदमपि प्रागेव जानीमहे ।
पान्थास्तुष्यथ तावतैव किमिति भ्रान्ता यदि प्राणिति
स्तोकेनापि मनोभवो गलतु वः प्राणेषु शुष्को ग्रहः ॥ ३२॥
तिक्तास्ते विटपास्त्वचो यदि ततस्तिक्तास्ततोऽपि च्छदा-
स्तेभ्योऽपि प्रसवास्ततोऽपि च फलान्येवं न दृष्टं क्वचित् ।
स्तौमि त्वामथ वा न निम्ब भवतोऽप्यासीद्यतः सम्भवः
श्रीमत्तत्किल निम्बबीजमवनौ स्तुत्यं वचःशालिनाम् ॥ ३३॥
चूताः पल्लवमुद्रिन्ति वितरन्त्येतत्पिकेभ्यस्तत-
स्तेऽप्येतेन कुहूः कुहूरिति कलं कुर्वन्ति कूजामिति ।
निम्बोऽपि स्वयमुद्गिरन्फलमनेनाराधयन्वायसा-
न्किचित्तेषु ततो रटत्सु सफलं जन्म स्वकं मन्यते ॥ ३४॥
भोज्यं स्वादु पयः स्थितिमणिगणैरापिञ्जरे पञ्जरे
दूरे चिन्तयितुं च दंशमशकाः पारे गिरां लालनम् ।
सत्यं सर्वमथापि काननभुवि स्वाच्छन्द्यमव्याहतं
ध्यायन्ती विमना मनागपि शुकी नालम्बते निर्वृतिम् ॥ ३५॥
प्राङ्मेघैः कियदम्बु पीतमुदधेः पीतेऽपि वृष्टं किय-
द्वृष्टे चापि कियत्प्रलीनमवनौ पीतं कियत्प्राणिभिः ।
नेदं कश्चन वेद यत्तु किमपि प्रापावशिष्टं पुन-
र्घर्मान्ते सरितां मुखेन तदभूदीर्ष्यास्पदं पश्यताम् ॥ ३६॥
मेघ द्वारतया विधाय भुवनान्याप्लावस्यम्भसा
चन्द्रं द्वारतया विधाय सवितः पुष्णासि सर्वोषधीः ।
यत्त्वीषत्तपसीव तत्तु कुरुषे स्वेनैव तेनाधुना
दातृत्वं घनचन्द्रयोः परिणतं क्रौर्य तु शिष्टं त्वयि ॥ ३७॥
द्वारं न प्रजहातु जातु नियतं जागर्तु रात्रीरपि
स्वल्पेनापि मुदं प्रयातु किमतः श्वा श्वैव तावानपि ।
सम्पाद्यो महता धनेन सततं भोज्यश्च सान्त्वैरिति
त्यक्त्वा मत्तगजं पदेऽस्य महतः स्थाप्यः किमेतावता ॥ ३८॥
उत्पन्नाः सरितां ह्रदेषु सुचिरं तत्रैव पुष्टास्ततः
प्राप्ताः प्रावृषि सागरं जलचरास्तासां मुखादेव ये ।
द्वित्रैरेव दिनैस्तिमिङ्गिलकुलस्यासाद्य कूटस्थतां
मृष्यन्त्यद्य न ते रहस्यपि कृतां नादेयतासङ्कथाम् ॥ ३९॥
पन्थाः कर्दमितः पयः कलुषितं हंसाः कृता दूरतः
पीड्यन्ते च यदेवमर्थिन इति क्रूरारवैश्चातकाः ।
सोढाहे तव हे पयोद सकलं शक्नोषि दातुं स्वतः
किं त्वं शीकरमेकमप्युदधिना लोभो यदि स्वीकृतः ॥ ४०॥
सर्वज्ञो यदि शङ्करो यदि महादेवो यदि प्रायशो
देवानामपि दैवतं यदि तदप्यास्तामिदं दूरतः ।
धुत्तूरैः फणिभिः कपालवलयैरन्यैश्च ते सङ्गति-
श्चूडाचन्द्रकले न तावदुचिता याचे बहिर्गम्यताम् ॥ ४१॥
अस्यां प्रावृषि चातकैर्जलकणा लब्धा न चेत्किं ततो
भाविप्रावृषि दास्यते द्विगुणमित्यभ्र त्वया गम्यते ।
