==तृतीयोऽध्यायः==
३,१.१
असौ वा आदित्यो देवमधु ।
तस्य द्यौरेव तिरश्चीनवंशः ।
अन्तरिक्षमपूपः ।
मरीचयः पुत्राः ॥ ३,१.१ ॥
__________
भाष्य ३,१.१ असौ वा आदित्य उत्याद्यध्यायारम्भे सम्बन्धः ।
अतीतानन्तराध्यायान्त उक्तं यज्ञस्य मात्रां वेदेति यज्ञविषयाणि च सामहोममन्त्रोत्थानानि विशिष्टफलप्राप्तये यज्ञाङ्गभूतान्युपदिष्टानि ।
सर्वयज्ञानां च कार्यनिर्वृत्तिरूपः सविता महत्या श्रिया दीप्यते ।
स एष सर्वप्राणिकर्मफलभूतः प्रत्यक्षं सर्वैरुपजीव्यते ।
अतो यज्ञव्यपदेशानन्तरं तत्कार्यभूतसवितृविषयमुपासनं सर्वपुरुषार्थेभ्यः श्रेष्ठतमफलं विधास्यामीत्येवमारभते श्रुतिःसौ वा आदित्यो देवमध्वित्यादि ।
देवनां मोदनान्मध्विव मध्वसावादित्यः ।
वस्वादीनां च मोदनहेतुत्वं वक्ष्यति सर्वयज्ञफलरूपत्वादादित्यस्य ।
कथं मधुत्वमित्याहतस्य मधुनो द्यौरेव भ्रामरस्येव मधुनस्तिरश्चीनश्चासौ वंशश्चेति तिरश्चीनवंशः ।
तिर्यग्गतेव हि द्यौर्लक्ष्यते ।
अन्तरिक्षं च मध्वपूपो द्युवंशे लग्नः सल्लंम्बत इवातो मध्वपूपसामान्यादन्तरिक्षं मध्वपूपो मधुनः सवितुराश्रयत्वाच्च ।
मरीचयो रश्मयो रश्मिस्था आपो भौमाः सवित्राकृष्टाः"एता वा आपः स्वराजो यन्मरीचय"इति इति हि विज्ञायते ।
ता अन्तरिक्षमध्वपूपस्थरश्म्यन्तर्गतत्वाद्भ्रमरबीजभूताः पुत्रा इव हिता लक्ष्यन्त इति पुत्रा इव पुत्रा मध्वपूपनाड्यन्तर्गता हि भ्रमरपुत्राः ॥१ ॥
_______________________________________________________________________
३,१.२
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः ।
ऋच एव मधुकृतः ।
ऋग्वेद एव पुष्पम् ।
ता अमृता आपः ।
ता वा एता ऋचः ॥ ३,१.२ ॥
__________
भाष्य ३,१.२ तस्य सवितुर्मध्वाश्रयस्य मधुनो ये प्राञ्चः प्राच्यां दिशि गता रश्मयस्ता एवास्य प्राच्यः प्रागञ्चनान्मधुनो नाड्यो मधुनाड्य इव मध्वाधारच्छिद्राणीत्यर्थः ।
तत्र ऋच एव मधुकृतो लोहितरूपं सवित्राश्रयं मधु कुर्वन्तीति मधुकृतो भ्रमरा इव यतो रसानादाय मधु कुर्वन्ति ।
तत्पुष्पमिव पुष्पमृग्वेद एव ।
तत्र ऋग्ब्राह्मणसमुदायस्य ऋग्वेदाख्यत्वाच्छब्दमात्राच्च भोग्यरूपरसनिस्रावासम्भवादृग्वेदशब्देनात्र ऋग्वेदविहितं कर्म ।
ततो हि कर्मफलभूतमधुरसनिस्रावसम्भवात् ।
मधुकरैरिव पुष्पस्थानीयादृग्वेदविहितात्कर्मणोऽप आदाय ऋग्भिर्मधु निर्वर्त्यते ।
कास्ता आप इत्याहताः कर्मणि प्रयुक्ताः सोमाज्यपयोरूपा अग्नौ प्रक्षिप्तास्तत्पाकाभिनिर्वृत्ता अमृता अमृतार्थत्वादत्यन्त रसवत्य आपो भवन्ति ।
तद्रसानादाय ता वा एता ॠचः पुष्पेभ्यो रसमाददाना एव भ्रमराः ऋचः ॥२ ॥
_______________________________________________________________________
३,१.३
एतमृग्वेदमभ्यतपन् ।
तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३,१.३ ॥
__________
भाष्य ३,१.३ एतमृग्वेदमृग्वेदविहितं कर्म पुष्पस्थानीयमभ्यतपन्नभितापं कृतवत्य इवैता ऋचः कर्मणि प्रयुक्ताः ।
ॠग्भिर्हि मन्त्रैः शस्राद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकं रसं मुञ्चतीत्युपपद्यते पुष्पाणीव भ्रमरैराचूष्यमाणानि ।
तदेतदाहतस्यर्ग्वेदस्याभितप्तस्य ।
कोऽसौ रसो य ऋङ्मधुकराभितापनिःसृत इत्युच्यते ।
यशो विश्रुतत्वं तेजो देहगता दीप्तिरिन्द्रियं सामर्थ्योपेतैरिन्द्रियैरवैकल्यं वीर्यं सामर्थ्यं बलमित्यर्थः ।
अन्नाद्यमन्नं च तदाद्यं च येनोपयुज्यमानेनाहन्यहनि देवानां स्थितिः स्यात्तदन्नाद्यमेष रसोऽजायत यागादिलक्षणात्कर्मणः ॥३ ॥
_______________________________________________________________________
३,१.४
तद्व्यक्षरत् ।
तदादित्यमभितोऽश्रयत् ।
तद्वा एतद्यदेतदादित्यस्य रोहितं रूपम् ॥ ३,१.४ ॥
__________
भाष्य ३,१.४ यश आद्यन्नाद्यपर्यन्तं तद्व्यक्षरद्विशेषेणाक्षरदगमत् ।
गत्वा च तदादित्यमभितः पार्श्वतः पूर्वभागं सवितुरश्रयदाश्रितवदित्यर्थः ।
अमुष्मिन्नादित्ये सञ्चितं कर्मफलाख्यं मधु भोक्ष्यामह इत्येवं हि यशआदिलक्षणफलप्राप्तये कर्माणि क्रियन्ते मनुष्यैः केदारनिष्पादनमिव कर्षकैः ।
तत्प्रत्यक्षं प्रदर्श्यते श्रद्धाहेतोस्तद्वा एतत् ।
किं तद्यदेतदादित्यस्योद्यतो दृश्यते रोहितं रूपम् ॥४॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य प्रथमः खण्डः
=======================================================================
३,२.१
अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यः ।
यजूंष्येव मधुकृतः ।
यजुर्वेद एव पुष्पम् ।
ता अमृता आपः ॥ ३,२.१ ॥
__________
भाष्य ३,२.१ अथ येऽस्य दक्षिणा रश्मय इत्यादि समानम् ।
यजूं॰येव मधुकृतो यजुर्वेदविहिते कर्मणि प्रयुक्तानि ।
पूर्ववन्मधुकृत इव ।
यजुर्वेदविहितं कर्म पुष्पस्थानीयं पुष्पमित्युच्यते ।
ता एव सोमाद्या अमृता आपः ॥१ ॥
_______________________________________________________________________
३,२.२३
तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपन् ।
तस्य अभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३,२.२ ॥
तद्व्यक्षरत् ।
तदादित्यमभितोऽश्रयत् ।
तद्वा एतद्यदेतदादित्यस्य शुक्लं रूपम् ॥ ३,२.३ ॥
__________
भाष्य ३,२.२,३ तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपन्नित्येवमादि सर्वं समानम् ।
मध्वेतदादित्यस्य दृश्यते शुक्लं रूपम् ॥२३ ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य द्वितीयः खण्डः
=======================================================================
३,३.१३
अथ येऽस्य प्रत्यञ्चो रश्मायस्ता एवास्य प्रतीच्यो मधुनाड्यः ।
सामान्येव मधुकृतः ।
सामवेद एव पुष्पम् ।
ता अमृता आपः ॥ ३,३.१ ॥
तानि वा एतानि सामान्येतं सामवेदमभ्यतपन् ।
तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३,३.२ ॥
तद्व्यक्षरत् ।
तदादित्यमभितोऽश्रयत् ।
तद्वा एतद्यदेतदादित्यस्य कृष्णं रूपम् ॥ ३,३.३ ॥
__________
भाष्य ३.३.१३ अथ येऽस्य प्रत्यश्चो रश्मय इत्यादि समानम् ।
तथा साम्नां मधु ।
एतदादित्यस्य कृष्णं रूपम् ॥१३ ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य तृतीयः खण्डः
=======================================================================
३,४.१३
अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्यः ।
अथर्वाङ्गिरस एव मधुकृतः ।
इतिहासपुराणं पुष्पम् ।
ता अमृता आपः ॥ ३,४.१ ॥
ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपन् ।
तस्याभितप्तस्य यशस्तेज इन्द्रियां वीर्यमन्नाद्यं रसोऽजायत ॥ ३,४.२ ॥
तद्व्यक्षरत् ।
तदादित्यमभितोऽश्रयत् ।
तद्वा एतद्यदेतदादित्यस्य परःकृष्णं रूपम् ॥ ३,४.३ ॥
__________
भाष्य ३,४.१३ अथ येऽस्योदञ्चो रश्मय इत्यादि समानम् ।
अथर्वाङ्गिरसोऽथर्वणाङ्गिरसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः कर्मणि प्रयुक्ता मधुकृतः ।
इतिहासपुराणं पुष्पम् ।
तयोश्चेतिहासपुराणयोरश्वमेधे पारिप्लवासु रात्रिषु कर्माङ्गत्वेन विनियोगः सिद्धः ।
मध्वेतदादित्यस्य परः कृष्णं रूपमतिशयेन कृष्णमित्यर्थः ॥१३ ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य चतुर्थः खण्डः
=======================================================================
३,५.१३
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यः ।
गुह्या एवादेशा मधुकृतः ।
ब्रह्मैव पुष्पम् ।
ता अमृता आपः ॥ ३,५.१ ॥
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपन् ।
तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३,५.२ ॥
तद्व्यक्षरत् ।
तदादित्यमभितोऽश्रयत् ।
तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३,५.३ ॥
__________
भाष्य ३,५.१,२,३ अथ येऽस्योर्ध्वा रश्मय इत्यादि पूर्ववत् ।
गुह्या गोप्या रहस्या एवाऽदेशा लोकद्वारीयादिविधय उपासनानि च कर्माङ्गविषयाणि मधुकृतो ब्रह्मैव शब्दाधिकारात्प्राणवाख्यं पुष्पम् ।
समानमन्यत् ।
मध्वेतदादित्यस्य मध्ये क्षोभत इव समाहितदृष्टेर्दृश्यते सञ्चलतीव ॥१३ ॥
_______________________________________________________________________
३,५.४
ते वा एते रसानां रसाः ।
वेदा हि रसाः ।
तेषामेते रसाः ।
तानि वा एतान्यमृतानाममृतानि ।
वेदा ह्यमृताः ।
तेषामेतान्यमृतानि ॥ ३,५.४ ॥
__________
भाष्य ३,५.४ ते वा एते यथोक्ता रोहितादिरूपविशेषा रसानां रसाः ।
केषां रसानामित्याहवेदा हि यस्माल्लोकनिष्यन्दत्वात्सारा इति रसास्तेषां रसानां कर्मभावमापन्नानामप्येते रोहितादिविशेषा रसा इत्यन्तसारभूता इत्यर्थः ।
तथामृतानाममृतानि वेदा ह्यमृता नित्यत्वातेषामेतानि रोहितादीनि रूपाण्यमृतानि ।
रसानां रसा इत्यादि कर्मस्तुतिरेषा ।
यस्यैवंविशिष्टान्यमृतानि फलमिति ॥४॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य पञ्चमः खण्डः
=======================================================================
३,६.१
तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ ३,६.१ ॥
__________
भाष्य ३,६.१ रूपस्येति ।
न ।
यश आदीनां श्रोत्रादिगम्यत्वात् ।
श्रोत्रग्राह्यं यशः ।
तेजोरूपं चाक्षुषम् ।
इन्द्रियं विषयग्रहणकार्यानुमेयं करणसामर्थ्यम् ।
वीर्यं बलं देहगत उत्साहः प्राणवत्ता ।
अन्नाद्यं प्रत्यहमुपजीव्यमानं शरीरस्थितिकरं यद्भवति रसो ह्येवमात्मकः सर्वः ।
यं दृष्ट्वा तृप्यन्ति सर्वे देवाः ।
दृष्ट्वा तृप्यन्तीत्येतत्सर्वं स्वकरणैरनुभूय तृप्यन्तीत्यर्थः ।
आदित्यसंश्रयाः सन्तो वैगन्ध्यादिदेहकरणदोषरहिताश्च ॥१ ॥
_______________________________________________________________________
३,६.२
त एतदेव रूपमभिसंविशन्ति ।
एतस्माद्रूपादुद्यन्ति ॥ ३,६.२ ॥
__________
भाष्य ३,६.२ किं ते निरुद्यमा अमृतमुपजीवन्ति ।
न ।
कथं तर्हि, एतदेव रूपमभिलक्ष्याधुना भोगावसरो नास्माकमिति बुद्ध्वाभिसंविशन्त्युदासते ।
यदा वै तस्यामृतस्य भोगावसरो भवेत्तदैतस्मादमृतादमृतभोगनिमित्तमित्यर्थः ।
एतस्माद्रूपादुद्यन्त्युत्साहवन्तो भवन्तीत्यर्थः ।
न ह्यनुत्साहवतामननपतिष्ठतामलसानां भोगप्राप्तिर्लोके दृष्टा ॥२ ॥
_______________________________________________________________________
३,६.३
स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति ।
स एतदेव रूपमभिसंविशति ।
एतस्माद्रूपादुदेति ॥ ३,६.३ ॥
__________
भाष्य ३,६.३ स यः कश्चिदेतदेवं यथोदितमृङ्मधुकरतापरससंरक्षणमृग्वेदविहितकर्मपुष्पात्तस्य चाऽदित्यसंश्रयणं रोहित रूपत्वं चामृतस्य प्राचीदिग्गतरश्मिनाडीसंस्थतां वसुदेवभोग्यतां तद्विदश्च वसुभिः सहैकतां गत्वाग्निना मुकेनोपजीवनं दर्शनमात्रेण तृप्तिं स्वभोगावसर उद्यमनं तत्कालापाये च संवेशनं वेद सोऽपि वसुवत्सर्वं तथैवानुभवति ॥३ ॥
_______________________________________________________________________
३,६.४
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३,६.४ ॥
__________
भाष्य ३,६.४ कियन्तं कालं विद्वांस्तदमृतमुपजीवतीत्युच्यते स विद्वान्यावदादित्यः पुरस्तात्प्राच्यां दिश्युदेता पश्चात्प्रतीच्यामस्तमेता तावद्वसूनां भोगकालस्तावन्तमेव कालं वसूनामाधिपत्यं स्वाराज्यं पर्यता परितो गन्ता भवतीत्यर्थः ।
न यथा चन्द्रमण्डलस्थः केवलकर्मी परतन्त्रो देवानामन्नभूतः ।
किं तर्ह्ययमाधिपत्यं स्वराड्भावं चाधिगच्छति ॥४॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य षष्ठः खण्डः
=======================================================================
३,७.१३
अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ ३,७.१ ॥
त एतदेव रूपमभिसंविशन्ति ।
एतस्माद्रूपादुद्यन्ति ॥ ३,७.२ ॥
स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति ।
स एतदेव रूपमभिसंविशति ।
एतस्माद्रूपादुदेति ॥ ३,७.३ ॥
__________
भाष्य ३,७.१३ अथा यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीत्यादि समानम् ॥१२३ ॥
_______________________________________________________________________
३,७.४
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३,७.४ ॥
__________
भाष्य ३,७.४ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावत्ततो द्विगुणं कालं दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणां तावद्भोगकालः ॥४॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य सप्तमः खण्डः
