प्रथमोअध्याय:
आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि, सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु, तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
ओं शान्तिः शान्तिः शान्तिः
श्रीमच्छङ्करभगवत्पादाचार्यविरचितं भाष्यमुपोद्घातः
"ओमित्येतदक्षरम्" इत्याद्यष्टाध्यायी छान्दोग्योपनिषत् ।
तस्याः संक्षेपतोर्ऽथजिज्ञासुभ्य ऋजुविवरणमल्पग्रन्थश्रीमन्नरेन्द्रपुरीयतीन्द्रविरचितं छान्दोग्योपनिषद्भाष्यटिप्पणमिदमारभ्यते ।
तत्र सम्बन्धः समस्तं कर्माधिगतं प्राणादिदेवताविज्ञानसहितमर्चिरादिमार्गेण ब्रह्मलोकप्रतिपत्तिकारणम् ।
केवलं च धूमादिमार्गेण चन्द्रलोकप्रतिपत्तिकारणम् ।
स्वभावप्रवृत्तानां च मार्गद्वयपरिभ्रष्टानां कष्टाधोगतिरुक्ता ।
न चोभयोर्मार्गयोरन्यतरस्मिन्नपि मार्गे आत्यन्तिकी पुरुषार्थसिद्धिरित्यतः कर्मनिरपेक्षमद्वैतात्मविज्ञानं संसारगतित्रयहेतूपमर्देन वक्तव्यमित्युपनिषदारभ्यते ।
न चाद्वैतात्मविज्ञानादन्यत्राऽत्यन्तिकी निःश्रेयसप्राप्तिः ।
वक्ष्यति हि"अथ येऽम्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति" ।
विपर्यये च"स स्वराड्भवति"इति ।
तथा द्वैतविषयानृताभिसन्धस्य बन्धनं तस्करस्येव तप्तपरशुग्रहणे बन्धदाहभावः, संसारदुःखप्राप्तिश्चेत्युक्त्वाद्वैतात्मसत्याभिसन्धस्यातस्करस्येव तप्तपरशुग्रहणे बन्धदाहाभावः संसारदुःखनिवृत्तिर्मोक्षश्चेति ।
अत एव न कर्मसहभाव्.द्वैतात्मदर्शनम् ।
क्रियाकारकफलभेदोपमर्देन"सदेकमेवाद्वितीयम्" "आत्मैवेदं सर्वम्" इत्येवमादिवाक्यजनितस्य बाधकप्रत्ययानुपपत्तेः ।
कर्मविधिप्रत्यय इति चेत् ।
न ।
कर्तृभोक्तृस्वभावविज्ञानवतस्तज्जनितकर्मफलरागद्वेषादिदोषवतश्च कर्मविधानात् ।
अधिगतसकलवेदार्थस्य कर्मविधानादद्वैतज्ञानवतोऽपि कर्मेति चेत् ।
न ।
कर्माधिकृतविषयस्य कर्तृभोक्त्रादिज्ञानस्य स्वाभाविकस्य"सदेकमेवाद्वितीयम्""आत्मैवेदं सर्वम्" इत्यनेनोपमर्दितत्वात् ।
तस्मादविद्यादिदोषवत एव कर्माणि विधीयन्ते ।
नाद्वैतज्ञानवतः ।
अत एव हि वक्ष्यति"सर्व एते पुण्यलोका भवन्ति ।
ब्रह्मसस्थोऽमृतत्वमेति"इति ।
तत्रैतस्मिन्नद्वैतविद्याप्रकरणेऽभ्युदयसाधनान्युपासनान्युच्यन्ते कैवल्यसन्निकृष्टफलानि ।
चाद्वैतादीषद्वीकृतब्रह्मविषयाणि इत्यादीनि कर्मसमृद्धिफलानि च कर्माङ्गसम्बन्धीनि ।
रहस्यसामान्यान्मनोवृत्तिसामान्याच्च यथाद्वैतज्ञानं मनोवृत्तिमात्रं तथान्यान्यप्युपासनानि मनोवृत्तिरूपाणीत्यस्ति हि सामान्यम् ।
कस्तर्ह्यद्वैतज्ञानस्योपासनानां च विशेषः ।
उच्यते ।
स्वाभाविकस्याऽत्मन्यक्रियेऽध्यारोपितस्य कर्त्रादिकारकक्रियाफलभेदविज्ञानस्य निवर्तकमद्वैतविज्ञानम् ।
रज्ज्वादाविव सर्पाद्यध्यारोपलक्षणज्ञानस्य रज्ज्वादिस्वरूपनिश्चयः प्रकाशनिमित्तः ।
उपासनं तु यथाशास्त्रसमर्पितं किञ्चिदालम्बनमुपादाय तस्मिन्समानचित्तवृत्तिसन्तानकरणं तद्विलक्षणप्रत्ययानन्तरितमिति विशेषः ।
तान्येतान्युपासनानि सत्त्वशुद्धिकरत्वेन वस्तुतत्त्वावभासकत्वादद्वैतज्ञानोपकारकाण्यालम्बनविषयत्वात्सुसाध्यानि चेति पूर्वमुपन्यस्यन्ते ।
तत्र कर्माभ्यासस्य दृढीकृतत्वात्कर्मपरित्यागेनोपासन एव दुःखं चेतः समर्पणं कर्तृमिति कर्माङ्गविषयमेव तावदादावुपासनमुपन्यस्यते ।
_______________________________________________________________________
१,१.१
ओमित्येतदक्षरमुद्गीथमुपासीत ।
ओमिति ह्युद्गायति ।
तस्योपव्याख्यानम् ॥ १,१.१ ॥
__________
भाष्य १,१.१ इत्युपोद्घातभाष्यमोमित्येतदक्षरमुद्गीथमुपासीत ।
ओमित्येतदक्षरं परमात्मनोऽभिधानं नेदिष्ठम् ।
तस्मिन्हि प्रयुज्यमाने स प्रसीदति प्रियनामग्रहण इव लोकः ।
तदिहेतिपरं प्रयुक्तमभिधायकत्वाद्व्यावर्तितं शब्दस्वरूपमात्रं प्रतीयते ।
तथा चार्चादिवत्परस्याऽत्मनः प्रतीकं सम्पद्यते ।
एवं नामत्वेन प्रतीकत्वेन च परमात्मोपासनसाधनं श्रेष्ठमिति सर्ववेदान्तेष्वगतम् ।
जपकर्मस्वाध्यायाद्यन्तेषु च बहुशः प्रयोगात्प्रसिद्धमस्य श्रैष्ठ्यम् ।
अतस्तदेतक्षरं वर्णात्मकमुद्गीथभक्त्यवयवत्वादुद्गीथशब्दवाच्यमुपासीत ।
कर्माङ्गावयवभूत ओङ्कारे परमात्मप्रतीके दृढामैकाग्र्यलक्षणां मतिं सन्तनुयात् ।
स्वयमेव श्रुतिरोङ्कारस्योद्गीथशब्दवाच्यत्वे हेतुमाहओमिति ह्युद्गायति ।
ओमित्यारभ्य हि यस्मादुद्गायत्यत उद्गीथ ओङ्कार इत्यर्थः ।
तस्योपव्याख्यानं तस्याक्षरस्योपव्याख्यानमेवमुपासनमेवंविभूत्येवंफलमित्यादिकथनमुपव्याख्यानम् ।
प्रवर्तत इति वाक्यशेषः ॥१ ॥
_______________________________________________________________________
१,१.२
एषां भूतानां पृथिवी रसः ।
पृथिव्या आपो रसः ।
अपामोषधयो रसः ।
ओषधीनां पुरुषो रसः ।
पुरुषस्य वाग्रसः ।
वाच ऋग्रसः ।
ऋचः साम रसः ।
साम्न उद्गीथो रसः ॥ १,१.२ ॥
__________
भाष्य १,१.२ एषां चराचराणां भूतानां पृथिवी रसो गतिः परायणमवष्टम्भः ।
पृथिव्या आपो रसोऽप्सु ह्योता च प्रोता च पृथिव्यतस्ता रसः पृथिव्याः ।
अपामोषधयो रसोऽप्परिणामत्वादोषधीनाम् ।
तासां पुरुषो रसोऽन्नपरिणामत्वात्पुरुषस्य ।
तस्यापि पुरुषस्य वाग्रसः ।
पुरुषावयवानां हि वाक्सारिष्ठा ।
अतो वाक्पुरुषस्य रस उच्यते ।
तस्या अपि वाच ऋग्रसः सारतरा ।
ऋचः साम रसः सारतरम् ।
तस्यापि साम्न उद्गीथः प्रकृतत्वादोङ्कारः सारतरः ॥२ ॥
_______________________________________________________________________
१,१.३
स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ १,१.३ ॥
__________
भाष्य १,१.३ एवं स एष उद्गीथाख्य ओङ्कारो भूतादीनामुत्तरोत्तररसानामतिशयेन रसो रसतमः ।
परमः परमात्मप्रतीकत्वात् ।
परार्ध्योर्ऽधं स्थानं, परं च तदर्धं च परार्धं तदर्हतीति परार्ध्यः परमात्मस्थानार्हः परमात्मवदुपास्यत्वादित्यभिप्रायः ।
अष्टमः पृथिव्यादिरससंख्यायां यदुद्गीथो य उद्गीथः ॥३ ॥
_______________________________________________________________________
१,१.४
कतमा कतम र्क्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ १,१.४ ॥
__________
भाष्य १,१.४ वाच ऋग्रस इत्युक्तम् ।
कतमा सर्क्कतमत्तत्साम कतमो वा स उद्गीथः ।
कतमा कतमेति वीप्साऽदरार्था ।
ननु"वा बहूनां जातिपरिप्रश्ने डतमच्" ।
न ह्यत्र ऋग्जातिबहुत्वं कथं डतमच्प्रयोगः ।
नैष दोषः ।
जातौ परिप्रश्नो जातिपरिप्रश्न इत्येतस्मिन्विग्रहे जातावृग्व्यक्तीनां बहुत्वोपपत्तेः ।
न तु जातेः परिप्रश्न इति विगृह्यते ।
ननु जातेः परिप्रश्न इत्यस्मिन्विग्रहे कतमः कठ इत्याद्युदाहरणमुपपन्नं जातौ परिप्रश्न इत्यत्र तु न युज्यते ।
तत्रापि कठादिजातावेव व्यक्तिबहित्वाभिप्रायेण परिप्रश्न इत्यदोषः ।
यदि जातेः परिप्रश्नः स्यात्कतमा कतमर्गित्यादावुपसंख्यानं कर्तव्यं स्याद्विमृष्टं भवति विमर्शः कृतो भवति ॥४ ॥
_______________________________________________________________________
१,१.५
वागेवर्क् ।
प्राणः साम ।
ओमित्येतदक्षरमुद्गीथः ।
तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ १,१.५ ॥
__________
भाष्य १,१.५ विमर्शे हि कृते सति प्रतिवचनोक्तिरुपपन्ना वागेवर्क्प्राणः सामेति ।
वागृचोरेकत्वेऽपि नाष्टमत्वव्याघातः पूर्वस्माद्वाक्यान्तरत्वादाप्तिगुणसिद्धय ओमित्येतदक्षरमुद्गीथ इति ।
वाक्प्राणावृक्सामयोनी इति वागेवर्क्प्राणः सामेत्युच्यते ।
यथाक्रममृक्सामयोन्योर्वाक्प्राणयोर्ग्रहणे हि सर्वासामृचां सर्वेषां च साम्नामवरोधः कृतः स्यात् ।
सर्वर्क्सामावरोधे चर्क्सामसाध्यानां च सर्वकर्मणामवरोधः कृतः स्यात् ।
तदवरोधे च सर्वे कामा अवरुद्धाः स्युः ।
ओमित्येतदक्षरमुद्गीथ इति भक्त्याशङ्का विनर्त्यते ।
तद्वा एतदिति मिथुनं निर्दिश्यते ।
किं तन्मिथुनमित्याह यद्वाक्च प्राणश्च सर्वऋक्सामकारणभूतौ मिथुनम् ।
ऋक्व साम चेति ऋक्सामकारणावृक्सामशब्दोक्तावित्यर्थः ।
न तु स्वतन्त्रमृक्च साम च मिथुनम् ।
अन्यथा हि वाक्च प्राणश्चेत्येकं मिथुनमृक्साम चापरं मिथुनमिति द्वे मिथुने स्याताम् ।
तथा च तदेतन्मिथुनमित्येकवचननिर्देषोऽनुपपन्नः स्यात् ।
तस्मादृक्सामयोन्योर्वाक्प्राणयोरेव मिथुनत्वम् ॥५ ॥
_______________________________________________________________________
१,१.६
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ।
यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योऽन्यस्य कामम् ॥ १,१.६ ॥
__________
भाष्य १,१.६ तदेतदेवंलक्षणं मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ।
एवं सर्वकामावाप्तिगुणविशिष्टं मिथुनमोङ्कारे संसृष्टं विद्यत इत्योङ्कारस्य सर्वकामावाप्तिगुणवत्त्वं प्रसिद्धम् ।
वाङ्मयत्वमोङ्कारस्य प्राणनिष्पाद्यत्वं च मिथुनेन संसृष्टत्वं मिथुनस्य कामापयितृत्वं प्रसिद्धमिति दृष्टान्त उच्यते ।
यथा लोके मिथुनौ मिथुनावयवौ स्त्रीपुंसौ यदा समागच्छतो ग्राम्यधर्मतया संयुज्येयानां तदाऽपयतः प्रापयतोऽन्योन्यस्येतरेतरस्य तौ कामम् ।
तथा च स्वात्मानुप्रविष्टेन मिथुनेन सर्वकामाप्तिगुणवत्त्वमोङ्कारस्य सिद्धमित्यभिप्रायः ॥६ ॥
_______________________________________________________________________
१,१.७
आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १,१.७ ॥
__________
भाष्य १,१.७ तदुपासकोऽप्युद्गाता तद्धर्मा भवतीत्याहआपयिता ह वै कामानां यजमानस्य भवति य एतदक्षरमेवमाप्तिगुणवदुद्गीथमुपास्ते तस्यैतद्यथोक्तं फलमित्यर्थः ।
"तं यथा यथोपासते तदेव भवति"इति श्रुतेः ॥७ ॥
_______________________________________________________________________
१,१.८
तद्वा एतदनुज्ञाक्षरम् ।
यद्धि किंचानुजानात्योमित्येव तदाह ।
एषो एव समृद्धिर्यदनुज्ञा ।
समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १,१.८ ॥
__________
भाष्य १,१.८ समृद्धिगुणवांश्चोङ्कारः ।
कथम्तद्वा एतत्प्रकृमनुज्ञाक्षरमनुज्ञा च साक्षरं च तत् ।
अनुज्ञानुमतिरोङ्कार इत्यर्थः ।
कथमनुज्ञेत्याह श्रुतिरेव ।
यद्धि किञ्च यत्किञ्च लोके ज्ञानं धनं वानुजानाति विद्वान्धनी वा तत्रानुमतिं कुर्वन्नोमित्येव तदाह ।
तथा च वेदे"त्रयस्त्रिंशदित्योमिति होवाच"इत्यादिना ।
तथा च लोकेऽपि तवेदं धनं गृह्णामीत्युक्त ओमित्याह ।
अत एषा उ एवैषैव समृद्धिर्यदनुज्ञा यानुज्ञा सा समृद्धिस्तन्मूलत्वादनुज्ञायाः ।
समृद्धो ह्योमित्यनुज्ञां ददाति तस्मात्समृद्धिगुणवानोङ्कार इत्यर्थः ।
समृद्धिगुणोपासकत्वात्तद्धर्मा सन्समर्धयिता ह वै कामानां यजमानस्य भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यादि पूर्ववत् ॥८ ॥
_______________________________________________________________________
१,१.९
तेनेयं त्रयी विद्या वर्तते ।
ओमित्याश्रावयति ।
ओमिति शंसति ।
ओमित्युद्गायति ।
एतस्यैव अक्षरस्यापचित्यै महिम्ना रसेन ॥ १,१.९ ॥
__________
भाष्य १,१.९ अथेदानीमक्षरं स्तौत्युपास्यत्वात्प्ररोचनार्थम् ।
कथं, तेनाक्षरेण प्रकृतेनेयमृग्वेदादिलक्षणा त्रयी विद्या त्रयीविद्याविहितं कर्मेत्यर्थः ।
न हि त्रयी विद्यैवाऽश्रावणादिभिर्वर्तते कर्म तु तथा प्रवर्तत इति प्रसिद्धम् ।
कथमोमित्याश्रावत्योमिति शंसत्योमित्युद्गायतीति लिङ्गाच्च सोमयाग इति गम्यते ।
तच्च कर्मैतस्यैवाक्षरस्यापचित्यै पूजार्थम् ।
परमात्मप्रतीकं हि तत् ।
तदपचितिः परमात्मन एव सा ।
"स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः"इति स्मृतेः ।
महिम्ना रसेन ।
किञ्चैतस्यैवाक्षरस्य महिम्ना महत्त्वेन ऋत्विग्यजमानादिप्राणैरित्यर्थः ।
तथैतस्यैवाक्षरस्य रसेन व्रीहियवादिरसनिर्वृत्तेन हविषेत्यर्थः ।
यागहोमाद्यक्षरेण क्रियते ।
तच्चाऽदित्यमुपतिष्ठते ।
ततो वृष्ट्यादिक्रमेण प्राणोऽन्नं च जायते ।
प्राणैरन्नेन च यज्ञस्तायते ।
अत उच्यतेऽक्षरस्य महिम्ना रस्न्ति ॥९ ॥
_______________________________________________________________________
१,१.१०
तेनोभौ कुरुतः ।
यश्चैतदेवं वेद यश्च न वेद ।
नाना तु विद्या चाविद्या च ।
यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १,१.१० ॥
__________
भाष्य १,१.१० तत्राक्षरविज्ञानवतः कर्म कर्तव्यमिति स्थितमाभिपतितेनाभरेणोभौ यश्चैतदक्षरमेवं व्याख्यातं वेद यश्च कर्ममात्रविदक्षरयाथात्म्यं न वेद तावुभौ कुरुतः कर्म ।
तयोश्च कर्मसामर्थ्यादेव फलं स्यात्किं तत्राक्षरयाथात्म्यविज्ञानेनेति ।
दृष्टं हि लोके हरीतकीं भक्षयतोस्तद्रसाभिज्ञेतरयोर्विरेचनम् ।
नैवम् ।
यस्मान्नाना तु विद्या चाविद्या च भिन्ने हि विद्याविद्ये ।
तुशब्दः पक्षव्यावृत्त्यर्थः ।
नोङ्कारस्य कर्माङ्गत्वमात्रविज्ञानमेव रसतमाप्तिसमृद्धिगुणवद्विज्ञानं किं तर्हि ततोऽभ्यधिकम् ।
तस्मात्तदङ्गाधिक्यात्फलाधिक्यं युक्तमित्यभिप्रायः ।
दृष्टं हि लोके वणिक्शबरयोः पद्मरागादिमणिविक्रये वणिजो विज्ञानाधिक्यात्फलाधिक्यम् ।
तस्माद्यदेव विद्यया विज्ञानेन युक्तः सन्करोति कर्मश्रद्धया श्रद्दधानश्च सन्नुपनिषदा योगेन युक्तश्चेत्यर्थः ।
तदेव कर्म वीर्यवत्तरमविद्वत्कर्मणोऽधिकफलं भवतीति ।
विद्वत्कर्मणो वीर्यवत्तर[त्वटवचनादविदुषोऽपि कर्म वार्यदेव भवतीत्यभिप्रायः ।
न चाविदुषः कर्मण्यनधिकारः ।
औषस्त्ये काण्डेऽविदुषामप्यार्विज्यदर्शनात् ।
रसतमाप्तिसमृद्धिगुणवदक्षरमित्येकमुपासनम् ।
मध्ये प्रयत्नान्तरादर्शनात् ।
अनेकैर्हि विशेषणैरनेकधोपास्यत्वात्खल्वेतस्यैव प्रकृतस्योद्गीथाख्यस्याक्षरस्योपव्याख्यानं भवति ॥१०॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य प्रथम खण्डः
=======================================================================
१,२.१
देवासुरा ह वै यत्र संयेतिरे ।
उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १,२.१ ॥
__________
भाष्य १,२.१ देवासुरा देवाश्चासुराश्च ।
देवा दीव्यतेर्द्येतनार्थस्य शास्त्रोद्भासिता इन्द्रियवृत्तयः ।
अशिरास्तद्विरीताः स्वेष्वेवासुषु विष्वग्विषयासु प्राणनक्रियासु रमणात्स्वाभाविक्यस्तम आत्मिका इन्द्रियवृत्तय एव ।
ह वा इति पूर्ववृत्तोद्भासकौ निपातौ ।
यत्र यस्मिन्निमित्त इतरेतरविषयापहारलक्षणे संयेतिरे ।
सम्पूर्वस्य यततेः संग्रामार्थत्वमिति संग्रामं कृतवन्त उत्यर्थः ।
शास्रीयप्रकाशवृत्तयभिभवनाय प्रवृत्ताः स्वाभाविक्यस्तमोरूपा इन्द्रियवृत्तयोऽसुराः ।
तथा तद्विपरीताः शास्रार्थविषयविवेकज्योतिरात्मानो देवा स्वाभाविकतमोरूपासुराभिभवनाय प्रवृत्ता इत्यन्योन्याभिभवोद्भवरूपः संग्राम इव सर्वप्राणिषु प्रतिदेहं देवासुरसङ्ग्रामोऽनादिकालप्रवृत्त इत्यभिप्रायः ।
स इहश्रुत्याऽख्यायिकारूपेण धर्माधर्मोत्पत्तिविवेकविज्ञानाय कथ्यते प्राणविशुद्धिविज्ञानविधिपरतया ।
अत उभयेऽपि देवासुराः प्रजापतेरपत्यानीति प्राजापत्याः ।
प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः ।
"पुरुष एवोक्थमयमेव महान्प्रजापतिः"इति श्रुत्यन्तरात् ।
तस्य हि शास्रीयाः स्वाभाविक्यश्च करणवृत्तयो विरुद्धा अपत्यानीव तदुद्भवत्वात् ।
तत्तत्रोत्कर्षापकर्षलक्षणनिमित्ते ह देवा उद्गीथभक्त्युपलक्षितमौद्गात्रं कर्माऽजह्रुराहृतवन्तः ।
तस्यापि केवलस्याऽहरणासम्भवाज्जोतिष्टोमाद्याहृतवन्त इत्यभिप्रायः ।
तत्किमर्थमाजह्रुरित्युच्यते अनेन कर्मणैनानसुरानभिभविष्याम इत्येवमभिप्रायाः सन्तः ॥१ ॥
_______________________________________________________________________
१,२.२
ते ह नासिक्यं प्राणमुद्गीथमुपासां चक्रिरे ।
तं ह असुराः पाप्मना विविधुः ।
तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च ।
पाप्मना ह्येष विद्धः ॥ १,२.२ ॥
__________
भाष्य १,२.२ यदा च तदुद्गीथं कर्माऽजिहीर्षवस्तदाते ह देवा नासिक्यं नासिकायां भवं चेतनावन्तं घ्राणं प्राणमुद्गीथकर्तारमुद्गीथभक्त्योपासांचक्रिरेझ्रुपासनण्टकृतवन्त इत्यर्थः ।
नासिक्यप्राणमदृष्ट्योद्गीथाख्यमक्षरमोङ्कारमुपासांचक्रिर इत्यर्थः ।
एवं हि प्रकृतार्थपरित्यागोऽप्रकृतार्थोपादानं च न कृतं स्यात् ।
खल्वेतस्यैवाक्षरस्येत्योङ्कारमुपासांचक्रिर इत्यर्थः ।
एवं हि प्रकृतार्थपरित्यागोऽप्रकृतार्थोपादानं च न कृतं स्यात् ।
खल्वेतस्यैवाक्षरस्येत्योङ्कारो ह्यापास्यतया प्रकृतः ।
ननूद्गीथोपलक्षितं कर्माऽहृतवन्त इत्यवोच इदानीमेव॑कथं नासिक्यप्राणदृष्ट्योङ्कारमुपासांचक्रिर इत्यात्थ ।
नैष दोषः ।
उद्गीथकर्मण्येव हि तत्कर्तृप्राणदेवतादृष्ट्योद्गीथभक्त्यवयवश्चोङ्कार उपास्यत्वेन विवक्षितो न स्वतन्त्रोऽतस्तादर्थ्येन कर्माऽहृतवन्त इति युक्तमेवोक्तम् ।
तमेवं देवैर्वृतमुद्गातारं हासुराः स्वाभाविकतम आत्मानो ज्योतीरूपं नासिक्यं प्राणं देवं स्वोत्थेन पाप्मनाधर्मासङ्गरूपेण विविधुर्विद्धवन्तः संसर्ग कृतवन्त इत्यर्थः ।
स हि नासिक्यः प्राणः कल्याणगन्धग्रहणाभिमानासङ्गाभिभूतविवेकविज्ञानो बभूव ।
स तेन दोषेण पाप्मसंसर्गी बभूव ।
तदिदमुक्तमसुराः पाप्मना विविधुरिति ।
यस्मादासुरेण पाप्मना विद्धस्तस्मात्तेन पाप्मना प्रेरितो घ्राणः प्राणो दुर्गन्धिग्राहकः प्राणिनाम् ।
अतस्तेनोभयं जिघ्रति लोकः सुरभि च दुर्गन्धि च ।
पाप्मना ह्येष यस्माद्विद्धः ।
उभयग्रहणमविवक्षितम् ।
यस्योभयं हविरार्तिमार्छतीति यद्वत् ।
यदेवेदमप्रतिरूपं जिघ्रतीति समानप्रकरणश्रुतेः ॥२ ॥
_______________________________________________________________________
१,२.३६
अथ ह वाचमुद्गीथमुपासां चक्रिरे ।
तां हासुराः पाप्मना विविधुः ।
तस्मात्तयोभयं वदति सत्यं चानृतं च ।
पाप्मना ह्येषा विद्धा ॥ १,२.३ ॥
अथ ह चक्षुरुद्गीथमुपासां चक्रिरे ।
तद्धासुराः पाप्मना विविधुः ।
तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च ।
पाप्मना ह्येतद्विद्धम् ॥ १,२.४ ॥
अथ ह श्रोत्रमुद्गीथमुपासां चक्रिरे ।
तद्धासुराः पाप्मना विविधुः ।
