Ad Code

अनाहतेश्वरसम्मोहन अथवा ईश्वरसम्मोहनकवचम्

अनाहतेश्वरसम्मोहन अथवा ईश्वरसम्मोहनकवचम् 


अथ त्रिषष्टितमः पटलः
आनन्दभैरवी उवाच
कवचं श‍ृणु चास्यैव लोकनाथ शिवापते ।
ईश्वरस्य परं ब्रह्म निर्वाणयोगदायकम् ॥ ६३-१॥

कवचं दुर्लभं लोके नामसम्मोहनं परम् ।
कवचं ध्यानमात्रेण निर्वाणफलभाग्भवेत् ॥ ६३-२॥

अस्य किं(पु)त्वत्रमाहात्म्यं तथापि तद्वदाम्यहम् ।
केवलं ग्रन्थिभेदाय निजदेहानुरक्षणात् ॥ ६३-३॥

सर्वेषामपि योगेन्द्र देवानां योगिनां तथा ।
भावादि सिद्धिलाभाय कायनिर्मलसिद्धये ॥ ६३-४॥

प्रकाशितं महाकाल तव स्नेहवशादपि ।
सर्वे मन्त्राः प्रसिद्ध्यन्ति सम्मोहकवचाश्रयाः ॥ ६३-५॥

कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुबुदाहृतम् ।
ईश्वरो देवता प्रोक्तस्तथा शक्तिश्च काकिनी ॥ ६३-६॥

कीलकं क्रूं तथा ज्ञेयं ध्यानसाधनसिद्धये ।
हृदब्जभेदनार्थे तु विनियोगः प्रकीर्तितः ॥ ६३-७॥

एतच्छ्रीसम्मोहनमहाकवचस्य ब्रह्मा ऋषिरनुष्टुप् छन्दः
ईश्वरो देवता काकिनी शक्तिः क्रूं कीलकं
ध्यानसाधनसिद्धये हृदब्जभेदार्थे जपे विनियोगः ।
प्रणवो मे पातु शीर्षं ललाटं च सदाशिवः ।
प्रासादो हृदयं पातु बाहुयुग्मं महेश्वरः ॥ ६३-८॥

पृष्ठं पातु महादेव उदरं कामनाशनः ।
पार्श्वौ पातु कामराजो बालः पृष्ठतलान्तरम् ॥ ६३-९॥

कुक्षिमूलं महावीरो ललितापतिरीश्वरः ।
मृत्युञ्जयो नीलकण्ठो लिङ्गदेशं सदावतु ॥ ६३-१०॥

लिङ्गाधो मुद्रिका पातु पादयुग्ममुमापतिः ।
अङ्गुष्ठं पातु सततं पार्वतीप्राणवल्लभः ॥ ६३-११॥

गुल्फं पातु त्र्यम्बकश्च जानुनी युवतीपतिः ।
ऊरुमूलं सदा पातु मञ्जुघोषः सनातनः ॥ ६३-१२॥

सिमनी देशमापातु भैरवः क्रोधभैरवः ।
लिङ्गदेशोद्गमं पातु लिङ्गरूपी जगत्पतिः ॥ ६३-१३॥

हृदयाग्रं सदा पातु महेशः काकिनीश्वरः ।
ग्रीवां पातु वृषस्थश्च कण्ठदेशं दिगम्बरः ॥ ६३-१४॥

लम्बिकां पातु गणपो नासिकां भवनाशकः ।
भ्रूमध्यं पातु योगीन्द्रः महेशः पातु मस्तकम् ॥ ६३-१५॥

मूर्ध्निदेशं मुनीन्द्रश्च द्वादशस्थो महेश्वरः ।
द्वादशाम्भोरुहं पातु काकिनीप्राणवल्लभः ॥ ६३-१६॥

नाभिमूलाम्बुजं पातु महारुद्रो जगन्मयः ।
स्वाधिष्ठानाम्बुजं पातु सदा हरिहरात्मकः ॥ ६३-१७॥

मूलपद्मं सदा पातु ब्रह्मेन्द्रो डाकिनीश्वरः ।
कुण्डलीं सर्वदा पातु डाकिनी योगिनीश्वरः ॥ ६३-१८॥

कुण्डली मातृका पातु वटुकेशः शिरोहरः ।
राकिणीविग्रहं पातु वामदेवो महेश्वरः ॥ ६३-१९॥