=======================================================================
३,८.१४
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ ३,८.१ ॥
त एतदेव रूपमभिसंविशन्ति ।
एतस्माद्रूपादुद्यन्ति ॥ ३,८.२ ॥
स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति ।
स एतदेव रूपमभिसंविशति ।
एतस्माद्रूपादुदेति ॥ ३,८.३ ॥
स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३,८.४ ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्याष्टमः खण्डः
=======================================================================
३,९.१४
अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ ३,९.१ ॥
त एतदेव रूपमभिसंविशन्ति ।
एतस्माद्रूपादुद्यन्ति ॥ ३,९.२ ॥
स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति ।
स एतदेव रूपमभिसंविशति ।
एतस्माद्रूपादुदेति ॥ ३,९.३ ॥
स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३,९.४ ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य नवमः खण्डः
=======================================================================
३,१०.१
अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ ३,१०.१ ॥
त एतदेव रूपमभिसंविशन्ति ।
एतस्माद्रूपादुद्यन्ति ॥ ३,१०.२ ॥
स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति ।
स एतदेव रूपमभिसंविशति ।
एतस्माद्रूपादुदेति ॥ ३,१०.३ ॥
स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्वमुदेतार्वागस्तमेता साध्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३,१०.४ ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य दशमः खण्डः
__________
भाष्य ३.८.१४, ९.१४, १०.१४ तथा पश्चादुत्तरत ऊर्ध्वमुदेता विपर्ययेणास्तमेता ।
पूर्वस्मात्पूर्वस्माद्द्विगुणोत्तरोत्तरेण कालेनेत्यपौराणं दर्शनम् ।
सवितुश्चतुर्दिशमिन्द्रयमवरुणसोमपुरीषूदयास्तमयकालस्य तुल्यत्वं हि पौराणिकैरुक्तम् ।
मानसोत्तरस्य मूर्धनि मेरोः प्रदक्षिणावृत्तेस्तुल्यत्वादिति ।
अत्रोक्तः परिहार आचार्यैः ।
अमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनोद्वासः स्यात् ।
उदयश्च नाम सवितुस्तन्निवासिनां प्राणिनां चक्षुगोचरापत्तिस्तदत्ययष्चस्तमनं न परमार्थत उदयास्तमने स्तः ।
तन्निवासिनां च प्राणिनामभावे तान्प्रति तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति चक्षुर्गोचरापत्तेस्तदत्ययस्य चाभावात् ।
तथामरावत्याः सकाशाद्द्विगुणं कालं संयमनी पुरी वसत्यतस्तन्निवासिनः प्राणिनः प्रति दक्षिणत इवोदेत्युत्तरतोऽस्तमेतीत्युच्यतेऽस्मद्बुद्धिं चापेक्ष्य ।
तथोत्तरास्वपि पुरीषु योजना ।
सर्वेषां च मेरुरुत्तरतो भवति ।
यदामरावत्यां मध्याह्नगतः सविता तदा संयमन्यामुद्यन्दृश्यते तत्र मध्याह्नगतो वारुण्यामुद्यन्दृश्यते, तथोत्तरस्यां, प्रदक्षिणावृत्तेस्तुल्यत्वात् ।
इलावृतवासिनां सर्वतः पर्वतप्राकारनिवारितादित्यरश्मीनां सवितोर्ध्व इवोदेतावगिस्तमेता दृश्यते ।
पर्वतोर्ध्वच्छिद्रप्रवेशात्सवितृप्रकाशस्य ।
तथर्गाद्यमृतोपजीविनाममृतानां च द्विगुणोत्तरोत्तरवीर्यवत्त्वमनुमीयते भोगकालद्वैगुण्यलिङ्गेन ।
उद्यमनसंवेशनादि देवानां रुद्रादीनां विदुषश्च समानम् ॥१४ ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्याष्टमनवमदशमखण्डाः
=======================================================================
३,११.१
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता ।
तदेष श्लोकः ॥ ३,११.१ ॥
__________
भाष्य ३,११.१ कृत्वैवमुदयास्तमनेन प्राणिनां स्वकर्मफलभोगनिमित्तमनुग्रहं तत्कर्मफलोपभोगक्षये तानि प्राणिजातान्यात्मनि संहृत्याथ ततस्तस्मादनन्तरं प्राण्यनुग्रहकालादूर्ध्वः सन्नात्मन्युदेत्योद्गम्य यान्प्रत्युदेति तेषां प्राणिनामभावात्स्वात्मस्थो नैवोदेता नास्तमेतैकलोऽद्वितीयोऽनवयवो मध्ये स्वात्मन्येव स्थाता ।
तत्र कश्चिद्विद्वान्वस्वादिसमानचरणो रोहिताद्यमृतभोगभागी यथोक्तक्रमेण स्वात्मानं सवितारमात्मत्वेनोपेत्य समाहितः सन्नेतं मन्त्रं दृष्ट्वोत्थितोऽन्यस्मै पृष्टवते जगाद ।
यतस्त्वमागतो ब्रह्मलोकात्किं तत्राप्यहोरात्राभ्यां परिवर्तमानः सविता प्राणिनामायुः क्षपयति यथेहास्माकमित्येवं पृष्टः प्रत्याह ।
तत्तत्र यथा पृष्टे यथोक्ते चार्थ एष श्लोको भवति तनोक्तो योगिनेति श्रुतेर्वचनमिदम् ॥१ ॥
_______________________________________________________________________
३,११.२
न वै तत्र न निम्लोच ।
नोदियाय कदाचन ।
देवास्तेनाहं सत्येन ।
मा विराधिषि ब्रह्मणेति ॥ ३,११.२ ॥
__________
भाष्य ३,११.२ न वै तत्र यतोऽहं ब्रह्मलोकादागतस्तस्मिन्न वै तत्रैतदस्ति यत्पृच्छसि ।
न हि तत्र निम्लोचोऽस्तमगमत्सविता न चोदियायोद्गतः कुतश्चित्कदाचन कस्मिंश्चिदपि काल इति ।
उदयास्तमयवर्जितो ब्रह्मलोक इत्यनुपपन्नमित्युक्तः शुथमिव प्रतिपेदे ।
हे देवाः साक्षिणो यूयं शृणुत यथा मयोक्तं सत्यं वचस्तेन स्तेयनाहं ब्रह्मणा ब्रह्मस्वरूपेण मा विराधिषि मा विरुध्येयमप्राप्तिर्ब्रह्मणा मम मा भूदित्यर्थः ॥२ ॥
_______________________________________________________________________
३,११.३
न ह वा अस्मा उदेति न निम्लोचति ।
सकृद्दिवा हैवास्मै भवति ।
य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३,११.३ ॥
__________
भाष्य ३,११.३ सत्यं तेनोक्तमित्याह श्रुतिःन ह वा अस्मै यथोक्तब्रह्मविदे नोदेति न निम्लोचति नास्तमेति किं तु ब्रह्मविदेऽस्मै सकृद्दिवा हैव सदैवाहर्भवति स्वयञ्ज्योतिष्ट्वाद्य एतां यथोक्तां ब्रह्मोपनिषदं वेदगुह्यं वेद ।
एवं तन्त्रेण वंशादित्रयं प्रत्यमृतसम्बन्धं च यच्चान्यदवोचामैवं जानातीत्यर्थः ।
विद्वानुदयास्तमयकालापरिच्छेद्यं नित्यमजं ब्रह्म भवतीत्यर्थः ॥३ ॥
_______________________________________________________________________
३,११.४
तद्धैतद्ब्रह्मा प्रजापतय उवाच ।
प्रजापतिर्मनवे ।
मनुः प्रजाभ्यः ।
तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ३,११.४ ॥
__________
भाष्य ३,११.४ तद्धैतन्मधुज्ञानं ब्रह्मा हिरण्यगर्भो विराजे प्रजापतय उवाच ।
सोऽपि मनवे ।
मनुरिक्ष्वाक्वाद्याभ्यः प्रजाभ्यः प्रोवाचेति विद्यां स्तौति ब्रह्मादिविशिष्टक्रमागतेति ।
किं च तद्धैतन्मधुज्ञानमुद्दालकायाऽरुणये पिता
_______________________________________________________________________
३,११.५
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ३,११.५ ॥
__________
भाष्य ३,११.५ इदं वाव तद्यथोक्तमन्योऽपि ज्येष्ठाय पुत्राय सर्वप्रियार्हाय ब्रह्म प्रब्रूयात् ।
प्रणाय्याय वा योग्यायायन्तेवासिने शिष्याय ॥५ ॥
_______________________________________________________________________
३,११.६
नान्यस्मै कस्मैचन ।
यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इति ॥ ३,११.६ ॥
__________
भाष्य ३,११.६ नान्यस्मै कस्मैचन प्रब्रूयात्तीर्थद्वयमनुज्ञातमनेकेषां प्राप्तानां तीर्थानामाचार्यादीनाम् ।
कस्मात्पुनस्तीर्थसङ्कोचनं विद्याया निष्क्रयार्थमाचार्याय धनस्य पूर्णां सम्पन्नां भोगोपररणैर्नासावस्य निष्क्रयो यस्मात्ततोऽपि दानादेतदेव यन्मधुविद्यादानं भूयो बहुतरफलमित्यर्थः ।
द्विरभ्यास आदरार्थः ॥६॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्यैकादशः खण्डः
=======================================================================
३,१२.१
गायत्री वा इदं सर्वं भूतं यदिदं किञ्च ।
वाग्वै गायत्री ।
वाग्वा इदं सर्वं भूतं गायति च त्रायते च ॥ ३,१२.१ ॥
__________
भाष्य ३,१२.१ यत एवमतिशयफलैषा ब्रह्मविद्यातः सा प्रकारान्तरेणापि वक्तव्येति गायत्री वा इत्याद्यारभ्यते ।
गायत्रीद्वारेण चोच्यते ।
ब्रह्मणः सर्वविशेषरहितस्य नेति नेतीत्यादिशिषप्रतिषेधगम्यस्य दुर्बोधत्वात् ।
सत्स्वनेकेषु च्छन्दःसु गायत्र्या एव ब्रह्मज्ञानद्वारतयोपादानं प्राधान्यात् ।
सोमाहरणातितरच्छन्दोक्षराहरणेनेतरच्छन्दोव्याप्त्या च सर्वसवनव्यापकत्वाच्च यज्ञे प्राधान्यं गायत्र्याः ।
गायत्रीसारत्वाच्च ब्राह्मणस्य मातरमिव हित्वा गुरुतरां गायत्रीं ततोऽन्यद्गुरुतरं न प्रतिपद्यते यथोक्तं ब्रह्मापीति ।
तस्यामत्यन्तगौरवस्य प्रसिद्धत्वात् ।
अतो गायत्रीमुखेनैव ब्रह्मोच्यते ।
गायत्री वा इत्यवधारणार्थो वैशब्दः ।
इदं सर्वं भूतं प्रामिजातं यत्किञ्च स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव ।
तस्याश्छन्दोमात्रायाः सर्वभूतत्वमनुपपन्नमिति गायत्रीकारणं वाचं शब्दयत्यसौ गौरसावश्व इति च त्रायते च रक्षत्यमुष्मान्मा भैषीः किं ते भयमुत्थितमित्यादिना सर्वतो भयान्निवर्त्यमानो वाचा त्रातः स्यात् ।
यद्वाग्भूतं गायति च त्रायते च गायत्र्येव तद्गायति च त्रायते च वाचोऽनन्यत्वाद्गायत्र्याः ।
गानात्त्राणाच्च गायत्र्या गायत्रीत्वम् ॥१ ॥
_______________________________________________________________________
३,१२.२
या वै सा गायत्रीयं वाव सा येयं पृथिवी ।
अस्यां हीदं सर्वं भूतं प्रतिष्ठितम् ।
एतामेव नातिशीयते ॥ ३,१२.२ ॥
__________
भाष्य ३,१२.२ या वै सैवंलक्षणा सर्वभूतरूपा गायत्री, इयं वाव सा येयं पृथिवी ।
कथं पुनरियं पृथिवी गायत्रीति, उच्यतेसर्वभूतसम्बन्धात् ।
कथं सर्वभूतसम्बन्धः, अस्यां पृथिव्यां हि यस्मात्सर्वं स्थावरं जङ्गमं च भूतं प्रतिष्ठितमेतामेव पृथिवीं नातिशीयते नातिवर्तत इत्येतत् ।
यथा गानत्राणाभ्यां भूतसम्बन्धो गायत्र्या एवं भूतप्रतिष्ठानादुभूतसम्बद्धा पृथिव्यतो गायत्री पृथिवी ॥२ ॥
_______________________________________________________________________
३,१२.३
या वै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरम् ।
अस्मिन् हीमे प्राणाः प्रतिष्ठिताः ।
एतदेव नातिशीयन्ते ॥ ३,१२.३ ॥
__________
भाष्य ३,१२.३ या वै सा पृथिवी गायत्रीयं वाव सेदमेव ।
तत्किं, यदिदमस्मिन्पुरुषे कार्यकारणसङ्घाते जीवति शरीरं पार्थिवत्वाच्छरीरस्य ।
कथं शरीरस्य गायत्रीत्वमिति ।
उच्यतेअस्मिन्हीमे प्राणा भूतशब्दवाच्याः प्रतिष्ठिताः ।
अतः पृथिवीवद्भूतशब्दवाच्यप्राणप्रतिष्ठानाच्छरीरं गायत्री ।
एतदेव यस्माच्छरीरं नातिशीयन्ते प्राणाः ॥३ ॥
_______________________________________________________________________
३,१२.४
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयम् ।
अस्मिन् हीमे प्राणाः प्रतिष्ठिताः ।
एतदेव नातिशीयन्ते ॥ ३,१२.४ ॥
__________
भाष्य ३,१२.४ यद्व तत्पुरुषे शरीरं गायत्रीदं वाव तत् ।
यदिदमस्मिन्नन्तर्मध्ये पुरुषे हृदयं पुण्डरीकाख्यमेतद्गायत्री ।
कथमित्याहअस्मिन्हीमे प्राणाः प्रतिष्ठिता अतः शरीरवद्गायत्री हृदयम् ।
एतदेव च नातिशीयन्ते प्राणाः ।
"प्राणो ह पिता ।
प्राणो माता ।
"इति,"अहिंसन्सर्वभूतानि"इति च श्रुतेर्भूतशब्दवाच्याः प्राणाः ॥४ ॥
_______________________________________________________________________
३,१२.५
सैषा चतुष्पदा षड्विधा गायत्री ।
तदेतदृचाभ्यनूक्तम् ॥ ३,१२.५ ॥
__________
भाष्य ३,१२.५ सैषा चतुष्पदा षडक्षरपदा छन्दोरूपा सती भवति गायत्री षड्विधा वाग्भूतपृथिवीशरीरहृदयप्राणरूपा सती षड्विधा भवति ।
वाक्प्राणयोरन्यार्थनिर्दिष्टयोरपि गायत्रीप्रकारत्वम् ।
अन्यथा षड्विधसंख्यापूरणानुपपत्तेः ।
तदेतस्मिन्नर्थ एतद्गीयत्र्याख्यं ब्रह्म गायत्र्यनुगतं गायत्रीमुखेनोक्तमृचापि मन्त्रेणाभ्यनूक्तं प्रकाशितम् ॥५ ॥
_______________________________________________________________________
३,१२.६
तावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ३,१२.६ ॥
__________
भाष्य ३,१२.६ तावानस्य गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः ।
यावांश्चतुष्पात्षड्विधश्च ब्रह्मणो विकारः पादो गायत्रीति व्याख्यातः ।
अतस्तस्माद्विकारलक्षणाद्गायत्र्याख्याद्वाचारम्भणमात्रात्ततो ज्यायान्महत्तरश्च परमार्थसत्यरूपोऽविकारः पूरुषः पुरुषः सर्वपूरणात्पुरि शयनाच्च ।
तस्यास्य पादः सर्वा सर्वाणि भूतानि तेजोबन्नादीनि सस्थावरजङ्गमानि ।
त्रिपात्त्रयः पादा अस्य सोऽयं त्रिपात् ।