तस्मात्तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च ।
पाप्मना ह्येतद्विद्धम् ॥ १,२.५ ॥
अथ ह मन उद्गीथमुपासां चक्रिरे ।
तद्धासुराः पाप्मना विविधुः ।
तस्मात्तेनोभयं संकल्पयते संकल्पनीयं च ।
पाप्मना ह्येतद्विद्धम् ॥ १,२.६ ॥
__________
भाष्य १,२.३६ मुख्यप्राणस्योपास्यत्वाय तद्विशुद्धत्वानुभवार्थोऽयं विचारः श्रुत्या प्रवर्तितः ।
अतश्चक्षुरादिदेवताः क्रमेण विचार्याऽसुरेण पाप्मना विद्धा इत्यपोह्यन्ते ।
समानमन्यत्, अथ ह वाचं चक्षुः श्रोत्रं मन इत्यादि ।
अनुक्ता अप्यन्यास्त्वग्रसमादिदेवता द्रष्टव्याः ।
"एवमु खल्वेता देवताः पाप्मभिः" इति श्रुत्यन्तरात् ॥३६ ॥
_______________________________________________________________________
१,२.७
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासां चक्रिरे ।
तं हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा विध्वंसेतैवम् ॥ १,२.७ ॥
__________
भाष्य १,२.७ आसुरेण विद्धत्वाद्घ्राणादिदेवता अपोह्याथानन्तरं य एवायं प्रसिद्धो मुखे भवो मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तं हासुराः पूर्ववदृत्वा प्राप्य विदध्वंसुर्विनष्टा अभिप्रायमात्रेण ।
अकृत्वा किञ्चिदपि प्राणस्य ।
कथं विनष्टा इत्यत्र दृष्टान्तमाहयथा लोकेऽश्मानमाखणं न शक्यते खनितुं कुद्दालादिभिरपि भेत्तुं न शक्योऽखण एवाऽखणस्तमृत्वा सामर्थ्याल्लोष्टः पांसुपिण्डः क्षुत्यन्तराच्चाश्मनि क्षिप्तोऽश्मभेदनाभिप्रायेण तस्याश्मनः किञ्चिदप्यकृत्वा स्वयं विध्वंसेत विदीर्येतैवं विदध्वंसुरित्यर्थः ॥७ ॥
_______________________________________________________________________
१,२.८
एवं यथाश्मानमाखणमृत्वा विध्वंसत एवं हैव स विध्वंसते य एवंविदि पापं कामयते यश्चैनमभिदासति ।
स एषोऽश्माखणः ॥ १,२.८ ॥
__________
भाष्य १,२.८ एवं विशुद्धोऽसुरैरधर्षितत्वात्प्राण इति एवंविदः प्राणात्मभूतस्येदं फलमाहयथाश्मानमिति ।
एष एव दृष्टान्तः ।
एवं हैव स विध्वंसते विनश्यति ।
कोऽसावित्याहय एवंविदि यथोक्तप्राणविदि पापं तदनर्हं कर्तु कामयत इच्छति यश्चाप्येनमभिदासति हिनस्ति प्राणविदं प्रत्याक्रोशताडनादि प्रयुङ्क्ते सोऽप्येवमेव विध्वंसत इत्यर्थः ।
यस्मात्स एष प्राणवित्प्राणभूतत्वादश्माखण इवाश्माखणोऽधर्षणीय इत्यर्थः ।
ननु नासिक्योऽपि प्राणो वाय्वात्मा यथा मुख्यस्तत्र नासिक्यः प्राणः पाप्मना विद्धः प्राण एव सन्न मुख्यः कथम् ।
नैष दोषः ।
नासिक्यस्तु स्थानकरणवैगुण्याद्विद्धो वाय्वात्मापि सन्मुख्यः स्थानदेवताबलीयस्त्वान्न विद्ध इति युक्तम् ।
यथा वास्यादयः शिक्षावत्पुरुषाश्रयाः कार्यविशेषं कुर्वन्ति नान्यहस्तगतास्तद्वद्दोषवद्घ्राणसचिवत्वाद्विद्धा घ्राणदेवता न मुख्यः ॥८ ॥
_______________________________________________________________________
१,२.९
नैवैतेन सुरभि न दुर्गन्धि विजानाति ।
अपहतपाप्मा ह्येषः ।
तेन यदश्नाति यत्पिबति तेनेतरान् प्राणानवति ।
एतमु एवान्ततोऽवित्त्वोत्क्रामति ।
व्याददात्येवान्तत इति ॥ १,२.९ ॥
__________
भाष्य १,२.९ यस्मान्न विद्धोऽसुरैर्मुख्यस्तस्मान्नैवैतेन सुरभि दुर्गन्धि वा विजानाति घ्राणेनैव तदुभयं विजानाति लोकः ।
अतश्च पाप्मकार्यादर्शनादपहतपाप्मापहतो विनाशितोऽपनीतः पाप्मा यस्मात्सोऽयमपहतपाप्मा ह्येष विशुद्ध इत्यर्थः ।
यस्माच्चाऽत्मम्भरयः कल्याणाद्यासङ्गवत्त्वाद्घ्राणादयो न तथाऽत्मम्भरिर्मुख्यः किं तर्हि सर्वार्थः ।
कथमिति, उच्यतेतेन मुख्येन यदश्नाति यत्पिबति लोकस्तेनाशितेन पीतेन चोतरान्घ्राणादीनवति पालयति ।
तेन हि तेषां स्थितिर्भवतीत्यर्थः ।
अतः सर्वम्भरः प्राणोऽतो विशुद्धः ।
कथं पुनर्मुख्याशितपीताभ्यां स्थितिरेषां गम्यत इति, उच्यतेएतं (तमु एव) मुख्यं प्राणं मुख्यप्राणस्य वृत्तिमन्नपाने इत्यर्थः ।
अन्ततोऽन्ते मरणकालेऽवित्त्वालब्ध्वोत्क्रामति ।
घ्राणादिप्राणसमुदाय इत्यर्थः ।
अप्राणो हि न शक्नोत्यशितुं पातुं वा ।
तेन तदोत्क्रान्तिः प्रसिद्धा घ्राणादिकलापस्य ।
दृश्यते ह्युत्क्रान्तौ प्राणस्याशिशिषा ।
अतो व्याददात्येवाऽस्यविदारणं करोतीत्यर्थः ।
तद्ध्यन्नालाभ उत्क्रान्तस्य लिङ्गम् ॥९ ॥
_______________________________________________________________________
१,२.१०
तं हाङ्गिरा उद्गीथमुपासां चक्रे ।
एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसः ॥ १,२.१० ॥
__________
भाष्य १,२.१० तं हाङ्गिरास्तं मुख्यं प्राणं हाङ्गिरा इत्येवङ्गुणमुद्गीथमुयासाञ्चक्रे बक इत्येव सम्बन्धं कृतवन्तः केचित् ।
एतमु एवाऽङ्गिरसं बृहस्पतिमयास्यं प्राणं मन्यन्त इति चनात् ।
भवत्येवं यथाश्रुतासम्भवे, सम्भवति तु यथाश्रुतमृषिचोदनायामपि श्रुत्यन्तरवत् ।
तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तमृषिमपि ।
तथा माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिरित्यादि ऋषीनेव प्राणमापादयति श्रुतिः ।
तथैतानप्यृषीन्प्राणोपासकानङ्गिरोबृहस्पत्ययास्यान्प्राणं करोत्यभेदविज्ञानाय ।
"प्राणो ह पिता प्राणो माता"इत्यादिवच्च ।
तस्मादृषिरङ्गिरा नाम प्राण एव सन्नात्मानमङ्गिरसं प्राणमुद्गीथमुपासाञ्चक्र इत्येतत् ।
यद्यस्मात्सोऽङ्गानां प्राणः सन्रसस्तेनासावाङ्गिरसः ॥१० ॥
_______________________________________________________________________
१,२.१११२
तेन तं ह बृहस्पतिरुद्गीथमुपासां चक्रे ।
एतमु एव बृहस्पतिं मन्यन्ते ।
वाग्घि बृहती तस्या एषपतिः ॥ १,२.११ ॥
तेन तं हायास्य उद्गीथमुपासां चक्रे ।
एतमु एवायास्यं मन्यन्ते ।
आस्याद्यदयते ॥ १,२.१२ ॥
__________
भाष्य १,२.११,१२ तथा वाचो बृहत्याः पतिस्तेनासौ बृहस्पतिः ।
यथा यद्यस्मादास्यादयते निर्गच्छति तेनाऽयास्य ऋषिः प्राण एव सन्नित्यर्थः तथान्योऽप्युपासक आत्मानमेवाऽङ्गिरसादिगुणं प्राणमुद्गीथमुपासीतेत्यर्थः ॥१११२ ॥
_______________________________________________________________________
१,२.१३
तेन तं ह बको दाल्भ्यो विदां चकार ।
स ह नैमिशीयानामुद्गाता बभूव ।
स ह स्मैभ्यः कामानागायति ॥ १,२.१३ ॥
__________
भाष्य १,२.१३ न केवलमङ्गिरःप्रभृतयः उपासाञ्चक्रिरे ।
तं ह बको नाम दल्भ्यस्यापत्यं दाल्भ्यो विदाञ्चकार यथादर्शितं प्राणं विज्ञातवान् ।
विदित्वा च स ह नैमिशीयानां सत्त्रिणामुद्गाता बभूव ।
स च प्राणविज्ञानसामर्थ्यादेभ्यो नैमिशीयेभ्यः कामानागायति स्म हाऽगीतवान्किलेत्यर्थः ॥१३ ॥
_______________________________________________________________________
१,२.१४
आगाता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ।
इत्यध्यात्मम् ॥ १,२.१४ ॥
__________
भाष्य १,२.१४ तथान्योऽप्युद्गाताऽगाता ह वै कामानां भवति एवं विद्वान्यथोक्तगुणं प्राणमक्षरमुद्गीथमुपास्ते तस्यैतद्दृष्टं फलमुक्तम् ।
प्राणात्मभावस्त्वदृष्टम्"देवो भूत्वा देवानप्येति"इति श्रुत्यन्तरात्सिद्धमेवेत्यभिप्रायः ।
इत्यध्यात्ममेतदात्मविषयमुद्गीथोपासनमित्युक्तोपसंहारोऽधिदैवतोद्गीथोपासने वक्ष्यमाणे बुद्धिसमाधानार्थः ॥१४॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य द्वितीयः खण्डः
=======================================================================
१,३.१
अथाधिदैवतम् ।
य एवासौ तपति तमुद्गीथमुपासीत ।
उद्यन् वा एष प्रजाभ्य उद्गायति ।
उद्यंस्तमो भयमपहन्ति ।
अपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ १,३.१ ॥
__________
भाष्य १,३.१ अथानन्तरमधिदैवतं देवताविषयमुद्गीथोपासनं प्रस्तुतमुत्यर्थोऽनेकधोपास्यत्वादुद्गीथस्य ।
य एवासावादित्यस्तपति समुद्गीथमुपासीताऽदित्यदृष्ट्योद्गीथमुपासीतेत्यर्थः ।
तमुद्गीथमित्युद्गीथशब्दोऽक्षरवाची सन्कथमादित्ये वर्तत इति?उच्यते ।
उद्यन्नुद्गच्छन्वा एष प्रजाभ्यः प्रजार्थमुद्गायति प्रजानामन्नोत्पत्त्यर्थम् ।
न ह्यनुद्यति तस्मिन्व्रीह्यादेः पक्तिः स्यादत उद्गायतीवोद्गायति, यथैवोद्गातान्नार्थमत उद्गीथः सवितेत्यर्थः ।
किञ्चोद्यन्नैशं तमस्तज्जं च भयं प्रणिनामपहन्ति तमेवङ्गुणं सवितारं यो वेद सोऽपहन्ता नाशयिता ह वै भयस्य जन्ममरणादिलक्षणस्याऽत्मनस्तमसश्च तत्कारणस्याज्ञानलक्षणस्य भवति ॥१ ॥
_______________________________________________________________________
१,३.२
समान उ एवायं चासौ च ।
उष्णोऽयमुष्णोऽसौ ।
स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुम् ।
तस्माद्वा एतमिमममुं च उद्गीथमुपासीत ॥ १,३.२ ॥
__________
भाष्य १,३.२ यद्यपि स्थानभेदात्प्राणादित्यौ भिन्नाविव लक्ष्येते तथापि न स तत्त्वभेदस्तयोः ।
कथम्समान उ एव तुल्य एव प्राणः सवित्रा गुणतः सविता च प्राणेन ।
यस्मादुष्णोऽयं प्राण उष्णश्चासौ सविता ।
किञ्च स्वर इतीमं प्राणमाचक्षते कथयन्ति तथा स्वर इति॑प्रत्यास्वर इति चामुं सवितारम् ।
यस्मात्प्राणः स्वरत्येव न पुनर्मृतः प्रत्यागच्छति ।
सविता त्वस्तमित्वा पुनरप्यहन्यहनि प्रत्यागच्छति ।
अतः प्रत्यास्वरोऽस्माद्गुणतो नामतश्च समानावितरेतरं प्राणादित्यौ ।
अतः सतत्त्वाभेदादेतं प्राणमिमममुं चाऽदित्यमुद्गीथमुपासीत ॥२ ॥
_______________________________________________________________________
१,३.३
अथ खलु व्यानमेवोद्गीथमुपासीत ।
यद्वै प्राणिति स प्राणः ।
यदपानिति सोऽपानः ।
अथ यः प्राणापानयोः संधिः स व्यानः ।
यो व्यानः सा वाक् ।
तस्मादप्राणन्ननपानन् वाचमभिव्याहरति ॥ १,३.३ ॥
__________
भाष्य १,३.३ अथ खल्विति प्रकारान्तरेणोपासनमुद्गीथस्योच्यतेव्यानमेव वक्ष्यमाणलक्षणं प्राणस्यैव वृत्तिविशेषमुद्गीथमुपासीत ।
अधुना तत्सतत्त्वं निरूप्यतेयद्वै पुरुषः प्राणिति मुखनासिकाभ्यां वायुं बहिर्निःसारयति स प्राणाख्यो वायोर्वृत्तिविशेषो यदपानित्यपश्वसिति ताभ्यामेवान्तराकर्षति वायुं सोऽपानोऽपानाख्या वृत्तिः ।
ततः किमिति, उच्यतेअथ य उक्तलक्षणयोः प्राणापानयोः सन्धिस्तयोरन्तरा वृत्तिविशेषः स व्यानः, यः साङ्ख्यादिशास्रप्रसिद्धिः श्रुत्या विशेषनिरूपणान्नासौ व्यान इत्यभिप्रायः ।
कस्मात्पुनः प्राणापानौ हित्वा महताऽयासेन व्यानस्यैवोपासनमुच्यते ।
वीर्यवत्कर्महेतुत्वमित्याहयो व्यानः सा वाक् ।
व्यानकार्यत्वाद्वाचः ।
यस्माद्व्याननिर्वर्त्या वाक्तस्मादप्राणन्ननपानन्प्राणापानव्यापारावकुर्वन्वाचमभिव्याहरत्युच्चारयति लोकः ॥३ ॥
_______________________________________________________________________
१,३.४
या वाक्सर्क् ।
तस्मादप्राणन्ननपानन्नृचमभिव्याहरति ।
यर्क्तत्साम ।
तस्मादप्राणन्ननपानन् साम गायति ।
यत्साम स उद्गीथः ।
तस्मादप्रानन्ननपानन्नुद्गायति ॥ १,३.४ ॥
__________
भाष्य १,३.४ तथा वाग्विशेषामृचमृक्संस्थं च साम सामावयवं चोद्गीथमप्राणन्ननपानन्व्यानेनैव निर्वर्तयतीत्यभिप्रायः ॥४ ॥
_______________________________________________________________________
१,३.५
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोति ।
एतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ १,३.५ ॥
__________
भाष्य १,३.५ न केवलं वागाद्यभिव्याहरणमेवातोऽस्मादन्यान्यपि यानि वीर्यवन्ति कर्माणि प्रयत्नाधिक्यनिर्वर्त्यानि यथाग्नेर्मन्थनमाजेर्मर्यादायाः सरणं धावनं दृढस्य धनुष आयमनमाकर्षणमप्राणन्ननपानंस्तानि करोति ।
अतोविशिष्टो व्यानः प्राणादिवृत्तिभ्यः ।
विशिष्टस्योपासनं ज्यायः फलवत्त्वाद्राजोपासनवत् ।
एतस्य हेतोरेतस्मात्कारणाद्व्यानमेवोद्गीथमुपासीत नान्यद्वृत्त्यन्तरम् ।
कर्मवीर्यवत्तरत्वं फलम् ॥५ ॥
_______________________________________________________________________
१,३.६
अथ खलूद्गीथाक्षराण्युपासीत उद्गीथ इति ।
प्राण एवोत् ।
प्राणेन ह्युत्तिष्ठति ।
वग्गीः ।
वाचो ह गिर इत्याचक्षते ।
अन्नं थम् ।
अन्ने हीदं सर्वं स्थितम् ॥ १,३.६ ॥
__________
भाष्य १,३.६ अथाधुना खलूद्गीथाक्षराण्युपासीत भक्त्यक्षराणि मा भूवन्नित्यतो विशिनष्टिउद्गीथ इति ।
उद्गीथनामाक्षराणीत्यर्थो नामाक्षरोपासनेऽपि नामवत एवोपासनं कृतं भवेदमुकमिश्रा इति यद्वत् ।
प्राण एवोत्, उदित्यस्मिन्नक्षरे प्राणदृष्टिः ।
कथं प्राणस्योत्त्वमित्याहप्राणेन ह्युत्तिष्ठति सर्वोऽप्राणस्यावसाददर्शनादतोऽस्त्युदः प्राणस्य च सामान्यम् ।
वाग्गीः ।
वाचो ह गिर इत्याचक्षते शिष्टाः ।
तथान्नं थमन्ने हीदं सर्वं स्थितमतोऽस्त्यन्नस्य थाक्षरस्य च सामान्यम् ॥६ ॥
_______________________________________________________________________
१,३.७
द्यौरेवोत् ।
अन्तरिक्षं गीः ।
पृथिवी थम् ।
आदित्य एवोत् ।
वायुर्गीः ।
अग्निस्थम् ।
सामवेद एवोत् ।
यजुर्वेदो गीः ।
ऋग्वेदस्थम् ।
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहः ।
अन्नवानन्नादो भवति ।
य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ १,३.७ ॥
__________
भाष्य १,३.७ त्रयाणां श्रुत्युक्तानि सामान्यानि तानि तेनानुरूपेण शेषेष्वपि द्रष्टव्यानि ।
द्यौरेवोदुच्चैः स्थानात् ।
अन्तरिक्षं गार्गिरणाल्लोकानाम् ।
पृथिवी थं प्राणिस्थानात् ।
आदित्य एवोदूर्ध्वत्वात् ।
वायुर्गीरग्न्यादीनां गिरणात् ।
अग्निस्थं यज्ञीयकर्मावस्थानात् ।
सामवेद एवोत्स्वर्गसंस्तुतत्वात् ।
यजुर्वेदो गीर्यजुषा प्रत्तस्य हविषो देवतानां गिरणात् ।
ऋग्वेदस्थमृच्यध्यूढत्वात्साम्नः ।
उद्गीथाक्षरोपासनफलमधुनोच्यतेदुग्धे दोग्ध्यस्मै साधकास्य ।
का सा वाक्, कं दोहम् ।
कोऽसौ दोह इत्याहयो वाचो दोहः ।
ऋग्वेदादिशब्दसाध्यं फलमित्यभिप्रायस्तद्वाचो दोहस्तं स्वयमेव वाग्दोग्ध्यात्मानमेव दोग्धि ।
किञ्चान्नवान्प्रभूतान्नोऽन्नादश्च दीप्ताग्निर्भवति ।
य एतानि यथोक्तान्येवं यथोक्तगुणान्युद्गीथाक्षराणि विद्वान्सन्नुपास्त उद्गीथ इति ॥७ ॥
_______________________________________________________________________
१,३.८
अथ खल्वाशीः समृद्धिः ।
उपसरणानीत्युपासीत ।
येन साम्ना स्तोष्यन् स्यात्तत्सामोपधावेत् ॥ १,३.८ ॥
__________
भाष्य १,३.८ अथ खल्विदानीमाशीःसमृद्धिराशिषः कामस्य समृद्धिर्यथा भवेत्तदुच्यत इति वाक्यशेषः ।
उपसरणान्युपसर्तव्यान्युपगन्तव्यानि ध्येयानीत्यर्थः ।
कथम्, इत्युपासीत, एवमुपासीत ।
तद्यथायेन साम्ना येन सामविशेषेण स्तोष्यन्स्तुतिं करिष्यन्स्याद्भवेदुद्गाता तत्सामोपधावेदुपसरेच्चिन्तयेदुत्पत्त्यादिभिः ॥८ ॥
_______________________________________________________________________
१,३.९
यस्यामृचि तामृचं, यदार्षेयं तमृषिं, यां देवतामभिष्टोष्यन् स्यात्तां देवतामुपधावेत् ॥ १,३.९ ॥
__________
भाष्य १,३.९ यस्यामृचि तत्साम तां चर्चमुपधावेद्देवतादिभिः ।
यदार्षेयं साम तं चर्षिम् ।
यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥९ ॥
_______________________________________________________________________
१,३.१०
येन च्छन्दसा स्तोष्यन् स्यात्तच्छन्द उपधावेत् ।
येन स्तोमेन स्तोष्यमाणः स्यात्तं स्तोममुपधावेत् ॥ १,३.१० ॥
__________
भाष्य १,३.१० येन च्छन्दसा गायत्र्यादिना स्तोष्यन्स्यात्तच्छन्द उपधावेत् ।
येन स्तोमेन स्तोष्यमाणः स्यात् ।
स्तोमाङ्गफलस्य कर्तृगामित्वादात्मनेपदं स्तोष्यमाण इति ।
तं स्तोममुपधावेत् ॥१० ॥
_______________________________________________________________________
१,३.११
यां दिशमभिष्टोष्यन् स्यात्तां दिशमुपधावेत् ॥ १,३.११ ॥
__________
भाष्य १,३.११ यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेदधिष्ठात्रादिभिः ॥११ ॥
_______________________________________________________________________
१,३.१२
आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तः ।
अभ्याशो ह यदस्मै स कामः स्मृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १,३.१२ ॥
__________
भाष्य १,३.१२ आत्मानमुद्गाता स्वं रूपं गोत्रनामादिभिः सामादीन्क्रमेण स्वं चाऽत्मानमन्ततोऽन्त उपसृत्य स्तुवीत ।
कामं ध्यायन्नप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः प्रमादमकुर्वंस्ततोऽभ्याशः क्षिप्रमेव ह यद्यत्रास्मा एवंविदे स कामः समृध्येत समृद्धिं गच्छेत् ।
कोऽसौ, यत्कामो यः कामोऽस्य सोऽयं यत्कामः सन्स्तुवीतेति ।
द्विरुक्तिकादरार्था ॥१२॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य तृतीयः खण्डः
=======================================================================
१,४.१
ओमित्येतदक्षरमुद्गीथमुपासीत ।
ओमिति ह्युद्गायति ।
तस्योपव्याख्यानम् ॥ १,४.१ ॥
__________
भाष्य १,४.१ ओमित्येतदित्यादिप्रकृतस्याक्षरस्य पुनरुपादानमुद्गीथाक्षराद्युपासनान्तरितत्वादन्यत्र प्रसङ्गो मा भूदित्येवमर्थम् ।
प्रकृतस्यैवाक्षरस्यामृताभयगुणविशिष्टस्योपासनं विधातव्यमित्यारम्भः ।
ओमित्यादि व्याख्यातम् ॥१ ॥
_______________________________________________________________________
१,४.२
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशन् ।
ते छन्दोभिरच्छादयन् ।
यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम् ॥ १,४.२ ॥
__________
भाष्य १,४.२ देवा वै मृत्योर्मारकाद्विभ्यतः किं कृतवन्त इत्युच्यते ।
त्रयीं विद्यां त्रयीविहितं कर्म प्राविशन्प्रविष्टवन्तो वैदिकं कर्म प्रारब्धवन्त इत्यर्थः ।
तन्मृत्योस्राणं मन्यमानाः ।
किञ्च ते कर्मण्यविनियुक्तैश्छन्दोभिर्मन्त्रैर्जपहोमादि कुर्वन्त आत्मानं कर्मान्तरेष्वच्छादयंश्छादितवन्तः ।
यद्यस्मादेभिर्मन्त्रैरच्छादयंस्तत्तस्माच्छन्दसां मन्त्राणां छादनाच्छन्दस्त्वं प्रसिद्धमेव ॥२ ॥
_______________________________________________________________________
१,४.३
तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुषि ।