एतेऽद्यैव लयं ब्रजन्ति पृथुकैरेतत्कुलीनोऽपि चे-
देकः प्राणिति तावदेव तदलं तत्रैव नः संशयः ॥ ४२॥
वर्णस्तेऽतिमनोरमः शिरसि ते वासो मृडानीपतेः
प्रत्येतव्यतरं च काञ्चनमिति प्रौढं पुनर्नाम ते ।
किं कर्तव्यमितःपरं च भवता धुत्तूर लोकाः पुन-
र्न क्रीणन्ति न च स्पृशन्ति न च वा पश्यन्ति गन्धप्रियाः ॥ ४३॥
राज्यं येन कृतं न तस्य शृणुमः कामस्य नामाधुना
येषामेव गिरः पुरा परभृतैस्तैरद्य मौनं धृतम् ।
व्याप्ता येन दिशो न साम्प्रतमसौ मन्दानिलः स्पन्दते
किं ब्रूमोऽवतरन्निदाघहतको विश्वं नवं निर्ममे ॥ ४४॥
पीयन्तां तमसा दिशो विदधतां नीचाः पिशाचाः स्मयं
व्याक्रोशन्तु शिवाः कियच्चिरमसौ कालः सखे स्थास्यति ।
अद्योदेष्यति भानुरेष्यति दिशामद्य प्रसादो मुखे-
ध्वद्य स्वां प्रकृतिं गमिष्यति मही कोक क्षणं क्षम्यताम् ॥ ४५॥
मेघा इत्यवतीर्य केऽपि नभसः सर्व पयो गृह्णते
यादांसीति समागतास्तत इतोऽप्यन्ये रमन्ते सुखम् ।
यस्तु स्वान्तिक एव तस्य महतस्तालस्य कालाद्वहोः
शुष्कस्यापि हि नोपयोगकणिकां पश्यामि तेनाब्धिना ॥ ४६॥
आक्रामन्तु तमेव चूतमपि च क्रोशन्तु रेफोत्तरं
डिम्भोऽस्माकमसीति वाभिदधतां काका वराकाः स्वयम् ।
गन्तव्यं क्व ततोऽन्यतः परभृत क्षन्तव्यमेतावद-
प्यग्रे कस्य निवेद्यतामिदमतिक्रान्तो वसन्तोऽधुना ॥ ४७॥
गन्तव्यं शिशिरेण नाम भवितव्यं नाम चूताङ्कुरै-
स्तानास्वाद्य पिकः करिष्यति तदा नाम स्वयं पञ्चमम् ।
आस्तामेष तथाविधस्त्वमसि किं काक स्वतन्त्रस्य ते
कालोऽयं स्वर एष भोज्यमिदमित्येषा कुतो यन्त्रणा ॥ ४८॥
काका मूर्ध्नि सुखं वसन्ति शतशः शाखासु शाखामृगा
घूकाः कोटरगह्वरेषु मशकैर्दंशैश्च सान्द्रं तलम् ।
आधारः कियतामसि स्थिरतरं शुद्धं च लब्धं यशः
पान्था नोपसरन्ति चेत्क्षतमितः किं वृक्षराजस्य ते ॥ ४९॥
स्निग्धश्यामलकोमलं दलमतिप्रच्छायशीतं तलं
भूपर्यन्तविलम्बिजम्भलफलस्थूलं च वृत्तं फलम् ।
सम्पश्यन्विजने वने व्यवसितस्तत्रैव वस्तुं सुखं
पान्थः पान्थमुखाद्विषद्रुमममुं दैवादवेत्य द्रुतः ॥ ५०॥
वर्षन्त्वम्बुमुचस्तपन्तु तपना मथ्नन्तु देवासुरा
बघ्नन्तु प्लवगाः पतन्तु सरितो गङ्गादिमाः सर्वतः ।
पुष्णातूत्पलबान्धवः प्रतिनिशं मुष्णातु वा बाडबो
नाब्धिः क्षुभ्यति न प्रसीदति ततो न क्षीयते नैधते ॥ ५१॥
वापीकूपतडागपल्वलसरःस्रोतस्विनीसारणी-
तोयाभ्युद्गमनिर्झरह्रदजलाधारोदपानप्रपाः ।
सम्पन्ना उपजीव्य यस्य विभवं साक्षात्प्रणाल्यापि वा
