Ad Code

अर्धनारीश्वर्यष्टोत्तरशतनामस्तोत्रम्



अर्धनारीश्वर्यष्टोत्तरशतनामस्तोत्रम् 

 श्रीगणेशाय नमः ॥ 

 ॐ चामुण्डिकाम्बा श्रीकण्ठः पार्वती परमेश्वरः । महाराज्ञीमहादेवस्सदाराध्या सदाशिवः ॥ १॥ शिवार्धाङ्गी शिवार्धाङ्गो भैरवी कालभैरवः । शक्तित्रितयरूपाढ्या मूर्तित्रितयरूपवान् ॥ २॥ कामकोटिसुपीठस्था काशीक्षेत्रसमाश्रयः । दाक्षायणी दक्षवैरी शूलिनि शूलधारकः ॥ ३॥ ह्रीङ्कारपञ्जरशुकी हरिशङ्कररूपवान् । श्रीमदग्नेशजननी षडाननसुजन्मभूः ॥ ४॥ पञ्चप्रेतासनारूढा पञ्चब्रह्मस्वरूपभ्रृत् । चण्डमुण्डशिरश्छेत्री जलन्धरशिरोहरः ॥ ५॥ सिंहवाहा वृषारूढः श्यामाभा स्फटिकप्रभः । महिषासुरसंहर्त्री गजासुरविमर्दनः ॥ ६॥ महाबलाचलावासा महाकैलासवासभूः । भद्रकाली वीरभद्रो मीनाक्षी सुन्दरेश्वरः ॥ ७॥ भण्डासुरादिसंहर्त्री दुष्टान्धकविमर्दनः । मधुकैटभसंहर्त्री मधुरापुरनायकः ॥ ८॥ कालत्रयस्वरूपाढ्या कार्यत्रयविधायकः । गिरिजाता गिरीशश्च वैष्णवी विष्णुवल्लभः ॥ ९॥ विशालाक्षी विश्वनाधः पुष्पास्त्रा विष्णुमार्गणः । कौसुम्भवसनोपेता व्याघ्रचर्माम्बरावृतः ॥ १०॥ मूलप्रकृतिरूपाढ्या परब्रह्मस्वरूपवान् । रुण्डमालाविभूषाढ्या लसद्रुद्राक्षमालिकः ॥ ११॥ मनोरूपेक्षुकोदण्ड महामेरुधनुर्धरः । चन्द्रचूडा चन्द्रमौलिर्महामाया महेश्वरः ॥ १२॥ महाकाली महाकालो दिव्यरूपा दिगम्बरः । बिन्दुपीठसुखासीना श्रीमदोङ्कारपीठगः ॥ १३॥ हरिद्राकुङ्कुमालिप्ता भस्मोद्धूलितविग्रहः । महापद्माटवीलोला महाबिल्वाटवीप्रियः ॥ १४॥ सुधामयी विषधरो मातङ्गी मुकुटेश्वरः । वेदवेद्या वेदवाजी चक्रेशी विष्णुचक्रदः ॥ १५॥ जगन्मयी जगद्रूपो मृडानी मृत्युनाशनः । रामार्चितपदाम्भोजा कृष्णपुत्रवरप्रदः ॥ १६॥ रमावाणीसुसंसेव्या विष्णुब्रह्मसुसेवितः । सूर्यचन्द्राग्निनयना तेजस्त्रयविलोचनः ॥ १७॥ चिदग्निकुण्डसम्भूता महालिङ्गसमुद्भवः । कम्बुकण्ठी कालकण्ठी वज्रेशी वज्रपूजितः ॥ १८॥ त्रिकण्टकी त्रिभङ्गीशः भस्मरक्षा स्मरान्तकः । हयग्रीववरोद्धात्री मार्कण्डेयवरप्रदः ॥ १९॥ चिन्तामणिगृहावासा मन्दराचलमन्दिरः । विन्ध्याचलकृतावासा विन्ध्यशैलार्यपूजितः ॥ २०॥ मनोन्मनी लिङ्गरूपो जगदम्बा जगत्पिता । योगनिद्रा योगगम्यो भवानी भवमूर्तिमान् ॥ २१॥ श्रीचक्रात्मरथारूढा धरणीधरसंस्थितः श्रीविद्यावेद्यमहिमा निगमागमसंश्रयः ॥ २२॥ दशशीर्षसमायुक्ता पञ्चविंशतिशीर्षवान् । अष्टादशभुजायुक्ता पञ्चाशत्करमण्डितः ॥ २३॥ ब्राह्म्यादिमातृकारूपा शताष्टेकादशात्मवान् । स्थिरा स्थाणुस्तथा बाला सद्योजात उमा मृडः ॥ २४॥ शिवा शिवश्च रुद्राणी रुद्रश्छैवेश्वरीश्वरः । कदम्बकाननावासा दारुकारण्यलोलुपः ॥ २५॥ नवाक्षरीमनुस्तुत्या पञ्चाक्षरमनुप्रियः । नवावरणसम्पूज्या पञ्चायतनपूजितः ॥ २६॥ देहस्थषट्चक्रदेवी दहराकाशमध्यगः । योगिनीगणसंसेव्या भृङ्ग्यादिप्रमथावृतः ॥ २७॥ उग्रतारा घोररूपश्शर्वाणी शर्वमूर्तिमान् । नागवेणी नागभूषो मन्त्रिणी मन्त्रदैवतः ॥ २८॥ ज्वलज्जिह्वा ज्वलन्नेत्रो दण्डनाथा दृगायुधः । पार्थाञ्जनास्त्रसन्दात्री पार्थपाशुपतास्त्रदः ॥ २९॥ पुष्पवच्चक्रताटङ्का फणिराजसुकुण्डलः । बाणपुत्रीवरोद्धात्री बाणासुरवरप्रदः ॥ ३०॥ व्यालकञ्चुकसंवीता व्यालयज्ञोपवीतवान् । नवलावण्यरूपाढ्या नवयौवनविग्रहः ॥ ३१॥ नाट्यप्रिया नाट्यमूर्तिस्त्रिसन्ध्या त्रिपुरान्तकः । तन्त्रोपचारसुप्रीता तन्त्रादिमविधायकः ॥ ३२॥ नववल्लीष्टवरदा नववीरसुजन्मभूः । भ्रमरज्या वासुकिज्यो भेरुण्डा भीमपूजितः ॥ ३३॥ निशुम्भशुम्भदमनी नीचापस्मारमर्दनः । सहस्राम्बुजारूढा सहस्रकमलार्चितः ॥ ३४॥ गङ्गासहोदरी गङ्गाधरो गौरी त्रयम्बकः । श्रीशैलभ्रमराम्बाख्या मल्लिकार्जुनपूजितः ॥ ३५॥ भवतापप्रशमनी भवरोगनिवारकः । चन्द्रमण्डलमध्यस्था मुनिमानसहंसकः ॥ ३६॥ प्रत्यङ्गिरा प्रसन्नात्मा कामेशी कामरूपवान् । स्वयम्प्रभा स्वप्रकाशः कालरात्री कृतान्तहृत् ॥ ३७॥ सदान्नपूर्णा भिक्षाटो वनदुर्गा वसुप्रदः । सर्वचैतन्यरूपाढ्या सच्चिदानन्दविग्रहः ॥ ३८॥ सर्वमङ्गलरूपाढ्या सर्वकल्याणदायकः । राजेराजेश्वरी श्रीमद्राजराजप्रियङ्करः ॥ ३९॥ अर्धनारीश्वरस्येदं नाम्नामष्टोत्तरं शतम् । पठन्नर्चन्सदा भक्त्या सर्वसाम्राज्यमाप्नुयात् ॥ ४०॥ इति स्कान्दमहापुराणे अर्धनीरीश्वर्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

Post a Comment

0 Comments

Ad Code