ते नु वित्त्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ॥ १,४.३ ॥
__________
भाष्य १,४.३ तांस्तत्र देवान्कर्मपरान्मृत्युर्यथा लोके मत्स्यघातको मत्स्यमुदके नातिगम्भीरे परिपश्येद्बडिशोदकस्रावोपायसाध्यं मन्यमान एवं पर्यपश्यद्दृष्टवान्मृत्युः कर्मक्षयोपायेन साध्यान्देवान्मेन इत्यर्थः ।
क्वासौ देवान्ददर्शेत्युच्यतेऋचि साम्नि यजुषि ।
ऋग्यजुःसामसम्बन्धिकर्मणीत्यर्थः ।
ते नु देवा वैदिकेन कर्मणा संस्कृताः शुद्धात्मानः सन्तो मृत्योश्चिकीर्षितं विदितवन्तः ।
विदित्वा च त ऊर्ध्वा व्यावृत्ताः कर्मभ्य ऋचः साम्नो यजुष ऋग्यजुःसामसम्बद्धात्कर्मणोऽभ्युत्थायेत्यर्थः ।
तेन कर्मणा मृत्युभयापगमं प्रति निराशास्तदपास्यामृताभयगुणमक्षरं स्वरं स्वरशब्दितं प्राविशन्नेव प्रविष्टवन्तः ।
ओङ्कारोपासनपराः संवृत्ताः ।
एवशब्दोऽवधारणार्थः सन्समुच्चयप्रतिषेधार्थः ।
तदुपासनपराः संवृत्ता इत्यर्थः ॥३ ॥
_______________________________________________________________________
१,४.४
यदा वा ऋचमाप्नोत्योमित्येवातिस्वरति एवं सामैवं यजुः ।
एष उ स्वरो यदेतदक्षरमेतदमृतमभयम् ।
तत्प्रविश्य देवा अमृता अभवन् ॥ १,४.४ ॥
__________
भाष्य १,४.४ कथं पुनः स्वरशब्दवाच्यत्वमक्षरस्येत्युच्यतेयदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवं सामैवं यजुः ।
एष उ स्वरः ।
कोऽसौ यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य यथागुणमेवामृता अभयाश्चाभवन्देवाः ॥४ ॥
_______________________________________________________________________
१,४.५
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरं स्वरममृतमभयं प्रविशति ।
तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥ १,४.५ ॥
__________
भाष्य १,४.५ स योऽन्योऽपि देववदेवैतदक्षरमेवममृतमभयगुणं विद्वान्प्रणौति स्तौति ।
उपासनमेवात्र स्तुतिरभिप्रेता ।
स तथैवैतदेवाक्षरं स्वरममृतमभयं प्रविशति ।
तत्प्रविश्य च राजकुलं प्रविष्टानामिव राज्ञोऽन्तरङ्गबहिरङ्गतावन्न विशिष्टस्तदमृतो भवति न न्यूनता नाप्यधिकतामृतत्व इत्यर्थः ॥५॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य चतुर्थः खण्डः
=======================================================================
१,५.१
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति ।
असौ वा आदित्य उद्गीथ एष प्रणवः ।
ओमिति ह्येष स्वरन्नेति ॥ १,५.१ ॥
__________
भाष्य १,५.१ प्राणादित्यदृष्टिविशिष्टस्योद्गीथस्योपासनमुक्तमेवानूद्य प्रणवोद्गीथयोरेकत्वं कृत्वा तस्मिन्प्राणरश्मिभेदगुणविशिष्टदृष्ट्याक्षरस्योपासनमनेकपुत्रफलमिदानीं वक्तव्यमित्यारभ्यतेअथ खलु य उद्गीथः स प्रणवो बह्वृचानां यश्च प्रणवस्तेषां स एव च्छान्दोग्य उद्गीथशब्दवाच्यः ।
असौ वा आदित्य उद्गीथ एष प्रणवशब्दवाच्योऽपि स एव बह्वृचानां नान्यः ।
उद्गीथ आदित्यः कथम् ।
उद्गीथाख्यमक्षरमोमित्येतदेष हि यस्मात्स्वरन्नुच्चारयन्ननेकार्थत्वाद्धातूनाम् ।
अथवा स्वरन्गच्छन्नैति ।
अतोऽसावुद्गीथः सविता ॥१ ॥
_______________________________________________________________________
१,५.२
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच ।
रश्मींस्त्वं पर्यावर्तयात् ।
बहवो वै ते भविष्यन्ति ।
इत्यधिदैवतम् ॥ १,५.२ ॥
__________
भाष्य १,५.२ तमेतमु एवाहमभ्यगासिषमाभिमुख्येन गीतवानस्म्यादित्यरश्म्यभेदं कृत्वा ध्यानं कृतवानस्मीत्यर्थः ।
तेन तस्मात्कारणान्मम त्वमेकोऽसि पुत्र इति ह कौषीतकिः कुषीतकस्यापत्यं कौषीतकिः पुत्रमुवाचोक्तवान् ।
अतो रश्मीनादित्यं च भेदेन त्वं पर्यावर्तयात्पर्यावर्तयेत्यर्थः ।
त्वंयोगात् ।
एवं बहवो वै ते तव पुत्रा भविष्यन्तीत्यधि दैवतम् ॥२ ॥
_______________________________________________________________________
१,५.३
अथाध्यात्मम् ।
य एवायं मुख्यः प्राणस्तमुद्गीथमुपासित ।
ओमिति ह्येष स्वरन्नेति ॥ १,५.३ ॥
__________
भाष्य १,५.३ अथानन्तरमध्यात्ममुच्यते ।
य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतेत्यादि पूर्ववत् ।
तथोमिति ह्येष प्राणोऽपि स्वरन्नेत्योमिति ह्यनुज्ञां कुर्वन्निव वागादिप्रवृत्त्यर्थमेतोत्यर्थः ।
न हि मरणकाले मुमूर्षोः समीपस्थाः प्राणस्योङ्कारणं शृण्वन्तीति ।
एतत्सामान्यादादित्येऽप्योङ्करणमनुज्ञामात्रं द्रष्टव्यम् ॥३ ॥
_______________________________________________________________________
१,५.४
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच ।
प्राणांस्त्वं भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ॥ १,५.४ ॥
__________
भाष्य १,५.४ एतमु एवाहमभ्यगासिषित्यादि पूर्ववदेव ।
अतो वागादीन्मुख्यं च प्राणं भेदगुणविशिष्टगुद्गीथं पश्यन्भूमानं मनसाभिगायतात् ।
पूर्ववदावर्तयेत्यर्थः ।
बहवो वै मे मम पुत्रा भविष्यन्तीत्येवमभिप्रायः सन्नित्यर्थः ।
प्राणादित्यैकत्वोद्गीथदृष्टेरेकपुत्रत्वफलदोषेणापोदितत्वाद्रश्मिप्राणभेददृष्टेः कर्तव्यता चोद्यतेऽस्मिन्काण्डे बहुपुत्रफलत्वार्थम् ॥४ ॥
_______________________________________________________________________
१,५.५
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति ।
होतृषदनाद्ध एवापि दुरुद्गीथमनुसमाहरतीत्यनुसमाहरतीति ॥ १,५.५ ॥
__________
भाष्य १,५.५ अथ खलु य उद्गीथ इत्यादिप्रणवोद्गीथैकत्वदर्शनमपक्तं तस्यैतत्फलमाहर्तुं शक्यम् ।
किं तद्धैवापि दुरुद्गीतं दुष्टमुद्गीतमुद्गानं कृतमुद्गात्रा स्वकर्मणि क्षतं कृतमित्यर्थः ।
तदनुसमाहरत्यनुसन्धत्त इत्यर्थः ।
चिकित्सयेव धातुवैषम्यसमीकरणमिति ॥५॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य पञ्चमः खण्डः
=======================================================================
१,६.१
इयमेवर्क् ।
अग्निः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
इयमेव सा ।
अग्निरमः ।
तत्साम ॥ १,६.१ ॥
__________
भाष्य १,६.१ अथेदानीं सर्वफलसम्पत्त्यर्थमुद्गीथस्योपासनान्तरं विधित्स्यतेइयमेव पृथिव्यृक् ।
ऋचि पृथिवीदृष्टिः कार्या ।
तथाग्निः साम ।
साम्न्यग्निदृष्टिः ।
कथं पृथिव्यग्न्योरृक्सामत्वमिति ।
उच्यते ।
तदेतत्तदेतदग्न्याख्यं सामैतस्यां पृथिव्यामृच्यध्यूढमधिगतमुपरिभावेन स्थितमित्यर्थः ।
ऋचीव साम ।
तस्मादत एव कारणादृच्यध्यूढमेव साम गीयत इदानीमपि सामगैः ।
यथा च ऋक्सामनी नात्यन्तं भिन्ने अन्योन्यं तथैतौ पृथिव्यग्निद्वयं सामैकशब्दाभिधेयत्वमापन्नं साम ।
तस्मान्नान्योन्यं भिन्नं पृथिव्यग्निद्वयं नित्यसंश्लिष्टमृक्सामनी इव ।
तस्माच्च पृथिव्यग्न्योरृक्सामत्वमित्यर्थः ।
सामाक्षरयोः पृथिव्यग्निदृष्टिविधानार्थमियमेव साग्निरम इति केचित् ॥१ ॥
_______________________________________________________________________
१,६.२३
अन्तरिक्षमेवर्क् ।
वायुः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
अन्तरिक्षमेव सा ।
वायुरमः ।
तत्साम ॥ १,६.२ ॥
द्यौरेवर्क् ।
आदित्यः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
द्यौरेव सा ।
आदित्योऽमः ।
तत्साम ॥ १,६.३ ॥
__________
भाष्य १,६.२,३ अन्तरिक्षमेवर्ग्वायुः सामेत्यादि पूर्ववत् ॥२३ ॥
_______________________________________________________________________
१,६.४
नक्षत्रान्येवर्क् ।
चन्द्रमाः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
नक्षत्राण्येव सा ।
चन्द्रमा अमः ।
तत्साम ॥ १,६.४ ॥
__________
भाष्य १,६.४ नक्षत्राणामधिपतिश्चन्द्रमा अतः स साम ॥४ ॥
_______________________________________________________________________
१,६.५
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्क् ।
अथ यन्नीलं परःकृष्णं तत्साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मदृच्यध्यूढं साम गीयते ॥ १,६.५ ॥
__________
भाष्य १,६.५ अथ यदेतदादित्यस्य शुक्लं भाः शुक्ला दीप्तिः सैवर्क ।
अथ यदादित्ये नीलं परः कृष्णं परोऽतिशयेन कार्ष्ण्यं तत्साम ।
तद्ध्येकान्तसमाहितदृष्टेर्दृश्यते ॥५ ॥
_______________________________________________________________________
१,६.६
अथ यदेवैतदादित्यस्य शुक्लं भाः सैव सा ।
अथ यन्नीलं परःकृष्णं तदमः ।
तत्साम ।
अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ प्रणखात्सर्व एव सुवर्नः ॥ १,६.६ ॥
__________
भाष्य १,६.६ ते एवैते भाः शुक्लकृष्णत्वे सा चामश्च साम ।
अथ य एषोऽन्तरादित्ये आदित्यस्यान्तर्मध्ये हिरण्मयो हिरण्मय इव हिरण्मयः ।
न हि सुवर्णविकारत्वं देवस्य सम्भवति ।
ऋक्सामगेष्णत्वापहतपाप्मत्वासम्भवात् ।
न हि सौवर्णेऽचेतने पाप्मादिप्राप्तिरस्ति येन प्रतिषिध्येत ।
चाक्षुषे चाग्रहणात् ।
अतो लुप्तोपम एव हिरण्मयशब्दो ज्योतिर्मय इत्यर्थः ।
उत्तरेषवपि समाना योजना ।
पुरुषः पुरि शयनात्पूरयति वा स्वेनाऽत्मना जगदिति ।
दृश्यते निवृत्तचक्षुर्भिः समाहितचेतोभिर्ब्रह्मचर्यादिसाधनापेक्षम् ।
तेजस्विनोऽपि श्मश्रुकेशादयः कृष्णाः स्युरित्यतो विशिनष्टिहिरण्यश्मश्रुर्हिरण्यकेश इति ।
ज्योतिर्मयान्येवास्य श्मश्रूणि केशाश्चेत्यर्थः ।
आप्रणखात्प्रणखो नखाग्रं नखाग्रेण सह सर्वः सुवर्ण इव भारूप इत्यर्थः ॥६ ॥
_______________________________________________________________________
१,६.७
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी ।
तस्योदिति नाम ।
स एष सर्वेभ्यः पाप्मभ्य उदितः ।
उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ १,६.७ ॥
__________
भाष्य १,६.७ तस्यैवं सर्वतः सुवर्णवर्णस्याप्यक्ष्णोर्वशेषः ।
कथं?तस्य यथा कपेर्मर्कटस्याऽसः कप्यासः ।
आसेरुपवेशनार्थस्य करणे घञ् ।
कपिपृष्ठान्तो येनोपविशति ।
कप्यास इव पुण्डरीकमत्यन्ततेजस्व्येवमस्य देवस्याक्षिणी ।
उपमितोपमानत्वान्न हीनोपमा ।
तस्यैवङ्गुणविशिष्टस्य गौणमिदं नामोदिति ।
कथं गौणत्वम् ।
स एष देवः सर्वेभ्यः पाप्मभ्यः पाप्मना सह तत्कार्येभ्य इत्यर्थः ।
य आत्मापहतपाप्मेत्यादि वक्ष्यति ।
उदित उदित उद्गत इत्यर्थः ।
अतोऽसावुन्नामा ।
तमेवङ्गुणसम्पन्नमुन्नामानं यथोक्तेन प्रकारेण यो वेद सोऽप्येवमेवोदेत्युद्गच्छति सर्वेभ्यः पाप्मभ्यः ।
ह वा इत्यवधारणार्थौ निपातौ ।
उदेत्येवेत्यर्थः ॥७ ॥
_______________________________________________________________________
१,६.८
तस्यर्क्च साम च गेष्णौ ।
तस्मादुद्गीथः ।
तस्मात्त्वेव उद्गाता ।
एतस्य हि गाता ।
स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्ट देवकामानां च ।
इत्यधिदैवतम् ॥ १,६.८ ॥
__________
भाष्य १,६.८ तस्योद्गीथत्वं देवस्याऽदित्यादीनामिव विवक्षितत्वादाहतस्यर्क्च साम च गेष्णौ पृथिव्याद्युक्तलक्षणे पर्वणी ।
सर्वात्मा हि देवः ।
परापरलोककामेशितृत्वादुपपद्यते पृथिव्यग्न्यृक्सामगेष्णत्वम् ।
सर्वयोनित्वाच्च ।
यत एवमुन्नामाचासावृक्सामगेष्णश्च तस्मादृक्सामगेष्णत्वप्राप्तमुद्गीथत्वमुच्यते परोक्षेण परोक्षप्रियत्वाद्देवस्य तस्मादुद्गीथ इति ।
तस्मात्तवेव हेतोरुदं गायतीत्युद्गाता ।
यस्माद्ध्येतस्य यथोक्तस्योन्नाम्नो गातासावतो युक्तोद्गातेति नामप्रसिद्धिरुद्गातुः ।
स एष देव उन्नामा ये चामुष्मादादित्यात्पराञ्चः परागञ्चनादूर्ध्वा लोकास्तेषां लोकानां चेष्टे न केवलमीशितृत्वमेव चशब्दाद्धारयति च ।
"स दाधार पृथिवीं द्यामुतेमाम्"इत्यादिमन्त्रवर्णात् ।
किञ्च देवकामानामीष्ट इत्येतदधिदैवतं देवताविषयं देवस्योद्गीथस्य स्वरूपमुक्तम् ॥८॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य षष्ठः खण्डः
=======================================================================
१,७.१
अथाध्यात्मम् ।
वागेवर्क् ।
प्राणः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
वागेव सा ।
प्राणोऽमः ।
तत्साम ॥ १,७.१ ॥
__________
भाष्य १,७.१ अथाधुनाध्यात्ममुच्यते ।
वागेवर्क्प्राणः साम ।
अधरोपरिस्थानत्वसामान्यात् ।
प्राणो घ्राणमुच्यते सह वायुना, वागेव सा प्राणोऽम इत्यादि पूर्ववत् ॥१ ॥
_______________________________________________________________________
१,७.२
चक्षुरेवर्क् ।
आत्मा साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
चक्षुरेव सा ।
आत्मामः ।
तत्साम ॥ १,७.२ ॥
__________
भाष्य १,७.२ चक्षुरेवर्गात्मा साम ।
आत्मेति च्छायात्मा तत्स्थत्वात्साम ॥२ ॥
_______________________________________________________________________
१,७.३
श्रोत्रमेवर्क् ।
मनः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
श्रोत्रमेव सा ।
मनोऽमः ।
तत्साम ॥ १,७.३ ॥
__________
भाष्य १,७.३ श्रोत्रमेवर्ङ्मनः साम, श्रोत्रस्याधिष्ठातृत्वान्मनसः सामत्वम् ॥३ ॥
_______________________________________________________________________
१,७.४
अथ यदेतदक्ष्नः शुक्लं भाः सैवर्क् ।
अथ यन्नीलं परःकृष्णं तत्साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
अथ यदेवैतदक्ष्णः शुक्लं भाः सैव सा ।
अथ यन्नीलं परःकृष्णं तदमः ।
तत्साम ॥ १,७.४ ॥
__________
भाष्य १,७.४ अथ यदेतदक्ष्णः शुक्लं भाः सैवर्क ।
अथ यन्नीलं परः कृष्णमादित्य इव दृक्शक्त्यधिष्ठानं तत्साम ॥४ ॥
_______________________________________________________________________
१,७.५
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क् ।
तत्साम ।
तदुक्थम् ।
तद्यजुः ।
तद्ब्रह्म ।
तस्य एतस्य तदेव रूपं यदमुष्य रूपम् ।
यावमुष्य गेष्णौ तौ तौ गोष्णौ ।
यन्नाम तन्नाम ॥ १,७.५ ॥
__________
भाष्य १,७.५ अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते ।
पूर्ववत् ।
सैवर्गध्यात्मं वागाद्या पृथिव्याद्या चाधिदैवतम् ।
प्रसिद्धा च ऋक्पादबद्धाक्षरात्मिका ।
तथा साम ।
उक्थसाहचर्याद्वा स्तोत्रं सामोक्थं शस्त्रम् ।
उक्थादन्यत्तथा यजुः स्वाहास्वधावषडादि सर्वमेव वाग्यजुस्तत्स एव ।
सर्वात्मकत्वात्सर्वयोनित्वाच्चेति ह्यवोचाम ।
ऋगादिप्रकरणात्तद्ब्रह्मेति त्रयो वेदाः ।
तस्यैतस्य चाक्षुषस्य पुरुषस्य तदेव रूपमतिदिश्यते ।
किं तद्यदमुष्याऽदित्यपुरुषस्य ।
हिरण्मय इत्यादि यदधिदैवतमुक्तम् ।
यावमुष्य गेष्णौ पर्वणी तावेवास्यापि चाक्षुषस्य गेष्णौ ।
यच्चामुष्य नामोदित्युद्गीथ इति च तदेवास्य नाम ।
स्थानभेदाद्रूपगिणनामातिदेशादीशितृत्वविषयभेदव्यपदेशाच्चाऽदित्यचाक्षुषयोर्भेद इति चेत् ।
न ।
अमुनानेनैवेत्येकस्योभयात्मप्राप्त्यनुपपत्तेः ।
द्विधाभावेनोपपद्यत इति चेत् ।
वक्ष्यति हि स एकधा भवति त्रिधा भवतीत्यादि ।
न ।
चेतनस्यैकस्य निरवयवत्वाद्द्विधाभावानुपपत्तेः ।
तस्मादध्यात्माधिदैवतयोरेकत्वमेव ।
यत्तु रूपाद्यतिदेशो भेदकारणमवोचो न तद्भेदावगमाय ।
किं तर्हि स्थानभेदाद्भेदाशङ्का मा भूदित्येवमर्थम् ॥५ ॥
_______________________________________________________________________
१,७.६
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति ।
तद्य इमे वीणायां गायन्त्येतं ते गायन्ति ।
तस्मात्ते धनसनयः ॥ १,७.६ ॥
__________
भाष्य १,७.६ स एष चाक्षुषः पुरुषो ये चैतस्मादाध्यात्मिकादात्मनोर्ऽवाञ्चोर्ऽवाग्गता लोकास्तेषां चेष्टे मनुष्यसम्बन्धिनां च कामानाम् ।
तत्स्माद्य इमे वीणायां गायन्ति गायकस्त एतमेव गायन्ति ।
यस्मादीश्वरं गायन्ति तस्मात्ते धनसनयो धनलाभयुक्ता धनवन्त उत्यर्थः ॥६ ॥
_______________________________________________________________________
१,७.७
अथ य एतदेवं विद्वान् साम गायत्युभौ स गायति ।
सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च ॥ १,७.७ ॥
__________
भाष्य १,७.७ अथ य एतदेवं विद्वान्यथोक्तं देवमुद्गीथं विद्वान्साम गायत्युभौ स गायति चाक्षुषमादित्यं च ।
तस्यैवंविदः फलमुच्यतेसोऽमुनैवाऽदित्येन स एष ये चामुष्मात्पराञ्चो लोकास्तांश्चाऽप्नोति आदित्यान्तर्गतदेवो भूत्वेत्यर्थो देवकामांश्च ॥७ ॥
_______________________________________________________________________
१,७.८९
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्च ।
तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ १,७.८ ॥
कं ते काममागायानीति ।
एष ह्येव कामागानस्येष्टे य एवं विद्वान् साम गायति साम गायति ॥ १,७.९ ॥
__________
भाष्य १,७.८ अथानेनैव चाक्षुषेणैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाऽप्नोति मनुष्यकामांश्च चाक्षुषो भूत्वेत्यर्थः ।
तस्मादु हैवंविदुद्गाता ब्रूयाद्यजमानं कमिष्टं ते तव काममागायानीति ।
एष हि यस्मादुद्गाता कामागानस्योद्गानेन कामं सम्पादयितुमीष्टे समर्थ इत्यर्थः ।
कोऽसौ?य एवं विद्वान्साम गायति साम गायति ।
द्विरुक्तिरुपासनसमाप्त्यर्था ॥८९ ॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य सप्तमः खण्डः
=======================================================================
१,८.१
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ।
ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १,८.१ ॥
__________
भाष्य १,८.१ अनेकधोपास्यत्वादक्षरस्य प्रकारान्तरेण परोवरीयस्त्वगुणफलमुपासनान्तरमानिनाय ।
इतिहासस्तु सुखावबोधनार्थः ।
त्रयस्त्रिसंख्याकाः ।
ह, इत्यैतिह्यार्थः ।
उद्गीथ उद्गीथज्ञानं प्रति कुशला निपुणा बभूवुः ।
कस्मिंश्चिद्देशे काले च निमित्ते वा समेतानामित्यभिप्रायः ।
न हि सर्वस्मिञ्जगति त्रयाणामेव कौशलमुद्गीथादिविज्ञाने ।
श्रूयन्ते ह्युषस्तिजानश्रुतिकैकेयप्रभृतयः सर्वज्ञकल्पाः ।
के ते त्रय इत्याहशिलको नामतः शलावतोऽपत्यं शालावत्यः ।
चिकितायनस्यापत्यं चैकितायनः ।