पञ्चाननः सदा पातु लाकिनीवज्रविग्रहम् ।
स्वस्थानं द्वादशारञ्च वीरः पातु सुकाकिनीम् ॥ ६३-२०॥

वीरेन्द्रः कर्णिकां पातु द्वादशारं विषाशनः ।
षोडशारं सदा पातु क्रोधवीरः सदाशिवः ॥ ६३-२१॥

मां पातु वज्रनाथेशोऽरिभयात् क्रोधभैरवः ।
षट्चक्रं सर्वदा पातु लाकिनीश्रीसदाशिवः ॥ ६३-२२॥

षोडशाम्भोरुहान्तस्थं पातु धूम्राक्षपालकः ।
दिङ्नाथेशो महाकायो मां पातु परमेश्वरः ।
आकाशगङ्गाजटिलो द्विदलं पातु मे परम् ।
गङ्गाधरः सदा पातु हाकिनीं परमेश्वरः ॥ ६३-२३॥

हाकिनी परशिवो मे भ्रूपद्मं परिरक्षतु ।
दण्डपाणीश्वरः पातु मनोरूपं द्विपत्रकम् ॥ ६३-२४॥

साधुकेशः सदा पातु मनोन्मन्यादिवासिनम् ।
पिङ्गाक्षेशः सदा पातु भयभूमौ तनूं मम ॥ ६३-२५॥

उन्मनीस्थानकं पातु रोधिनीसहितं मम ।
सुधाघटः सदा पातु ममानन्दादिदेवताम् ॥ ६३-२६॥

आनन्दभैरवः पातु गूढदेशाधिदेवताम् ।
मायामयोपहा पातु सुषुम्नानाडिकाकलाम् ॥ ६३-२७॥

इडाकलाधरं पातु कोटिसूर्यप्रभाकरः ।
पिङ्गलामिहिरं पातु चन्द्रशेखर ईश्वरः ॥ ६३-२८॥

कोटिकालानलस्थानं सुषुम्नायां सदावतु ।
सुधासमुद्रो मां पातु रत्नकोटिमणीश्वरः ॥ ६३-२९॥

शिवनाथः सदा पातु कुण्डलीचक्रमेव मे ।
विष्णुचक्रं महादेवः कालरात्रः कुलान्वितम् ॥ ६३-३०॥

मृत्युजेता सदा पातु सहस्रारं सदा मम ।
सहस्रदलगं शम्भुं स्वयम्भूः पातु सर्वदा ॥ ६३-३१॥

सर्वरूपिणमीशानं पातु शर्वो हि सर्वदा ।
सर्वत्र सर्वदा पातु श्रीनीलकण्ठ ईश्वरः ॥ ६३-३२॥

सर्वबीजस्वरूपो मे बीजमालां सदावतु ।
मातृकां सर्वबीजेशो मातृकार्णं शिवो मम ॥ ६३-३३॥

अहङ्कारं हरः पातु करमालां सदा मम ।
जलेऽरण्ये महाभीतौ पर्वते शून्यमण्डपे ॥ ६३-३४॥

व्याघ्रभल्लूकमहिषपश्वादिभयदूषिते ।
महारण्ये घोरयुद्धे गगने भूतलेऽतले ॥ ६३-३५॥

अत्युत्कटे शस्त्रघाते शत्रुचौरादिभीतिषु ।
महासिंहभये क्रूरे मत्तहस्तिभये तथा ॥ ६३-३६॥

ग्रहव्याधिमहाभीतौ सर्पभीतौ च सर्वदा ।
पिशाचभूतवेतालब्रह्मदैत्यभयादिषु ॥ ६३-३७॥

अपवादापवादेषु मिथ्यावादेषु सर्वदा ।
करालकालिकानाथः प्रचण्डः प्रखरः परः ॥ ६३-३८॥

उग्रः कपर्दी भीदंष्ट्री कालाच्छन्नकरः कविः ।
क्रोधाच्छन्नो महोन्मत्तो गरुडीशो महेशभृत ॥ ६३-३९॥

पञ्चाननः पञ्चरश्मिः पावनः पावमानकः ।
शिखा मात्रामहामुद्राधारकः क्रोधभूपतिः ॥ ६३-४०॥

द्रावकः पूरकः पुष्टः पोषकः पारिभाषिकः ।
एते पान्तु महारुद्रा द्वाविंशतिमहाभये ॥ ६३-४१॥