तस्मै जीवन जीवनाय सरितामीशाय तुभ्यं नमः ॥ ५२॥
न ह्युष्णो न च शीतलो जलनिधिलब्धप्रतिष्ठोऽपि स-
न्कस्त्वस्याः प्रकृतेरभु चलयितुं शक्तस्त्रिलोकेष्वपि ।
अद्यापि ज्वलतान्तरेव विहितं किं तावदौर्वाग्निना
सायं सायमुदित्वरेण शशिना तत्रैव वा किं कृतम् ॥ ५३॥
राजा विप्रकुलस्य यस्य तनयः सोमः स वारान्निधे-
यः सर्वाश्रयणीयपादकमलस्तस्याश्रयोऽयं हरेः ।
आनीतश्चुलुकं स एव चलुकेऽप्यन्तः प्रवेश्येत चे-
त्कः संवेदितुमीहते भगवतः कालस्य लीलायितम् ॥ ५४॥
दुग्धं स्वादु रसादपीह मधुनो दग्धं विषैर्वासुकेः
संवर्तव्रतसाक्षिणो जलचरा मन्थाद्रिणा मारिताः ।
प्राणेभ्योऽप्यधिकाः सुरद्रुममुखाः प्राप्ताः समस्ता व्ययं
किञ्चिद्रक्षितुमिच्छतामृतमिह क्षीराब्धिना नाशितम् ॥ ५५॥
लब्धा श्रीर्मुरवैरिणा पुरभिदा लब्धः स्वयं चन्द्रमा
देवैरप्सरसो मणिद्विपहयास्तत्स्वामिनैवाहृताः ।
एकस्मै स्वयमेकमेव वितरत्येतेषु चेत्सागर-
स्त्रैलोक्यं वशयेज्जडस्तु स वृथा विक्रम्य तैलुण्ठितः ॥ ५६॥
कत्यश्वाः कति धेनवः कति गजाः कत्यद्भुताः पादपाः
सुन्दर्यः कति सुध्रुवः कति महारत्नान्यनर्घाण्यपि ।
जातैका किल कन्यका जलनिधेर्दातुं प्रसक्ता यदा
सर्वं तद्व्ययितं तदा परिणतौ नामैकमुच्छेषितम् ॥ ५७॥
प्रागभ्यागतया किलाभ्रसरिता सम्प्लावयन्त्या मही-
मम्भोधिः स्वयमप्यपूर्यत सकृत्तत्तज्जलाधारवत् ।
आस्तेऽयं कथमक्षयो निधिरपां ते ते कथं वासते
निर्व्याजाम्बुधराम्बुदानसुकृतं सिद्धं तदित्थं पुनः ॥ ५८॥
खातं शीतलवारि वारिदकुलश्यामाभिरामद्रुमं
पान्थश्रान्तिहरं सरः पथि हृतं दुर्भिक्षमप्यम्भसाम् ।
ये त्वेते भुवि चातका इति कदाप्यज्ञातभौमोदका-
स्ते गृह्णन्ति न चेदिहाम्बु किमतो दैवेन ते वञ्चिताः ॥ ५९॥
भूमिष्ठा अतिपावनीः सुरभिलाः स्वाद्वीरपः सन्त्यज-
न्याचत्यम्बुदमम्बु चातकगणो यत्तेन किं साध्यते ।
किं तस्मै द्विगुणं प्रवर्षति घनः किं वा तपः साध्यते
प्राग्जन्मन्यवितीर्णवारिकणिकः पापी स इत्यूह्यते ॥ ६०॥
स्वादून्येव फलानि सन्ति सुरभीण्येव प्रसूनानि च
स्वान्तं चाप्युपकर्तुमर्हति जने साध्यं वनस्थेन किम् ।
भाग्यं ह्येतदतर्कितं वनतरोः पान्थो यदा तापस-
श्छायामस्य यदृच्छया फलवतीमध्यास्त गन्धोत्तराम् ॥ ६१॥
पान्थेषु व्ययितं फलं पथिषु यैर्नम्रैः सदा पादपै-
र्यैरप्युन्नतमौलिगोपितफलैः कोणे निलीय स्थितम् ।
दावेन ज्वलता द्वयेऽपि खलु ते निःशेषिताः साम्प्रतं