दल्भगोत्रो दाल्भ्यो द्व्यामुष्यायणो वा ।
प्रवाहणो नामतो जीवलस्यापत्यं जैवलिरित्येते त्रयस्ते होचुरन्योन्यमुद्गीथे वै कुशला निपुणा इति प्रसिद्धाः स्मः ।
अतो हन्त यद्यनुमतिर्भवतामुद्गीथ उद्गीथज्ञाननिमित्तां कथां विचारणां पक्षप्रतिपक्षोपन्यासेन वदामो वादं कुर्म इत्यर्थः ।
तथा च तद्विद्यसंवादे विपरीतग्रहणनाशोऽपूर्वविज्ञानोपजनः संशयनिवृत्तिश्चेति ।
अतस्तद्विद्यसंयोगः कर्तव्य इति चेतिहासप्रयोजनम् ।
दृश्यते हि शिलकादीनाम् ॥१ ॥
_______________________________________________________________________
१,८.२
तथेति ह समुपविविशुः ।
स ह प्रावहणो जैवलिरुवाच ।
भगवन्तावग्रे वदताम् ।
भ्रामणयोर्वदतोर्वाचं श्रोष्यामीति ॥ १,८.२ ॥
__________
भाष्य १,८.२ तथेत्युक्त्वा ते समुपविविशुर्हेपविष्टवन्तः किल ।
तत्र राज्ञः प्रागल्भ्योपपत्तेः स ह प्रवाहणो जैवलिरुवाचेतरौ"भगवन्तौ पूजावन्तावग्रे पूर्वं वदताम्" ।
ब्राह्मणयोरिति लिङ्गाद्राजासौ ।
युवयोर्ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामि ।
अर्थरहितामित्यपरे वाचमिति विशेषणात् ॥२ ॥
_______________________________________________________________________
१,८.३
स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति ।
पृच्छेति होवाच ॥ १,८.३ ॥
__________
भाष्य १,८.३ उक्तयोः स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच"हन्त यद्यनुमंस्यसे त्वा त्वां पृच्छानी"त्युक्त इतरः"पृच्छे"ति होवाच ॥३ ॥
_______________________________________________________________________
१,८.४
का साम्नो गतिरिति ।
स्वर इति होवाच ।
स्वरस्य का गतिरिति ।
प्राण इति होवाच ।
अन्नस्य का गतिरिति ।
अन्नमिति होवाच ।
अन्नस्य का गतिरिति ।
आप इति होवाच ॥ १,८.४ ॥
__________
भाष्य १,८.४ लब्धानुमतिराहका साम्नः, प्रकृतत्वादुद्गीथस्य ।
उद्गीथो ह्यत्रोपास्यत्वेन प्रकृतः ।
"परोवरीयांसमुद्गीथम्"इति च वक्ष्यति ।
गतिराश्रयः परायणमित्येतत् ।
एवं पृष्टो दाल्भ्य उवाचस्वर इति ।
स्वरात्मकत्वात्साम्नः ।
यो यदात्मकः स तद्गतिस्तदाश्रयश्च भवतीति युक्तं मृदाश्रय इव घटादिः ।
स्वरस्य का गतिरिति, प्राण इति होवाच ।
प्राणनिष्पाद्यो हि स्वरस्तस्मात्सवरस्य प्राणो गतिः ।
प्राणस्य का गतिरित्यन्नमिति होवाच ।
अन्नावष्टम्भो हि प्राणः ।
"शुष्यति वै प्राण ऋतेऽन्नात्"इति हि श्रुतेः ।
"अन्नं दाम"इति च ।
अन्नस्य का गतिरित्याप इति होवाच ।
अप्सम्भवत्वादन्नस्य ॥४ ॥
_______________________________________________________________________
१,८.५
अपां का गतिरिति ।
असौ लोक इति होवाच ।
अमुष्य लोकस्य का गतिरिति ।
न स्वर्गं लोकमतिनयेदिति होवाच ।
स्वर्गं वयं लोकं सामाभिसंस्थापयामः ।
स्वर्गसंस्तावं हि सामेति ॥ १,८.५ ॥
__________
भाष्य १,८.५ अपां का गतिरित्यसौ लोक इति ।
अमुष्माल्लोकाद्वृष्टिः सम्भवति ।
अमुष्य लोकस्य का गतिरिति पृष्टो दाल्भ्य उवाचस्वर्गममुं लोकमतीत्याश्रयान्तरं साम न नयेत्कश्चिदिति होवाचाऽह ।
अतो वयमपि स्वर्गं लोकं सामाभिसंस्थापयामः ।
स्वर्गलोकप्रतिष्ठं साम जानीम इत्यर्थः ।
स्वर्गसंस्तावं स्वर्गत्वेन संस्तवनं संस्तावो यस्य तत्साम स्वर्गसंस्तावं हि यस्मात्"स्वर्गो वै लोकः सामवेद"इति श्रुतिः ॥५ ॥
_______________________________________________________________________
१,८.६
तं ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम ।
यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥ १,८.६ ॥
__________
भाष्य १,८.६ तमितरः शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचअप्रतिष्ठितमसंस्थितं परोवरीयस्त्वेनासमाप्तगति सामेत्यर्थः ।
वा इत्यागमं स्मारयति किलेति च, दाल्भ्य ते तव साम ।
यस्त्वसहिष्णुः सामविदेतर्ह्येतस्मिन्काले ब्रूयात्कश्चिद्विपरीतविज्ञानमप्रतिष्ठितं साम प्रतिष्ठितमित्येवंवादापराधिनं मूर्धा शिरस्ते विपतिष्यति विस्पष्टं पतिष्यतीति ।
एवमुक्तस्यापराधिनस्तथैव तद्विपतेन्न संशयो न त्वाहं ब्रवीमीत्यभिप्रायः ।
ननु मूर्धपातार्ऽहं चेदपराधं कृतवानतः परेणानुक्तस्यापि पतेन्मूर्धा॑न चेदपराध्युक्तस्यापि नैव पतति ।
अन्यथाकृताभ्यागमः कृतनाशश्च स्याताम् ।
नैष दोषः ।
कृतस्य कर्मणः शुभाशुभस्य फलप्राप्तेर्देशकालनिमित्तापेक्षत्वात् ।
तत्रैवं सति मूर्धपातनिमित्तस्याप्यज्ञानस्य पराभिव्याहारनिमित्तापेक्षत्वमिति ॥६ ॥
_______________________________________________________________________
१,८.७
हन्ताहमेतद्भगवत्तो वेदानीति ।
विद्धीति होवाच ।
अमुष्य लोकस्य का गतिरिति ।
अयं लोक इति होवाच ।
अस्य लोकस्य का गतिरिति ।
न प्रतिष्ठां लोकमतिनयेदिति होवाच ।
प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः ।
प्रतिष्ठासंस्तावं हि सामेति ॥ १,८.७ ॥
__________
भाष्य १,८.७ एवमुक्तो दाल्भ्य आहहन्ताहमेतद्भगवत्तो वेदानि यत्प्रतिष्ठं सामेत्युक्तः प्रत्युवाच शालावत्यो विद्धीति होवाच ।
अमुष्य लोकस्य का गतिरिति पृष्टो दाल्भ्येन शालावत्योऽयं लोक इति होवाच ।
अयं हि लोको यागदानहोमादिभिरमुं लोकं पुष्यतीति ।
"इतः प्रदानं देवा उपजीवन्ति"इति हि श्रुतयः ।
प्रत्यक्षं हि सर्वभूतानां धरणी प्रतिष्ठेति ।
अतः साम्नोऽप्ययं लोकः प्रतिष्ठैवेति युक्तम् ।
अस्य लोकस्य का गतिरित्युक्त आह शालावत्यः ।
न प्रतिष्ठामिमं लोकमतीत्य नयेत्साम कश्चित् ।
अतो वयं प्रतिष्ठां लोकं सामाभिसंस्थापयामः ।
यस्मात्प्रतिष्ठासंस्तावं हि प्रतिष्ठात्वेन संस्तुतं सामेत्यर्थः ।
"इयं वै रथन्तरम्"इति च श्रुतिः ॥७ ॥
_______________________________________________________________________
१,८.८
तं ह प्रवाहणो जैवलिरुवाच ।
अन्तवद्वै किल ते शालावत्य साम ।
यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ।
हन्ताहमेतद्भगवत्तो वेदानीति ।
विद्धीति होवाच ॥ १,८.८ ॥
__________
भाष्य १,८.८ तमेवमुक्तवन्तं ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य सामेत्यादि पूर्ववत् ।
ततः शालावत्य आहहन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाचेतरोऽनुज्ञात आह ॥८॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्याष्टमः खण्डः
=======================================================================
१,९.१
अस्य लोकस्य का गतिरिति ।
आकाश इति होवाच ।
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते ।
आकाशं प्रत्यस्तं यन्ति ।
आकाशो ह्येवैभ्यो ज्यायान् ।
आकाशः परायणम् ॥ १,९.१ ॥
__________
भाष्य १,९.१ अस्य लोकस्य का गतिरिति ।
आकाश इति होवाच प्रवाहणः ।
आकाश इति च पर आत्मा"आकाशो वै नामे"ति श्रुतेः ।
तस्य हि कर्म सर्वभूतोत्पादकत्वम् ।
तस्मिन्नेव हि भूतप्रलयः ।
तत्तेजोऽसृजत ।
तेजः परस्यां देवतायामिति हि वक्ष्यति ।
सर्वाणि ह वा इमानि भूतानि स्थावरजङ्गमान्याकाशादेव समुत्पद्यन्ते तेजोबन्नादिक्रमेण, सामर्थ्यात् ।
आकाशं प्रत्यस्तं यन्ति प्रलयकाले तेनैव विपरीतक्रमेण हि यस्मादाकाश एवैभ्यः सर्वेभ्यो भूतेभ्यो ज्यायान्महत्तरोऽतः स सर्वेषां भृतानां परमयनं परायणं प्रतिष्ठा त्रिष्वपि कालेष्वित्यर्थः ॥१॥
_______________________________________________________________________
१,९.२
स एष परोवरीयानुद्गीथः ।
स एषोऽनन्तः ।
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान् परोवरीयांसमुद्गीथमुपास्ते ॥ १,९.२ ॥
__________
भाष्य १,९.२ यस्मात्परं परं वरीयो वरीयसोऽप्येष वरः परश्च वरीयाश्च रपोवरीयानुद्गीथः परमात्मा सम्पन्न इत्यर्थः ।
अत एव स एषोऽनन्तोऽविद्यामानान्तस्तमेतं परोवरीयांसं परमात्मभूतमनन्तमेवं विद्वान्परोवरीयांसमुद्गीथमुपास्ते ।
तस्यैतत्फलमाहपरोवरीयः परं परं वरीयो विशिष्टतरं जीवनं हास्य विदुषो भवति दृष्टं फलमदृष्टं च परोवरीयस उत्तरोत्तरविशिष्टतरानेव ब्रह्माकाशान्तांल्लोकाञ्जयति य एतदेवं विद्वानुद्गीथमुपास्ते ॥२ ॥
_______________________________________________________________________
१,९.३
तं हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच ।
यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिंल्लोके जीवनं भविष्यति ॥ १,९.३ ॥
__________
भाष्य १,९.३ किं च तमेतमुद्गीथं विद्वानतिधन्वा नामतः शुनकस्यापत्यं शौनक उदरशाडिल्याय शिष्यायैतमुद्गीथदर्शनमुक्त्वोवाच ।
यावत्ते तव प्रजायां प्रजासन्ततावित्यर्थः ।
एनमुद्गीथं त्वत्सन्ततिजा वेदिष्यन्ते ज्ञास्यन्ति तावन्तं कालं परोवरीयो हैभ्यः प्रसिद्धेभ्यो लौकिकजीवनेभ्य उत्तरोत्तरविशिष्टतरं जीवनं तेभ्यो भविष्यति ॥३ ॥
_______________________________________________________________________
१,९.४
तथामुष्मिंल्लोके लोक इति ।
स य एतमेव विद्वानुपास्ते परोवरीय एव हास्यामुष्मिंल्लोके जीवनं भवति तथामुष्मिंल्लोके लोक इति लोके लोक इति ॥ १,९.४ ॥
__________
भाष्य १,९.४ तथादृष्टेऽपि परलोकेऽमुष्मिन्परोवरीयांल्लोको भविष्यतीत्युक्तवाञ्शाण्डिल्यायातिधन्वा शौनकः ।
स्यादेतत्फलं पूर्वेषां महाभाग्यानां नैदंयुगीनानामित्याशङ्कानिवृत्तय आहस यः कश्चिदेतदेवं विद्वानुद्गीथमेतर्ह्युपास्ते तस्याप्येवमेव परोवरीय एव हास्यास्मिंल्लोके जीवनं भवति तथामुष्मिंल्लोके लोके लोक इति ॥४॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य नवमः खण्डः
=======================================================================
१,१०.१
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १,१०.१ ॥
__________
भाष्य १,१०.१ उद्गीयोपासनप्रसङ्गेन प्रस्तावप्रतिहारविषयमप्युपासनं वक्तव्यमितीदमारभ्यते ।
आख्यायिका त सुखावबोधार्था ।
मटचीहतेषु मटच्योऽशनयस्ताभिर्हतेषु नाशितेषु कुरुषु कुरुसस्येष्वित्यर्थः ।
ततो दुर्भिक्षे जात आटिक्यानुपजातपयोधरादिस्त्रीव्यञ्जनया सह जाययोषस्तिर्ह नामतश्चक्रस्यापत्यं चाक्रायणः ।
इभो हस्ती तमर्हतीतीभ्य ईश्वरो हस्त्यारोहो वा तस्य ग्राम इभ्यग्रामस्तस्मिन्प्रद्राणकोऽन्नालाभात् ।
द्रा कुत्सायां गतौ ।
कृत्सितां गतिं गतोऽन्त्यावस्थां प्राप्त इत्यर्थः ।
उवासोषितवान्कस्यचिद्गृहमाश्रित्य ॥१ ॥
_______________________________________________________________________
१,१०.२
स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे ।
तं होवाच ।
नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ १,१०.२ ॥
__________
भाष्य १,१०.२ सोऽन्नार्थमटन्निभ्यं कुल्माषान्कुत्सितान्माषान्खादन्तं भक्षयन्तं यदृच्छयोपलभ्य बिभिक्षे याचितवान् ।
तमुषस्तिं होवाचेभ्यः ।
नेतोऽस्मान्मया भक्ष्यमाणादुच्छिष्टराशेः कुल्माषा अन्ये न विद्यन्ते ।
यच्च ये राशौ मे ममोपनिहिताः प्रक्षिप्ता इमे भाजते किं करोमीत्युक्तः प्रत्युवाचोषस्तिः ॥२ ॥
_______________________________________________________________________
१,१०.३
एतेषां मे देहीति होवाच ।
तानस्मै प्रददौ ।
हन्तानुपानमिति ।
उच्छिष्टं वै मे पीतं स्यादिति होवाच ॥ १,१०.३ ॥
__________
भाष्य १,१०.३ एतेषामेतानित्यर्थः ।
मे मह्यं देहीति होवाच ।
तान्स इभ्योऽस्मा उषस्तये प्रददौ प्रदत्तवान् ।
अनुपानीयं समीपस्थमुदकं हन्त गृहाणानुपानमित्युक्तः प्रत्युवाच ।
उच्छिष्टं वै मे ममेदमुदकं पीतं स्याद्यदि पास्यामीत्युक्तवन्तं प्रत्युवाचेतरः ॥३ ॥
_______________________________________________________________________
१,१०.४
न स्विदेतेऽप्युच्छिष्टा इति ।
न वा अजीविष्यमिमानखादन्निति होवाच ।
कामो म उदपानमिति ॥ १,१०.४ ॥
__________
भाष्य १,१०.४ किं न स्विदेते कुल्माषा उप्युच्छिष्टा इत्युक्त आहोषस्तिर्न वा अजीविष्यं न जीविष्यामीमान्कुल्माषानखादन्नभक्षयन्निति होवाच ।
काम इच्छातो मे ममोदकपानं लभ्यत इत्यर्थः ।
अतश्चैतामवस्यां प्राप्तस्य विद्याधर्मयशोवतः स्वात्मपरोपकारसमर्थस्यैतदपि कर्म कुर्वतो नाऽगःस्पर्श इत्यभिप्रायः ।
तस्यापि जावितं प्रत्युपायान्तरेऽजुगुप्सिते सति जुगुप्सितमेतत्कर्म दोषाय ।
ज्ञानावलेपेन कुर्वतो नरकपातः स्यादेवेत्यभिप्रायः ।
प्रद्राणकशब्दश्रवणात् ॥४ ॥
_______________________________________________________________________
१,१०.५
स ह खादित्वातिशेषाञ्जायाया आजहार ।
साग्र एव सुभिक्षा बभूव ।
तान् प्रतिगृह्य निदधौ ॥ १,१०.५ ॥
__________
भाष्य १,१०.५ तांश्च स खादित्वातिशेषानतिशिष्टाञ्जायायै कारुण्यादाजहार ।
साऽटिक्यग्र एव कुल्माषप्राप्तेः सुभिक्षा शोभनभिक्षा लब्धान्नेत्येतद्बभूव संवृत्ता ।
तथापि स्त्रीस्वाभाव्यादनवज्ञाय तान्कुल्माषान्पत्युर्हस्तात्प्रतिगृह्य निदधौ निक्षिप्तवती ॥५ ॥
_______________________________________________________________________
१,१०.६
स ह प्रातः संजिहान उवाच ।
यद्बतान्नस्य लभेमहि लभेमहि धनमात्राम् ।
राजासौ यक्ष्यते ।
स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥ १,१०.६ ॥
__________
भाष्य १,१०.६ स तस्याः कर्म जानन्प्रातरुषःकाले सञ्जिहानः शयनं निद्रां वा परित्यजन्नुवाच पत्न्याः शृण्वत्या यद्यदि वतेति खिद्यमानोऽन्नस्य स्तोकं लभेमहि तद्भुक्त्वान्नं समर्थो गत्वा लभेमहि धनमात्रां धनस्याल्पम् ।
ततोऽस्माकं जीवनं भविष्यतीति ।
धनलाभे च कारणमाहराजासौ नातिदूरे स्थाने यक्ष्यते ।
यजमानत्वात्तस्याऽत्मनेपदम् ।
स च राजा मा मां पात्रमुपलभ्य सर्वैरार्त्विज्यैरॄत्विक्कर्मभिरॄत्विक्कर्मप्रयोजनायेत्यर्थो वृणीतेति ॥६ ॥
_______________________________________________________________________
१,१०.७
तं जायोवाच ।
हन्त पत इम एव कुल्माषा इति ।
तान् खादित्वामुं यज्ञं विततमेयाय ॥ १,१०.७ ॥
__________
भाष्य १,१०.७ एवमुक्तवन्तं जायोवाचहन्त गृहाण हे पत इम एव ये मद्धस्ते विनिक्षिप्तास्त्वया कुल्माषा इति ।
तान्खादित्वामुं यज्ञं राज्ञो विततं विस्तारितमृत्विग्भिरेयाय ॥७ ॥
_______________________________________________________________________
१,१०.८
तत्रोद्गात्ःनास्तावे स्तोष्यमाणानुपोपविवेश ।
स ह प्रस्तोतरमुवाच ॥ १,१०.८ ॥
__________
भाष्य १,१०.८ तत्र च गत्वोद्गातॄनुद्गातृपुरुषानागत्य स्तुवन्त्यस्मिन्नित्यास्तावस्तस्मिन्नास्तावे स्तोष्यमाणानुपोपविवेश समीप उपविष्टस्तेषामित्यर्थः ।
उपविश्य स ह प्रस्तोतारमुवाच ॥८ ॥
_______________________________________________________________________
१,१०.९
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥ १,१०.९ ॥
__________
भाष्य १,१०.९ हे प्रस्तोतरित्यामन्त्र्याभिमुखीकरणाय ।
या देवता प्रस्तावं प्रस्तावभक्तिमनुगतान्वायत्ता तां चेद्देवतां प्रस्तावभक्तेरविद्वान्सन्प्रस्तोष्यसि विदुषो मम समीपे ।
तत्परोक्षेऽपि चेद्विपतेत्तस्य मूर्धा कर्ममात्रविदामनधिकार एव कर्मणि स्यात् ।
तच्चानिष्टमविदुषामपि कर्मदर्शनात् ।
दक्षिणमार्गश्रुतेश्च ।
अनधिकारे चाविदुषामुत्तर एवैको मार्गः श्रूयेत ।
न च स्मार्तकर्मनिमित्त एव दक्षिणः पन्थाः ।
यज्ञेन दानेनेत्यादिश्रतेः ।
तथोक्तस्य मयेति च विशेषणाद्विद्वत्समक्षमेव कर्मण्यनधिकारो न सर्वत्राग्निहोत्रस्मार्तकर्माध्ययनादिषु च ।
अनुज्ञायास्तत्र तत्र दर्शनात्कर्ममात्रविदामप्यधिकारः सिद्धः कर्मणीति ।
मूर्धा ते विपतिष्यतीति ॥९ ॥
_______________________________________________________________________
१,१०.१०११
एवमेवोद्गातारमुवाच ।
उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ १,१०.१० ॥
एवमेव प्रतिहर्तारमुवाच ।
प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ।
ते ह समारतास्तूष्णीमासां चक्रिरे ॥ १,१०.११ ॥
__________
भाष्य १,१०.१०११ एवमेवोद्गातारं प्रतिहर्तारमुवाचेत्यादि समानमन्यत् ।
ते प्रस्तोत्रादयः कर्मभ्यः समारता उपरताः सन्तो मूर्धपातभयात्तूष्णीमासांचक्रिरेऽन्यच्चाकुर्वन्तः अर्थित्वात् ॥१०११ ॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोधध्यायस्य दशमः खण्डः
=======================================================================
१,११.१
अथ हैनं यजमान उवाच ।
भगवन्तं वा अहं विविदिषाणीति ।
उषस्तिरस्मि चाक्रायण इति होवाच ॥ १,११.१ ॥
__________
भाष्य १,११.१ अथानन्तरं हैनमुषस्तिं यजमानो राजोवाच ।
भगवन्तं वै पूजावर्न्तमहं विविदिषामि वेदितुमिच्छामीत्युक्त उषस्तिरस्मि चाक्रायणस्तवापि श्रोत्रपथमागतो यदीति होवाचोक्तवान् ॥१ ॥
_______________________________________________________________________
१,११.२
स होवाच ।
भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैषिषम् ।
भगवतो वा अहमवित्त्यान्यानवृषि ॥ १,११.२ ॥
__________
भाष्य १,११.२ स ह यजमान उवाच सत्यमेवमहं भगवन्तं बहुगुणमश्रौषं सर्वैश्च ऋच्विक्कर्मभिरार्त्विज्यैः पर्यैषिषं पर्येषणं कृतवानस्मि ।
अन्विष्य भगवतो वा अहमवित्त्यालाभेनान्यानिमानवृषि वृतवानस्मि ॥२ ॥
_______________________________________________________________________
१,११.३
भगवांस्त्वेव मे सर्वैरार्त्विज्यैरिति ।
तथेति ।
अथ तर्ह्येत एव समतिसृष्टाः स्तुवताम् ।
यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति ।
तथेति ह यजमान उवाच ॥ १,११.३ ॥
__________
भाष्य १,११.३ अद्यापि भगवांस्त्वेव मे मम सर्वैरार्त्विज्यैरृत्विक्कर्मार्थमस्त्वित्युक्तस्तथेत्याहोषस्तिः ।
किन्त्वथैवं तर्ह्येत एव त्वया पूर्व वृता मया समतिसृष्टा मया सम्यक्प्रसन्नेनानुज्ञाताः सन्तः स्तुवताम् ।
त्वया त्वेतत्कार्यम् ।
यावत्त्वेभ्यः प्रस्तोत्रादिभ्यः सर्वेभ्यो धनं दद्याः प्रयच्छसि तावन्मम दद्या इत्युक्तस्तथेति ह यजमान उवाच ॥३ ॥