एते सर्वे शक्तियुक्ता मुण्डमालाविभूषिताः ।
अहङ्कारेश्वराः क्रुद्धा योगिनस्तत्त्वचिन्तकाः ॥ ६३-४२॥

चतुर्भुजा महावीराः खड्गखेटकधारकाः ।
कपालशङ्खमालाढ्या नानारत्नविभूषिताः ॥ ६३-४३॥

किङ्किणीजालमालाढ्या हेमनूपुरराजिताः ।
नानालङ्कारशोभाढ्याश्चन्द्रचूडाविभूषिताः ॥ ६३-४४॥

सदानन्दयुताः श्रीदा मोक्षदाः कर्मयोगिनाम् ।
सर्वदा भगवान् पातु ईश्वराः पान्तु नित्यशः ॥ ६३-४५॥

ब्रह्मा पातु मूलपद्मं श्रीविष्णुः पातु षड्दलम् ।
रुद्रः पातु दशदलमीश्वरः पात्वनाहतम् ॥ ६३-४६॥

सदाशिवः पातु नित्यं षोडशारं सदा मम ।
परो द्विदलमापातु षट्शिवाः पान्तु नित्यशः ॥ ६३-४७॥

अपराः पान्तु सततं मम देहं कुलेश्वराः ।
पूर्णं ब्रह्म सदा पातु सर्वाङ्गं सर्वदेवताः ॥ ६३-४८॥

कालरूपी सदा पातु मनोरूपी शिरो मम ।
आत्मलीनः सदा पातु ललाटं वेदवित्प्रभुः ॥ ६३-४९॥

वाराणसीश्वरः पातु मम भ्रूमध्यपीठकम् ।
योगिनाथः सदा पातु मम दन्तावलिं दृढम् ॥ ६३-५०॥

ओष्ठाधरौ सदा पातु झिल्टीशो भौतिकेश्वरः ।
नासापुटद्वयं पातु भारभूतीशोऽतिथीश्वरः ॥ ६३-५१॥

गण्डयुग्मं सदा पातु स्थाणुकेशो हरेश्वरः ।
कर्णदेशं सदा पातु अमरोऽर्धीश्वरो मम ॥ ६३-५२॥

महासेनेश्वरस्तुण्डं मम पातु निरन्तरम् ।
श्रीकण्ठादिमहारुद्राः स्वाङ्गग्रन्थिषु मातृकाः ॥ ६३-५३॥

मां पातु कालरुद्रश्च सर्वांङ्ग कालसंक्षयः ।
अकाल तारकः पातु उदरं परिपूरकः ॥ ६३-५४॥

अगस्त्यादिमुनिश्रेष्ठाः पान्तु योगिन ईश्वराः ।
श्रीनाथेश्वर ईशानः पातु मे सूक्ष्मनाडिकाः ॥ ६३-५५॥

त्रिशूली पातु पूर्वस्यां दक्षिणे मृत्युनाशनः ।
पश्चिमे वारुणीमत्तो महाकालः सदाऽवतु ॥ ६३-५६॥

उत्तरे चावधूतेशो भैरवः कालभैरवः ।
ईशाने पातु शान्तीशो वायव्यां योगिवल्लभः ॥ ६३-५७॥

मरुत्कोणे दैत्यहन्ता पातु मां सततं शिवः ।
वह्निकोणे सदा पातु कालानलमुखाम्बुजः ॥ ६३-५८॥

ऊर्ध्वं ब्रह्मा सदा पातु अधोऽनन्तः सदाऽवतु ।
सर्वदेवः सदा पातु सर्वदेहगतं सुखम् ॥ ६३-५९॥

इहार्हा वल्लभः पातु कालाख्येशो गुणो मम ।
रविनाथः सदा पातु हृदयं मानसं मम ॥ ६३-६०॥

चन्द्रेशः पातु सततं भ्रूमध्यं मम कामदः ।
वज्रदण्डधरः पातु रक्ताङ्गेशस्त्रिलोचनम् ॥ ६३-६१॥

बुधश्यामसुन्दरेशः पातु मे हृदयस्थलम् ।
सुवर्णवर्णगुर्वीशो मम कण्ठं सदाऽवतु ॥ ६३-६२॥

सिन्दूरजलदच्छन्नाद्यर्कशुक्रेश्वरो गलम् ।
नाभिदेशं सदा पातु शनिश्यामेश ईश्वरः ॥ ६३-६३॥