त्रिपादमृतं पुरुषाख्यं समस्तस्य गायत्र्यात्मनो दिवि द्योतनवति स्वात्मन्यवस्थितमित्यर्थ इति ॥६ ॥
_______________________________________________________________________
३,१२.७
यद्वै तद्ब्रह्मेतीदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशः ।
यो वै स बहिर्धा पुरुषादाकाशः ॥ ३,१२.७ ॥
__________
भाष्य ३,१२.७ यद्वै तत्त्रिपादमृतं गायत्रीमुखेनोक्तं ब्रह्मेतीदं वाव तदिदमेव ।
तद्योऽयं प्रसिद्धो बहिर्धा बहिः पुरुषादाकाशो भौतिको यो वै स बहिर्धा पुरुषादाकाश उक्तः ॥७ ॥
_______________________________________________________________________
३,१२.८
अयं वाव स योऽयमन्तः पुरुष आकाशः ।
यो वै सोऽन्तः पुरुष आकाशः ॥ ३,१२.८ ॥
__________
भाष्य ३,१२.८ अयं वाव स योऽयमन्तः पुरुषे शरीर आकाशो यो वै सोऽन्तः पुरुष आकाशः ॥८ ॥
_______________________________________________________________________
३,१२.९
अयं वाव स योऽयमन्तर्हृदय आकाशः ।
तदेतत्पूर्णमप्रवर्ति ।
पूर्णमप्रवर्तिनीं श्रियं लभते य एवं वेद ॥ ३,१२.९ ॥
__________
भाष्य ३,१२.९ अयं वाव स योऽयमन्तर्हृदये हृदयपुण्डरीक आकाशः ।
कथमेकस्य सत आकाशस्य त्रिधा भेद इति ।
उच्यतेबाह्येन्द्रियविषये जागरितस्थाने नभसि दुःखबाहुल्यं दृश्यते ।
ततोऽन्तःशरीरे स्वप्नस्थानभूते मन्दतरं दुःखं भवति स्वप्नान्पश्यतः ।
हृदयस्थे पुनर्नभसि न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति ।
अतः सर्वदुःखनिवृत्तिरूपमाकाशं सुषुप्तस्थानम् ।
अतो युक्तमेकस्यापि त्रिधा भेदान्वाख्यानम् ।
बहिर्धा पुरुषादारभ्याऽकाशस्य हृदये सङ्कोचकरणं चेतःसमाधानस्थानस्तुतये ।
यथा"त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ।
अर्धतस्तु कुरुक्षेत्रमर्धतस्तु पृथूदकम्"इति तद्वत् ।
तदेतद्धार्दाकाशाख्यं ब्रह्म पूर्णं सर्वगतं न हृदयमात्रपरिच्छिन्नमिति मन्तव्यम् ।
यद्यपि हृदयाकाशे चेतः समाधीयतेऽप्रवर्ति न कुतश्चित्क्वचित्प्रवर्तितुं शीलमस्येत्यप्रवर्ति तदनुच्छित्तिधर्मकम् ।
यथान्यानि भूतानि परिच्छिन्नान्युच्छित्तिधर्मकाणि न तथा हार्दं नभः ।
पूर्णामप्रवर्तिनीमनुच्छेदात्मिकां श्रियं विभूतिं गुणफलं लभते दृष्टं य एवं यथोक्तं पूर्णाप्रवर्तिगुणं ब्रह्म वेद जानातीहैव जीवंस्तद्भावं प्रतिपद्यत इत्यर्थः ॥९॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य द्वादशः खण्डः
=======================================================================
३,१३.१
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः ।
स योऽस्य प्राङ्सुषिः स प्राणः ।
तच्चक्षुः ।
स आदित्यः ।
तदेतत्तेजोऽन्नाद्यमित्युपासीत ।
तेजस्व्यन्नादो भवति य एवं वेद ॥ ३,१३.१ ॥
__________
भाष्य ३,१३.१ तस्य ह वा इत्यादिना गायत्र्याख्यस्य ब्रह्मण उपासनाङ्गत्वेन द्वारपालादिगुणविधानार्थमारभ्यते ।
यथा लोके द्वारपाला राज्ञ उपासनेन वशीकृता राजप्राप्त्यर्था भवन्ति तथेहापीति ।
तस्येति प्रकृतस्य हृदयस्येत्यर्थः ।
एतस्यानन्तरनिर्दिष्टस्य पञ्च पञ्चसंख्याका देवानां सुषयो देवसुषयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि देवेः प्राणादित्यादिभी रक्ष्यमाणानीत्यतो देवसुषयस्तस्य स्वर्गलोकभवनस्य हृदयस्यास्य यः प्राङ्सुषिः पूर्वाभिमुखस्य प्राग्गतं यच्छिद्रं द्वारं स प्राणस्तत्स्थस्तेन द्वारेण यः सञ्चरति वायुविशेषः स प्रागनितीति प्राणः ।
तेनैव सम्बद्धमव्यतिरिक्तं तच्चक्षुस्तथैव स आदित्यः"आदित्यो ह वै बाह्यः प्राणः"इति श्रुतेश्चक्षूरूपप्रतिष्ठाक्रमेण हृदि स्थितः ।
"स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषि"इत्यादि हि वाजसनेयके ।
प्राणवायुदेवतैव ह्येका चक्षुरादित्यश्च सहाऽश्रयेण ।
वक्ष्यति चप्राणाय स्वाहेति हतुं हविः सर्वमेतत्तर्पयतीति ।
तदेत्प्राणाख्यं स्वर्गलोकद्वारपालत्वाद्ब्रह्म ।
स्वर्गलोकं प्रतिपित्सुस्तेजश्चैतच्चक्षुरादित्यस्वरूपेण, अन्नाद्यत्वाच्च सवितुस्तेजोऽन्नाद्यमित्याभ्यां गुणाभ्यामुपासीत ।
ततस्तेजस्व्यन्नादश्चाऽमयावित्वरहितो भवति य एवं वेद तस्यैतद्गुणफलम् ।
उपासनेन वशीकृतो द्वारपः स्वर्गलोकप्राप्ति हेतुर्भवतीति मुख्यं च फलम् ॥१ ॥
_______________________________________________________________________
३,१३.२
अथ योऽस्य दक्षिणः सुषिः स व्यानः ।
तच्छ्रोत्रम् ।
स चन्द्रमाः ।
तदेतच्छ्रीश्च यशश्चेत्युपासीत ।
श्रीमान् यशस्वी भवति य एवं वेद ॥ ३,१३.२ ॥
__________
भाष्य ३,१३.२ अथ योऽस्य दक्षिणः सुषिस्तत्स्थो वायुविशेषः स वीर्यवत्कर्म कुर्वन्विगृह्य वा प्राणापानौ, नाना वानितीति व्यानस्तत्सम्बद्धमेव च तच्छ्रोत्रमिन्द्रियं तथा स चन्द्रमाः ।
"श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्चे"ति श्रुतेः ।
सहाश्रयौ पूर्ववत्तदेतच्छ्रीश्च विभूतिः श्रोत्रचन्द्रमसोर्ज्ञानान्नहेतुत्वमतस्ताभ्यां श्रीत्वम् ।
ज्ञानान्नवतश्च यशः ख्यातिर्भवतीति यशोहेतुत्वाद्यशस्त्वमतस्ताभ्यां गुणाभ्यामुपासीतेत्यादि समानम् ॥२ ॥
_______________________________________________________________________
३,१३.३
अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः ।
सा वाक् ।
सोऽग्निः ।
तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ।
ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३,१३.३ ॥
__________
भाष्य ३,१३.३ अथ योऽस्य प्रत्यङ्सुषिः पश्चिमस्तत्स्थो वायुविशेषः स मूत्रपुरीषाद्यपनयन्नधोऽनितीत्यपानः सा तथा वाक् ।
तत्सम्बन्धात्तथाग्निस्तदेतद्ब्रह्मवर्चसं, वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम् ।
अग्निसम्बन्धाद्वृत्तस्वाध्यायस्य ।
अन्नघ्रसनहेतुत्वादपानस्यान्नाद्यत्वम् ।
समानमन्यत् ॥३ ॥
_______________________________________________________________________
३,१३.४
अथ योऽस्योदङ्सुषिः स समानः ।
तन्मनः ।
स पर्जन्यः ।
तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत ।
कीर्तिमान् व्युष्टिमान् भवति य एवं वेद ॥ ३,१३.४ ॥
__________
भाष्य ३,१३.४ अथ योऽस्योदङ्सुषिरुदग्गतः सुषिस्तत्स्यो वायुविशेषः सोऽशितपीते समं नयतीति समानः ।
तत्सम्बद्धं मनोऽन्तःकरणं स पर्जन्यो वृष्ट्यात्मको देवः पर्जन्यनिमित्ताश्चाऽप इति ।
"मनसा सृष्टा आपश्च वरुणश्च"इति श्रुतेः ।
तदेत्कीर्तिश्च ।
मनसो ज्ञानस्य कीर्तिहेतुत्वात् ।
आत्मपरोक्षं वुश्रुतत्वं कीर्तिः ।
यशः स्वकरणसंवेद्यं विश्रुतत्वम् ।
व्युष्टिः कान्तिर्देहगतं लावण्यम् ।
ततश्च कीर्तिसम्भवात्कीर्तिश्चेति ।
समानमन्यत् ॥४ ॥
_______________________________________________________________________
३,१३.५
अथ योऽस्योर्ध्वः सुषिः स उदानः ।
स वायुः ।
स आकाशः ।
तदेतदोजश्च महश्चेत्युपासीत ।
ओजस्वी महस्वान् भवति य एवं वेद ॥ ३,१३.५ ॥
__________
भाष्य ३,१३.५ अथ योऽस्योर्ध्वः सुषिः स उदान आ पादलादारभ्योर्ध्वमुत्क्रमणादुत्कर्षार्थं च कर्म कुर्वन्ननितीत्युदानः स वायुस्तदाधारश्चाऽकाशस्तदेतद्वाय्वाकाशयोरोजोहेतुत्वादोजो बलं महत्वाच्च मह इति ।
समानमन्यत् ॥५ ॥
_______________________________________________________________________
३,१३.६
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः ।
स य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेदास्य कुले वीरो जायते ।
प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ॥ ३,१३.६ ॥
__________
भाष्य ३,१३.६ ते वा एते यथोक्ताः पञ्चसुषिसम्बन्धात्पञ्च ब्रह्मणो हार्दस्य पुरषा राजपुरुषा इव द्वारस्थाः स्वर्गस्य हार्दस्य लोकस्य द्वारपा द्वारपालाः ।
एतैर्हि चक्षुःश्रोत्रवाङ्मनःप्राणैर्बहिर्मुखप्रवृत्तैर्ब्रह्मणो हार्दस्य प्राप्तिद्वाराणि निरुद्धनि ।
प्रत्यक्षं ह्येतदजितकरणतया बाह्यविषयासङ्गानृतप्ररूढत्वान्न हार्दे ब्रह्मणि मनस्तिष्ठति ।
तस्मात्सत्यमुक्तमेते पञ्च ब्रह्मपुरुषाः स्वर्गस्य द्वारपा इति ।
अतः स य एतानेवं यथोक्तगुणविशिष्टान्स्वर्गस्य लोकस्य द्वारपान्वेदोपास्त उपासनया वशीकरोति स राजद्वारपालानिवोपासनेन वशीकृत्य तैरनिवारितः प्रतिपद्यते स्वर्गं लोर्क राजानमिव हार्दं ब्रह्म ।
किञ्चास्य विदुषः कुले वीरः पुत्रो जायते वीरपुरुषसेवनात् ।
तस्य चर्णापाकरणेन ब्रह्मोपासनप्रवृत्तिहेतुत्वम् ।
ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्येण भवतीति स्वर्गलोकप्रतिपत्तिरेवैकं फलम ॥६ ॥
_______________________________________________________________________
३,१३.७
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतःपृष्ठेषु सर्वतःपृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ।
तस्यैषा दृष्टिर्यत्रैतदस्मिञ्छरीरे संस्पर्शेनोष्णिमानं विजानाति ।
तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृनोति ।
तदेतद्दृष्टं च श्रुतं चेत्युपासीत ।
चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ३,१३.७ ॥
__________
भाष्य ३,१३.७ अथ यदसौ विद्वान्स्वर्गं लोकं वीरपुरुषसेवनात्प्रतिपद्यते ।
यच्चोक्तं"त्रिपादस्यामृतं दिवी"ति तदिदं लिङ्गेन चक्षुःश्रोत्रेन्द्रियगोचरमापादयितव्यम्, यथाग्न्यादि धूमादिलिङ्गेन ।
तथा ह्येवमेवेदमिति यथोक्तेऽथ दृढ प्रतीतिः स्यात् ।
अनन्यत्वेन च निश्चय इति ।
अत आहयदतोऽमुष्माद्दिवो द्युलोकात्परः परमिति लिङ्गव्यत्ययेन ।
ज्योतिर्दीप्यते ।
स्वयंप्रभं सदाप्रकाशत्वाद्दीप्यते इव दीप्यत इत्युच्यते ।
अग्न्यादिवाज्ज्वलनलक्षणाया दीप्तेरसम्भवात् ।
विश्वतः पृष्ठेष्वित्येतस्य व्याख्यान सर्वतः पृष्ठेष्विति ।
संसारादुपरीत्यर्थः ।
संसार एव हि सर्वः ।
असंसारिण एकत्वान्निर्भेदत्वाच्च ।
अनुत्तमेषु तत्पुरुषसमासाशङ्कानिवृत्तय आहोत्तमेषु लोकेष्विति सत्यलोकादिषु हिरण्यगर्भादिकार्यस्थपरस्येश्वरस्याऽसन्नत्वादुच्यत उत्तमेषु लोकेष्विति ।
इदं वावेदमेव तद्यदिदमस्मिन्पुरुषेऽन्तर्मध्ये ज्योतिश्चक्षुः श्रोत्रग्राह्येण लिङ्गेनोष्णिम्ना शब्देन चावगम्यते ।
यत्त्वचा स्पर्शरूपेण गृह्यते तच्चक्षुषैव ।
दृढप्रतीतिकरत्वात्त्वचः ।
अविनाभूतत्वाच्च रूपस्पर्शयोः ।
कथं पुनस्तस्य ज्योतिषो लिङ्गं त्वग्दृष्टिगोचरत्वमापद्यत इति, आहयत्र यस्मिन्काले ।
एतदिति क्रियाविशेषणम् ।
अस्मिञ्शरीरे हस्तेनाऽलभ्य संस्पर्शेनोष्णिमानं रूपसहभाविनमुष्णस्पर्शभावं विजानाति ।
स ह्यूष्णिमा नामरूपव्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिषो लिङ्गमव्यभिचारात् ।
न हि जीवन्तमात्मानमूष्णिमा व्यभिचरति"उष्ण एव जीविष्यञ्शीतो मरिष्यन्न्" इति हि विज्ञायते ।
मरणकाले च तेजः परस्यां देवतायामिति परेणाविभागत्वोपगमात् ।
अतोऽसाधारमं लिङ्गमौष्ण्यमग्नेरिव धूमः ।
अतस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनं दर्शनोपाय इत्यर्थः ।
तथा तस्य ज्योतिष एषा श्रुतिः श्रवणंश्रवणोपायोऽप्युच्यमानः ।
यत्र यदा पुरुषो ज्योतिषो लिङ्गं शुश्रूषति श्रोतमिच्छति तदैतत्कर्णावपिगृह्यैतच्छब्दः क्रियाविशेषणम् ।
अपिगृह्यापिधायेत्यर्थोऽङ्गुलिभ्यां प्रोर्णुत्य निनदमिव रथस्येव घोषो निनदस्तमिव शृणोति नदथुरिव ऋषभकूजितमिव शब्दो यथा चाग्नेर्बहिर्ज्वलत एवं शब्दमन्तः शरीर उपशृणोति तदेतज्ज्योतिर्दृष्टश्रुतलिङ्गत्वाद्दृष्टं च श्रुतं चेत्युपासीत ।
तथोपासनाच्चक्षुष्यो दर्शनीयः श्रुतो विश्रुतश्च ।
यत्स्पर्शगुणोपासननिमित्तं फलं तद्रूपे सम्पादयति चक्षुष्य इति ।
रूपस्पर्शयोः सहभावित्वात् ।
इष्टत्वाच्च दर्शनीयतायाः ।
एवं च विद्यायाः फलमुपपन्नं स्यान्न तु मृदुत्वादिस्पर्शवत्त्वे ।
य एवं यथोक्तौ गुणौ वेद ।
स्वर्गलोकप्रतिपत्तिस्तूक्तमदृष्टं फलम् ।
द्विरभ्यास आदरार्थः ॥७॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य त्रयोदशः खण्डः
=======================================================================
३,१४.१
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति ।
स क्रतुं कुर्वीत ॥ ३,१४.१ ॥
__________
भाष्य ३,१४.१ पुनस्तस्यैव त्रिपादमृतस्य ब्रह्मणोऽनन्तगुणवतोऽनन्तशक्तेरनेकभेदोपास्यस्य विशिष्टगुणशक्तिमत्वेनोपासनं विधित्सन्नाहसर्वं समस्तं॑खल्विति वाक्यालङ्कारार्थो निपातः ।
इदं जगन्नामरूपविकृतं प्रत्यक्षादिविषयं ब्रह्मकारणं वृद्धतमत्वाद्ब्रह्म ।