_______________________________________________________________________
१,११.४
अथ हैनं प्रस्तोतोपससाद ।
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।
कतमा सा देवतेति ॥ १,११.४ ॥
__________
भाष्य १,११.४ अथ हैनमौषस्त्यं वचः श्रुत्वा प्रस्तोतोपससादोषस्तिं विनयेनोपजगाम ।
प्रस्तोतर्या देवतेत्यादि मा मां मगवानवोचत्पूर्वम् ।
कतमा सा देवता या प्रस्तावभक्तिमन्वायत्तेति ॥४ ॥
_______________________________________________________________________
१,११.५
प्राण इति होवाच ।
सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति ।
प्राणमभ्युज्जिहते ।
सैषा देवता प्रस्तावमन्वायत्ता ।
तां चेदविद्वान् प्रास्तोष्यो मूर्धा ते विपतिष्यत्तथोक्तस्य मयेति ॥ १,११.५ ॥
__________
भाष्य १,११.५ पृष्टः प्राण इति होवाच ।
युक्तं प्रस्तावस्य प्राणो देवतेति ।
कथं, सर्वाणि स्थावरजङ्गमानि भूतानि प्राणमेवाभिसंविशन्ति प्रलयकाले प्राणमभि लक्षयित्वा प्राणात्मनैवोज्जिहते प्राणादेवोद्गच्छन्तीत्यर्थः उत्पत्तिकाले ।
अतः सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वांस्त्वं प्रास्तोष्यः प्रस्तवनं प्रस्तावभक्तिं कृतवानसि यदि मूर्धा शिरस्ते व्यपतिष्यद्विपतितमभविष्यत्तथोक्तस्य मया तत्काले मूर्धा ते विपतिष्यतीति ।
अतस्त्वया साधु कृतम् ।
मया निषिद्धः कर्मणो यदुपरममकार्षीरित्यभिप्रायः ॥५ ॥
_______________________________________________________________________
१,११.६
अथ हैनमुद्गातोपससाद ।
उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।
कतमा सा देवता इति ॥ १,११.६ ॥
__________
भाष्य १,११.६ तथोद्गाता पप्रच्छ कतमा सोद्गीथभक्तिमनुगतान्वायत्ता देवतेति ॥६ ॥
_______________________________________________________________________
१,११.७
आदित्य इति होवाच ।
सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति ।
सैषा देवतोद्गीथमन्वायत्ता ।
तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १,११.७ ॥
__________
भाष्य १,११.७ पृष्ट आदित्य इति होवाच ।
सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैरूर्ध्वं सन्तं गायन्ति शब्दयन्ति स्तुवन्तीत्यभिप्रायः ।
उच्छब्दसामान्यात्प्रशब्दसामान्यादिव प्राणोऽतः सैषा देवतेत्यादि पूर्ववत् ॥७ ॥
_______________________________________________________________________
१,११.८
अथ हैनं प्रतिहर्तोपससाद ।
प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।
कतमा सा देवतेति ॥ १,११.८ ॥
__________
भाष्य १,११.८ एवमेवाथ हैनं प्रतिहर्तोपसाद कतमा सा देवता प्रतिहारमन्वायत्तेति ॥८ ॥
_______________________________________________________________________
१,११.९
अन्नमिति होवाच ।
सर्वाणि ह वा इमानि भूतन्यन्नमेव प्रतिहरमाणानि जीवन्ति ।
सैषा देवता प्रतिहारमन्वायत्ता ।
तां चेदविद्वान् प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ॥ १,११.९ ॥
__________
भाष्य १,११.९ पृष्टोऽन्नमिति होवाच ।
सर्वाणि ह वा इमानि भूतान्यन्नमेवाऽत्मानं प्रति सर्वतः प्रतिहरमाणानि जीवन्ति ।
सैषा देवता प्रतिशब्दसामान्यात्प्रतिहारभक्तिमनुगता ।
समानमन्यत्तथोक्तस्य मयेति ।
प्रस्तावोद्गीथप्रतिहारभक्तीः प्राणादित्यान्नदृष्ट्योपासीतेति समुदायार्थः ।
प्राणाद्यापत्तिः कर्मसमृद्धिर्वा फलमिति ॥९॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्यैकादशः खण्डः
=======================================================================
१,१२.१
अथातः शौव उद्गीथः ।
तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज ॥ १,१२.१ ॥
__________
भाष्य १,१२.१ अतीते खण्डेऽन्नाप्राप्तिनिमित्ता कष्टावस्थोक्तोच्छिष्टपर्युषितभक्षणलक्षणा ।
सा मा भूदित्यन्नलाभायाथानन्तरं शौवः श्वभिर्दृष्ट उद्गीथ उद्गानं सामातः प्रस्तूयते ।
तत्तत्र ह किल बको नामतो दल्भस्यापत्यं दाल्भ्यो ग्लावो वा नामतो मित्रायाश्चापत्यं मैत्रेयः ।
वाशब्दश्चार्थे ।
द्व्यामुष्यायणो ह्यसौ ।
वस्तुविषये क्रियास्विव विकल्पानुपपत्तेः ।
द्विनामा द्विगोत्र इत्यादि हि स्मृतिः ।
दृश्यते चोभयतः पिण्डभाक्त्वम् ।
उद्गीथे बद्धचित्तत्वादृषावनादराद्वा ।
वाशब्दः स्वाध्यायार्थः ।
स्वाध्यायं कर्तुं ग्रामाद्बहिरुद्वव्राजोद्गतवान्विविक्तदेशस्थोदकाभ्याशम् ।
उद्वव्राज प्रतिपालयाञ्चकारेति चैकवचनाल्लिङ्गादेकोऽसावृषिः ।
श्वोद्गीथकालप्रतिपालनादृषेः स्वाध्यायकरणमन्नकामनयेति लक्ष्यत इत्यभिप्रायः ॥१ ॥
_______________________________________________________________________
१,१२.२
तस्मै श्वा श्वेतः प्रादुर्बभूव ।
तमन्ये श्वान उपसमेत्योचुः ।
अन्नं नो भगवानागायतु ।
अशनायाम वा इति ॥ १,१२.२ ॥
__________
भाष्य १,१२.२ स्वाध्यायेन तोषिता देवतर्षिर्वा श्वरूपं गृहीत्वा श्वा श्वेतः संस्तस्मा ऋषये तदनुग्रहार्थं प्रादुर्बभूव प्रादुश्चकार ।
तमन्ये शुक्लं श्वानं क्षुल्लकाः श्वान उपसमेत्योचुरुक्तवन्तोऽन्नं नोऽस्मभ्यं भगवानागायत्वागानेन निष्पादयत्वित्यर्थः ।
मुक्यप्राणं वागादयो वा प्राणमन्वन्नभुजः स्वाध्यायपरितोषिताः सन्तोऽनुगृह्णीयुरेनं स्वरूपमादायेति युक्तमेवं प्रतिपत्तुम् ।
अशनायाम वै बुभुक्षिताः स्मो वा इति ॥२ ॥
_______________________________________________________________________
१,१२.३
तान् होवाचेहैव मा प्रातरुपसमीयतेति ।
तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयां चकार ॥ १,१२.३ ॥
__________
भाष्य १,१२.३ एवमुक्ते श्वा श्वेत उवाच तान्क्षुल्लाकाञ्शुन इहैवास्मिन्नेव देशे मा मां प्रातः प्रातःकाल उपसमीयातेति ।
दैर्ध्यं छन्दसं समीयातेति, प्रमादपाठो वा ।
प्रातः कालकरणं तत्काल एव कर्तव्याझ्र्व्यताटर्थम् ।
अन्नदस्य वा सवितुरपराह्नेऽनाभिमुख्यात् ।
तत्तत्रैव ह बको दाल्भ्यो ग्लावो वा मैत्रेय ऋषिः प्रतिपालयाञ्चकार प्रतीक्षणं कृतवानित्यर्थः ॥३ ॥
_______________________________________________________________________
१,१२.४
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्येवमाससृपुः ।
ते ह समुपविश्य हिञ्चक्रुः ॥ १,१२.४ ॥
__________
भाष्य १,१२.४ ते श्वानस्तत्रैवाऽगम्य ऋषेः समक्षं यथैवेह कर्मणि बहिष्पवमानेन स्तोत्रेण स्तोष्यमाणा ।
उद्गातृपुरुषाः संरब्धाः संलग्ना अन्योन्यमेव मुखेनान्योन्यस्य पुच्छं गृहीत्वाऽससृपुरासृप्तवन्तः परिभ्रमणं कृतवन्त इत्यर्थः ।
त एवं संसृप्य समुपविश्योपविष्टाः सन्तो हिं चक्रुर्हिङ्कारं कृतवन्तः ॥४ ॥
_______________________________________________________________________
१,१२.५
ओ३ अदा३ अ ।
ओं३ पिबा३ अ ।
ओं३ देवो वरुणः प्रजापतिः सविता२ऽन्नमिहा२ऽहरत् ।
अन्नपते३ऽन्नमिहा२ऽऽहरा२ऽऽहरो३ इति ॥ १,१२.५ ॥
__________
भाष्य १,१२.५ ओमदामों पिबामों देवो द्योतनात् ।
वरुणो वर्षणाज्जगतः ।
प्रजापतिः पालनात्प्रजानाम् ।
सविता प्रसवितृत्वात्सर्वस्याऽदित्य उच्यते ।
एतैः पर्यायैः स एवंभूत आदित्योऽन्नमस्मभ्यमिहाऽबरदाबरत्विति ।
त एवं हिं कृत्वा पुनरप्यूचुःस त्वं हेऽन्नपते ।
स हि सर्वस्यान्नस्य प्रसवितृत्वात्पतिः ।
न हि तत्पाकेन विना प्रभूतमन्नमणुमात्रमपि जायते प्राणिनाम् ।
अतोऽन्नपतिः ।
हेऽन्नपतेऽन्नमस्मभ्यमिहाऽहराऽहरेति ।
अभ्यास आदरार्थः ।
ओमिति ॥५॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य द्वादशः खण्डः
=======================================================================
१,१३.१
अयं वाव लोको हाउकारः ।
वायुर्हाइकारः ।
चन्द्रमा अथकारः ।
आत्मेहकारः ।
अग्निरीकारः ॥ १,१३.१ ॥
__________
भाष्य १,१३.१ भक्तिविषयोपासनं सामावयवसम्बद्धमित्यतः सामावयवान्तरस्तोभाक्षर विषयाण्युपासनान्तराणि संहतान्युपदिश्यन्तेऽनन्तरं सामावयवसम्बद्धत्वाविशेषातयं वावायमेव लोको हाउकारः स्तोभो रथन्तरे साम्नि प्रसिद्धः"इयं वै रथन्तरम्" इति ।
अस्मात्सम्बन्धसामान्याद्धाउकारस्तोभोऽयं लोक इत्येवमुपासीत ।
वायुर्हाकारः ।
वामदेव्ये सामनि हाइकारः प्रसिद्धः ।
वाय्वप्सम्बन्धश्च वामदेवस्य साम्नो योनिरित्यस्मात्सामान्याद्धाइकारं वायुदृष्ट्योपासीत ।
चन्द्रमा अथकारः ।
चन्द्रदृष्ट्याथकारमुपासीत ।
अन्ने हीदं स्थितम् ।
अन्नात्मा चन्द्रः ।
थकाराकारसामान्याच्च ।
आत्मेहकारः ।
इहेति स्तोभः प्रत्यक्षो ह्यात्मेति व्यपदिश्यते ।
इहेति च स्तोभः ।
तत्सामान्यात् ।
अग्निरीकारः ।
ईनिधनानि चाऽग्नेयानि सर्वाणि सामानीत्यतस्तत्सामान्यात् ॥१ ॥
_______________________________________________________________________
१,१३.२
आदित्य ऊकारः ।
निहव एकारः ।
विश्वे देवा औहोयिकारः ।
प्रजपतिर्हिङ्कारः ।
प्राणः स्वरः ।
अन्नं या ।
वाग्विराट् ॥ १,१३.२ ॥
__________
भाष्य १,१३.२ आदित्य ऊकारः ।
उच्चैरूर्ध्वं सन्तमादित्यं गायन्त्यूकारश्चायं स्तोभः ।
आदित्यदैवत्ये साम्नि स्तोभ ऊ इत्यादित्य ऊकारः ।
निहव इत्याह्वानमेकारः स्तोभः ।
एहीति चाऽह्वयन्तीति तत्सामान्यात् ।
विश्वे देवा औहोयिकारोवैश्वदेव्ये साम्नि दर्शनात् ।
प्रजापतिर्हिङ्कारः ।
आनिरुक्त्याद्धिङ्कारस्य चाव्यक्तत्वात् ।
प्राणः स्वरः ।
स्वर इति स्तोभः ।
प्राणस्य च स्वरहेतुत्वसामान्यात् ।
अन्नं या या इति स्तोभोऽन्नम् ।
अन्नेन हीदं यातीत्यतस्तत्सामान्यात् ।
वागिति स्तोभो विराडन्नं देवताविशेषो वा ।
वैराजे साम्नि स्तोभदर्शनात् ॥२ ॥
_______________________________________________________________________
१,१३.३
अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुङ्कारः ॥ १,१३.३ ॥
__________
भाष्य १,१३.३ अनिरुक्तोऽव्यक्तत्वादिदं वेदं वेति निर्वक्तुं न शक्यत इत्यतः सञ्चरो विकल्प्यमानस्वरूप इत्यर्थः ।
कोऽसावित्याहत्रयोदशः स्तोभो हुङ्कारः ।
अव्यक्तो ह्ययमतोऽनिरुक्तविशेष एवोपास्य इत्यभिप्रायः ॥३ ॥
_______________________________________________________________________
१,१३.४
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहः ।
अन्नवानन्नादो भवति ।
य एतामेवं साम्नामुपनिषदं वेदोपनिषदं वेद ॥ १,१३.४ ॥
__________
भाष्य १,१३.४ दुग्धेऽस्मै वाग्दोहमित्याद्युक्तार्थम् ।
य एतामेवं यथोक्तलक्षणां साम्नां सामावयवस्तोभाक्षरविषयामुपनिषदं दर्शनं वेद तस्यैतद्यथोक्तं फलमित्यर्थः ।
द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थः ।
सामावयवविषयोपासनाविशेषपरिमाप्त्यर्थो वेति ॥४ ॥ ॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य त्रयोदशः खण्डः
इति छान्दोग्योपनिषद्ब्राह्मणे प्रथमोध्यायः समाप्तः
द्वितीयोऽध्यायः
२,१.१
समस्तस्य खलु साम्न उपासनं साधु ।
यत्खलु साधु तत्सामेत्याचक्षते ।
यदसाधु तदसामेति ॥ २,१.१ ॥
__________
भाष्य २,१.१
"ओमित्येतदक्षरम्" इत्यादिना सामावयवविषयमुपासनमनेकफलमुपदिष्टम् ।
अनन्तरं च स्तोभाक्षरविषयमुपासनमुक्तम् ।
सर्वथापि सामैकदेशसम्बद्धमेव तदित्यथेदानीं समस्ते साम्नि समस्तसामविषयाण्युपासनानि वक्ष्यामीत्यारभते श्रुतिः ।
युक्तं ह्येकदेशोपासनानन्तरमेकदेशिविषयमुपासनमुच्यत इति ।
समस्तस्य सर्वावयवविशिष्टस्य पाञ्चभक्तिकस्य साप्तभक्तिकस्य चेत्यर्थः ।
खल्विति वाक्यालङ्कारार्थः ।
साम्न उपासनं साधु ।
समस्ते साम्नि साधुदृष्टिविधिपरत्वान्न पूर्वोक्तोपासननिन्दार्थत्वं साधुशब्दः शोभनवाची ।
कथमवगम्यत इत्याहयत्खलु लोके साधु शोभनमनवद्यं प्रसिद्धं तत्सामेत्याचक्षते कुशलाः ।
यदसाधु विपरीतं तदसामेति ॥१ ॥
_______________________________________________________________________
२,१.२
तदुताप्याहुः ।
साम्नैनमुपागादिति साधुनैनमुपागादित्येव तदाहुः ।
असाम्नैनमुपागादित्येव तदाहुः ॥ २,१.२ ॥
__________
भाष्य २,१.२ तत्तत्रैव साध्वसाधुविवेककरण उताप्याहुःसाम्नैनं राजानं सामन्तं चोपागादुपगतवान् ।
कोऽसौ यतोऽसाधुत्वप्राप्त्याशङ्का?स इत्यभिप्रायः ।
शोभनाभिप्रायेण साधुनैनमुपागादित्येव तत्तत्राऽहुर्लौकिका बन्धनाद्यसाधुकार्यमपश्यन्तः ।
यत्र पुनर्विपर्ययो बन्धनाद्यसाधुकार्यं पश्यन्ति तत्रासाम्नैनमुपागादित्यसाधुनैनमुपागादित्येव तदाहुः ॥२ ॥
_______________________________________________________________________
२,१.३
अथोताप्याहुः ।
साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुः ।
असाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ २,१.३ ॥
__________
भाष्य २,१.३ अथोताप्याहुः स्वसंवेद्यं साम नोऽस्माकं बतेत्यनुकम्पयतः संवृत्तमित्याहुः ।
एतत्तैरुक्तं भवति यत्साधु भवति साधु वतेत्येव तदाहुः ।
विपर्यये जातेऽसाम नो बतेति ।
यदसाधु भवत्यसाधु बतेत्येव तदाहुः तस्मात्सामसाधुशब्दयोरेकार्थत्वं सिद्धम् ॥३ ॥
_______________________________________________________________________
२,१.४
स य एतदेवं विद्वान् साधु सामेत्युपास्तेऽभ्याशो ह यदेनं साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ २,१.४ ॥
__________
भाष्य २,१.४ अतः स यः कश्चित्साधु सामेति साधुगुणवत्सामेत्युपास्ते समस्तं साम साधुगुणवद्विद्वांस्तस्यैतत्फलमभ्याशो ह क्षिप्रं ह॑यदिति क्रियाविशेषणार्थमेनमुपासकं साधवः शोभना धर्माः श्रुतिस्मृत्यविरुद्धा आ च गच्छेयुरागच्छेयुश्च न केवलमागच्छेयुरुप च नमेयुरुपनमेयुश्च भोग्यत्वेनोपतिष्ठेयुरित्यर्थः ॥४॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य प्रथमः खण्डः
=======================================================================
२,२.१
लोकेषु पञ्चविधं सामोपासीत ।
पृथिवी हिङ्कारः ।
अग्निः प्रस्तावः ।
अन्तरिक्षमुद्गीथः ।
आदित्यः प्रतिहारः ।
द्यौर्निधनम् ।
इत्यूर्ध्वेषु ॥ २,२.१ ॥
__________
भाष्य २,२.१ कानि पुनस्तानि साधुदृष्टिविशिष्टानि समस्तानि सामान्युपास्यानीति ।
इमानि तान्युच्यन्ते लोकेषु पञ्चविधमित्यादीनि ।
ननु लोकादिदृष्ट्या तान्युपास्यानि साधुदृष्ट्या चेति विरुद्धम् ।
न ।
साध्वर्थस्य लोकादिकार्येषु कारणस्यानुगतत्वात्मृदादिवद्घटादिविकारेषु ।
साधुशब्दवाच्योर्ऽथो धर्मो ब्रह्म वा सर्वथापि लोकादिकार्येष्वनुगतम् ।
अतो यथा यत्र घटादिदृष्टिर्मृदादिदृष्ट्यनुगतैव सा ।
तथा साधुदृष्ट्यनुगतैव लोकादिदृष्टिः ।
धर्मादिकार्यत्वाल्लोकादीनाम् ।
यद्यपि कारणत्वमविशिष्टं ब्रह्मधर्मयोः, तथापि धर्म एव साधुशब्दवाच्य इति युक्तं"साधुकारी साधुर्भवती"ति धर्मविषये साधुशब्दप्रयोगात् ।
ननु लोकादिकार्येषु कारणस्यानुगतत्वादर्थप्राप्तैव तद्दृष्टिरिति साधु सामेत्युपास्त इति न वक्तव्यम् ।
न ।
शास्रगम्यत्वात्तद्दृष्टेः ।
सर्वत्र हि शास्रप्रापिता एव धर्मा उपास्या न विद्यमाना अप्यशास्रीयाः ।
लोकेषु पृथिव्यादिषु पञ्चविधं पञ्चभक्तिभेदेन पञ्चप्रकारं साधुसमस्तं सामोपासीत ।
कथम् ।
पृथिवो हिङ्कारः ।
लोकेष्विति या सप्तमी तां प्रथमात्वेन वि
_______________________________________________________________________
२,२.२
अथावृत्तेषु ।
द्यौर्हिङ्कारः ।
आदित्यः प्रस्तावः ।
अन्तरिक्षमुद्गीथः ।
अग्निः प्रतिहारः ।
पृथिवी निधनम् ॥ २,२.२ ॥
__________
भाष्य २,२.२ अथाऽवृत्तेष्ववाङ्मुखेषु पञ्चविधमुच्यते सामोपासनम् ।
गत्यागतिविशिष्टा हि लोकाः ।
यथा ते तथादृष्ट्यैव सामोपासनं विधीयते यतोऽत आवृत्तेषु लोकेषु ।
द्यौर्हिङ्कारः प्राथम्यात् ।
आदित्यः प्रस्तावः ।
उदिते ह्यादित्ये प्रस्तूयन्ते कर्माणि प्राणिनाम् ।
अन्तरिक्षमुद्गीथः पूर्ववत् ।
अग्निः प्रतिहारः ।
प्राणिभिः प्रतिहरणादग्नेः ।
पृथिवी निधनम् ।
तत आगतानामिह निधनात् ॥२ ॥
_______________________________________________________________________
२,२.३
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्तश्च य एतदेवं विद्वांल्लोकेषु पञ्चविधं सामोपास्ते ॥ २,२.३ ॥
__________
भाष्य २,२.३ उपासनफलंकल्पन्ते समर्था भवन्ति हास्मै लोका ऊर्ध्वाश्चाऽवृत्ताश्च गत्यागतिविशिष्टा भोग्यत्वेन व्यवतिष्ठन्त इत्यर्थः ।
य एतदेवं विद्वांल्लोकेषु पञ्चविधं समस्तं साधु सामेत्युपास्त इति सर्वत्र योजना पञ्चविधे सप्तविधे च ॥३॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य द्वितीयः खण्डः
=======================================================================
२,३.१
वृष्टौ पञ्चविधं सामोपासीत ।
पुरोवातो हिङ्कारः ।
मेघो जायते स प्रस्तावः ।
वर्षति स उद्गीथः ।
विद्योतते स्तनयति स प्रतिहारः ॥ २,३.१ ॥
__________
भाष्य २,३.१ वृष्टौ पञ्चविधं सामोपासीत ।
लोकस्थितेर्वृष्टिनिमित्तत्वादानन्तर्यम् ।
पुरोवातो हिङ्कारः ।
पुरोवाताद्युद्ग्रहणान्ता हि वृष्टिः ।
यथा साम हिङ्कारादिनिधनान्तम् ।
अतः पुरोवातो हिङ्कारः ।
प्राथम्यात् ।
मेघो जायते स प्रस्तावः ।
प्रावृषि मेघजनने वृष्टेः प्रस्ताव इति हि प्रसिद्धिः ।
वर्षति स उद्गीथः श्रैष्ठ्यात् ।
विद्योतते स्तनयति स प्रतिहारः ।
प्रतिहृतत्वात् ॥१ ॥
_______________________________________________________________________
२,३.२
उद्गृह्णाति तन्निधनं वर्षयति ह य एतदेवं विद्वान् वृष्टौ पञ्चविधं सामोपास्ते ॥ २,३.२ ॥
__________
भाष्य २,३.२ उद्गृह्णाति तन्निधनम् ।
समाप्तिसामान्यात् ।
फलमुपासनस्यवर्शति हास्मा इच्छातः ।
तथा वर्षयति हासत्यामपि वृष्टौ ।
य एतदित्यादि पूर्ववत् ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य तृतीयः खण्डः
=======================================================================
२,४.१
सर्वास्वप्सु पञ्चविधं सामोपासीत ।
मेघो यत्संप्लवते स हिङ्कारः ।
यद्वर्षति स प्रस्तावः ।
याः प्राच्यः स्यन्दन्ते स उद्गीथः ।