पुण्यं पापमिति स्थितं द्वयमिदं तेषां द्वयानां पृथक् ॥ ६२॥
अध्वन्याः किल मूलगर्तमधुनाप्यापूरयन्त्यश्रुभि-
र्व्याक्रोशन्त्यधुना सबान्धवकुलाः सायं मुहूर्तं द्विजाः ।
इत्थं यावदिमानि बिभ्रति शुचं भूतान्यपि त्वत्कृते
तावत्त्वं न गतोऽसि पादप चिरं कीर्त्यात्मना वर्तसे ॥ ६३॥
जायन्ते विजने वने क्षितिरुहो यद्यप्यमी दुर्भगाः
सर्वे ते वटुभिस्तथापि न तथा बोद्धुं क्षमास्तुल्यवत् ।
आक्रान्तेष्वपि तेषु केषुचिदतिक्रूरक्रियैः श्वापदै-
र्गृह्यन्ते कतिचिद्यतः शमधनैर्ब्रह्मर्षिभिः पावनैः ॥ ६४॥
निद्रालस्यशरीरसादवमनान्नद्वेषकासज्वर-
श्वासश्वेतिमहिक्किकाप्रभृतयो मासेषु मातुर्ध्रुवाः ।
जातस्तत्क्षणमेव नश्यतु शतं वर्षाणि वा जीवतु
स्वर्गे वा पितरौ दधातु नरके वा पातयत्व ञ्जसा ॥ ६५॥
निघ्नन्तोऽशनिभिस्तडिद्विलसितैश्चक्षुर्हरन्तो नृणां
विध्यन्तश्च शिलाशतैः परिचिताः प्रायेण धाराधराः ।
वर्षन्तो निभृताश्चिरं च समये दृष्टाश्च केचिद्धना
यैरव्याजपरोपकारनिरतैर्जात्या यशः स्थापितम् ॥ ६६॥
नाक्ष्णोर्गच्छसि गोचरं बहुतिथान्मासान्नभस्ये पुनः
सङ्घीभूय समेत्य वर्षसि निरुच्छ्वासं समन्तादपः ।
कालं कालमनुव्रजन्मितमिता मुञ्चस्यपश्चेत्ततः
किं जीमूत तव प्रणश्यति कियत्प्राणन्त्वतः प्राणिनः ॥ ६७॥
भग्नं भित्तिभिरालयैर्निपतितं स्रोतोभिराप्लावितं
विध्वस्तं पशुभिश्च सङ्घश इति क्रोशन्ति वृष्टे त्वया ।
त्वय्युद्गृह्णति वारि वारिद जना नश्यन्त्यवश्यं क्षणा-
कीर्तिं चिन्तय दुर्लभां न गणय क्षुद्रान्गुणान्मादृशाम् ॥ ६८॥
उत्पत्तिर्मलये समुद्रनिलये पन्था वृतो राक्षसै-
स्तत्रत्यानपि हन्त चन्दनतरूश्छिन्दन्ति सांयाधिकाः ।
वर्तन्ते सविधस्थिताश्च सुखिनः शाखोटमुख्या द्रुमा-
स्तन्मन्ये कृतिनस्तु ते तरुकुले ये नोपयोगक्षमाः ॥ ६९॥
गृह्यन्तां करिणः प्रसह्य विनिहन्यन्तां वराहा वृका
भल्लूकाश्च तरक्षवश्च पथिकाः सन्तु त्वया निर्भयाः ।
आखून्कङ्क खराशशाननिमिषान्कीटान्पतङ्गानपि
ग्राहं ग्राहमहो कियत्प्रकटयस्याखेटके पाटवम् ॥ ७०॥
यादोभिर्वडवाग्निना जलनिधेर्यावत्पयो गृह्यते
किं तावत्युपयुज्यते शततमोऽप्यंशः पयोद त्वया ।
सौजन्यं किमिति ब्रवीमि भवतः सर्वस्वमित्थं त्यज-
न्ख्यातः ख्यापयसे पयोधिमपि तं सर्वोपयोगक्षमम् ॥ ७१॥
मेघः कश्चिदचेतनः कियदपि स्वीकृत्य सिन्धोः पयः
कीर्तिं तस्य समुच्चिनोति कियतीं धर्मं कियच्छाश्वतम् ।
ब्रह्मज्ञस्तपसां निधिस्त्रिभुवनख्यातश्च कुम्भोद्भवः