कथं सर्वस्य ब्रह्मत्वमित्यत आहतज्जलानिति ।
तस्माद्ब्रह्मणो जातं तेजोबन्नादिक्रमेण सर्वम् ।
अतस्तज्जम् ।
तथा तेनैव जननक्रमेण प्रतिलोमतया तस्मिन्नेव ब्रह्मणि लीयते तदात्मतया श्लिष्यत इति तल्लम् ।
तथा तस्मिन्नेव स्थितिकालेऽनिति प्राणिति चेष्टत इति ।
एवं ब्रह्मात्मतया त्रिषु कालेष्वविशिष्टं तद्व्यतिरेकेणाग्रहणात् ।
अतस्तदेवेदं जगत् ।
यथा चेदं तदेवैकमद्वितीयं तथा षष्ठे विस्तरेण वक्ष्यामः ।
यस्माच्च सर्वमिदं ब्रह्म, अतः शान्तो रागद्वेषादिदोषरहितः संयतः सन्यत्तत्सर्वं ब्रह्म तद्वक्ष्यमाणैर्गुणैरुपासीत ।
कथमुपासीत ।
क्रतुं कुर्वीत क्रतुर्निश्चयोऽध्यवसाय एवमेव नान्यथेत्यविचलः प्रत्ययस्तं क्रतुं कुर्वीतोपासीतेत्यनेन व्यवहितेन सम्बन्धः ।
किं पुनः क्रतुकरणेन कर्तव्यं प्रयोजनम् ।
कथं वा क्रतुः कर्तव्यः क्रतुकरणं चाभिप्रेतार्थसिद्धिसाधनं कथमित्यस्यार्थस्य प्रतिपादनार्थमथेत्यादिग्रन्थः ।
अथ खल्विति हेत्वर्थः ।
यस्मात्क्रतुमयः क्रतुप्रायोऽध्यवसायात्मकः पुरुषो जीवः ।
यथाक्रतुर्यादृशः क्रतुरस्य सोऽयं यथाक्रतुर्यथाध्यवसायो यादृङ्निश्चयोऽस्मिंल्लोके जीवन्निह पुरुषो भवति तथेतोऽस्माद्देहात्प्रेत्य मृत्वा भवति ।
क्रत्वनुरूपफलात्मको भवतीत्यर्थः ।
एवं ह्येतच्छास्रतो दृष्टम् ।
"यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्"इत्यादि ।
यत एवं व्यवस्था शास्रदृष्टातः स एवं जानन्कतुं कुर्वीत यादृशं क्रतुं वक्ष्यामस्तम् ।
यत एवं शास्रप्रामाण्यादुपपद्यते क्रत्वनुरूपं फलमतः स कर्तव्यः क्रतुः ॥१ ॥
_______________________________________________________________________
३,१४.२
मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥ ३,१४.२ ॥
__________
भाष्य ३,१४.२ कथम् ।
मनोमयो मनःप्रायः ।
मनुतेऽनेनेति मनस्तत्स्ववृत्त्या विषयेषु प्रवृत्तं भवति तेन मनसा तन्मयः, तथा प्रवृत्त इव तत्प्रायो निवृत्त इव च ।
अत एव प्राणशरीरः प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्वयसंमीर्छितः ।
"यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः"इति श्रुतेः ।
स शरीरं यस्य स प्राणशरीरः ।
"मनोमयः £आणशरीरनेता"इति च श्रुत्यन्तरात् ।
भारूपः ।
भा दीप्तिश्चैतन्यलक्षणं रूपं यस्य स भारूपः ।
सत्यसङ्कल्पः ।
सत्या अवितथाः सङ्कल्पा यस्य सोऽयं सत्यसङ्कल्पः ।
न यथा संसारिण इवानैकान्तिकफलः सङ्कल्प ईश्वरस्येत्यर्थः ।
अनृतेन मिथ्याफलत्वहेतुना प्रत्यूढत्वात्सङ्कल्पस्य मिथ्याफलत्वम् ।
वक्ष्यत्यनृतेन हि प्रत्यूढा इति ।
आकाशात्मा ।
आकाश इवाऽत्मा स्वरूपं यस्य स आकाशात्मा ।
सर्वगतत्वं सूक्ष्मत्वं रूपदिहीनत्वं चाऽकाशतुल्यतेश्वरस्य ।
सर्वकर्मा ।
सर्वं विश्वं तेनेश्वरेण क्रियत इति जगत्सर्वं कर्मास्य स सर्वकर्मा ।
"स हि सर्वस्य कर्ता"इति श्रुतेः ।
सर्वकामः ।
सर्वे कामा दोषरहिता अस्येति सर्वकामः ।
"धर्मविरुद्धो भूतेषु कामोऽस्मि"इति स्मृतेः ।
ननु कामोऽस्मीति वचनादिह बहुव्रीहिस्तथा कामोऽस्मीतिस्मृत्यर्थो वाच्यः ।
सर्वगन्धः ।
सर्वे गन्धाः सुखकरा अस्य सोऽयं सर्वगन्धः ।
"पुण्यो गन्धः पृथिव्याम्"इति स्मृतेः ।
तथा रसा अपि विज्ञेयाः. अपुण्यगन्धरसग्रहणस्य पाप्मसम्बन्धनिमित्तत्वश्रवणात् ।
"तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च ।
पाप्मना ह्येषु विद्धः"इति श्रुतेः ।
न च पाप्मसंसर्ग ईश्वरस्य, अविद्यादिदोषस्यानुपपत्तेः ।
सर्वमिदं जगदभ्यात्तोऽभिव्याप्तः ।
अततेर्व्याप्त्यर्थस्य कर्तरि निष्ठा ।
तथावाक्युच्यतेऽनयेति वाग्वागेव वाकः ।
द्वा वचेर्घञन्तस्य करणे वाक् ।
स यस्य विद्यते स वाकी न वाक्यवाकी ।
वाक्प्रतिषेधश्चात्रोपलक्षणार्थः ।
गन्धरसादिश्रवणादीश्वरस्य प्राप्तानिघ्राणादीनि करणानि गन्धादिग्रहणाय ।
अतो वाक्प्रतिषेधेन प्रतिषिध्यन्ते तानि ।
"अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः"इत्यादिमन्त्रवर्णात् ।
अनादरोऽसंभ्रमः ।
अप्राप्तप्राप्तौ हि संभ्रमः स्यादनाप्तकामस्य ।
न त्वाप्तकामत्वान्नित्यतृप्तस्येश्वरस्य संभ्रमोऽस्ति क्वचित् ॥२ ॥
_______________________________________________________________________
३,१४.३
एष म आत्मा अन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा ।
एष म आत्मा अन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः ॥ ३,१४.३ ॥
__________
भाष्य ३,१४.३ एष यथोक्तगुणो मे ममाऽत्मान्तर्हृदये हृदयपुण्डरीकस्यान्तर्मध्येऽणीयानणुतरो व्रीहेर्वा यवाद्वेत्याद्यत्यन्तसूक्ष्मत्वप्रदर्शनार्थम् ।
श्यामाकाद्वा श्यामाकतण्डुलाद्वेति परिच्छिन्नपरिमाणादणीयानित्युक्तेऽणुपरिमाणत्वं प्राप्तमाशङ्क्यातस्तत्प्रतिषेधायाऽरभते एष म आत्मान्तर्हृदये ज्यायान्पृथिव्या इत्यादिना ।
ज्यायःपरिमाणाच्च ज्यायस्त्वं दर्शयन्ननन्तपरिमाणत्वं दर्शयति ॥३ ॥
_______________________________________________________________________
३,१४.४
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यत्तोऽवाक्यनादरः ।
एष म आत्मा अन्तर्हृदये ।
एतद्ब्रह्म ।
एतमितः प्रेत्याभिसंभविता अस्मीति यस्य स्यादद्धा न विचिकित्सा अस्ति ।
इति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ३,१४.४ ॥
__________
भाष्य ३,१४.४ मनोमय इत्यादिना ज्यायानेभ्यो लोकेभ्य इत्यन्तेन यथोक्तगुणलक्षण ईश्वरो ध्येयो न तु तद्गुणविशिष्ट एव यथा राजपुरुषमानय चित्रगुं वेत्युक्ते न विशेषणश्याप्यानयने व्याप्रियते तद्वदिहापीति प्राप्तमतस्तन्निवृत्त्यर्थ सर्वकर्मेत्यादि पुनर्वचनम् ।
तस्मान्मनोमयत्वादिगुणविशिष्ट एवेश्वरो ध्येयः ।
अत एव षष्ठसप्तमयोरिव तत्त्वमस्यात्मैवेदं सर्वमिति नेह स्वाराज्येऽभिषिञ्चति ।
एष म आत्मैतद्ब्रह्मैतमितः प्रत्याभिसम्भवितास्मीति लिङ्गान्न त्वात्मशब्देन प्रत्यगात्मैवोच्यते ।
ममेति षष्ठ्याः सम्बन्धार्थप्रत्यायकत्वादेतमभिसम्भवितास्मीति च कर्मकर्तृत्वनिर्देशात् ।
ननु षष्ठेऽप्यथ सम्पत्स्य इति सत्सम्पत्तेः कालान्तरितत्वं दर्शयति ।
न, आरब्धसंस्कारशेषस्थित्यर्थपरत्वात्न कालान्तरितार्थता ।
अन्यथा तत्त्वमसीत्येतस्यार्थस्य बाधप्रसङ्गात् ।
यद्यप्यात्मशब्दस्य प्रत्यगर्थत्वं सर्वं खल्विदं ब्रह्मेति च प्रकृतमेष म आत्मान्तर्हृदय एतद्ब्रह्मेत्युच्यते तथाप्यन्तर्धानमीषदपरित्यज्यैवैतमात्मानमितोऽस्माच्छरीरात्प्रेत्याभिसम्भवितास्मीत्युक्तम् ।
यथाक्रतुरूपस्याऽत्मनः प्रतिपत्तास्मीति यस्यैवंविदः स्याद्भवेदद्धा सत्यमेवं स्यामहं प्रेत्य एवं न स्यामिति न च विचिकित्सास्तीत्येतस्मिन्नर्थे क्रतुफलसम्बन्धे स तथैवेश्वरभावं प्रतिपद्यते विद्वानित्येतदाह स्मोक्तवान्किल शाण्डल्यो नामर्षिः ।
द्विरभ्यास आदरार्थः ॥४॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य चतुर्दशः खण्डः
=======================================================================
३,१५.१
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति ।
दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलम् ।
स एष कोशो वसुधानस्तस्मिन् विश्वमिदं श्रितम् ॥ ३,१५.१ ॥
__________
भाष्य ३,१५.१ अस्य कुले वीरो जायत इत्युक्तम् ।
न वीरजन्ममात्रं पितुस्त्राणाय ।
"तस्मात्पुत्रमनुश्ष्टं लोक्यमाहुः"इति श्रुत्यन्तरात् ।
अतस्तद्दीर्घायुष्ट्वं कथं स्यादित्येवमर्थं कोशविज्ञानारम्भः ।
अभ्यर्हितविज्ञानव्यासङ्गादनन्तरमेव नोक्तं तदिदानीमेवाऽरभ्यतेअन्तरिक्षमुदरमन्तःसुषिरं यस्य सोऽयमन्तरिक्षोदरः कोशः कोश इवानेकधर्मसादृश्यात्कोशः ।
स च भूमिबुध्नो भूमिर्बुध्नो मूलं यस्य स भूमिबुध्नो न जीर्यति न विनश्यति त्रैलोक्यात्मकत्वात् ।
सहस्रयुगकालावस्थायी हि सः ।
दिशो ह्यस्य सर्वाः स्रक्तयः कोणाः ।
द्यौरस्य कोशस्योत्तरमूर्ध्वं बिलं स एष यथोक्तगुणः कोशो वसुधानो वसु धीयतेऽस्मिन्प्राणिनां कर्मफलाख्यमतो वसुधानः ।
यस्मिन्नन्तर्विश्वं समस्तं प्राणिकर्मफलं सह तत्साधनैरिदं यद्गृह्यते प्रत्यक्षादिप्रमाणैः श्रितमाश्रितं स्थितमित्यर्थः ॥१ ॥
_______________________________________________________________________
३,१५.२
तस्य प्राची दिग्जुहूर्नाम ।
सहमाना नाम दक्षिणा ।
राज्ञी नाम प्रतीची ।
सुभूता नामोदीची ।
तासां वायुर्वत्सः ।
स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति ।
सोऽहमेतमेवं वायुं दिशां वत्सं वेद ।
मा पुत्ररोदं रुदम् ॥ ३,१५.२ ॥
__________
भाष्य ३,१५.२ तस्यास्य प्राची दिग्प्राग्गतो भागो जुहूर्नाम जुह्वत्यस्यां दिशि कर्मिणः प्राङ्मुखाः सन्त इति जुहूनमि ।
सहमाना मान सहन्तेऽस्यां पापकर्मफलानि यमपुर्यां प्राणिन इति सहमाना नाम दक्षिणादिक् ।
तथा राज्ञी नाम प्रतीची पश्चिमा दिग्राज्ञी राज्ञा वरुणेनाधिष्ठिता सन्ध्यारागयोगाद्वा ।
सुभूता नाम भूतिमद्भिरीश्वरकुबेरादिभिरधिष्ठितत्वात्सुभूता नामोदीची ।
तासां दिशां वायुर्वत्सो दिग्जत्वाद्वायोः ।
"पुरोवात"इत्यादिदर्शनात् ।
स यः कश्चित्पुत्रदीर्घजीवितर्थ्येवं यथोक्तगुणं वायुं दिशां वत्सममृतं वेद स न पुत्ररोदं पुत्रनिमित्तं रोदनं न रोदिति पुत्रो न म्रियत इत्यर्थः ।
यत एवं विशिष्टं कोशदिग्वत्सविषयं विज्ञानमतः सोऽहं पुत्रजीवितार्थ्येवमेतं वायुं दिशां वत्सं वेद जाने ।
अतो मा पुत्ररोदं रुदं मा रुदं पुत्रमरणनिमित्तम् ।
पुत्रोरोदो मम मा भूदित्यर्थः ॥२ ॥
_______________________________________________________________________
३,१५.३
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना ।
प्राणं प्रपद्येऽमुनामुनामुना ।
भूः प्रपद्येऽमुनामुनामुना ।
भुवः प्रपद्येऽमुनामुनामुना ।
स्वः प्रपद्येऽमुनामुनामुना ॥ ३,१५.३ ॥
__________
भाष्य ३,१५.३ अरिष्टमविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नोऽस्मि पुत्रायुषे ।
अमुनामुनामुनेति त्रिर्नाम गृह्णाति पुत्रस्य ।
तथा प्राणं प्रपद्येऽमुनामुनामुना, भूः प्रपद्येऽमुनामुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना, सर्वत्र प्रपद्य इति त्रिनमि गृह्णाति पुनः पुनः ॥३ ॥
_______________________________________________________________________
३,१५.४
स यदवोचं प्राणं प्रपद्य इति ।
प्रानो वा इदं सर्वं भूतं यदिदं किंच ।
तमेव तत्प्रापत्सि ॥ ३,१५.४ ॥
__________
भाष्य ३,१५.४ स यदवोचं प्राणं प्रपद्य इति व्याख्यानार्थमुपन्यासः ।
प्राणो वा इदंसर्वं भूतं यदिदं जगत् ।
"यथा वारानाभाव्" इति वक्ष्यति ।
अतस्तमेव सर्वं तत्तेन प्राणप्रपदनेन प्रापत्सि प्रपन्नोऽभवम् ॥४॥
३.१५.५ अथ यदवीचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥५॥
__________
भाष्य ३,१५.५
तथा भूः प्रपद्य इति त्रींल्लोकान्भूरादीन्प्रपद्य इति तदवोचम् ॥५ ॥
_______________________________________________________________________
३,१५.६
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ३,१५.६ ॥
__________
भाष्य ३,१५.६ अथ यदवोचं भुवः प्रपद्य इत्यग्न्यादीन्प्रपद्य इति तदवोचम् ॥६ ॥
_______________________________________________________________________
३,१५.७
अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचम् ॥ ३,१५.७ ॥
__________
भाष्य ३,१५.७ अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदादीन्प्रपद्य इत्येव तदवोचमिति ।
उपरिष्टान्मन्त्राञ्जपेत्ततः पूर्वोक्तमजरं कोशं सदिग्वत्सं यथावद्ध्यात्वा द्विर्वचनमादरार्थम् ॥७॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य पञ्चदशः खण्डः
=======================================================================
३,१६.१
पुरुषो वाव यज्ञः ।
तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातःसवनम् ।
चतुर्विंशत्यक्षरा गायत्री ।
गायत्रं प्रातःसवनम् ।
तदस्य वसवोऽन्वायत्ताः ।
प्राणा वाव वसवः ।
एते हीदं सर्वं वासयन्ति ॥ ३,१६.१ ॥
__________
भाष्य ३,१६.१ पुत्रायुष उपासनमुक्तं जपश्च ।
अथेदानीमात्मनो दीर्घजीवनायेदमुपासनं जपं च विदधदाह ।
जीवन्हि स्वयं पुत्रादिफलेन युज्यते नान्यथा इत्यत आत्मानं यज्ञं सम्पादयतिपुरषः पुरुषो जीवनविशिष्टः कार्यकरणसङ्घातो यथाप्रसिद्ध एव ।
वावशब्दोऽवधारणार्थः ।
पुरष एव यज्ञ इत्यर्थः ।