याः प्रतीच्यः स प्रतिहारः ।
समुद्रो निधनम् ॥ २,४.१ ॥
__________
भाष्य २,४.१ सर्वास्वप्सु पञ्चविधं सामोपासीत ।
वृष्टिपूर्वकत्वात्सर्वासामपामानन्तर्यम् ।
मेघो यत्संप्लवत एकीभावेनेतरेतरं घनीभवति मेघो यदोन्नतस्तदा संप्लवत इत्युच्यते मेघस्तदापामारम्भः स हिङ्कारः ।
यद्वर्षति स प्रस्तावः ।
आपः सर्वतो व्याप्तुं प्रस्तुताः ।
याः प्राच्यः स्यन्दन्ते स उद्गीथः श्रैष्ठ्यात् ।
याः प्रतीच्यः स प्रतिहारः प्रतिशब्दसामान्यात् ।
समुद्रो निधनम् ।
तन्निधनत्वादपाम् ॥१ ॥
_______________________________________________________________________
२,४.२
न हाप्सु प्रैत्यप्सुमान् भवति य एतदेवं विद्वान् सर्वास्वप्सु पञ्चविधं सामोपास्ते ॥ २,४.२ ॥
__________
भाष्य २,४.२ न हाप्सु प्रैति ।
नेच्छति चेत् ।
अप्सुमानंमान्भवति फलम् ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य चतुर्थः खण्डः
=======================================================================
२,५.१
ऋतुषु पञ्चविधं सामोपासीत ।
वसन्तो हिङ्कारः ।
ग्रीष्मः प्रस्तावः ।
वर्षा उद्गीथः ।
शरत्प्रतिहारः ।
हेमन्तो निधनम् ॥ २,५.१ ॥
__________
भाष्य २,५.१ ॠतुषु पञ्चविधं सामोपासीत ।
ॠतुव्यवस्थाया यथोक्ताम्बुनिमित्तत्वादानन्तर्यम् ।
वसन्तो हिङ्कारः ।
प्राथम्यात् ।
ग्रीष्मः प्रस्तावः ।
यवादिसंग्रहः प्रस्तूयते हि प्रावृडर्थम् ।
वर्षा उद्गीथः प्राधान्यात् ।
शरत्प्रतिहारः ।
रोगिणां मृतानां च प्रतिहरणात् ।
हेमन्तो निधनम् ।
निवाते निधनात्प्राणिनाम् ॥१ ॥
_______________________________________________________________________
२,५.२
कल्पन्ते हास्मा ऋतव ऋतुमान् भवति य एतदेवं विद्वानृतुषु पञ्चविधं सामोपास्ते ॥ २,५.२ ॥
__________
भाष्य २,५.२ फलंकल्पन्ते ह ऋतुव्यवस्थानुरूपं भोग्यत्वेनास्मा उपासकायर्तवः ।
ऋतुमानार्तवैर्भोगैश्च सम्पन्नो भवतीत्यर्थः ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य पञ्चमः खण्डः
=======================================================================
२,६.१
पशुषु पञ्चविधं सामोपासीत ।
अजा हिङ्कारः ।
अवयः प्रस्तावः ।
गाव उद्गीथः ।
अश्वः प्रतिहारः ।
पुरुषो निधनम् ॥ २,६.१ ॥
__________
भाष्य २,६.१ पशुषु पञ्चविधं सामोपासीत ।
सम्यग्वृत्तेष्वृतुषु पशव्यः काल इत्यानन्तर्यम् ।
अजा हिङ्कारः ।
प्राधान्यात्प्राथम्याद्वा ।
"अजः पशूनां प्रथम"इति श्रुतेः ।
अवयः प्रस्तावः ।
साहचर्यदर्शनादजादीनाम् ।
गावः उद्गीथः ।
श्रैष्ठ्यात् ।
अश्वाः प्रतिहारः ।
प्रतिहरणात्पुरुशाणाम् ।
पुरुषो निधनम् ।
पुरुषाश्रयत्वात्पशूनाम् ॥१ ॥
_______________________________________________________________________
२,६.२
भवन्ति हास्य पशवः पशुमान् भवति य एतदेवं विद्वान् पशुषु पञ्चविधं सामोपास्ते ॥ २,६.२ ॥
__________
भाष्य २,६.२ फलंभवन्ति हास्य पशवः पशुमान्भवति ।
पशुफलैश्च भोगत्यागादिभिर्युज्यत इत्यर्थः ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य षष्ठः खण्डः
=======================================================================
२,७.१
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत ।
प्राणो हिङ्कारः ।
वाक्प्रस्तावः ।
चक्षुरुद्गीथः ।
श्रोत्रं प्रतिहारः ।
मनो निधनम् ।
परोवरीयांसि वा एतानि ॥ २,७.१ ॥
__________
भाष्य २,७.१ प्राणेषु पञ्चविधं परोवरीयः सामोपासीत ।
परंपरं वरीयस्त्वगुणवत्प्राणदृष्टिविशिष्टं सामोपासीतेत्यर्थः ।
प्राणो घ्राणं हिङ्कारः ।
उत्तरोत्तरवरीयसां प्राथम्यात् ।
वाक्प्रस्तावः ।
वाचा हि प्रस्तूयते सर्वम् ।
वाग्वरीयसी प्राणात् ।
अप्राप्तमप्युच्यते वाचा, प्राप्तस्यैव तु गन्धस्य ग्राहकः प्राणः ।
चक्षुरुद्गीथः ।
वाचो बहुतरविषयं प्रकाशयति चक्षुरतो वरीयो वाचः, उद्गीथः ।
श्रैष्ठ्यात् ।
श्रोत्रं प्रतिहारः ।
प्रतिहृतत्वात् ।
वरीयस्त्वं च श्रोत्रान्मनसः ।
सर्वेन्द्रियविषयव्यापकत्वात् ।
अतीन्द्रियविषयोऽपि मनसो गोचर एवेति ।
यथोक्तहेतुभ्यः परोवरीयांसि प्राणादीनि वा एतानि ॥१ ॥
_______________________________________________________________________
२,७.२
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान् प्राणेषु पञ्चविधं परोवरीयः सामोपास्ते ।
इति तु पञ्चविधस्य ॥ २,७.२ ॥
__________
भाष्य २,७.२ एतद्दृष्ट्या विशिष्टं यः परोवरीयः सामोपास्ते परोवरीयो हास्य जीवनं भवतीत्युक्तार्थम् ।
इति तु पञ्चविधस्य साम्न उपासनमुक्तमिति सप्तविधे वक्ष्यमाणविषये बुद्धिसमाधानार्थम् ।
निरपेक्षो हि पञ्चविधे, वक्ष्यमाणे बुद्धिं समाधित्सति ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य सप्तमः खण्डः
=======================================================================
२,८.१
अथ सप्तविधस्य ।
वाचि सप्तविध्.अं सामोपासीत ।
यत्किंच वाचो हुमिति स हिङ्कारः ।
यत्प्रेति स प्रस्तावः ।
यदेति स आदिः ॥ २,८.१ ॥
__________
भाष्य २,८.१ अथानन्तरं सप्तविधस्य समस्तस्य साम्न उपासनं साध्विदमारभ्यते ।
वाचीति सप्तमी पूर्ववत् ।
वाग्दृष्टिविशिष्टं सप्तविधं सामोपासीतेत्यर्थः ।
यत्किञ्च वाचः शब्दस्य हुमिति यो विशेषः स हिङ्कारो हकारसामान्यात् ।
यत्प्रेति शब्दरूपं स प्रस्तावः प्रसामान्यात् ।
यता, इति स आदिः ।
आकारसामान्यात् ।
आदिरित्योङ्कारः ।
सर्वादित्वात् ॥१ ॥
_______________________________________________________________________
२,८.२
यदुदिति स उद्गीथः ।
यत्प्रतीति स प्रतिहारः ।
यदुपेति स उपद्रवः ।
यन्नीति तन्निधनम् ॥ २,८.२ ॥
__________
भाष्य २,८.२ यदुदिति स उद्गीथः ।
फत्पूर्वत्वादुद्गीथस्य ।
यत्प्रतीति स प्रतिहारः ।
प्रतिसामान्यात् ।
यदुपेति स उपद्रव उपोपक्रमत्वादुपद्रवस्य ।
यन्नीति तन्निधनम् ।
निशब्दसामान्यात् ॥२ ॥
_______________________________________________________________________
२,८.३
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहः ।
अन्नवानन्नादो भवति ।
य एतदेवं विद्वान् वाचि सप्तविधं सामोपास्ते ॥ २,८.३ ॥
__________
भाष्य २,८.३ दुग्धेऽस्मा इत्याद्युक्तार्थम् ॥३॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्याष्टमः खण्डः
=======================================================================
२,९.१
अथ खल्वमुमादित्यं सप्तविधं सामोपासीत ।
सर्वदा समस्तेन साम ।
मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ २,९.१ ॥
__________
भाष्य २,९.१ अवयवमात्रे साम्न्यादित्यदृष्टिः पञ्चविधेषूक्ता प्रथमे चाध्याये ।
अथेदानीं खल्वमुमादित्यं समस्ते साम्न्यवयवविभागशोऽध्यस्य सप्तविधं सामोपासीत ।
कथं पुनः सामत्वमादित्यस्येति ।
उच्यते ।
उद्गीथत्वे हेतुवदादित्यस्य सामत्वे हेतुः ।
कोऽसौ, सर्वदा समो वृद्धिक्षयाभावात्तेन हेतुना सामाऽदित्यो मां प्रति मां प्रतीति तुल्यां बुद्धिमुत्पादयति ।
अतः सर्वेण समोऽतः साम समत्वादित्यर्थः ।
उद्गीथभक्तिसामान्यवचनादेव लोकादिषूक्तसामान्याद्धिङ्कारादित्वं गम्यत इति हिङ्कारादित्वे कारणं नोक्तम् ।
सामत्वे पुनः सवितुरनुक्तं कारणं न सुबोधमिति समत्वमुक्तम् ॥१ ॥
_______________________________________________________________________
२,९.२
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात् ।
तस्य यत्पुरोदयात्स हिङ्कारः ।
तदस्य पशवोऽन्वायत्ताः ।
तस्मात्ते हिङ्कुर्वन्ति ।
हिङ्कारभाजिनो ह्येतस्य साम्नः ॥ २,९.२ ॥
__________
भाष्य २,९.२ तस्मिन्नादित्येऽवयवविभागश इमानि वक्ष्यमाणानि सर्वामि भूतान्यन्वायत्तान्यनुगतान्यादित्यमुपजीव्यत्वेनेति विद्यात् ।
कथं, तस्याऽदित्यस्य यत्पुरोदयाद्धर्मरूपं स हिङ्कारो भक्तिस्तत्रेदं सामान्यं यत्तस्य हिङ्कारभक्तिरूपं तदस्याऽदित्यस्य साम्नः पशवो गवादयोऽन्वायत्ता अनुगतास्तद्भक्तिरूपमुपजीवन्तीत्यर्थः ।
यस्मादेवं तस्मात्ते हिङ्कुर्वन्ति पशवः प्रागुदयात् ।
तस्माद्धिङ्कारभाजिनो ह्येतस्याऽदित्याख्यस्य साम्नः तद्भक्तिभजनशीलत्वाद्धि त एवं वर्तन्ते ॥२ ॥
_______________________________________________________________________
२,९.३
अथ यत्प्रथमोदिते स प्रस्तावः ।
तदस्य मनुष्या अन्वायत्ताः ।
तस्मात्ते प्रस्तुतिकामाः प्रशंसाकामाः ।
प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ २,९.३ ॥
__________
भाष्य २,९.३ अथ यत्प्रथमोदिते सवितृरूपं तदस्याऽदित्याख्यास्य साम्नः स प्रस्तावस्तदस्य मनुष्या अन्वायत्ताः पूर्ववत् ।
तस्मात्ते प्रस्तुतिं प्रशंसां कामयन्ते ।
यस्मात्प्रस्तावभाजिनो ह्येतस्य साम्नः ॥३ ॥
_______________________________________________________________________
२,९.४
अथ यत्संगववेलायां स आदिः ।
तदस्य वयांस्यन्वायत्तानि ।
तस्मात्तान्यन्तरिक्षेऽनारम्भणान्यादायात्मानं परिपतन्ति ।
आदिभाजीनि ह्येतस्य साम्नः ॥ २,९.४ ॥
__________
भाष्य २,९.४ अथ यत्सङ्गववेलायां गवां रश्मीनां सङ्गमनं सङ्गमो यस्यां वेलायां, गवां वा वत्सैः सा सङ्गववेला तस्मिन्काले यत्सावित्रं रूपं स आदिर्भक्तिविशेष ओङ्कारस्तदस्य वयांसि पक्षिणोऽन्वायत्तानि ।
यत एवं तस्मात्तानि वयांस्तन्तरिक्षेऽनारम्बणान्यनालम्बनान्यात्मानमादायाऽत्मानमेवाऽलम्बनत्वेन गृहीत्वा परिपतन्ति गच्छन्त्यत आकारसामान्यादादिभक्तिभाजीनि ह्येतस्य साम्नः ॥४ ॥
_______________________________________________________________________
२,९.५
अथ यत्संप्रति मध्यंदिने स उद्गीथः ।
तदस्य देवा अन्वायत्ताः ।
तस्मात्ते सत्तमाः प्राजापत्यानाम् ।
उद्गीथभाजिनो ह्येतस्य साम्नः ॥ २,९.५ ॥
__________
भाष्य २,९.५ अथ यत्सम्प्रति मध्यन्दिन ऋजुमध्यन्दिन इत्यर्थः ।
स उद्गीथभक्तिस्तदस्य देवा अन्वायत्ताः ।
द्योतनातिशयात्तत्काले ।
तस्मात्ते सत्तमा विशिष्टतमाः ।
प्राजापत्यानां प्रजापत्यपत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥५ ॥
_______________________________________________________________________
२,९.६
अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स प्रतिहारः ।
तदस्य गर्भा अन्वायत्ताः ।
तस्मात्ते प्रतिहृता नावपद्यन्ते ।
प्रतिहारभाजिनो ह्येतस्य साम्नः ॥ २,९.६ ॥
__________
भाष्य २,९.६ अथ यदूर्ध्वं मध्यन्दिनात्प्रागपराह्नाद्यद्रूपं सवितुः स प्रतिहारस्तदस्य गर्भा अन्वायत्ताः ।
अतस्ते सवितुः प्रतिहारभक्तिरूपेणोर्ध्वं प्रतिहृताः सन्तो नावपद्यन्ते नाधः पतन्ति तद्द्वारे सत्यपीत्यर्थः ।
यतः प्रतिहारभाजिनो ह्येतस्य साम्नो गर्भाः ॥६ ॥
_______________________________________________________________________
२,९.७
अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स उपद्रवः ।
तदस्यारण्या अन्वायत्ताः ।
तस्मात्ते पुरुषं दृष्ट्वा कक्षं श्वभ्रमित्युपद्रवन्ति ।
उपद्रवभाजिनो ह्येतस्य साम्नः ॥ २,९.७ ॥
__________
भाष्य २,९.७ अथ यदूर्ध्वमपराह्नात्प्रागस्तमयात्स उपद्रवस्तदस्याऽरण्याः पश्वोऽन्वायत्ताः ।
तस्मात्ते पुरुषं दृष्ट्वा भीताः कक्षमरण्यं श्वभ्रं भयशून्यमित्युपद्रवन्त्युपगच्छन्ति दृष्ट्वोपद्रवणादुपद्रवभाजिनो ह्येतस्य साम्नः ॥७ ॥
_______________________________________________________________________
२,९.८
अथ यत्प्रथमास्तमिते तन्निधनम् ।
तदस्य पितरोऽन्वायत्ताः ।
तस्मात्तान्निदधति ।
निधनभाजिनो ह्येतस्य साम्नः ।
एवं खल्वमुमादित्यं सप्तविधं सामोपास्ते ॥ २,९.८ ॥
__________
भाष्य २,९.८ अथ यत्प्रथमास्तमितेऽदर्शनं जिगमिषति सवितरि तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात्तान्निदधति पितृपितामहप्रपितामहरूपेण दर्भेषु निक्षिपन्ति तांस्तदर्थं पिण्डान्वा स्थापयन्ति ।
निधनसम्बन्धान्निधनभाजिनो ह्येतस्य साम्नः पितरः ।
एवमवयवशः सप्तधा विभक्तं खल्वमुमादित्यं सप्तविधं सामोपास्ते यस्तस्य तदापत्तिः फलमिति वाक्यशेषः ॥८॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य नवमः खण्डः
=======================================================================
२,१०.१
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधं सामोपासीत ।
हिङ्कार इति त्र्यक्षरम् ।
प्रस्ताव इति त्र्यक्षरम् ।
तत्समम् ॥ २,१०.१ ॥
__________
भाष्य २,१०.१ मृत्युरादित्यः अहोरात्रादिकालेन जगतः प्रमापयितृत्वात् ।
तस्यातितरणायेदं सामोपासनमुपदिश्यतेअथ खल्वनन्तरम् ।
आदित्यमृत्युविषयसामोपासनस्य, आत्मसंमितं स्वावयवतुल्यतया मितं परमात्मतुल्यतया वा संमितमतिमृत्यु मृत्युजयहेतुत्वात् ।
यथा प्रथमेऽध्याय उद्गीथभक्तिनामाक्षराण्युद्गीथ इत्युपास्यत्वेनोक्तानि, तथेह साम्नः सप्तविधभक्तिनामाक्षराणि समाहृत्य त्रिभिस्रिभिः समतया सामत्वं परिकल्प्योपास्यत्वेनोच्यन्ते ।
तदुपासनेन मृत्युगोचराक्षरसमख्यासामान्येन तं मृत्युं प्राप्य तदतिरिक्ताक्षरेण तस्याऽदित्यस्य मृत्योरतिक्रमणायैव संक्रममं कल्पयति ।
अतिमृत्यु सप्तविधं सामोपासीत मृत्युमतिक्रान्तमतिरिक्ताक्षरसंख्ययेत्यमृत्यु साम ।
तस्य प्रथमभक्तिनामाक्षराणि बिङ्कार इत्येतत्त्र्यक्षरं भक्तिमान प्रस्ताव इति च भक्तेस्त्र्यक्षरमेव मान तत्पूर्वेण समम् ॥१ ॥
_______________________________________________________________________
२,१०.२
आदिरिति द्व्यक्षरम् ।
प्रतिहार इति चतुरक्षरम् ।
तत इहैकम् ।
तत्समम् ॥ २,१०.२ ॥
__________
भाष्य २,१०.२ आदिरिति द्व्यक्षरं, सप्तविधस्य साम्नः संख्यापूरण ओङ्कार आदिरित्युच्यते ।
प्रतिहार इति चतुरक्षरम् ।
तत इहैकमक्षरमवच्छिद्याऽद्यक्षरयोः प्रक्षिप्यते ।
तेन तत्सममेव भवति ॥२ ॥
_______________________________________________________________________
२,१०.३
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवति ।
अक्षरमतिशिष्यते त्र्यक्षरम् ।
तत्समम् ॥ २,१०.३ ॥
__________
भाष्य २,१०.३ उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्रिभिः समं भवत्यक्षरमतिशिष्.यतेऽतिरिच्यते ।
तेन वैषम्ये प्राप्ते साम्नः समत्वकरणायाऽहतदेकमपि सदक्षरमिति त्र्यक्षरमेव भवति ।
अतस्तत्समम् ॥३ ॥
_______________________________________________________________________
२,१०.४
निधनमिति त्र्यक्षरम् ।
तत्सममेव भवति ।
तानि ह वा एतानि द्वाविंशतिरक्षराणि ॥ २,१०.४ ॥
__________
भाष्य २,१०.४ निधनमिति त्र्यक्षरं तत्सममेव भवति ।
एवं त्र्यक्षरसमतया सामत्वं सम्पाद्य यथाप्राप्तान्येवाक्षराणि संख्यायन्ते तानि ह वा एतानि सप्तभक्तिनामाक्षराणि द्वाविंशतिः ॥४ ॥
_______________________________________________________________________
२,१०.५
एकविंशत्यादित्यमाप्नोति ।
एकविंशो वा इतोऽसावादित्यः ।
द्वाविंशेन परमादित्याज्जयति ।
तन्नाकम् ।
तद्विशोकम् ॥ २,१०.५ ॥
__________
भाष्य २,१०.५ तत्रैकविंशत्यक्षरसंख्ययाऽदित्यमाप्नोति मृत्युम् ।
यस्मादेकविंश इतोऽस्माल्लोकादसावादित्यः संख्यया ।
"द्वादश मासाः पञ्चर्तवस्रय इमे लोका असावादित्य एकविंश"इति श्रुतेरतिशिष्टेन द्वाविंशेनाक्षरेण परं मृत्योरादित्याज्जयत्याप्नोतीत्यर्थः ।
यच्च तदादित्यात्परं किं तत्?नाकं कमिति सुखं तस्य प्रतिषेधोऽकं तन्न भवतीति नाकं कमेवेत्यर्थः ।
मृत्युविषयत्वाद्दुःखस्य विशोकं च तद्विगतशोकं मानसदुःखरहितमित्यर्थः ।
तदाप्नोतीति ॥५ ॥
_______________________________________________________________________
२,१०.६
आप्नोतीहादित्यस्य जयम् ।
परो हास्यादित्यजयाज्जयो भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु सप्तविधं सामोपास्ते सामोपास्ते ॥ २,१०.६ ॥
__________
भाष्य २,१०.६ उक्तस्यैव पिण्डितार्थमाहएकविंशतिसंख्ययाऽदित्यस्य जयमाप्नोति परो हास्यैवंविद आदित्यजयान्मृत्युगोचरात्परो जयो भवति द्वाविंशत्यक्षरसंख्ययेत्यर्थः ।
य एतदेवं द्वानितिक्याद्युक्तार्थम् ।
तस्यैतद्यथोक्तं फलमिति द्विरभ्यासः साप्तविध्यसमाप्त्यर्थः ॥६॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य दशमः खण्डः
=======================================================================
२,११.१
मनो हिङ्कारः ।
वाक्प्रस्तावः ।
चक्षुरुद्गीथः ।
श्रोत्रं प्रतिहारः ।
प्राणो निधनम् ।
एतद्गायत्रं प्राणेषु प्रोतम् ॥ २,११.१ ॥
__________
भाष्य २,११.१ विना नामग्रहणं पञ्चविधस्य सप्तविधस्य च साम्न उपासनमुक्तम् ।
अथेदानीं गायत्रादिनामग्रहणपूर्वकं विशिष्टफलानि सामोपासनान्तराण्युच्यन्ते यथाक्रमं गायत्रादीनां कर्मणि प्रयोगस्तथैव ।
मनो हिङ्कारो मनसः सर्वकरणप्रवृत्तीनां प्राथम्यात् ।
तदानन्तर्याद्वाक्प्रस्तावश्चक्षुरुद्गीथः श्रैष्ठ्यात् ।
श्रोत्रं प्रतिहारः प्रतिहृतत्वात् ।
प्राणो निधनं यथोक्तानां प्राणे निधनात्स्वापकाले ।
एतद्गायत्रं साम प्राणेषु प्रोतम् ।
गायत्र्याः प्राणसंस्तुतत्वात् ॥१ ॥
_______________________________________________________________________
२,११.२
स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद ।
प्राणी भवति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
महामनाः स्यात् ।
तद्व्रतम् ॥ २,११.२ ॥
__________
भाष्य २,११.२ स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति ।
अविकलकरणो भवतीत्येतत् ।
सर्वमायुरेति ।
शतं वर्षणि सर्वमायुः पुरुषस्येति श्रुतेः ।
ज्योगुज्ज्वलं जीवति ।
महान्भवति प्रजादिभिर्महांश्च कीर्त्या ।
गायत्रोपासकस्यैतद्व्रतं भवति यन्महामनास्त्वक्षुद्रचित्तः स्यादित्यर्थः ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्यैकादशः खण्डः
=======================================================================
२,१२.१