सर्वस्वं विनियुज्य तस्य किमिव श्रेयः समापादयत् ॥ ७२॥
यच्छैलेषु यदर्णवेषु यदपि प्रामाटवीजाङ्गल-
प्रायासु क्षितिषु क्षिपन्ति बहुशस्तोयं वृथा तोयदाः ।
दृष्टिस्तत्र न दीयतां यदि गुणग्राही भवान्यत्पुनः
र्ग्रामेषूपवनेषु वा सकृदमी वर्षन्ति तद्गृह्यताम् ॥ ७३॥
ग्रामेष्वेव सुवृष्टयो विनयवत्स्वेव श्रियः पुष्कला
धीमत्स्वेव कलागमव्यसनिता गोष्वेव दुग्धस्थितिः ।
वाग्मिष्वेव विवक्षुतेति च जगत्प्रार्थ्या व्यवस्थामिमां
किं वेधा विदधे पुरेति शृणुमो रामेऽपि राज्यस्थितिः ॥ ७४॥
उन्मीलन्ति कियन्ति वा न कुसुमान्युष्णद्युतेरुद्गमे
तत्त्वे तावति बन्धुरित्यतिसखीत्यादित्यकान्तेति च ।
कीर्तिं दत्तवतां त्रिलोकविदितामेवं कवीनामृणं
किं कृत्वेयमपाकरोतु जनुषां कोट्यापि नालीकिनी ॥ ७५॥
विद्धं साधु न साध्विव प्लुतमिदं रे रे कथं विध्यसी-
त्याख्यातुं रणकौशलं वयमपि प्रौढाः स्थिता दूरतः ।
आक्रामन्रणमेदिनीमपि वहन्खङ्गं विकोशं करे
वेत्ति स्वं च परं च यद्यवहितो विक्रान्तिरेषैव नः ॥ ७६॥
अम्भोजेष्वतिकोमलेषु विहरन्नन्तर्जले संविश-
न्नज्ञातातपवातवर्षमनयत्कालं चिरं यः सुखम् ।
सोऽद्य प्रावृषि केतकीमधिवसन्भृङ्गः क्षतः कण्टकै-
राविद्धः करकोपलैरभिहतो वातैः कथं वर्तते ॥ ७७॥
ब्रूते स्वागतमीक्षते कृशममुं श्रुत्वा कथाः खिद्यते
पक्षाभ्यामसकृत्प्रमार्ष्टि रचयत्युच्चावचाश्चाशिषः ।
उच्छिन्नप्रसवात्तरोरुपगते भृङ्गे क्षुधा ताम्यति
प्रस्तौति भ्रमरस्तु पूर्णजठरो नाहारवार्तामपि ॥ ७८॥
ये मृष्यन्ति सहासिकामपि बकैर्जात्या न हंसाः स्वत-
स्तेष्वेको जरसा विलुप्रगमनस्त्यक्तः स्वकैः प्रावृषि ।
तानेवानुसरन्बकान्बहुतरं तच्चेष्टितानि स्तुवं-
स्तज्जात्यै स्पृहयन्कियत्कियदहो जातिं निजां निन्दति ॥ ७९॥
शुद्धिं स्वामनुचिन्य मीननिवहैः पूर्णेऽपि पद्माकरे
स्वेनैवोपनतैर्मृणालवलयैर्जीवन्ति हंसाः सुखम् ।
ये त्वेते विमलास्ततोऽपि च बका ध्यानैकनिष्ठाः सदा
निर्द्वन्द्वा निभृताश्च बिभ्रति न ते यादोभिरेवोदरम् ॥ ८०॥
यैर्जीवन्ति सितच्छदा न दुरितं कस्यापि यत्सङ्ग्रहे
रोचन्ते न हि ते मृणालवलयाः कस्मै प्रभूता अमी ।
अप्यासायमुपोष्य मीनपृथुकैर्युक्त्या महत्यार्जितै-
रेकद्वैरपि तृप्तिमेति परमां हिंसोपलब्धैर्बकः ॥ ८१॥
अस्पृश्योऽस्तु मलीमसोऽस्त्वनियताहारोऽस्त्वतोऽप्युद्भटै-
र्दोषैरस्तु परःशतैः परिवृतः काकस्ततः का क्षतिः ।
भुङ्क्ते भोज्यमुपस्थितं समुपहूयैव स्वयं बान्धवा-