तथा हि सामान्यैः सम्पादयति यज्ञत्वम् ।
कथम् ।
तस्य पुरुषस्य यानि चतुर्विंशतिवर्षाण्यायुषस्तत्प्रातःसवनं यज्ञस्य ।
केन सामान्येनेत्याहचतुर्विंशत्यक्षरा गायत्रो छन्दो गायत्रं गायत्रीछन्दस्कं हि विधियज्ञस्य प्रातःसवनम् ।
अतः प्रातःसवनसम्पन्नेन चतुर्विंशतिवर्षायुषा युक्तः पुरुषः ।
अतो विधियज्ञसादृश्याद्यज्ञः ।
तथोत्तरयोरप्यायुषोः सवनद्वयसम्पत्तिस्रिष्टुब्जगत्यक्षरसंख्यासामान्यतो वाच्या ।
किञ्च तदस्य पुरुषयज्ञस्य प्रातःसवनं विधियज्ञस्येव वसवो देवा अन्वायत्ता अनुगताः ।
सवनदेवतात्वेन स्वामिन इत्यर्थः ।
पुरुषयज्ञेऽपि विधियज्ञ इवाग्न्यादयो वसवो देवाः प्राप्ता इत्यतो विशिनष्टिप्राणा वाव वसवो वागादयो वायवश्च ।
तेहि यस्मादिदं पुरुषादिप्राणिजातमेते वासयन्ति ।
प्राणेषु हि देहे वत्सतु सर्वमिद वसति नान्यथा ।
इत्यतो वसनाद्वासनाच्च वसवः ॥१ ॥
_______________________________________________________________________
३,१६.२
तं चेदेतस्मिन् वयसि किंचिदुपतपेत्स ब्रूयात् ।
प्राणा वसव इदं मे प्रातःसवनं माध्यंदिनं सवनमनुसंतनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेति ।
उद्धैव तत एत्यगदो ह भवति ॥ ३,१६.२ ॥
__________
भाष्य ३,१६.२ तं चेद्यज्ञसम्पादितमेतस्मिन्प्रातः सवनसम्पन्ने वयसि किञ्चिद्व्याध्यादि मरणशङ्कारणमुपतपेद्दुःखमुत्पादयेत्स तदा यज्ञसम्पादी पुरुष आत्मानं यज्ञं मन्यमानो ब्रूयाज्जपेदित्यर्थः इमं मन्त्रं हे प्राणा वसव अदं मे प्रातः सवनं मम यज्ञस्य वर्तते तन्माध्यन्दिनं सवनमनुसन्तनुतेति माध्यन्दिनेन सवनेनाऽयुषा सहितमेकीभूतं सन्ततं कुरुतेत्यर्थः ।
माहं यज्ञो युष्माकं प्राणानां वसूनां प्रातःसवनेशानां मध्ये विलोप्सीय विलुप्येय विच्छिद्येयेत्यर्थः ।
इतिशब्दो मन्त्रपरिसमाप्त्यर्थः ।
स तेन जपेन ध्यानेन च ततस्तस्मादुपतापादुदेत्युद्गच्छति ।
उद्गम्य विमुक्तः सन्नगदो हानुपतापो भवत्येव ॥२ ॥
_______________________________________________________________________
३,१६.३
अथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यंदिनं सवनम् ।
चतुश्चत्वारिंशदक्षरा त्रिष्टुप् ।
त्रैष्टुभं माध्यंदिनं सवनम् ।
तदस्य रुद्रा अन्वायत्ताः ।
प्राणा वाव रुद्राः ।
एते हीदं सर्वं रोदयन्ति ॥ ३,१६.३ ॥
__________
भाष्य ३,१६.३ अथ यानि चतुश्चत्वारिंशद्वर्षाणीत्यादि समानम् ।
रुदन्ति रोदयन्तीति प्राणा रुद्राः ।
क्रूरा हि ते मध्यमेवयस्यतो रुद्राः ॥३ ॥
_______________________________________________________________________
३,१६.४६
तं चेदेतस्मिन् वयसि किंचिदुपतपेत्स ब्रूयात् ।
प्राणा रुद्रा इदं मे माध्यंदिनं सवनं तृतीयसवनमनुसंतनुतेति माहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेति ।
उद्धैव तत एत्यगदो ह भवति ॥ ३,१६.४ ॥
अथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयसवनम् ।
अष्टाचत्वारिंशदक्षरा जगती ।
जागतं तृतीयसवनम् ।
तदस्यादित्या अन्वायत्ताः ।
प्राणा वावादित्याः ।
एते हीदं सर्वमाददते ॥ ३,१६.५ ॥
तं चेदेतस्मिन् वयसि किंचिदुपतपेत्स ब्रूयात् ।
प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेति ।
उद्धैव तत एत्यगदो हैव भवति ॥ ३,१६.६ ॥
__________
भाष्य ३,१६.४६ तथाऽदित्याः प्राणाः ।
ते हीदं शब्दादिजातमाददतेऽत आदित्यास्तृतीयसवनमायुः षोडशोत्तरवर्षशतं समापयतानुसन्तनुत यज्ञं समापयतेत्यर्थः ।
समानमन्यत् ॥४६ ॥
_______________________________________________________________________
३,१६.७
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः ।
स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामिति ।
स ह षोडशं वर्षशतमजीवत् ।
प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ३,१६.७ ॥
__________
भाष्य ३,१६.७ निश्चिता हि विद्या फलायेत्येतद्दर्शयन्नुदाहरतिएतद्यज्ञदर्शनं ह स्म वै किल तद्विद्वानाह महिदासो नामतः ।
इतराया अपत्यमैतरेयः ।
किं कस्मान्मे ममैतदुपतपनमुपतपसि स त्वं हे रोग योऽहं यज्ञोऽनेन त्वत्कृतेनोपतापेन न प्रेष्यामि न मरिष्याम्यतो वृथा तव श्रम इत्यर्थः ।
इत्येवमाह स्मेति पूर्वेण सम्बन्धः ।
स एवंनिश्चयः सन्षोडशं वर्षशतमजीवत् ।
अन्योऽप्येवंनिश्चः षोडशं वर्षशतं प्रजीवति य एवं यथोक्तं यज्ञसम्पादनं वेद जानाति स इत्यर्थः ॥७॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य षोडशः खण्डः
=======================================================================
३,१७.१
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ ३,१७.१ ॥
__________
भाष्य ३,१७.१ स यदशिशिषतोत्यादियज्ञसामान्यनिर्देशः पुरुषस्य पूर्वेणैव सम्बध्यते ।
यदशिशिषत्यशितुमिच्छति ।
तथा पिपासति पातुमिच्छति ।
यन्न रमत इष्टाद्यप्राप्तिनिमित्तं यदैवञ्जातीयकं दुःखमनुभवति ता अस्य दीक्षाः ।
दुःखसामान्याद्विधियज्ञस्येव ॥१ ॥
_______________________________________________________________________
३,१७.२
अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ ३,१७.२ ॥
__________
भाष्य ३,१७.२ अथ यदश्नाति यत्पिबति यद्रमते रतिं चानुभवतीष्टादिसंयोगात्तदुपसदैः समानतामेति ।
उपसदां च पयोव्रतत्वनिमित्तं सुखमस्ति ।
अल्पभोजनीयानि चाहान्याश्वासन्नानीति प्रश्वासोऽतोऽशनादीनामुपसदां च सामान्यम् ॥२ ॥
_______________________________________________________________________
३,१७.३
अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥ ३,१७.३ ॥
__________
भाष्य ३,१७.३ अथ यद्धसति यज्जक्षति भक्षयति यन्मैथुनं चरति स्तुतशस्रैरेव तत्समानतामेति ।
शब्दवत्त्वसामान्यात् ॥३ ॥
_______________________________________________________________________
३,१७.४
अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ३,१७.४ ॥
__________
भाष्य ३,१७.४ अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ।
धर्मपुष्टिकरत्वसामान्यात् ॥४ ॥
_______________________________________________________________________
३,१७.५
तस्मादाहुः सोष्यत्यसोष्टेति ।
पुनरुत्पादनमेवास्य तत् ।
मरणमेवावभृथः ॥ ३,१७.५ ॥
__________
भाष्य ३,१७.५ यस्माच्च यज्ञः पुरषस्तस्मात्तं जनयिष्यति माता यदा तदाऽहुरन्ये सोष्यतीति तस्य मातरं यदा च प्रसूता भवति तदासोष्ट पूर्णिकेति विधियज्ञ इव सोष्यति सोमं देवदत्तोऽसोष्ट सोमं यज्ञदत्त इति, अतः शब्दसामान्याद्वा पुरुषो यज्ञः ।
पुनरुत्पादनमेवास्य तत्पुरुषाख्यस्य यज्ञस्य यत्सोष्यत्यसोष्टेति शब्दसम्बन्धित्वं विधियज्ञस्येव ।
किञ्च तन्मरणमेवास्य पुरुषयज्ञस्यावभृथः समाप्तिसामान्यात् ॥५ ॥
_______________________________________________________________________
३,१७.६
तद्धैतद्घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच ।
अपिपास एव स बभूव ।
सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसंशितमसीति ।
तत्रैते द्वे ऋचौ भवतः ॥ ३,१७.६ ॥
__________
भाष्य ३,१७.६ तद्धैतद्यज्ञदर्शनं घोरो नामत आङ्गिरसो गोत्रतः कृष्णाय देवकीपुत्राय शिष्यायोकत्वोवाच तदेतत्त्रयमित्यादिव्यवहितेन सम्बन्धः ।
स चैतद्दर्शनं श्रुत्वापिपास एवाम्याभ्यो विद्याभ्यो बभूव ।
इत्थं च विशिष्टेयं विद्या यत्कृष्णस्य देवकीपुत्रस्यान्यां विद्यां प्रति तृड्विच्छेदकरीति पुरुषयज्ञविद्यां स्तौति ।
घोर आङ्गिरसः कृष्णायोक्त्वेमां विद्यां किमुवाचेति तदाहस एवं यथोक्तयज्ञविदन्तवेलायां मरणकाल एतन्मन्त्रत्रयं प्रतिपद्येत जपेदित्यर्थः ।
किं तदक्षितमक्षीणमक्षतं वासीत्येकं यजुः सामर्थ्यादादित्यस्थं प्राणं चैकीकृत्याऽह ।
तथा तमेवाऽहाच्युतं स्वरूपादप्रच्युतमसीति द्वितीयं यजुः ।
प्राणसंशितं प्राणश्च स संशितं सम्यक्तनूकृतं च सूक्ष्मं तत्त्वमसीति तृतीयं यजुः ।
तत्रैतस्मिन्नर्थे विद्यास्तुतिपरे द्वे ऋचौ मन्त्रौ भवतो न जपार्थे ।
त्रयं प्रतिपद्येतेति त्रित्वसंख्याबाधनात् ।
पञ्चसंख्या हि तदा स्यात् ॥६ ॥
_______________________________________________________________________
३,१७.७
आदित्प्रत्नस्य रेतसः ।
उद्वयं तमसस्परि ।
ज्योतिः पश्यन्त उत्तरम् ।
स्वः पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ३,१७.७ ॥
__________
भाष्य ३,१७.७ आदिदित्यत्राऽकारस्यानुबन्धस्तकारोऽनर्थक इच्छब्दश्च ।
प्रत्नस्य चिरन्तनस्य पुराणस्येत्यर्थः ।
रेतसः कारणस्य बीजभूतस्य जगतः सदाख्यस्य ज्योतिः प्रकाशं पश्यन्ति ।
आशब्द उत्सृष्टानुबन्धः पश्यन्तीत्यनेन सम्बध्यते ।
किं तज्जयोतिः पश्यन्ति ।
वासरमहरहरिव तत्सर्वतो व्याप्तं ब्रह्मणो ज्योतिः ।
निवृत्तचक्षुषो ब्रह्मविदो ब्रह्मचर्यादिनिवृत्तिसाधनैः शुद्धान्तःकरणा आ समन्ततो ज्योतिः पश्यन्तीत्यर्थः ।
परः परमिति लिङ्गव्यत्ययेन, ज्योतिष्परत्वात् ।
यदिध्यते दीप्यते दिवि द्योतनवति पस्मिन्ब्रह्मणि वर्तमानम् ।
येन ज्योतिषेद्धः सविता तपति चन्द्रमा भाति विद्युद्विद्योतते ग्रहतारागणा विभासन्ते ।
किञ्चान्यो मन्त्रदृगाह यथोक्तं ज्योतिः पश्यन् ।
उद्वयं तमसोऽज्ञानलक्षणात्परि परस्तादिति शेषः ।
तमसो वापनेतृ यज्जयोतिरुत्तरमादित्यस्थं परिपश्यन्तो वयमुदगन्मेति व्यवहितेन सम्बन्धः ।
तज्ज्योतिः स्वः स्वमात्मीयमस्मद्धृदि स्थितम् ।
आदित्यस्थं च तदेकं ज्योतिः ।
यदुत्तरमुत्कृष्टतरमूर्ध्वतरं वापरं ज्योतिरपेक्ष्य पश्यन्त उदगन्म वयम् ।
कमुदगन्मेत्याह ।
देवं द्योतनवन्तं देवत्रा देवेषु सर्वेषु सूर्यं रसानां रश्मीनां प्राणानां च जगत ईरणात्सूर्यस्तमुदगन्म गतवन्तो ज्योतिरुत्तमं सर्वज्योतिर्भ्य उत्कृष्टतममहो प्राप्ता वयमित्यर्थः ।
इदं तज्ज्योतिर्यदृग्भ्यां स्तुतं यद्यजुस्त्रयेण प्रकाशितम् ।
द्विरभ्यासो यज्ञकल्पनापरिसमाप्त्यर्थः ॥७॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य सप्तदशः खण्डः
=======================================================================
३,१८.१
मनो ब्रह्मेत्युपासीत ।
इत्यध्यात्मम् ।
अथाधिदैवतम् ।
आकाशो ब्रह्म ।
इत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ ३,१८.१ ॥
__________
भाष्य ३,१८.१ मनोमय ईश्वर उक्त आकाशात्मेति च ब्रह्मणो गुणैकदेशत्वेन ।
अथेदानीं मन आकाशयोः समस्तब्रह्मदृष्टिविधानार्थ आरम्भो मनो ब्रह्मेत्यादि ।
मनो मनुतेऽनेनेत्यन्तःकरणं तद्ब्रह्म परमित्युपासीतेति एतदात्मविषयं दर्शनमध्यात्मम् ।
अथाधिदैवतं देवताविषयमिदं वक्ष्यामः ।
आकाशो ब्रह्मेत्युपासीत ।
एवमभुयमध्यात्ममधिदैवतं चोभयं ब्रह्मदृष्टिविषयमादिष्टमुपदिष्टं भवति ।
आकाशमनसोः सूक्ष्मत्वात् ।
मनसोपलभ्यत्वाच्च ब्रह्मणो योग्यं मनो ब्रह्मदृष्टेः ।
आकाशश्च सर्वगतत्वात्सूक्ष्मत्वादुपाधिहीनत्वाच्च ॥१ ॥
_______________________________________________________________________
३,१८.२
तदेतच्चतुष्पाद्ब्रह्म ।
वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पादः ।
इत्यध्यात्मम् ।
अथाधिदैवतम् ।
अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादः ।
इत्युभयमेवादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ ३,१८.२ ॥
__________
भाष्य ३,१८.२ तदेतन्मन आख्यं चतुष्पाद्ब्रह्म, चत्वारः पादा अस्येति ।
कथं चतुष्पात्त्वं मनसो ब्रह्मण इत्याहवाक्प्राणश्चक्षुः श्रोत्रमित्येते पादा इत्यध्यात्मम् ।
अथाधिदैवतमाकाशस्य ब्रह्मणोऽग्निर्वायुरादित्यो दिश इत्येते ।
एवमुभयमेव चतुष्पाद्ब्रह्माऽदिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥२ ॥
_______________________________________________________________________
३,१८.३
वागेव ब्रह्मणश्चतुर्थः पादः ।
सोऽग्निना ज्योतिषा भाति च तपति च ।
भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३,१८.३ ॥
__________
भाष्य ३,१८.३ तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पाद इतरपादत्रयापेक्षया ।
वाचा हि पादेनेव गवादि वक्तव्यविषयं प्रति प्रतिष्ठति ।
अतो मनसः पाद इव वाक् ।
तथा प्राणो घ्राणः पादः ।
तेनापि गन्धविषयं प्रति चङ्क्रमति ।
तथा चक्षुः पादः श्रोत्रं पाद इत्येवमध्यात्मं चतुष्पात्तवं मनसो ब्रह्मणः ।
अथाधिदैवतमग्निवाय्वादित्यदिश आकाशस्य ब्रह्मण उदार इव गोः पादा विलग्ना उपलभ्यन्ते ।