अभिमन्थति स हिङ्कारः ।
धूमो जायते स प्रस्तावः ।
ज्वलति स उद्गीथः ।
अङ्गारा भवन्ति स प्रतिहारः ।
उपशाम्यति तन्निधनम् ।
संशाम्यति तन्निधनम् ।
एतद्रथंतरमग्नौ प्रोतम् ॥ २,१२.१ ॥
__________
भाष्य २,१२.१ अभिमन्थति स हिङ्कारः प्राथम्यात् ।
अग्नेर्धूमो जायते स प्रस्ताव आनन्तर्यात् ।
ज्वलति स उद्गीथो हविः सम्बन्धाच्छ्रैष्ठ्यं ज्वलनस्य ।
अङ्गारा भवन्ति स प्रतिहारोऽङ्गाराणां प्रतिहृतत्वात् ।
उपशमः सावशेषत्वादग्नेः ।
संशमो निःशेषोपशमः समाप्तिसामान्यान्निधनमेतद्रथन्तर मग्नौ प्रोतम् ।
मन्थने ह्यग्नेर्गीयते ॥१ ॥
_______________________________________________________________________
२,१२.२
स य एवमेतद्रथंतरमग्नौ प्रोतं वेद ।
ब्रह्मवर्चस्यन्नादो भवति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
न प्रत्यङ्ङग्निमाचामेन्न निष्ठीवेत् ।
तद्व्रतम् ॥ २,१२.२ ॥
__________
भाष्य २,१२.२ स य इत्यादि पूर्ववत् ।
ब्रह्मवर्चसी वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्तसम् ।
तेजस्तु केवलं त्विड्भावः ।
अन्नादो दीप्ताग्निः ।
न प्रत्यङ्ङग्नेरभिमुखो नाऽचामेन्न भक्षयेत्किञ्चिन्न निष्ठीवेच्छ्लेष्मनिरसनं च न कुर्यात्तद्व्रतम् ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य द्वादशः खण्डः
=======================================================================
२,१३.१
उपमन्त्रयते स हिङ्कारः ।
ज्ञपयते स प्रस्तावः ।
स्त्रिया सह शेते स उद्गीथः ।
प्रति स्त्रीं सह शेते स प्रतिहारः ।
कालं गच्छति तन्निधनम् ।
पारं गच्छति तन्निधनम् ।
एतद्वामदेव्यं मिथुने प्रोतम् ॥ २,१३.१ ॥
__________
भाष्य २,१३.१ उपमन्त्रयते सङ्केतं करोति प्राथम्यात्स हिङ्कारः ।
ज्ञपयते तोषयति स प्रस्तावः ।
सहशयनमेकपर्यङ्कगमनं स उद्गीथः श्रैष्ठ्यात् ।
प्रति स्रीं शयनं स्रिया अभिमुखीभावः स प्रतिहारः ।
कालं गच्छति मैथुनेन पारं समाप्तिं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ।
वाय्वम्बुमिथुनसम्बन्धात् ॥१ ॥
_______________________________________________________________________
२,१३.२
स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद ।
मिथुनी भवति ।
मिथुनान्मिथुनात्प्रजायते ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
न कांचन परिहरेत् ।
तद्व्रतम् ॥ २,१३.२ ॥
__________
भाष्य २,१३.२ स य इत्यादि पूर्ववत् ।
मिथुनी भवत्यविधुरो भवतीत्यर्थः ।
मिथुनान्मिथुनात्प्रजायत इत्यमोघरेतस्त्वमुच्यते ।
न काञ्चन काञ्चिदपि स्रियं स्वात्मतल्पप्राप्तां न परिहरेत्समागमार्थिनीम् ।
वामदेव्यसामोपासनाङ्गत्वेन विधानातेतस्मादन्यत्र प्रतिषेधस्मृतयः वचनप्रामाण्याच्च धर्मावगतेर्न प्रतिषेधशास्रेणास्य विरोधः ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य त्र्योदशः खण्डः
=======================================================================
२,१४.१
उद्यन् हिङ्कारः ।
उदितः प्रस्तावः ।
मध्यंदिन उद्गीथः ।
अपराह्णः प्रतिहारः ।
अस्तं यन्निधनम् ।
एतद्बृहदादित्ये प्रोतम् ॥ २,१४.१ ॥
__________
भाष्य २,१४.१ उद्यन्सविता स हिङ्कारः प्राथम्याद्दर्शनस्य ।
उदितः प्रस्तावः प्रस्तवनहेतुत्वात्कर्मणाम् ।
मध्यन्दिन उद्गीथः श्रैष्ठ्यात् ।
अपराह्नः प्रतिहारः पश्वादीनां गृहान्प्रति हरणात् ।
यदस्तं यंस्तन्निधनं रात्रौ गृहे निधानात्प्राणिनाम् ।
एतद्बृहदादित्ये प्रोतं बृहत आदित्यदैवत्यत्वात् ॥१ ॥
_______________________________________________________________________
२,१४.२
स य एवमेतद्बृहदादित्ये प्रोतं वेद ।
तेजस्व्यन्नादो भवति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
तपन्तं न निन्देत् ।
तद्व्रतम् ॥ २,१४.२ ॥
__________
भाष्य २,१४.२ स य इत्यादि पूर्ववत् ।
तपन्तं न निन्देत्तद्व्रतम् ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य चतुर्दशः खण्डः
=======================================================================
२,१५.१
अभ्राणि संप्लवन्ते स हिङ्कारः ।
मेघो जायते स प्रस्तावः ।
वर्षति स उद्गीथः ।
विद्योतते स्तनयति स प्रतिहारः ।
उद्गृह्णाति तन्निधनम् ।
एतद्वैरूपं पर्जन्ये प्रोतम् ॥ २,१५.१ ॥
__________
भाष्य २,१५.१ अभ्राण्यब्भरणात्, मेघ उदकसेक्तृत्वात् ।
उक्तार्थमन्यत् ।
एतद्वैरूपं नाम साम पर्जन्ये प्रोतम् ।
अनेतरूपत्वातभ्रादिभिः पर्जन्यस्य वैरूप्यम् ॥१ ॥
_______________________________________________________________________
२,१५.२
स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद ।
विरूपांश्च सुरूपंश्च पशूनवरुन्धे ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
वर्षन्तं न निन्देत् ।
तद्व्रतम् ॥ २,१५.२ ॥
__________
भाष्य २,१५.२ विरूपांश्च सुरूपांश्चाजाविप्रभृतीन्पशूनवरुन्धे प्राप्नोतीत्यर्थः ।
वर्षन्तं न निन्देत्तद्व्रतम् ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य पञ्चदशः खण्डः
=======================================================================
२,१६.१
वसन्तो हिङ्कारः ।
ग्रीष्मः प्रस्तावः ।
वर्षा उद्गीथः ।
शरत्प्रतिहारः ।
हेमन्तो निधनम् ।
एतद्वैराजमृतुषु प्रोतम् ॥ २,१६.१ ॥
__________
भाष्य २,१६.१ वसन्तो हिंङ्कारः प्राथम्यात् ।
ग्रीष्मः प्रस्ताव इत्यादि पूर्ववत् ॥१ ॥
_______________________________________________________________________
२,१६.२
स य एवमेतद्वैराजमृतुषु प्रोतं वेद ।
विराजति प्रजया ।
पशुभिर्ब्रह्मवर्चसेन ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
ऋतून्न निन्देत् ।
तद्व्रतम् ॥ २,१६.२ ॥
__________
भाष्य २,१६.२ एतद्वैराजमृतुषु प्रोतं वेद विराजति ऋतुवद्यथर्तव आर्तवैर्धर्मैर्विराजन्त एवं प्रजादिभिर्विद्वानित्युक्तमन्यत् ।
ऋतीन्न निन्देत्तद्व्रतम् ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य षोडशः खण्डः
=======================================================================
२,१७.१
पृथिवी हिङ्कारः ।
अन्तरिक्षं प्रस्तावः ।
द्यौरुद्गीथः ।
दिशः प्रतिहारः ।
समुद्रो निधनम् ।
एताः शक्वर्यो लोकेषु प्रोताः ॥ २,१७.१ ॥
__________
भाष्य २,१७.१ पृथिवी हिङ्कार इत्यादि पूर्ववत् ।
शक्वर्य इति नित्यं बहुवचनं रेवत्य इव ।
लोकेषु प्रोताः ॥१ ॥
_______________________________________________________________________
२,१७.२
स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद ।
लोकी भवति सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
लोकान्न निन्देत् ।
तद्व्रतम् ॥ २,१७.२ ॥
__________
भाष्य २,१७.२ लोकी भवति लोकफलेन युज्यत इत्यर्तः ।
लोकान्न निन्देत्तद्व्रतम् ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य सप्तदशः खण्डः
=======================================================================
२,१८.१
अजा हिङ्कारः ।
अवयः प्रस्तावः ।
गाव उद्गीथः ।
अश्वाः प्रतिहारः ।
पुरुषो निधनम् ।
एता रेवत्यः पशुषु प्रोताः ॥ २,१८.१ ॥
__________
भाष्य २,१८.१ अजा हिङ्कार इत्यादि पूर्ववत् ।
पशुषु प्रोताः ॥१ ॥
_______________________________________________________________________
२,१८.२
स य एवमेता रेवत्यः पशुषु प्रोता वेद ।
पशुमान् भवति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
पशून्न निन्देत् ।
तद्व्रतम् ॥ २,१८.२ ॥
__________
भाष्य २,१८.२ पशून्न निन्देत्तद्व्रतम् ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्यस्याष्टादशः खण्डः
=======================================================================
२,१९.१
लोम हिङ्कारः ।
त्वक्प्रस्तावः ।
मांसमुद्गीथः ।
अस्थि प्रतिहारः ।
मज्जा निधनम् ।
एतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् ॥ २,१९.१ ॥
__________
भाष्य २,१९.१ लोम हिङ्कारो देहावयवानां प्राथम्यात् ।
त्वक्प्रस्ताव आनन्तर्यात् ।
मांसमुद्गीथः श्रैष्ठ्यात् ।
अस्थि प्रतिहारः प्रतिहृतत्वात् ।
मज्जा निधनमान्त्यात् ।
एतद्यज्ञायज्ञीयं नाम साम देहावयववेषु प्रोतम् ॥१ ॥
_______________________________________________________________________
२,१९.२
स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेद ।
अङ्गी भवति ।
नाङ्गेन विहूर्छति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
संवत्सरं मज्ज्ञो नाश्नीयात् ।
तद्व्रतम् ।
मज्ज्ञो नाश्नीयादिति वा ॥ २,१९.२ ॥
__________
भाष्य २,१९.२ अङ्गी भवति समग्राङ्गो भवतीत्यर्थः ।
नाङ्गेन हस्तपादादिना विहूर्छति न कुटिली भवति पङ्गुः कुणी वेत्यर्थः ।
संवत्सरं संवत्सरमात्रं मज्ज्ञो मांसानि नाश्नीयान्न भक्षयेत् ।
बहुवचनं मत्स्योपलक्षणार्थम् ।
मज्ज्ञो नाश्नीयात्सर्वदैव नाश्नीयादिति वा तद्व्रतम् ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्यैकोनविंशः खण्डः
=======================================================================
२,२०.१
अग्निर्हिङ्कारः ।
वायुः प्रस्तावः ।
आदित्य उद्गीथः ।
नक्षत्राणि प्रतिहारः ।
चन्द्रमा निधनम् ।
एतद्राजनं देवतासु प्रोतम् ॥ २,२०.१ ॥
__________
भाष्य २,२०.१ अग्निर्हिङ्कारः प्रथमस्थानत्वात् ।
वायुः प्रस्ताव आनन्तर्यसामान्यात् ।
आदित्य उद्गीथः श्रैष्ठ्यात् ।
नक्षत्राणि प्रतिहारः प्रतिहृतत्वात् ।
चन्द्रमा निधनं कर्मिणां तन्निधनात् ।
एतद्राजनं देवतासु प्रोतं देवतानां दीप्तिमत्त्वात् ॥१ ॥
_______________________________________________________________________
२,२०.२
स य एवमेतद्राजनं देवतासु प्रोतं वेद ।
एतासामेव देवतानां सलोकतां सर्ष्टितां सायुज्यं गच्छति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
ब्राह्मणान्न निन्देत् ।
तद्व्रतम् ॥ २,२०.२ ॥
__________
भाष्य २,२०.२ विद्वत्फलमेतासामेवाग्न्यादीनां देवतानां सलोकतां समानलोकतां सार्ष्टितां समानर्द्धित्वं सायुज्यं समुग्भावमेकदेहदेहित्वमित्येतत् ।
वाशब्दोऽत्र लुप्तो द्रष्टव्यः सलोकतां वेत्यादि ।
भावनाविशेषतः फलविशेषोपपत्तेः ।
गच्छति प्राप्नोति ।
समुच्चयानुपपत्तेश्च ।
ब्राह्मणान्न निन्देत्तद्व्रतम् ।
"एते वै देवाः प्रत्यक्षं यद्ब्राह्मणा"इति श्रुतेर्ब्राह्मणनिन्दा देवतानिन्दैवेति ॥२॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य विंशः खण्डः
=======================================================================
२,२१.१
त्रयी विद्या हिङ्कारः ।
त्रय इमे लोकाः स प्रस्तावः ।
अग्निर्वायुरादित्यः स उद्गीथः ।
नक्षत्राणि वयांसि मरीचयः स प्रतिहारः ।
सर्पा गन्धर्वाः पितरस्तन्निधनम् ।
एतत्साम सर्वस्मिन् प्रोतम् ॥ २,२१.१ ॥
__________
भाष्य २,२१.१ त्रयी विद्या हिङ्कारः ।
अग्न्यादिसाम्न आनन्तर्यं त्रयीविद्याया अग्न्यादिकार्यत्वश्रुतेः ।
हिङ्कारः प्राथम्यात्सर्वकर्तव्यानाम् ।
त्रय इमे लोकास्तत्कार्यत्वादनन्तरा इति प्रस्तावः ।
अग्न्यादीनामुद्गीथत्वं श्रैष्ठ्यात् ।
नक्षत्रादीनां प्रतिहृतत्वात्प्रतिहारत्वम् ।
सर्पादीनां धकारसामान्यान्निधनत्वमेतत्साम नामविश्षाभावात्सामसमुदायः सामशब्दः सर्वस्मिन्प्रोतम् ।
त्रयीविद्यादिदृष्ट्या हिङ्कारादिसामभक्तय उपास्याः ।
अतीतेष्वपि सामोपासनेषु येषु येषु प्रोतं यद्यत्साम तद्दृष्ट्या तदुपास्यमिति ।
कर्माङ्गनां दृष्टिविशेषेणाज्यस्येव संस्कार्यत्वात् ॥१ ॥
_______________________________________________________________________
२,२१.२
स य एवमेतत्साम सर्वस्मिन् प्रोतं वेद सर्वं ह भवति ॥ २,२१.२ ॥
__________
भाष्य २,२१.२ सर्वविषयसामविदः फलंसर्वं ह भवति सर्वेश्वरो भवतीत्यर्थः ।
निरुपचरितसर्वभावे हि दिक्स्थेभ्यो बलिप्राप्त्यनुपपत्तिः ॥२ ॥
_______________________________________________________________________
२,२१.३
तदेष श्लोकः ।
यानि पञ्चधा त्रीणि त्रीणि ।
तेभ्यो न ज्यायः परमन्यदस्ति ॥ २,२१.३ ॥
__________
भाष्य २,२१.३ तदेतस्मिन्नर्थ एष श्लोको मन्त्रोऽप्यस्ति ।
यानि पञ्चधा पञ्चप्रकारेण हिङ्कारादिविभागैः प्रोक्तानि त्रीणि त्रीणि त्रयीविद्यादीनि तेभ्यः पञ्चत्रिकेभ्यो ज्यायो महत्तरं परं च व्यतिरिक्तमन्यद्वस्त्वन्तरं नास्ति न विद्यत इत्यर्थः ।
तत्रैव हि सर्वस्यान्तभविः ॥३ ॥
_______________________________________________________________________
२,२१.४
यस्तद्वेद स वेद सर्वम् ।
सर्वा दिशो बलिमस्मै हरन्ति ।
सर्वमस्मीत्युपासित ।
तद्व्रतं तद्व्रतम् ॥ २,२१.४ ॥
__________
भाष्य २,२१.४ यस्तद्यथोक्तं सर्वात्मकं साम वेद स वेद सर्वं॑स सर्वज्ञो भवतीत्यर्थः ।
सर्वा दिशः सर्वदिक्स्था अस्मा एवंविदे बलिं भोगं हरन्ति प्रापयन्तीत्यर्थः ।
सर्वमस्मि भवामीत्येवमेतत्सामोपासीत तस्यैतदेव व्रतम् ।
द्बिरुक्तिः सामोपासनसमाप्त्यर्प्था ॥४॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्यैकविंशः खण्डः
=======================================================================
२,२२.१
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथः ।
अनिरुक्तः प्रजापतेः ।
निरुक्तः सोमस्य ।
मृदु श्लक्ष्णं वायोः ।
श्लक्ष्णं बलवदिन्द्रस्य ।
क्रौञ्चं बृहस्पतेः ।
अपध्वान्तं वरुणस्य ।
तान् सर्वानेवोपसेवेत ।
वारुणं त्वेव वर्जयेत् ॥ २,२२.१ ॥
__________
भाष्य २,२२.१ सामोपासनप्रसङ्गेन गानविशेषादिसम्पदुद्गातुरुपदिश्यते ।
फलविशेषसम्बन्धात्ष विनर्दि विशिष्टो नर्दः स्वरविशेष ऋषभकूजितसमोऽस्यास्तीति विनर्दि गानमिति वाक्यशेषः ।
तच्च साम्नः सम्बन्धि पशुभ्यो हितं पशव्यमग्नेरग्निदेवत्यं चोद्गीथ उद्गानम् ।
तदहमेवंविशिष्टं वृणे प्रर्थय इति कश्चिद्यजमान उद्गाता वा मन्यते ।
अनिरुक्तोऽमुकसम इत्यविशेषितः प्रजापतेः प्रजापतिदेवत्यः स न गानविशेषः ।
आनिरुक्त्यात्प्रजापतेर्निरुक्तः स्पष्टः सोमस्य, सोमदेवत्यः स उद्गीथ इत्यर्थः ।
मृदु श्लक्षणं च गानं वायोर्वायुदेवत्यं तत् ।
श्लक्ष्णं बलवच्च प्रयत्नाधिक्योपेतं चेन्द्रस्यैन्द्रं तद्गानम् ।
क्रौञ्चं क्रौञ्चपक्षिनिनादसमं बृहस्पतेर्बार्हस्पत्यं तत् ।
अपध्वान्तं भिन्नकांस्यस्वरसमं वरुणस्यैतद्गानम् ।
तान्सर्वानेवोपसेवेत प्रयुञ्जीत वारुणं त्वेवैकं वर्जयेत् ॥१ ॥
_______________________________________________________________________
२,२२.२
अमृतत्वं देवेभ्य आगायानीत्यागायेत् ।
स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २,२२.२ ॥
__________
भाष्य २,२२.२ अमृतत्वं देवेभ्य आगायानि साधयानि ।
स्वधां पितृभ्य आगायान्याशां मनुष्येभ्य आशां प्रार्थनां प्रार्थितमित्येतत् ।
तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मने मह्यमागायानीत्येतानि मनसा चिन्तयन्ध्यायन्नप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः स्तुवीत ॥२ ॥
_______________________________________________________________________
२,२२.३
सर्वे स्वरा इन्द्रस्यात्मानः ।
सर्व ऊष्माणः प्रजापतेरात्मानः ।
सर्वे स्पर्शा मृत्योरात्मानः ।
तं यदि स्वरेषूपालभेत ।
इन्द्रं शरणं प्रपन्नोऽभूवं स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ २,२२.३ ॥
__________
भाष्य २,२२.३ सर्वे स्वरा अकारादय इन्द्रस्य बलकर्मणः प्राणस्याऽत्मानो देहावयवस्थानीयाः सर्व ऊष्माणः शषसहादयः प्रजापतेर्विराजः कश्यपस्य वाऽत्मानः ।
सर्वे स्पर्शाः कादयो व्यञ्जनानि मृत्योरात्मानस्तमेवंविदमुद्गातारं यदि कश्चित्स्वरेषूपालभेत स्वरस्त्वया दुष्टः प्रयुक्त इत्येवमुपालब्ध इन्द्रं प्राणमीश्वरं शरणमाश्रयं प्रपन्नोऽभूवं स्वरान् प्रयुञ्जानोऽहं स इन्द्रो यत्तव वक्तव्यं त्वा त्वां प्रति वक्ष्यति स एव देव उत्तरं दास्यतीत्येनं ब्रूयात् ॥३ ॥
_______________________________________________________________________
२,२२.४
अथ यद्येनमूष्मासूपालभेत ।
प्रजापतिं शरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं ब्रूयात् ।
अथ यद्येनं स्पर्शेषूपालभेत ।
मृत्युं शरणं प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ २,२२.४ ॥
__________
भाष्य २,२२.४ अथ यद्येनमूष्मसु तथैवोपालभेत प्रजापतिं शरणं प्रपन्नोऽभूवं स त्वा प्रतिपेक्ष्यति सञ्चूर्णयिष्यतीत्येनं ब्रूयात् ।
अथ यद्येनं स्पर्शेषूपालभेत मृत्युं शरणं प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यति भस्मीकरिष्यतीत्येनं ब्रूयात् ॥४ ॥
_______________________________________________________________________
२,२२.५
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति ।
सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेरात्मानं परिददानीति ।
सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं परिहराणीति ॥ २,२२.५ ॥
__________
भाष्य २,२२.५ यत इन्द्राद्यात्मानः स्वरादयोऽतः सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्याः ।
तथाहमिन्द्रे बलं ददानि बलमादधानीति ।
तथा सर्व ऊष्माणोऽग्रस्ता अन्तरप्रवेशिता अनिरस्ता बहिरप्रक्षिप्ता विवृता[विवृत्ता] विवृतप्रयत्नोपेताः प्रजापतेरात्मानं परिददानि प्रयच्छानीति ।
सर्वे स्पर्शा लेशेन शनकैरनभिनिहिता अनभिनिक्षिप्ता वक्तव्या मृत्योरात्मानं बालानिव शनकैः परिहरन्मृत्योरात्मानं परिहराणीति ॥५॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य द्वाविंशः खण्डः
=======================================================================
२,२३.१
त्रयो धर्मस्कन्धाः ।
यज्ञोऽध्ययनं दानमिति प्रथमः ।
तप एव द्वितीयः ।
ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् ।