न्यः सीदन्क्षुधया विचिन्तय ततो धन्यश्च पुण्यश्च कः ॥ ८२॥
भृत्यास्ते बिभृमस्तु तान्वयमिमे क्षुद्रा बृहन्तो वयं
जातौ पक्षवताममी तु कलकण्ठाः कालकण्ठा वयम् ।
इत्युद्भावयसे कुहूमुखकुलादुत्कर्षमेवात्मनः
कण्ठे पातयिता कदा खलु भवान्काक स्वरं पञ्चमम् ॥ ८३॥
केनाध्यापितमास्थितं क्व नु कदाधीतं क्व वा वर्तितं
तद्विश्राम्यतु कुत्र जातमथ कैः पुष्टं तदालोच्यताम् ।
काले सोऽपि कुहूमुखो यदि जगत्कर्णामृतं कूजति
प्राग्जन्मार्जितभाग्यवैभवमिदं कः स्तोतुमीष्टे कविः ॥ ८४॥
कीटः कश्चन वृश्चिकः कियदयं प्राणी कियञ्चेष्टते
को भारो हननेऽस्य जीवति स वा कालं कियन्तं पुनः ।
नाम्नोऽप्यस्य कियद्विभेति जनता दूरे कियद्धावते
किं ब्रूमो गरलस्य दुर्विषहतां पुच्छाग्रशूकस्पृशः ॥ ८५॥
किं चन्द्रो न पुरा बभूव किमिमे वृक्षाः पुरा नाभव-
न्किं सृष्टा अधुना पिका मधुकरा अद्योदपद्यन्त किम् ।
साहङ्कारममुं प्रपञ्चमखिलं भोक्तुं यदा प्राणिनां
प्रासीदद्रुहिणस्तदा समुदभूदाश्चर्यचर्यो मधुः ॥ ८६॥
आयासानविचिन्तयन्नगणयल्लाँभं ततः किञ्चिद-
प्यम्भो मुञ्चति कीर्तिमात्रशरणो धाराधरः सर्वतः ।
तद्यत्नादुपयुज्य वर्धयतु वा दातुर्यशः शाश्वतं
मौढ्यादेतदुपेक्ष्य नाशयतु वा लोकः प्रमाणं ततः ॥ ८७॥
वृत्तिं वर्तयितुं निजां विषहरा गृह्णन्तु सर्वान्नरा
गृह्णन्तु क्षुधितास्तदेकविहिताहारा मयूराश्च वा ।
नाजिघ्रन्ति च ये कदापि नकुलास्ते हन्त किं कारणं
दर्शं दर्शमनुद्रवन्ति भुजगान्द्वेधा च विच्छिन्दते ॥ ८८॥
खादन्ति क्षुधितास्तृणानि तृषिता गृह्णन्त्यपो निर्झरे
सीदन्तो गिरिकन्दरासु हरिणा येऽमी क्वचिच्छेरते ।
व्याधव्याघ्रदवानलप्रभृतयस्तेष्वेव सन्नाहिन-
स्तद्वा तिष्ठतु घातयन्ति मुनयोऽप्येतान्कथं चर्मणि ॥ ८९॥
घ्नन्त्वेकत्र तरक्षवो मृगकुलं दावा दहन्त्यन्यतो
व्याधा वीतभयाः परत्र शतशो विध्यन्ति गृह्णन्ति च ।
किं त्वं वेत्सि कथामिमां मृगपते निद्रासि कोणे क्वचि-
द्दिष्ट्या चेदवबुध्यसे शमयसि द्वित्रान्वृथा दन्तिनः ॥ ९०॥
दुर्धर्षोऽसि वनेचरोऽसि क इदं नेत्याह किं तु स्वतो
जानीषे न हिताहितं न खलु तज्जिज्ञाससे वान्यतः ।
तद्गृह्णन्ति नियन्त्रयन्ति निगलैस्त्वां ताडयन्त्यङ्कुशै-
रारोहन्ति च वारणेन्द्र मशकप्राया मनुष्या अपि ॥ ९१॥
अह्नस्त्रिश्चतुरम्बुभिः स्नपयसि स्वं पुष्करावर्जितै-
र्भुङ्क्षे मेध्यतराणि भद्र तरुणान्यश्वत्थपत्राणि च ।
पुण्यारण्यचरोऽसि न प्रविशसि ग्रामं सकृत्कुञ्जर