तेन तस्याऽकाशस्याग्न्यादयः पादा उच्यन्ते ।
एवमुभयमध्यात्मं चैवाधिदैवतं चतुष्पादादिष्टं भवति ।
तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पादः ।
सोऽग्निनाधिदैवतेन ज्योतिषा भाति च दीप्यते तपति च सन्तापं चौष्ण्यं करोति ।
अथवा तैलघृताद्याग्नेयाशनेनेद्धा वाग्भाति च तपति च वदनायोत्साहवती स्यादित्यर्थः ।
विद्वत्फलं भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं यथोक्तं वेदः ॥३ ॥
_______________________________________________________________________
३,१८.४६
प्राण एव ब्रह्मणश्चतुर्थः पादः ।
स वायुना ज्योतिषा भाति च तपति च ।
भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३,१८.४ ॥
चक्षुरेव ब्रह्मणश्चतुर्थः पादः ।
स आदित्येन ज्योतिषा भाति च तपति च ।
भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३,१८.५ ॥
श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः ।
स दिग्भिर्ज्योतिषा भाति च तपति च ।
भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ३,१८.६ ॥
__________
भाष्य ३,१८.४,५,६ तथा प्राण एव ब्रह्मणश्चतुर्थः पादः ।
स वायुना गन्धाय भाति च तपति च ।
तता चक्षुरादित्येन रूपग्रहणाय श्रोत्रं दिग्भिः शब्दग्रहणाय ।
विद्याफलं समानं सर्वत्र ब्रह्मसम्पत्तिरदृष्टं फलं य एवं वेद ।
द्विरुक्तिर्दर्शनसमाप्त्यर्था ॥४६ ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्याष्टादशः खण्डः
=======================================================================
३,१९.१
आदित्यो ब्रह्मेत्यादेशः ।
तस्योपव्याख्यानम् ।
असदेवेदमग्र आसीत् ।
तत्सदासीत् ।
तत्समभवत् ।
तदाण्डं निरवर्तत ।
तत्संवत्सरस्य मात्रामशयत ।
तन्निरभिद्यत ।
ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ ३,१९.१ ॥
__________
भाष्य ३,१९.१ आदित्यो ब्रह्मणः पाद उक्त इति तस्मिन्सकलब्रह्मदृष्ट्यर्थमिदमारभ्यतेआदित्यो ब्रह्मेत्यादेश उपदेशस्तस्योपव्याख्यानं क्रियते स्तुत्यर्थम् ।
असदव्यकृतनामरूपमिदं जगदशेषमग्रे प्रागवस्थायामुत्पत्तेरासीन्न त्वसदेव ।
कथमसतः सज्जायेतेत्यसत्कार्यत्वस्य प्रतिषेधात् ।
नन्विहासदेवेति विधानाद्विकल्पः स्यात् ।
न, क्रियास्विव वस्तुनि विकल्पानुपपत्तेः ।
कथं तर्हीदमसदेवेति ।
नन्ववोचामाव्याकृतनामरूपत्वादसदिवासदिति ।
नन्वेवशब्दोऽवधारणार्थः ।
सत्यमेवं, न तु सत्त्वाभावमवधारयति ।
किं तर्हि?व्याकृतनामरूपाभावमवधारयति नामरूपव्याकृतविषये सच्छब्दप्रयोगो दृष्टः ।
तच्च नामरूपव्याकरणमादित्यायत्तं प्रायशो जगतः तदभावे ह्यन्धं तम इदं न प्रज्ञायेत किञ्चनेत्यतस्तत्स्तुतिपरे वाक्ये सदपीदं राज्ञः कुलं सर्वगुणसम्पन्ने पूर्णवर्मणि राजन्यसतीति तद्वत् ।
न च सत्त्वमसत्त्वं वेह जगतः प्रतिपिपादयिषितमादित्यो ब्रह्मेत्यादेशपरत्वात् ।
उपसंहरिष्यत्यन्त आदित्यं ब्रह्मेत्युपास्त इति ।
तत्सदासीत्तदसच्छब्दवाच्यं प्रागुत्पत्तेः स्तिमितमनिस्पन्दमसदिव सत्कार्याभिमुखमीषदुपजातप्रवृत्ति सदासीत्ततो लब्धपरिस्पन्दं तत्समभवदल्पतरनामरूपव्याकरणेनाङ्कुरीभूतमि व बीजम् ।
ततोऽपि क्रमेण स्थूलीभवत्तदद्भ्य आण्डं समवर्तत संवृत्तम् ।
आण्डमिति दैर्ध्यं छान्दसम् ।
तदण्डं संवत्सरस्य कालस्य प्रसिद्धस्य मात्रां परिमाणमभिन्नस्वरूपमेवाशयत स्थितं बभूव ।
तत्ततः संवत्सरपरिमाणात्कालादूर्ध्वं निरभिद्यत निर्भिन्नं वयसामिवाण्डम् ।
तस्य निर्भिन्नस्याण्डस्य कपाले द्वे रजतं च सुवर्णं चाभवतां संवृत्ते ॥१ ॥
_______________________________________________________________________
३,१९.२
तद्यद्रजतं सेयं पृथिवी ।
यत्सुवर्णं सा द्यौः ।
यज्जरायु ते पर्वताः ।
यदुल्बं (स) समेघो नीहारः ।
या धमनयस्ता नद्यः ।
यद्वास्तेयमुदकं स समुद्रः ॥ ३,१९.२ ॥
__________
भाष्य ३,१९.२ तत्तयोः कपालयोर्यद्रजतं कपालमासीत्सेयं पृथिवी पृथिव्युपलक्षितमधोऽण्डकपालमित्यर्थः ।
यत्सुवर्णं कपालं सा द्यौर्द्युलोकोपलक्षितमूर्ध्वं कपालमित्यर्थः ।
यज्जरायु गर्भपरिवेष्टनं स्थूलमण्डस्य द्विशकलीभावकाल आसीत्ते पर्वता बभूवुः ।
यदुल्वं सूक्ष्मं गर्भपरिवेष्टनं तत्सह मेद्यैः समेघो नीहारोऽवश्यायो बभूवेत्यर्थः ।
या गर्भस्य जातस्य देहे धमनयः शिरास्ता नद्यो बभूवुः ।
यत्तस्य बस्तौ भवं वास्तेयमुदकं स समुद्रः ॥२ ॥
_______________________________________________________________________
३,१९.३
अथ यत्तदजायत सोऽसावादित्यः ।
तं जायमानं घोषा उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च कामाः ।
तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३,१९.३ ॥
__________
भाष्य ३,१९.३ अथ यत्तदजायत गर्भरूपं तस्मिन्नण्डे सोऽसावादित्यस्तमादित्यं जायमानं घोषाः शब्दा उलूलव उरूरवो विस्तीर्णरवा उदतिष्ठन्नुत्थितवन्त ईश्वरस्येवेह प्रथमपुत्रजन्मनि सर्वाणि च स्थावरजङ्गमानि भूतानि सर्वे च तेषां भूतानां कामाः काम्यन्त इति विषयाः स्त्रीवस्रान्नादयः ।
यस्मादादित्यजन्मनिमित्ता भूतकामोत्पत्तिस्तस्मादद्यत्वेऽपि तस्याऽदित्यस्योदयं प्रति प्रत्यायनं प्रत्यस्तगमनं च प्रत्यथवा पुनः पुनः प्रत्यागमनं प्रत्यायनं तत्प्रति तन्निमित्तीकृत्येत्यर्थः ।
सर्वाणि च भूतानि सर्वे च कामा घोषा उलूलवश्चानूत्तिष्ठन्ति ।
प्रसिद्धं ह्येतदुदयादौ सवितुः ॥३ ॥
_______________________________________________________________________
३,१९.४
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्ते ।
अभ्याशो ह यदेनं साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥ ३,१९.४ ॥
__________
भाष्य ३,१९.४ स यः कश्चिदेतमेवं यथोक्तमहिमानं विद्वान्सन्नादित्यं ब्रह्मेत्युपास्ते स तद्भावं प्रतिपद्यत इत्यर्थः ।
किञ्च दृष्टं फलमभ्याशः क्षिप्रं तद्विदो यदिति क्रियाविशेषणमेनमेवंविदं साधवः ।
शोभना घोषाः ।
साधुत्वं घोषादीनां यदुपभोगे पापानुबन्धाभावः ।
आ च गच्छेयुरागच्छेयुश्चोप च निम्रेडेरन्नुपनिम्रेडेरंश्च न केवलमागमनमात्रं घोषाणामुपसुखयेयुश्चोपसुखं च कुर्यरित्यर्थः ।
द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थः आदरार्थश्च ॥४ ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्यैकोनविंशः खण्डः
इति च्छान्दोग्योपनिषद्ब्राह्मणे तृतीयोऽध्यायः समाप्तः
==चतुर्थोऽध्यायः==
४,१.१
जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस ।
स ह सर्वत आवसथान्मापयां चक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥ ४,१.१ ॥
__________
भाष्य ४,१.१ वायुप्राणयोर्ब्रह्मणः पाददृष्ट्यध्यासः पुरस्ताद्वर्णितः ।
अथेदानीं तयोः साक्षाद्ब्रह्मत्वेनोपास्यत्वायोत्तरमारभ्यते ।
सुखावबोधार्थाऽख्यायिका, विद्यादानग्रहणविधिप्रदर्शनार्था च श्रद्धान्नदानानुद्धतत्वादीनां च विद्याप्राप्ति साधनत्वं प्रदर्श्यत आख्यायिकया ।
जानश्रुतिर्जनश्रुतस्यापत्यम् ।
हः ऐतिह्यार्थः ।
पुत्रस्य पौत्रः पौत्रायणः स एव श्रद्धादेयः श्रद्धापुरःसरमेव ब्राह्मणादिभ्यो देयमस्येति श्रद्धादेयः ।
बहुदायी प्रभूतं दातुं शीलमस्येति बहुदायी ।
बहुपाक्यो बहु पक्तव्यमहन्यहनि गृहे यस्यासौबहुपाक्यः ।
भोजनार्थिभ्यो बह्वस्य गृहेऽन्नं पच्यत इत्यर्थः ।
एवङ्गुणसम्पन्नोऽसौ जानश्रुतिः पौत्रायणो विशिष्टे देशे काले च कस्मिंश्चिदास बभूव ।
स ह सर्वतः सर्वासु दिक्षु ग्रामेषु नगरेषु चाऽवसथानेत्य वसन्ति येष्वित्यावसथास्तान्मापयाञ्चक्रे कारितवानित्यर्थः ।
सर्वत एव मे ममान्नं तेष्वावसथेषु वसन्तोऽत्स्यन्ति भोक्ष्यन्त इत्येवमभिप्रायः ॥१ ॥
_______________________________________________________________________
४,१.२
अथ ह हंसा निशायामतिपेतुः ।
तद्धैवं हंसो हंसमभ्युवाद ।
हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षीस्तत्त्वां मा प्रधाक्षीरिति ॥ ४,१.२ ॥
__________
भाष्य ४,१.२ तत्रैवं सति राजनि तस्मिन्धर्मकाले हर्म्यतलस्थेऽथ ह हंसा निशायां रात्रावतिपेतुः ।
ऋषयो देवता वा राज्ञोऽन्नदानगुणैस्तोषिताः सन्तो हंसारूपा भूत्वा राज्ञो दर्शनगोचरेऽतिपेतुः ।
तत्तस्मिन्काले तेषां पततां हंसानामेकः पृष्ठतः पतन्नग्रतः पतन्तं हंसमभ्युवादाभ्युक्तवान्हो होऽयीति भो भो इति सम्बोध्य भल्लाक्ष भल्लाक्षेत्यादरं दर्शयन् यथा पश्य पश्याऽश्चर्यमिति तद्वत् ।
भल्लाक्षेति मन्ददृष्टित्वं सूचयन्नाह ।
अथवा सम्यग्ब्रह्मदर्शनाभिमानवत्त्वात्तस्यासकृदुपालब्धस्तेन पीड्यमानोऽमर्षितया तत्सूचयति भल्लाक्षेति ।
जानश्रुतेः पौत्रायणस्य समं तुल्यं दिवा द्युलोकेन ज्योतिः प्रभास्वरमन्नदानादिजनितप्रभावजमाततं व्याप्तं द्युलोकस्पृगित्यर्थः ।
दिवाह्ना वा समं ज्योतिरित्येतत् ।
तन्मा प्रसाङ्क्षीः सञ्जनं सक्तिं तेन ज्योतिषा सम्बन्धं मा कार्षीरित्यर्थः ।
तत्प्रसञ्जनेन तज्ज्योतिस्त्वा त्वां मा प्रधाक्षीर्मा दहत्वित्यर्थः पुरुषव्यत्यनेन मा प्रधाक्षीदिति ॥२ ॥
_______________________________________________________________________
४,१.३
तमु ह परः प्रत्युवाच कं वर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ इति ।
यो नु कथं सयुग्वा रैक्व इति ॥ ४,१.३ ॥
__________
भाष्य ४,१.३ तमेवमुक्तवन्तं पर इतरोऽग्रगामी प्रत्युवाचारे निकृष्टोऽयं राजा वराकस्तं कमु एनं सन्तं केन माहात्म्येन युक्तं सन्तमिति कुत्सयत्येनमेवं सबहुमानमेतद्वचनमात्थ रैक्वमिव, सयुग्वानं सह युग्वना गन्त्र्या वर्तत इति सयुग्वा रैक्वः ।
तमिवाऽत्थैनम् ।
अननुरूपमस्मिन्नयुक्तमीदृशं वक्तुं रैक्व इवेत्यभिप्रायः ।
इतरश्चाऽहयो नु कथं त्वयोच्यते सयुग्वा रैक्व इत्युक्तवन्तं भल्लाक्ष आह शृणु यथा स रैक्वः ॥३ ॥
_______________________________________________________________________
४,१.४
यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत्किंच प्रजाः साधु कुर्वन्ति ।
यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४,१.४ ॥
__________
भाष्य ४,१.४ यथा लोके कृतायः कृतो नामायो द्यूतसमये प्रसिद्धश्चतुरङ्कः स यदा जयति द्यूते प्रवृत्तानां तस्मै विजिताय तदर्थमितरे त्रिद्व्येकाङ्का अधरेऽयास्त्रेताद्वापरकलिनामानः संयन्ति संगच्छन्तेऽन्तर्भवन्ति ।
चतुरङ्के कृताये त्रिद्व्येकाङ्कानां विद्यमानत्वात्तदन्तर्भवन्तीत्यर्थः ।
यथायं दृष्टान्त एवमेनं रैक्वं कृतायस्थानीयं त्रेताद्यायस्थानीयं सर्वं तदभिसमेत्यन्तर्भवति रैक्वे ।
किं तद्यत्किञ्च लोके सर्वाः प्रजाः साधु शोभनं धर्मजातं कुर्वन्ति तत्सर्वं रैक्वस्य धर्मेऽन्तर्भवति ।
तस्य च फले सर्वप्राणिधर्मफलमन्तर्भवतीत्यर्थः ।
तथान्योऽपि कश्चिद्यस्तद्वेद्यं वेद ।
किं तद्यद्वेद्यं स रैक्वो वेद ।
तद्वेद्यमन्योऽपि यो वेद तमपि सर्वप्राणिधर्मजातं तत्फलं च रैक्वमिवाभिसमेतीत्यनुवर्तते ।
स एवंभूतो मया विद्वानेतदिक्त एवमुक्तो रैक्ववत्स एव कृतायस्थानीयो भवतीत्यभिप्रायः ॥४ ॥
_______________________________________________________________________
४,१.५६
तदु ह जानश्रुतिः पौत्रायण उपशुश्राव ।
स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव रैक्वमात्थेति ।
यो नु कथं सयुग्वा रैक्व इति ॥ ४,१.५ ॥
यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत्किंच प्रजाः साधु कुर्वन्ति ।
यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४,१.६ ॥
__________
भाष्य ४,१.५,६ तदु ह तदेतदीदृशं हंसवाक्यमात्मनः कुत्सारूपमन्यस्य विदुषो रैक्वादेः प्रशंसारूपमुपशुश्राव श्रुतवान्हर्म्यतलस्थो राजा जानश्रुतिः पौत्रायणः ।
तच्च हंसवाक्यं स्मरन्नेव पौनः पुन्येन रात्रिशेषमतिवाहयामास ।
ततः स बन्दिभी राजा स्तुतियुक्ताभिर्वाग्भिः प्रतिबोध्यमान उवाच क्षत्तारं संजिहान एव शयनं निद्रां वा परित्यजन्नेव हेऽङ्ग वत्सारे स सयुग्वानमिव रैक्वमात्थ किं माम् ।
स एव स्तुत्यर्हे नाहमित्यभिप्रायः ।
अथवा सयुग्वानं रैक्वमात्थ गत्वा मम तद्दिदृक्षा॑तदेवशब्दोऽवधारणार्थोऽनर्थको वा वाच्यः ।
स च क्षत्ता प्रत्युवाच रैक्वानयनकामो राज्ञोऽभिप्रायज्ञो यो नु कथं सयुग्वा रैक्व इति, राज्ञैवं चोक्त आनेतुं तच्चिह्नं ज्ञतुमिच्छन्यो नु कथं सयुग्वा रैक्व इत्यवोचत् ।
स च भल्लाक्षवचनमेवावोचत् ॥५६ ॥
_______________________________________________________________________
४,१.७