सर्व एते पुण्यलोका भवन्ति ।
ब्रह्मसंस्थोऽमृतत्वमेति ॥ २,२३.१ ॥
__________
भाष्य २,२३.१ ओङ्कारस्योपासनविध्यर्थं त्रयो धर्मस्कन्धा इत्याद्यारभ्यते ।
नैवं मनतव्यं सामावयवभूतस्यैवोद्गीथादिलक्षणस्योङ्कारस्योपासनात्फलं प्राप्यत इति ।
किं तर्हि?यत्सर्वैरपि सामोपासनैः कर्मभिश्चाप्राप्यं तत्फलममृतत्वं केवलादोङ्कारोपासनात्प्राप्यत इति ।
तत्स्तुत्यर्थं सामप्रकरणे तदुपन्यासः ।
त्रयस्रिसंख्याका धर्मस्य स्कन्धा धर्मस्कन्धाः धर्मविबागा इत्यर्थः ।
के त इत्याह यज्ञोऽग्निहोत्रादिः ।
अध्ययनं सनियमस्य ऋगादेरभ्यासः ।
दानं बहिर्वेदि यथाशक्तिद्रव्यसंविभागो भिक्षमाणेभ्यः ।
इत्येष प्रथमो धर्मस्कन्धः ।
गृहस्थसमवेतत्वात्तन्निर्वर्तकेन गृहस्थेन निर्दिश्यते प्रथम एक इत्यर्थो द्वितीयतृतीयश्रवणान्नाऽद्यार्थः ।
तप एव द्वितीयस्तप इति कृच्छ्रचान्द्रायणादि तद्वांस्तापसः परिव्राड्वा न ब्रह्मसंस्थ आश्रमधर्ममात्रसंस्थो॑ब्रह्मसंस्थस्य त्वमृतत्वश्रवणात् ।
द्वितीयो धर्मस्कन्धः ।
ब्रह्मचार्याचार्यकुले वस्तुं शीलमस्येत्याचार्यकुलवासी ।
अत्यन्तं यावज्जीवमात्मानं नियमैराचार्यकुलेऽवसादयन्क्षपयन्देहं तृतीयो धर्मस्कन्धः ।
अत्यन्तमित्यादिविशेषणान्नैष्ठिक इति गम्यते ।
उपकुर्वाणस्य स्वाध्यायग्रहणार्थत्वान्न पुण्यलोकत्वं ब्रह्मचर्येण ।
सर्व एते त्रयोऽप्याश्रमिणो यथोक्तैर्धर्मैः पुण्यलोका भवन्ति ।
पुण्यो लोको येषां त इमे पुण्यलोका आश्रमिणो भवन्ति ।
अवशिष्टस्त्वनुक्तः परिव्राड्ब्रह्मसंस्थो ब्रह्मणि सम्यक्स्थितः सोऽमृतत्वं पुण्यलोकविलक्षणममरणभावमात्यन्तिकमेति नाऽपेक्षिकं देवाद्यमृतत्ववत् ।
पुण्यलोकात्पृयगमृतत्वस्य विभागकरणात् ।
यदि च पुम्यलोकातिशयमात्रममृतत्वमभविष्यत्ततः पुण्यलोकत्वाद्विभक्तं नावक्ष्यत् ।
विभक्तेपदेशाच्चाऽत्यन्तिकममृतत्वमिति गम्यते ।
अत्र चाऽश्रमधर्मफलोपन्यासः प्रणवसेवास्तुत्यर्थं न तत्फलविध्यर्थम् ।
स्तुतये च प्रवमसेवाया आश्रमधर्मफलविधये चेति हि भिद्येत वाक्यम् ।
तस्मात्स्मृतिसिद्धाश्रमफलानुवादेन प्रणवसेवाफलममृतत्वं ब्रुवन्प्रणवसेवां स्तौति ।
यथा पूर्णवर्मणः सेवा भक्तपरिधानमात्रफला राजवर्मणस्तु सेवा राज्यतुल्यफलेति तद्वत् ।
प्रणवश्च तत्सत्यं परं ब्रह्म तत्प्रतीकत्वात् ।
"एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्" इत्याद्याम्नायात्काठके युक्तं तत्सेवातोऽमृतत्वम् ।
चतुर्णामधिकृतत्वाविशेषात् ।
ब्रह्मसंस्थत्वेऽप्रतिषेधाच्च ।
स्वकर्मच्छिद्रे च ब्रह्मसंस्थतायां सामर्ध्योपपत्तेः ।
न च यववराहादिशब्दवद्ब्रह्मसंस्थशब्दः परिव्राजके रूढः ।
ब्रह्मणि संस्थितिनिमित्तमुपादाय प्रवृत्तत्वात् ।
न हि रूढिशब्दा निमित्तमुपाददते
।
सर्वेषां च ब्रह्मणि स्थितिरुपपद्यते ।
यत्र यत्र निमित्तमस्ति ब्रह्मणि संस्थितिस्तस्य तस्य निमित्तवतो वाचकं सन्तं ब्रह्मसंस्थशब्दं परिव्राडेकविषये संकोच कारणाभावान्निरोद्धुम युक्तम् ।
न च पारिव्राज्याश्रमधर्ममात्रेणामृतत्वम् ।
ज्ञानानर्थक्यप्रसङ्गात् ।
पारिव्राज्यधर्मयुक्तमेव ज्ञानममृतत्वसाधनमिति चेन्न ।
आश्रमधर्मत्वाविशेषात् ।
धर्मो वा ज्ञानविशिष्टोऽमृतत्वसाधनमित्येदपि सर्वाश्रमधर्माणामविशिष्टम् ।
न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षो नान्येषामिति ।
ज्ञानान्मोक्ष इति च सर्वोपनिषदां सिद्धान्तः तस्माद्य एव ब्रह्मसंस्थः स्वाश्रमविहितकर्मवतां सोऽमृतत्वमेतीति ।
कुर्विदं मा कार्षीरिति कर्मविधयः प्रवृत्ताः ।
तच्च निमित्तं न शास्रकृतम् ।
सर्वप्राणिषु दर्शनात् ।
"सदेकमेवाद्वितीयं" "आत्मैवेदं सर्वं" "ब्रह्मैवेदं सर्वम्" इतिशास्रजन्यः प्रत्ययो विद्यारूपः स्वाभाविकं क्रियाकारकफलभेदप्रत्ययं कर्मविधिनिमित्तमनुपमृद्य न जायते ।
भेदाभेदप्रत्यययोर्विरोधात् ।
न हि तैमिरिकद्विचन्द्रादिभेदप्रत्ययमनुपमृद्य तिमिरापगमे चन्द्राद्येकत्वप्रत्यय उपजायते ।
विद्याविद्याप्रत्यययोर्विरोधात् ।
तत्रैवं सति यं भेदप्रत्ययमुपादाय कर्मविधयः प्रवृताः स यस्योपमर्दितः सदेकमेवाद्वितीयं तत्सत्यं विकारभेदोऽनृतमित्येतद्वाक्यप्रमाणजनितेनैकत्वप्रत्ययेन स सर्वकर्मभ्यो निवृत्तो निमित्तनिवृत्ते,स च निवृत्तकर्मा ब्रह्मसंस्थ उच्यते, स च परिव्राडेवान्यस्यासम्भवात् ।
अन्यो ह्यनिवृत्तभेदप्रत्ययः सोऽन्यत्पश्यञ्शृण्वन्मन्वानो विजानन्निदं कृत्वेदं प्राप्नुयामिति हि मन्यते ।
तस्यैवं कुर्वतो न ब्रह्मसंस्थता ।
वाचारम्भणमात्रविकारानृताभिसन्धिप्रत्ययत्वात् ।
न चासत्यमित्युपर्दिते भेदप्रत्यये सत्यमिदमनेन कर्तव्यं मयेति प्रमाणप्रमेयबुद्धिरुपपद्यते ।
आकाश इव तलमलबुद्धिर्विवेकिनः ।
उपमर्दितेऽपि भेदप्रत्यये कर्मभ्यो न निवर्तते चेत्प्रागिव भेदप्रत्ययोपमर्दनादेकत्वप्रत्ययविधायकं वाक्यमप्रमाणीकृतं स्यात् ।
अभक्ष्यभक्षणादिप्रतिषेधवाक्यानां प्रामाण्यवद्युक्तमेकत्ववाक्यस्यापि प्रामाण्यम् ।
सर्वोपनिषदां तत्परत्वात् ।
कर्मविधीनामप्रामाण अयप्रसङ्ग इति चेत् ।
न ।
अनुपमर्दितभेदप्रत्ययवत्पुरुषविषये प्रामाण्योपपत्तेः स्वप्नादिप्रत्यय इव प्राक्प्रबोधात् ।
विवेकिनामकरणात्कर्मविधिप्रामाण्योच्छेद इति चेत् ।
न ।
काम्यविध्यनुच्छेददर्शनात् ।
न हि कामात्मता न प्रशस्तेत्येवंविज्ञानवद्भिः काम्यानि कर्माणि नानुष्ठीयन्त इति काम्यकर्मविधय उच्छिद्यन्तेऽनुष्ठीयन्त एव कामिभिरिति ।
तथा ब्रह्मसंस्थैर्ब्रह्मविद्भिर्नानुष्ठीयन्ते कर्माणीति न तद्विधय उच्छिद्यन्तेऽब्रह्मविद्भिरनुष्ठीयन्त एवेति ।
परिव्रादकानां भिक्षाचरणादिवदुत्पन्नैकत्वप्रत्ययानामपि गृहस्थादीनामग्निहोत्रादिकर्मानिवृत्तिरिति चेन्न ।
प्रामाण्यचिन्तायां पुरुषप्रवृत्तेरदृष्टान्तत्वात् ।
न हि नाभिचरेदिति प्रतिषिद्धमप्यभिचरमं कश्चित्कुर्वन्दृष्ट इति शत्रौ द्वेषरहितेनापि विवेकिनाभिचरणं क्रियते ।
न च कर्मविधिप्रवृत्तिनिमित्ते भेदप्रत्यये बाधितेऽग्निहोत्रादौ प्रवर्तकं निमित्तमस्ति, परिव्राजकस्येव भिक्षाचरणादौ बुभुक्षादि प्रवर्तकम् ।
इहाप्यकरणे प्रत्यवायभयं प्रवर्तकमिति चेत् ।
न ।
भेदप्रत्ययवतोऽधिकृतत्वात् ।
भेदप्रत्ययवाननुपमर्दितभेदबुद्धिर्विद्यया यः स कर्मण्यधिकृत इत्यवोचाम ।
यो ह्यधिकृतः कर्मणि तस्य तदकरमे प्रत्यवायो न निवृत्ताधिकारस्य गृहस्थस्येव ब्रह्मचारिणो विशेषधर्माननुष्ठाने ।
एवं तर्हि सर्वः स्वाश्रमस्थ उत्पन्नेकत्वप्रत्ययः परिव्राडिति चेत् ।
न ।
स्वस्वामित्वभेदबुद्ध्यनिवृत्तेः ।
कर्मार्थत्वाच्चेतराश्रमाणाम् ।
"अथ कर्म कुर्वीय"इति श्रुतेः ।
तस्मात्स्वस्वामित्वाभावाद्भिक्षुरेक एव परिव्राट् ।
न गृहस्थादिः ।
एकत्वप्रत्ययविधिजनितेन प्रत्ययेन विधिनिमित्तभेदप्रत्ययस्योपमर्दितत्वाद्यमनियमाद्यनुपपत्तिः परिव्राजकस्येति चेत् ।
न ।
बुभुक्षादिनैकत्वप्रत्ययात्प्राच्यावितस्योपपत्तेर्निवृत्त्यर्थत्वात् ।
न च प्रतिषिद्धसेवाप्राप्तिः ।
एकत्वप्रत्ययोत्पत्तेः प्रागेव प्रतिषिद्धत्वात् ।
न हि रात्रौ कूपे कण्टके वा पतित उदितेऽपि सवितरि पतति तस्मिन्नेव ।
तस्मात्सिद्धं निवृत्तकर्मा भिक्षुक एव ब्रह्मसंस्थ इति ।
यत्पुनरुक्तं सर्वेषां ज्ञानवर्जितानां पुण्यलोकतेति ।
सत्यमेतत् ।
यच्चोक्तं तपःशब्देन परिव्राडप्युक्त इति ।
एतदसत् ।
कस्मात् ।
परिव्राजकस्यैव ब्रह्मसंस्थतासम्भवात् ।
स एव ह्यवशेषित इत्यवोचाम ।
एकत्वविज्ञानवतोऽग्निहोत्रादिवत्तपोनिवृत्तेश्च ।
भेदबुद्धिमत एव हि तपःकर्तव्यता स्यात् ।
एतेन कर्मच्छिद्रे ब्रह्मसंस्थतासामर्थ्यं अप्रतिषेधश्च प्रत्युक्तः ।
तथा ज्ञानवानेव निवृत्तकर्मा परिव्राडिति ज्ञानवैयर्थ्यं प्रत्युक्तम् ।
यत्पुनरुक्तं यववराहादिशब्दवत्परिव्राजके न रूढो ब्रह्मसंस्थशब्द इति तत्परिहृतम् ।
तस्यैव ब्रह्मसंस्थतासम्भवान्नान्यस्येति ।
यत्पुनरुक्तं रूढशब्दा निमित्तं नोपाददत इति ।
तन्न ।
गृहस्थतक्षपरिव्राजकादिशब्ददर्शनात् ।
गृहस्थितिपारिव्राज्यतक्षणादिनिमित्तोपादाना अपि गृहस्थपरिव्राजकाश्रमिविशेषे विशिष्टजातिमति च तक्षेति रूढा दृश्यन्ते शब्दाः ।
न यत्र यत्र तानि निमित्तानि तत्र तत्र वर्तन्ते ।
प्रसिद्ध्यभावात् ।
तथेहापि ब्रह्मसंस्थशब्दो निवृत्तसर्वकर्मतत्साधनपरिव्राडेकविषयेऽत्याश्रमिणि परमहंसाख्ये वृत्त इह भवितुमर्हति ।
मुख्यामृतत्वफलश्रवणात् ।
अतश्चेदमेवैकं वेदोक्तं पारिव्राज्यम् ।
न यज्ञोपवीतत्रिदण्डकमण्डल्वादिपरिग्रह इति ।
"मुण्डोऽपरिग्रहोऽसङ्ग"इति श्रुतिः"अत्याक्षमिब्यः परमं पवित्रम्" इत्यादि च श्वेताश्वतरीये ।
"निःस्तुतिर्निर्नमस्कार"इत्यादिस्मृतिभ्यश्च ।
"तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः" ।
"तस्मादलिङ्गो धर्मज्ञोऽव्यक्तलिङ्ग"इत्यादिस्मृतिभ्यश्च ।
यत्तु सांख्यैः कर्मत्यागोऽभ्युपगम्यते ।
क्रियाकारकफलभेदबुद्धेः सत्यत्वाभ्युपगमात्तन्मृषा ।
यच्च बौद्धैः शून्यताभ्युपगमादकर्तृत्वमभ्युपगम्यते ।
तदप्यसत् ।
तदभ्युपगन्तुः सत्त्वाभ्युपगमात् ।
यच्चाज्ञैरलसतयाकर्तृत्वाभ्युपगमः सोऽप्यसन्, कारकबुद्धेरनिवर्ततत्वात्प्रमाणेन ।
तस्माद्वेदान्तप्रमाणजनितैकत्वप्रत्ययवत एव कर्मनिवृत्तिलक्षणं पारिव्राज्यं ब्रह्मसंस्थत्वं चेति सिद्धम् ।
एतेन गृहस्थस्यैकत्वविज्ञाने सति पारिव्राज्यमर्थसिद्धम् ।
नन्वग्न्युत्सादनदोषभाक्स्यात्परिव्रजन् ।
"वीरहा वा एष देवानां योऽग्निमुद्वासयते"इति श्रुतेः ।
न ।
वेदेनैवोत्सादितत्वातुत्सन्न एव हि स एकत्वदर्शने जाते ।
अपागादग्नेरग्नित्वमिति श्रुतेः ।
अतो न दोषभाग्गृहस्थः परिव्रजन्निति ॥१ ॥
_______________________________________________________________________
२,२३.२
प्रजापतिर्लोकानभ्यतपत् ।
तेभ्योऽभितप्तेभ्यस्त्रयी विद्या संप्रास्रवत् ।
तामभ्यतपत् ।
तस्या अभितप्ताया एतान्यक्षराणि संप्रस्र्वन्त भूर्भुवः स्वरिति ॥ २,२३.२ ॥
__________
भाष्य २,२३.२ यत्संस्थोऽमृतत्वमेति तन्निरूपणार्थमाह प्रजापतिर्विराट्कश्यपो वा लोकानुद्दिश्य तेषु सारजिघृक्षयाभ्यत पदभितापं कृतवान्ध्यानं तपः कृतवानित्यर्थः ।
तेभ्योऽभितप्तेभ्यः सारभूता त्रयी विद्या सम्प्रास्रवत्प्रजापतेर्मनसि प्रत्यभादित्यर्थः ।
तामभ्यतपत् ।
पूर्ववत् ।
तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त भूर्भुवः स्वरितिव्याहृतयः ॥२ ॥
_______________________________________________________________________
२,२३.३
तान्यभ्यतपत् ।
तेभ्योऽभितप्तेभ्य ओंकारः संप्रास्रवत् ।
तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णा ।
ओंकार एवेदं सर्वमोंकार एव इदं सर्वम् ॥ २,२३.३ ॥
__________
भाष्य २,२३.३ तान्यक्षराण्यभ्यतपत्तेभ्योऽभितप्तेभ्य ओङ्कारः सम्प्रास्रवत्तद्ब्रह्म, कीदृशमित्याहतद्यथा शङ्कुना पर्णनालेन सर्वाणि पर्णानि पत्रावयवजातानि सन्तृण्णानि निविद्धानि व्याप्तानीत्यर्थः ।
एवमोङ्कारेण ब्रह्मणा परमात्मनः प्रतीकभूतेन सर्वा वाक्यशब्दजातं सन्तृण्णा ।
"अकारो वै सर्वा वाक्"इत्यादिश्रुतेः ।
परमात्मविकारश्च नामधेयमात्रमित्यत ओङ्कार एवेदं सर्वमिति ।
द्विरभ्यास आदरार्थः ।
लोकादिनिष्पादनकथनमोङ्कारस्तुत्यर्थमिति ॥३॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य त्रयोविंशः खण्डः
=======================================================================
२,२४.१
ब्रह्मवादिनो वदन्ति ।
यद्वसूनां प्रातःसवनम् ।
रुद्राणां माध्यंदिनं सवनम् ।
आदित्यानां च विश्वेषां च देवानां तृतीयसवनम् ॥ २,२४.१ ॥
__________
भाष्य २,२४.१ सामोपासनप्रसङ्गेन कर्मगुणभूतत्वान्निवर्त्योङ्कारं परमात्मप्रतीकत्वादमृतत्वहेतुत्वेन महीकृत्य प्रकृतस्यैव यज्ञस्याङ्गभूतानि सामहोममन्त्रोत्थानान्युपदिदिक्षन्नाहब्रह्मवादिनो वदन्ति यत्प्रातःसवनं तद्वसूनाम् ।
तैश्च प्रातः सवनसम्बद्धोऽयं लोको वशीकृतः सवनेशानैः ।
तथा रुद्रैर्माध्यन्दिनसवनेशानैरन्तरिक्षलोकः ।
आदित्यैश्च विश्वैर्देवैश्च तृतीयसवनेशानैस्तृतीयो लोको वशीकृतः ।
इति यजमानस्य लोकोऽन्यः परिशिष्टो न विद्यते ॥१ ॥
_______________________________________________________________________
२,२४.२
क्व तर्हि यजमानस्य लोक इति ।
स यस्तं न विद्यात्कथं कुर्यात् ।
अथ विद्वान् कुर्यात् ॥ २,२४.२ ॥
__________
भाष्य २,२४.२ अतः क्व तर्हि यजमानस्य लोको यदर्थं यजते ।
न क्वचिल्लोकोऽस्तीत्यभिप्रायः ।
"लोकाय वै यजते यो यजते"इति श्रुतेः ।
लोकाभावे च स यो यजमानस्तं लोकस्वीकरणोपायं सामहोममन्त्रोत्थानलक्षणं न विद्यान्न विजानीयात्सोऽज्ञः कथं कुर्याद्यज्ञं न कथञ्चन तस्य कर्तृत्वमुपपद्यत इत्यर्थः ।
सामादिविज्ञानस्तुतिपरत्वान्नाविदुषः कर्तृत्वं कर्ममात्रविदः प्रतिषिध्यते ।
स्तुतये च सामादिविज्ञानस्याविद्वत्कर्तृत्वप्रतिषेधाय चेति हि भिद्यते वाक्यम् ।
आद्ये चौषस्त्ये काण्डेऽविदुषोऽपि कर्मास्तीति हेतुमवोचाम ।
अथैतद्वक्ष्यमाणं सामाद्युपायं विद्वान्कुर्यात् ॥२॥
_______________________________________________________________________
२,२४.३
पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन गार्हपत्यस्योदाङ्मुख उपविश्य स वासवं सामाभिगायति ॥ २,२४.३ ॥
__________
भाष्य २,२४.३ किं तद्वेद्यमित्याहपुरा पूर्वं प्रातरनुवाकस्य शस्रस्य प्रारम्भाज्जघनेन गार्हपत्यस्य पश्चादुदङ्मुखः सन्नुपविश्य स वासवं वसुदैवत्यं सामाभिगायति ॥३ ॥
_______________________________________________________________________
२,२४.४
लो ३ कद्वारमपावा ३ र्णू ३३ ।
पश्येम त्वा वयं रा ३३३३३ हु ३ मा ३३ ज्या ३ यो ३ आ ३२१११ इति ॥ २,२४.४ ॥
__________
भाष्य २,२४.४ लोकद्वारमस्य पृथिवीलोकस्य प्राप्तये द्वारमपावृणु हेऽग्ने तेन द्वारेण पश्येम त्वा त्वां राज्यायेति ॥४ ॥
_______________________________________________________________________
२,२४.५
अथ जुहोति ।
नमोऽग्नये पृथिवीक्षिते लोकक्षिते ।
लोकं मे यजमानाय विन्द ।
एष वै यजमानस्य लोकः ।
एता अस्मि ॥ २,२४.५ ॥
__________
भाष्य २,२४.५ अथानन्तरं जुहोत्यनेन मन्त्रेण नमोऽग्नये प्रह्वीभूतास्तुभ्यं वयं पृथिवीक्षिते पृथिवीनिवासाय लोकक्षिते पृथिवीलोकनिवासायेत्यर्थः ।
लोकं मे मह्यं यजमानाय विन्द लभस्व ।
एष वै मम यजमानस्य लोक एता गन्तास्मि ॥५ ॥
_______________________________________________________________________
२,२४.६
अत्र यजमानः परस्तादायुषः स्वाहा ।
अपजहि परिघमित्युक्त्वोत्तिष्ठति ।
तस्मै वसवः प्रातःसवनं संप्रयच्छन्ति ॥ २,२४.६ ॥
__________
भाष्य २,२४.६ अत्रास्मिंल्लोके यजमानोऽहमायुषः परस्तादूर्ध्वं मृतः सन्नित्यर्थः ।
स्वाहोति जुहोति ।
अपजह्यपनय परिघं लोकद्वारार्गलमित्येवं मन्त्रमुक्त्वोत्तिष्ठति एवमेतैर्वसुभ्यः प्रातः सवनसम्बद्धो लोको निष्क्रीतः स्यात्ततस्ते प्रातःसवनं धसवो यजमानाय सम्प्रयच्छन्ति ॥६ ॥
_______________________________________________________________________
२,२४.७८
पुरा माध्यन्दिनस्य सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख उपविश्य स रौद्रं सामाभिगायति ॥ २,२४.७ ॥
लो ३ कद्वारमपावार्३ णू ३३ ।
पश्येम त्वा वयं वैरा ३३३३३ हु ३ मा ३३ ज्या ३ यो ३ आ ३२१११ इति ॥ २,२४.८ ॥
__________
भाष्य २,२४.७,८ तथाऽग्नीध्रीयस्य दक्षिणाग्नेर्जघनेनोदङ्मुख उपविश्य स रौद्रं सामाभिगायति यजमानो रुद्रदैवत्यंवैराज्याय ॥७८ ॥
_______________________________________________________________________
२,२४.९१०
अथ जुहोति ।
नामो वायवेऽन्तरिक्षक्षिते लोकक्षिते ।
लोकं मे यजमानाय विन्द ।
एष वै यजमानस्य लोकः ।
एतास्मि ॥ २,२४.९ ॥
अत्र यजमानः परस्तादायुषः स्वाहा ।
अपजहि परिघमित्युक्त्वोत्तिष्ठति ।
तस्मै रुद्रा माध्यन्दिनं सवनं संप्रयच्छन्ति ॥ २,२४.१० ॥
__________
भाष्य २,२४.९.१० अन्तरिक्षक्षित इत्यादि समानम् ॥९॥
_______________________________________________________________________
२,२४.१११३
पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति ॥ २,२४.११ ॥
लो ३ कद्वारमपावा ३ र्णू३३ ।
पश्येम त्वा वयं स्वारा ३३३३३ हु३ , आ ३३ ज्या ३ यो ३ आ ३२१११ इत्यादित्यम् ॥ २,२४.१२ ॥
अथ वैश्वदेवम् ।
लो३ अद्वारमपावा३ णू३३ ।
पश्येम त्वा वयं साम्रा ३३३३३ हु३ आ ३३ ज्या ३ यो ३ आ ३२१११ इति ॥ २,२४.१३ ॥
__________
भाष्य २,२४.१११३ तथाऽहवनीयस्योदङ्मुख उपविश्य स आदित्यदैवत्यमादित्यं वैश्वदेवं च सामाभिगायति क्रमेण स्वाराज्याय साम्राज्याय ॥१११३ ॥
_______________________________________________________________________
२,२४.१४१५
अथ जुहोति ।
नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यः ।
लोकं मे यजमानाय विन्दत ॥ २,२४.१४ ॥
एष वै यजमानस्य लोकः ।
एतास्म्यत्र यजमानः परस्तादायुषः स्वाहा ।
अपहत परिघमित्युक्त्वोत्तिष्ठति ॥ २,२४.१५ ॥
__________
भाष्य २,२४.१४१५ दिविक्षिद्भ्य इत्येवमादि समानमन्यत् ।
विन्दतापहतेति बहिवचनमात्रं विशेषः ।
याजमानं त्वेतत् ।
एतास्म्यत्र यजमान इत्यादिलिङ्गात् ॥१४१५ ॥
_______________________________________________________________________
२,२४.१६
तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनं संप्रयच्छन्ति ।
एष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ २,२४.१६ ॥
__________
भाष्य २,२४.१६ एष ह वै यजमान एवंवित्यथोक्तस्य सामादेर्विद्वान्यज्ञस्य मात्रां यज्ञयाथात्म्यं वेद यथोक्तम् ।
य एवं वेद य एवं वेदेति द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥१६ ॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य चतुर्विंशः खण्डः
इति छान्दोग्योपनिषद्ब्राह्मणे द्वितीयोऽध्यायः समाप्तः
0 Comments
If you have any Misunderstanding Please let me know