ज्ञानं चेत्कियदप्युदेति न समा ब्रह्मर्षयोऽपि त्वया ॥ ९२॥
हन्यन्ते कति जन्तवो वनचरैर्नित्यं कति श्वापदै-
र्गृह्यन्ते कति कूटयन्वरचनैः क्षोणीभृतां प्रीतयेम् ।
एतावत्यपि विप्लवे न भजसे कस्यापि दृग्गोचरं
स्वच्छन्दश्च सृगाल खेलसि पुनस्तुल्यं वनग्रामयोः ॥ ९३॥
अस्ति स्वर्णमयोऽद्रिरस्ति विषयः क्षुत्तृड्भरावर्जितः
सन्ति क्षीरघृताकरा जलधयः सन्ति द्रुमाः कामदाः ।
किं नस्तच्चरिताद्भुतश्रवणतः साध्यं क्षुधा ताम्यतां
दृष्टं यत्सविधे विधेहि सुमते तत्रैव सर्वं श्रमम् ॥ ९४॥
अस्त्यत्नैव किलार्णवे तदमृतं तत्रैव हालाहलः
सन्त्यस्मिन्मलये पटीरतरवस्तत्नैव वाताशनाः ।
यद्यद्वस्त्वभिजातमस्ति सविधे तत्तद्दुरापं नृणां
प्राप्तव्यं रसनाञ्चले करतले भाले च वेधा न्यधात् ॥ ९५॥
तावच्चैधितमेधितव्यमवनौ यावन्महद्भिर्द्रुमै-
श्छायाभिः कुसुमैः फलैश्च पथिकाः शक्त्या समाराधिताः ।
कालोऽयं मम जीर्यतः पतितुमित्यास्ते तरोराशये
पान्थानां च पतत्रिणां च हृदये जातोऽयमस्मिन्क्षणे ॥ ९६॥
दृष्टिघ्राणविषान्फणाधरपतीनष्टापि दृष्ट्या स्वयं
रोद्धुं द्रावयितुं विनाशयितुमप्यव्याहतप्रक्रमः ।
मार्जारान्नकुलांश्च किं खगपतिः साह्ये वृणोत्यात्मनः
किं प्रत्यर्थिकुलस्य वृत्तिद इति प्रद्वेष्टि वा मारुतम् ॥ ९७॥
अध्वन्यान्कति रुन्धते कति दृढान्भिन्दन्ति तोयाकरा-
न्केदारान्कति मज्जयन्ति कति च व्यापाटयन्ति द्रुमान् ।
वाहिन्यः क्षणलुप्तवारिविभवा वन्या अवन्यामिमा
यः सिन्धुः सकलाश्रयः स तु पुनः कुत्रेति न जायते ॥ ९८॥
का द्यौः किं बलिसद्म का वसुमती स्यात्सर्वमेतद्यदि
प्रत्यक्षं न भवेत्कदाचिदपि किं ते सर्वसन्दर्शिनः ।
भ्राम्यन्तः प्रलपन्तु नाम विदितं मण्डूक सम्यक्त्वया
मुक्त्वेमं परमं कुकूपमितरत्किं नाम सम्भाव्यते ॥ ९९॥
त्वद्गर्भे सुखमासते फणिपतिश्रीकूर्मदिग्दन्तिनः
प्रत्यक्षा कुलभूभृतां स्थितिरपि त्वय्यम्ब सर्वंसहे ।
ये त्वेते बिभृमो वयं भुवमिति स्वं ख्यापयन्ते यशो
निःशङ्कं निरपत्रपं च तदिदं नः कर्णशूलायते ॥ १००॥
भूतानां प्रभवस्थितिप्रविलयास्त्वय्येव विश्वम्भरे
त्वद्गर्भे ननु ते रसातलजुषो दैत्याः फणीन्द्राश्च ये ।
त्वं सर्वैरुपजीव्यसे दिविचरैस्त्वत्तोऽपि किञ्चित्परं
न स्यात्स्यादपि तन्निरस्तविषयं ब्रह्म त्वमेवासि नः ॥ १०१॥
इति श्रीनीलकण्ठदीक्षितविरचितं अन्यापदेशशतकं सम्पूर्णम् ॥
0 Comments
If you have any Misunderstanding Please let me know