स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय ।
तं होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ४,१.७ ॥
__________
भाष्य ४,१.७ तस्य स्मरन्स ह क्षत्ता नगरं ग्रामं वा गत्वान्विष्य रैक्वं नाविदं न व्यज्ञासिषमिति प्रत्येयाय प्रत्यागतवान् ।
तं होवाच क्षत्तरमरे यत्र ब्राह्मणस्य ब्रह्मविद एकान्तेऽरण्ये नदीपुलिनादौ विविक्ते देशेऽन्वेषणानुमार्गणं भवति तत्तत्रैनं रैक्वमर्छ ऋच्छ गच्छ तत्र मार्गणं कुर्वित्यर्थः ॥७ ॥
_______________________________________________________________________
४,१.८
सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश ।
तं हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इति ।
अहं ह्यरा ३ इति ह प्रतिजज्ञे ।
स ह क्षत्ताविदमिति प्रत्येयाय ॥ ४,१.८ ॥
__________
भाष्य ४,१.८ इत्युक्तः क्षत्तान्विष्य तं विजने देशेऽधस्ताच्छकटस्य गन्त्र्याः पामानं खर्जूं कषमाणं कण्डूयमानं दृष्ट्वायं नूनं सयुग्वा रैक्व इत्युप समीप उपविवेश विनयेनोपविष्टवान् ।
तं च रैक्वं हाभ्युवादोक्तवान् ।
त्वमसि हे भगवो भगवन्सयुग्वा रैक्व इति ।
एवं पृष्टोऽहमस्मि ह्यरा ३ अर इति हानादर एव प्रतिजज्ञेऽभ्युपगतवान् ।
स तं विज्ञायाविदं विज्ञातवानस्मीति प्रत्येयाय प्रत्यागत इत्यर्थः ॥८॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य प्रथमः खण्डः
---------------
४,२.१
तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे ।
तं हाभ्युवाद ॥ ४,२.१ ॥
__________
भाष्य ४,२.१ तत्तत्र ऋषेर्गार्हस्थ्यं प्रत्यभिप्रयं बुद्ध्वा धनार्थितां चो ह, एव जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कं कण्ठहारमश्वतरीरथमश्वतरीभ्यां युक्तं रथं तदादाय धनं गृहीत्वा प्रतिचक्रमे रैक्वं प्रति गतवान् ।
तं च गत्वाभ्युवाद हाभ्युक्तवान् ॥१ ॥
_______________________________________________________________________
४,२.२
रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथः ।
अनु म एतां भगवो देवतां शाधि यां देवतामुपास्स इति ॥ ४,२.२ ॥
__________
भाष्य ४,२.२ हे रैक्व गवां षट्शतानीमानि तुभ्यं मयाऽनीतान्ययं निष्कोऽश्वतरीरथश्चायमेतद्धनमादत्स्व भगवोऽनुशाधि च मे मामेतां यां च देवतां त्वमुपाःसे तद्देवतोपदेशेन मामनुशाधीत्यर्थः ॥२ ॥
_______________________________________________________________________
४,२.३
तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति ।
तदु ह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे ॥ ४,२.३ ॥
__________
भाष्य ४,२.३ तमेवमुक्तवन्तं राजानं प्रत्युवाच परो रैक्वः ।
अहेत्ययं निपातो विनिग्रहार्थीयोऽन्यत्रेह त्वनर्थकः ।
एवशब्दस्य पृथक्प्रयोगात् ।
हारेत्वा हारेण युक्तेत्वा गन्त्री सेयं हारेत्वा गोभिः सह तवैवास्तु तिष्ठतु न ममापर्याप्तेन कर्मार्थमनेन प्रयोजनमित्यभिप्रायो हे शूद्रेति ।
ननु राजासौ क्षत्तृसम्बन्धात्स ह क्षत्तारमुवाचेत्युक्तम् ।
विद्याग्रहणाय च ब्राह्मणसमीपोपगमाच्छूद्रस्य चानधिकारात्कथमिदमननुरूपं रैक्वेणोच्यते हे शूद्रेति ।
तत्राऽहुराचार्याःहंसवचनश्रवणाच्छुगेनमाविवेश ।
तेनासौ शुचा श्रुत्वा रैक्वस्य महिमानं वा आद्रवतीति ऋषिरात्मनः परोक्षज्ञतां दर्शयञ्शूद्रेत्याहेति ।
शूद्रवद्वा धनेनैवैनं विद्याग्रहणायोपजगाम न च शुश्रूषया ।
न तु जात्यैव शूद्र इति ।
अपरे पुनराहुरल्पं धनमाहृतमिति रुषैवैनमुक्तवाञ्छूद्रेति ।
लिङ्गं च बह्वाहरण उपादानं धनस्येति ।
तदुहर्षेर्मतं ज्ञात्वा पुनरेव जानश्रुतिः पौत्रायणो गवां सहस्रमधिकं जायां चर्षेरभिमतां दुहितरमात्मनस्तदादाय प्रतिचक्रमे क्रान्तवान् ॥३ ॥
_______________________________________________________________________
४,२.४५
तं हाभ्युवाद ।
रैक्वेदं सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४,२.४ ॥
तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति ।
ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास ।
तस्मै होवाच ॥ ४,२.५ ॥
__________
भाष्य ४,२.४,५ रैक्वेदं गवां सहस्रमयं निष्कोऽयमश्वतरीरथ इयं जायार्थं मम दुहिताऽनीतायं च ग्रामो यस्मिन्नाःसे तिष्ठसि स च त्वदर्थे मया कल्पितः तदेतत्सर्वमादायानुशाध्येव मा मां हे भगव इत्युक्तस्तस्या जायार्थमानीताया राज्ञो दुहितुर्हैव मुखं द्वारं विद्याया दाने तीर्थमुपोद्गृह्णञ्जानन्नित्यर्थः ।
ब्रह्मचारी धनदायी मेधावी श्रोत्रियः प्रियः ।
विद्यया वा विद्या प्राह तानि तीर्थानि षण्मम ॥
इति विद्याया वचनं विज्ञायते हि ।
एवं जानन्नुपोद्गृह्णन्नुवाचोक्तवान् ।
आजहाराऽहृतवान्भवान्यदिमा गा यच्चान्यद्धनं तत्साध्विति वाक्यशेषः ।
शूद्रेति पूर्वोक्तानुकृतिमात्रं न तु कारणान्तरापेक्षया पूर्ववत् ।
अनेनैव मुखेन विद्याग्रहणतीर्थेनाऽलापयिष्यथा आलापयसीति मां भाषयसीत्यर्थः ।
ते हैते ग्रामा रैक्वपर्णा नाम विख्याता महावृषेषु देशेषु यत्र येषु ग्रामेषूवासोषितवान् रैक्वस्तानसौ ग्रामानदादस्मै रैक्वाय राजा ।
तस्मै राज्ञे धनं दत्तवते ह किलोवाच विद्यां स रैक्वः ॥४५ ॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य द्वितीयः खण्डः
---------------
४,३.१
वायुर्वाव संवर्गः ।
यदा वा अग्निरुद्वायति वायुमेवाप्येति ।
यदा सूर्योऽस्तमेति वायुमेवाप्येति ।
यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥ ४,३.१ ॥
__________
भाष्य ४,३.१ वायुर्वाव संवर्गो वायुर्बाह्यो वावेत्यवधारणार्थः ।
संवर्गः संवर्जनात्संग्रहणात्संग्रसनाद्वा संवर्गः ।
वक्ष्यमाणा अग्न्याद्या देवता आत्मभावमापादयतीत्यतः संवर्गः ।
सवर्जवाख्यो गुणो ध्येयो वायुवत् ।
कृतायान्तभर्वदृष्टान्तात् ।
कथं संवर्गत्त्वं वायोरित्याह ।
यदा यस्मिन्काले वा अग्निरुद्वायत्युद्वासनं प्राप्नोत्युपशाम्यति तदासावग्निर्वायुमेवाप्येति वायुस्वाभाव्यमपिगच्छति ।
तथा यदा सूर्योऽस्तमेति वायुमेवाप्येति ।
यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ।
ननु कथं सूर्याचन्द्रमसोः स्वरूपावस्थितयोर्वायावपिगमनम् ।
नैष दोषः ।
अस्तमनेऽदर्शनप्राप्तेर्वायुनिमित्तत्वात् ।
वायुना ह्यस्तं नीयते सूर्यः चलनस्य वायुकार्यत्वात् ।
अथवा प्रलये सूर्याचन्द्रमसोः स्वरूपभ्रंशे तेजोरूपयोर्वायावेवापिगमनं स्यात् ॥१ ॥
_______________________________________________________________________
४,३.२
यदाप उच्छुष्यन्ति वायुमेवापियन्ति ।
वायुर्ह्येवैतान् सर्वान् संवृङ्क्ते ।
इत्यधिदैवतम् ॥ ४,३.२ ॥
__________
भाष्य ४,३.२ तथा यदाऽप उच्छुष्यन्त्युच्छोषमाप्नुवन्ति तदा वायुमेवापियन्ति ।
वायुर्हि यस्मादेवैतानग्न्याद्यान्महाबलान्संवृङ्क्ते ।
अतो वायुः संवर्गगुण उपास्य इत्यर्थः ।
इत्यधिदैवतं देवतासु संवर्गदर्शनमुक्तम् ॥२ ॥
_______________________________________________________________________
४,३.३
अथाध्यात्मम् ।
प्राणो वाव सम्वर्गः ।
स यदा स्वपिति प्राणमेव वागप्येति ।
प्राणं चक्षुः ।
प्राणं श्रोत्रम् ।
प्राणं मनः ।
प्राणो ह्येवैतान् सर्वान् संवृङ्क्त इति ॥ ४,३.३ ॥
__________
भाष्य ४,३.३ अथानन्तरमध्यात्ममात्मनि संवर्गदर्शनमिदमुच्यते ।
प्राणो मुख्योवाव संवर्गः ।
स पुरुषो यदा यस्मिन्काले स्वपिति प्राणमेव वागप्येति वायुमिवाग्निः प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो हि यस्मादेवैतान्वागादीन्सर्वान्संवृङ्क्त इति ॥३ ॥
_______________________________________________________________________
४,३.४
तौ वा एतौ द्वौ सम्वर्गौ ।
वायुरेव देवेषु प्राणः प्राणेषु ॥ ४,३.४ ॥
__________
भाष्य ४,३.४ तौ वा एतौ द्वौ संवर्गौ संवर्जनगुणो वायुरेव देवेषु संवर्गः प्राणः प्राणेषु वागादिषु मुख्यः ॥४ ॥
_______________________________________________________________________
४,३.५
अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे ।
तस्मा उ ह न ददतुः ॥ ४,३.५ ॥
__________
भाष्य ४,३.५ अथैतयोः स्तुत्यर्थमियमाख्यायिकाऽरभ्यते ।
हेत्यैतिह्यार्थः ।
शौनकं च शुनकस्यापत्यं शोनकं कापेयं कपिगोत्रमभिप्रतारिणं च नामतः कक्षसेनस्यापत्यं काक्षसेनिं भोजनायोपविष्टौ परिविष्यमाणौ सूपकारैर्ब्रह्मचारी ब्रह्मविच्छण्डो बिभिक्षे भिक्षितवान् ।
ब्रह्मचारिणो ब्रह्मविन्मानितां बुद्ध्वा तं जिज्ञासमानौ तस्मा उ भिक्षां न जजतुर्न दत्तवन्तौ ह किमयं बक्ष्यतीति ॥५ ॥
_______________________________________________________________________
४,३.६
स होवाच ।
महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपाः ।
तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन् बहुधा वसन्तम् ।
यस्मै वा एतदन्नं तस्मा एतन्न दत्तमिति ॥ ४,३.६ ॥
__________
भाष्य ४,३.६ स होवाच ब्रह्मचारी महात्मनश्चतुर इति द्वितीयाबहुवचनम् ।
देव एकोऽग्न्यादीन्वायुर्वागादीन्प्राणः ।
कः स प्रजापतिर्जगार ग्रसितवान् ।
कः स जगारेति प्रश्नमेके ।
भुवनस्य भवन्त्यस्मिन्भूतानीति भुवनं भूरादिः सर्वो लोकस्तस्य गोपा गोपायिता रक्षिता गोप्तेत्यर्थः ।
तं कं प्रजापतिं हे कापेय नाभिपश्यन्ति न जानन्ति मर्त्या मरणधर्माणोऽविवेकिनो वा हेऽभिप्रतारिन्बहुधाध्यात्माधिदैवताधिभूतप्रकारैर्वसन्तम् ।
यस्मै वा एतदहन्यहन्यन्नमदनायाऽह्रियते संस्क्रियते च तस्मै प्रजापतय एतदन्नं न दत्तमिति ॥६ ॥
_______________________________________________________________________
४,३.७
तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय ।
आत्मा देवानां जनिता प्रजानां हिरङ्यदंष्ट्रो बभसोऽनसूरिः ।
महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्ति ।
इति वै वयं ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ४,३.७ ॥
__________
भाष्य ४,३.७ तदु ह ब्रह्मचारिणो वचनं शौनकः कापेयः प्रतिमन्वानो मनसाऽलोचयन्ब्रह्मचारिणं प्रत्येयायाऽजगाम ।
गत्वा चाऽहयं त्वमवोचो न पश्यन्ति मर्त्या इति तं वयं पश्यामः ।
कथम्?आत्मा सर्वस्य स्थावरजङ्गमस्य ।
किञ्च देवानामग्न्यादीनामात्मनि संहृत्य ग्रसित्वा पुनर्जनितोत्पादयिता वायुरूपेणाधिदैवतमग्न्यादीनाम् ।
अध्यात्मं च प्राणरूपेण वागादीनां प्रजानां च दनिता ।
अथ वाऽत्मा देवानामग्निवागादीनां जनिता प्रजानां स्थावरजङ्गमानाम् ।
हिरण्यदंष्ट्रोऽभग्नदंष्ट्र इति यावत् ।
बभसो भक्षणशीलः ।
अनसूरिः सूरिर्मेधावी न सूरिरसूरिस्तत्प्रतिषेधोऽनसूरिः सूरिरेवेत्यर्थः ।
महान्तमतिप्रमाणमप्रमेयमस्य प्रजापतेर्महिमानं विभूतिमाहुर्ब्रह्मविदः ।
यस्मात्स्वयमन्यैरनद्यमानोऽभक्ष्यमाणो यदनन्नमग्निवागादिदेवतारूपमत्ति भक्षयतीति ।
वा इति निरर्थकः ।
वयं हे ब्रह्मचारिन्, आ, इदमेवं यथोक्तलक्षणं ब्रह्म वयमा उपास्महे ।
वयमिति व्यवहितेन सम्बन्धः ।
अन्ये न वयमिदमुपास्महे ।
किं तर्हि परमेव ब्रह्मोपास्मह इति वर्णयन्ति ।
दत्तास्मै भिक्षामित्यवोचद्भृत्यान् ॥७ ॥
_______________________________________________________________________
४,३.८
तस्मै उ ह ददुः ।
ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम् ।
तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतम् ।
सैषा विराडन्नादी ।
तयेदं सर्वं दृष्टम् ।
सर्वमस्य इदं दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ४,३.८ ॥
__________
तस्मा उ ह ददुस्ते हि भिक्षाम् ।
ते वै ये ग्रस्यन्तेऽग्न्यादयो यश्च तेषां ग्रसिता वायुः पञ्चान्ये वागादिभ्यः, तथान्ये तेभ्यः पञ्चाध्यात्मं वागादयः प्राणश्च, ते सर्वे दश सन्तस्तत्कृतं भवति, ते चतुरङ्क एकाय एवं चत्वारः त्र्यङ्कायः एवं त्रयोऽपरे द्व्यङ्कायः एवं द्वावन्यावेकाङ्काय एवमेकोऽन्य, इत्येवं देश सन्तस्तत्कृतं भवति ।
यत एवं तस्मात्सर्वासु दिक्षु दशस्वप्यग्न्याद्या वागाद्याश्च दशसंख्यासामान्यादन्नमेव"दशाक्षरा विराड्विराडन्नम्" इति हि श्रुतिः ।
अतोऽन्नमेव दशसंख्यत्वात् ।
तत एव दश कृतं कृतेऽन्तर्भावाच्चतुरायत्वेनेत्यवोचाम ।
सैषा विराड्दशसंख्या सत्यन्नं चान्नाद्यन्नादिनी च कृतत्वेन दशसंख्ययान्नं कृतसंख्ययान्नादी तया अन्नान्नादिन्या इदं सर्वं जगद्दशदिक्संस्थं दृष्टं कृतसंख्याभूतयोपलब्धम् ।