राहुः पातु महावक्त्रः केवलं मुखमण्डलम् ।
केतुः पातु महाकायः सदा मे गुह्यदेशकम् ॥ ६३-६४॥

इन्द्रादिदेवताः पान्तु परिवारगणैर्युताः ।
शिरोमण्डलदिग्रूपं पान्तु वैकुण्ठवासिनः ॥ ६३-६५॥

भैरवा भैरवीयुक्ताः सर्वदेहसमुद्भवाः ।
भीमदंष्ट्रा महाकाया मम पान्तु निरन्तरम् ॥ ६३-६६॥

यज्ञभुङ्नीलकण्ठो मे हृदयं पातु सर्वदा ।
उन्मत्तभैरवाः पान्तु ईश्वराः पान्तु सर्वदा ॥ ६३-६७॥

क्रोधभूपतयः पान्तु श्रीमायामदनान्विताः ।
फलश्रुतिकथनं
इत्येतत् कवचं तारं तारकब्रह्ममङ्गलम् ॥ ६३-६८॥

कथितं नाथ यत्नेन कुत्रापि न प्रकाशितम् ।
तव स्नेहवशादेव प्रसन्नहृदयान्विता ॥ ६३-६९॥

कृपां कुरु दयानाथ तवैव कवचाद्भुतम् ।
हिताय जगतां मोहविनाशायामृताय च ॥ ६३-७०॥

पठितव्यं साधकेन्द्रैर्योगीन्द्रैरुपवन्दितम् ।
दुर्लभं सर्वलोकेषु सुलभं तत्त्ववेदिभिः ॥ ६३-७१॥

असाध्यं साधयेदेव पठनात् कवचस्य च ।
धारणात् पूजनात् साक्षात् सर्वपीठफलं लभेत् ॥ ६३-७२॥

काकचञ्चुपुटं कृत्वा सप्तधा पञ्चधापि वा ।
कवचं प्रपठेद्विद्वान् गूढसिद्धिनिबन्धनात् ॥ ६३-७३॥

काकिनीश्वरसंयोगं सुयोगं कवचान्वितम् ।
ईश्वराङ्गं विभाव्यैव कल्पवृक्षसमो भवेत् ॥ ६३-७४॥

एतत्कवचपाठेन देवत्वं लभते ध्रुवम् ।
आरोग्यं परमं ज्ञानं मोहनं जगतां वशम् ॥ ६३-७५॥

स्तम्भयेत् परसैन्यानि पठेद्वारत्रयं यदि ।
शान्तिमाप्नोति शीघ्रं स षट्कर्मकरणक्षमः ॥ ६३-७६॥

आकाङ्क्षारसलालित्यविषयाशाविवर्जितः ।
साधकः कामधेनुः स्यादिच्छादिसिद्धिभाग्भवेत् ॥ ६३-७७॥

सर्वत्र गतिशक्तिः स्यात् स्त्रीणां मन्मथरूपधृक् ।
अणिमालघिमाप्राप्तिगुणादिसिद्धिमाप्नुयात् ॥ ६३-७८॥

योगिनीवल्लभो भूत्वा विचरेत् साधकाग्रणीः ।
यथा गुहो गणेशश्च तथा स मे हि पुत्रकः ॥ ६३-७९॥

श्रीमान् कुलीनः सारज्ञः सर्वधर्मविवर्जितः ।
शनैः शनैर्मुदा याति षोडशारे यतीश्वरः ॥ ६३-८०॥

यत्र भाति शाकिनीशः सदाशिवगुरुः प्रभुः ।
क्रमेण परमं स्थानं प्राप्नोति मम योगतः ॥ ६३-८१॥

मम योगं विना नाथ तव भक्तिः कथं भवेत् ।
एतत्सम्मोहनाख्यस्य कवचस्य प्रपाठतः ॥ ६३-८२॥

वाणी वश्या स्थिरा लक्ष्मीः सर्वैश्वर्यसमन्वितः ।
त्यागिता लभ्यते पश्चान्निःसङ्गो विहरेत् शिवः ।
सदाशिवे मनो याति सिद्धमन्त्री मनोलयः ॥ ६३-८३॥

इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे
षट्चक्रप्रकाशे भैरवीभैरव संवादेऽनाहतेश्वरसम्मोहनाख्यकवचं
नाम त्रिषष्टितमः पटलः ॥ ६३॥

Post a Comment

0 Comments

Ad Code