एवंविदोऽस्य सर्वं कृतसंख्याभूतस्य दशदिक्संबद्धं दृष्टमुपलब्धं भवति ।
किञ्चान्नादश्च भवति य एवं वेद यथोक्तदर्शी ।
द्विरभ्यास उपासनमाप्त्यर्थः ॥८॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य तृतीयः खण्डः
---------------
४,४.१
सत्यकामो ह जाबालो जबालां मातरमामन्त्रयां चक्रे ।
ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति ॥ ४,४.१ ॥
__________
भाष्य ४,४.१ सर्वं वागाद्यग्न्यादि चान्नान्नादत्वसंस्तुतं जगदेकीकृत्य षोडशधा प्रविभज्य तस्मिन्ब्रह्मदृष्टिर्विधातव्येत्यारभ्यते ।
श्रद्धातपसोर्ब्रह्मोपासनाङ्गत्वप्रदर्शनायाऽख्यायिका ।
सत्यकामो ह नामतो हशब्द ऐतिह्यार्थो जबालाया अपत्यं जाबालो जबलां स्वां मातरमामन्त्रयाञ्चक्र आमन्त्रितवान् ।
ब्रह्मचर्यं स्वाध्यायग्रहणाय हे भवति विवत्स्याम्याचार्यकुले, किङ्गोत्रोऽहं किमस्य मम गोत्रं सोऽहं न्वहमस्मीति ॥१ ॥
_______________________________________________________________________
४,४.२
सा हैनमुवाच ।
नाहमेतद्वेद तात यद्गोत्रस्त्वमसि ।
बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे ।
साहमेतन्न वेद यद्गोत्रस्त्वमसि ।
जबाला तु नामाहमस्मि ।
सत्यकामो नाम त्वमसि ।
स सत्यकाम एव जाबालो ब्रुवीथा इति ॥ ४,४.२ ॥
__________
भाष्य ४,४.२ एवं पृष्टा जबाला सा हैनं पुत्रमुवाचनाहमेतत्तव गोत्रं वेद हे तात यद्गोत्रस्त्वमसि ।
कस्मान्न वेत्सीत्युक्ताऽहबहु भर्तृगृहे परिचर्याजातमतिथ्यभ्यागतादि चरन्त्यहं परिचारिणी परिचरन्तीति परिचरणशीलैवाहं परिचरणचित्ततया गोत्रादिस्मरणे मम मनो नाभूत् ।
यौवने च तत्काले त्वामलभे लब्धवत्यस्मि ।
तदैव ते पितोपरतः ।
अतोऽनाथाहं साहमेतन्न वेद यद्गोत्रस्त्वमसि ।
जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स त्वं सत्यकाम एवाहं जाबालोऽस्मीत्याचार्याय ब्रुवीथाः यद्याचार्येण पृष्ट इत्यभिप्रायः ॥२ ॥
_______________________________________________________________________
४,४.३४
स ह हारिद्रुमतं गौतममेत्योवाच ।
ब्रह्मचर्यं भगवति वत्स्यामि ।
उपेयां भगवन्तमिति ॥ ४,४.३ ॥
तं होवाच किंगोत्रो नु सोम्यासीति ।
स होवाच ।
नाहमेतद्वेद भो यद्गोत्रोऽहमस्मि ।
अपृच्छं मातरम् ।
सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने त्वामलभे ।
साहमेतन्न वेद यद्गोत्रस्त्वमसि ।
जबाला तु नामाहमस्मि ।
सत्यकामो नाम त्वमसीति ।
सोऽहं सत्यकामो जाबालोऽस्मि भो इति ॥ ४,४.४ ॥
__________
भाष्य ४,४.४ स ह सत्यकामो हारिद्रुमतं हरिद्रुमतोऽपत्यं हारिद्रुमतं गौतमं गोत्रत एत्य गत्वोवाच ब्रह्मचर्यं भगवति पूजावति त्वयि वत्स्याम्यत उपेयामुपगच्छेयं शिष्यतया भगवन्तमित्युक्तवन्तं तं होवाच गौतमः ।
किङ्गोत्रो नु सोम्यासीति विज्ञातकुलगोत्रः शिष्य उपनेतव्य इति पृष्टः प्रत्याह सत्यकामः ।
स होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्मि ।
किं त्वपृच्छं पृष्टवानस्मि मातरम् ।
सा मया पृष्टा मां प्रत्यब्रवीन्माता ।
बह्वहं चरन्तीत्यादि पूर्ववत् ।
तस्या अहं वचः स्मरामि सोऽहं सत्यकामो जाबालोऽस्मि भो इति ॥३४ ॥
_______________________________________________________________________
४,४.५
तं होवाच ।
नैतदब्रह्मणो विवक्तुमर्हति ।
समिधं सोम्याहर ।
उप त्वा नेष्ये न सत्यादगा इति ।
तमुपनीय कृशानामबलानां चतुःशता गा निराकृत्य उवाचेमाः सोम्यानुसंव्रजेति ।
ता अभिप्रस्थापयन्नुवाच ।
नासहस्रेणावर्तेयेति ।
स ह वर्षगणं प्रोवास ।
ता यदा सहस्रं सम्पेदुः ॥ ४,४.५ ॥
__________
भाष्य ४,४.५ तं होवाच गौतमो नैतद्वचोऽब्राह्मणो विशेषेण वक्तुमर्हत्यार्जवार्थसंयुक्तम् ।
ऋजवो हि ब्रह्मणा नेतरे स्वभावतः ।
यस्मान्न सत्याद्ब्राह्मणजातिधर्मादगा नापेतवानसि ।
अतो ब्राह्मणं त्वामुपनेष्येऽतः संस्कारार्थं होमाय समिधं सोम्याऽहरेत्युक्त्वा तमुपनीय कृशानामबलानां गोयूथान्निराकृत्यापकृष्य चतुःशता चत्वारि शतानि गवामुवाचेमा गाः सोम्यानुसंव्रजानुगच्छ ।
इत्युक्तस्ता अरण्यं प्रत्यभिप्रस्थापयन्नुवाचनासहस्रेणापूर्णेन सहस्रेण नाऽवर्तेय न प्रत्यागच्छेयम् ।
स एवमुक्त्वा गा अरण्यं तृणोदकबहुलं द्वन्द्वंरहितं प्रवेश्य स ह वर्षगणं दीर्घं प्रोवास प्रोषितवान् ।
ताः सम्यग्गावो रक्षिता यदा यस्मिन्काले सहस्रं संपेदुः संपन्ना बभूवुः ॥५॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य चतुर्थः खण्डः
---------------
४,५.१
अथ हैनमृषभोऽभ्युवाद सत्यकाम ३ इति ।
भगव इति ह प्रतिशुश्राव ।
प्राप्ताः सोम्य सहस्रं स्मः ।
प्रापय न आचार्यकुलम् ॥ ४,५.१ ॥
__________
भाष्य ४,५.१ तमेतं श्रद्धातपोभ्यां सिद्धं वायुदेवता दिक्संबन्धिनी तुष्टा सत्यृषभमनुप्रविश्यर्षभापन्नानुग्रहायाथ हैनमृषभोऽभ्युवादाभ्युक्तवान्सत्यकाम ३ इति संबोध्य, तमसौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ ।
प्रप्ताः सोम्य सहस्रं स्मः पूर्णा तव प्रतिज्ञातः प्रापय नोऽस्मानाचार्यकुलम् ॥१ ॥
_______________________________________________________________________
४,५.२
ब्रह्मणश्च ते पादं ब्रवाणि इति ।
ब्रवीतु मे भगवानिति ।
तस्मै होवाच ।
प्राची दिक्कला ।
प्रतिची दिक्कला ।
दक्षिणा दिक्कला ।
उदीची दिक्कला ।
एष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥ ४,५.२ ॥
__________
भाष्य ४,५.२ किञ्चाहं ब्रङ्मणः परस्य ते तुभ्यं पादं ब्रवाणि कथयानि ।
इत्युक्तः प्रत्युवाचब्रवीतु कथयतु मे मह्यं भगवान् ।
इत्युक्त ऋषभस्तस्मै सत्यकामाय होवाच ।
प्राची दिक्कला ब्रह्मणः पादस्य चतुर्थो भागः ।
तथा प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सैम्य ब्रह्मणः पादश्चतुशष्कलश्चतस्रः कला अवयवा यस्य सोऽयं चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम प्रकाशवानित्यवं नामाभिधानं यस्य ।
तथोत्तरेऽपि पादास्त्रयश्चतुष्कला ब्रह्मणः ॥२ ॥
_______________________________________________________________________
४,५.३
स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिंल्लोके भवति ।
प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ४,५.३ ॥
__________
भाष्य ४,५.३ स यः कश्चिदेवं यथोक्तमेतं ब्रह्मणश्चतुष्कलं पादं विद्वान्प्रकाशवानित्यनेन गुणेन विशिष्टमुपास्ते तस्येदं फलं प्रकाशवानस्मिन् लोके भवति प्रख्यातो भवतीत्यर्थः ।
तथादृष्टं फलं प्रकाशवतो ह लोकान्देवादिसंबन्धिनो मृतः सञ्जयति प्राप्नोति ।
य एतमेव विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥३॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य पञ्चमः खण्डः
_______________________________________________________________________
४,६.१
अग्निष्टे पादं वक्तेति ।
स ह श्वो भूते गा अभिप्रस्थापयां चकार ।
ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ ४,६.१ ॥
__________
भाष्य ४,६.१ सोऽग्निस्ते पादं वक्तेत्युपररामर्षभः ।
स सत्याकामो ह श्वोभूते परेद्युर्नैत्यकं नित्यं कर्म कृत्वा गा अभिप्रस्थापयाञ्चकाराऽचार्यकुलं प्रति ।
ताः शनैश्चरन्त्य आचार्यकुलाभिमुख्यः प्रस्थिता यत्र यस्मिन्काले देशेऽभि सायं निशायामभिसंबभूवुरेकत्राभिमुख्यः संभूताः, तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्रङुपोपविवेश ऋषभवचो ध्यायन् ॥१ ॥
_______________________________________________________________________
४,६.२
तमग्निरभ्युवाद सत्यकाम ३ इति ।
भगव इति ह प्रतिशुश्राव ॥ ४,६.२ ॥
__________
भाष्य ४,६.२ तमग्निरभ्युवाद सत्यकाम ३ इति संबोध्य, तमसौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ ॥२ ॥
_______________________________________________________________________
४,६.३
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ।
ब्रवीतु मे भगवानिति ।
तस्मै ह उवाच ।
पृथिवी कला ।
अन्तरिक्षं कला ।
द्यौः कला ।
समुद्रः कला ।
एष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ ४,६.३ ॥
__________
भाष्य ४,६.३ ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानीति तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला समुद्रः कलेत्यात्मगोचरमेव दर्शनमग्निरब्रवीत् ।
एष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥३ ॥
_______________________________________________________________________
४,६.४
स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिंल्लोके भवति ।
अनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४,६.४ ॥
__________
भाष्य ४,६.४ स यः कश्चिद्यथोक्तं पादमनन्तवत्त्वेन गुणेनोपास्ते स तथैव तद्गुणो भवत्यस्मिंल्लोके ।
मृतश्चानन्तवतो ह लोकान्स जयति य एतमेवमित्यादि पूर्ववत् ॥४॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य षष्ठ खण्डः
४.७.१२
हंसस्ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाया गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥१ ॥
तं हंस उपनिपत्याभ्युवाद सत्यकाम ३ इति भगव इति ह प्रतिशुश्राव ॥२॥
__________
भाष्य ४,७.१,२ सोऽग्निर्हंसस्ते पादं वक्तेत्युक्तवोपरराम ।
हंस आदित्यः ।
शौक्ल्यात्पतनसामान्याच्च ।
स ह श्वोभूत इत्यादि समानम् ॥१२ ॥
_______________________________________________________________________
४,७.३४
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ।
ब्रवीतु मे भगवानिति ।
तस्मै होवाच ।
अग्निः कला ।
सूर्यः कला ।
चन्द्रः कला ।
विद्युत्कला ।
एष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ४,७.३ ॥
स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिंल्लोके भवति ।
ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४,७.४ ॥
__________
भाष्य ४,७.३,४ अग्निःकला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्येति ज्योतिर्विषयमेव च दर्शनं प्रोवाचातो हंसस्याऽदित्यत्वं प्रतीयते ।
विद्वत्फलंज्योतिष्मान्दीप्तियुक्तोऽस्मिंल्लोके भवति ।
चन्द्रादित्यादीनां ज्योतिष्मत एव च मृत्वा लोकाञ्जयति ।
समानमुत्तरम् ॥३४ ॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य सप्तमः खण्डः
---------------
४,८.१
मद्गुष्टे पादं वक्तेति ।
स ह श्वो भूते गा अभिप्रस्थापयां चकार ।
ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ ४,८.१ ॥
__________
भाष्य ४,८.१ हंसोऽपि मद्गुष्टे पादं वक्तेत्युपरराम ।
मद्गुरुदकचरः पक्षी स चाप्सम्बन्धात्प्राणः स ह श्वोभूत इत्यादि पूर्ववत् ॥१ ॥
_______________________________________________________________________
४,८.२३
तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम ३ इति ।
भगव इति ह प्रतिशुश्राव ॥ ४,८.२ ॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ।
ब्रवीतु मे भगवानिति ।
तस्मै होवाच ।
प्राणः कला ।
चक्षुः कला ।
श्रोत्रं कला ।
मनः कला ।
एष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ४,८.३ ॥
__________
भाष्य ४,८.२,३ स च मद्गुः प्राणः स्वविषयमेव च दर्शनमुवाच प्राणः कलेत्यादि, आयतनवानित्येवं नाम ।
आयतनं नाम मनः सर्वकरणोपहृतानां भोगानां तद्यस्मिन्पादे विद्यत इत्यायतनवान्नाम पादः ॥२३ ॥
_______________________________________________________________________
४,८.४
स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्त आयतनवानस्मिंल्लोके भवति ।
आयतनवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४,८.४ ॥
__________
भाष्य ४,८.४ तं पादं तथैवोपास्ते यः स आयतनवानाश्रयवानस्मिंल्लोके भवति ।
तथाऽयतनवत एव सावकाशांल्लोकान्मृतो जयति ।
य एतमेवमित्यादि पूर्ववत् ॥४॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्याष्टमः खण्डः
_______________________________________________________________________
४,९.१
प्राप हाचर्यकुलम् ।
तमाचर्योऽभ्युवाद सत्यकाम ३ इति ।
भगव इति ह प्रतिशुश्राव ॥ ४,९.१ ॥
__________
भाष्य ४,९.१ स एवं ब्रह्मवित्सन्प्राप ह प्राप्तवानाचार्यकुलम् ।
तमाचार्योऽभ्युवाद सत्यकाम ३ इति ।
भगव इति ह प्रतिशुश्राव ॥१ ॥
_______________________________________________________________________
४,९.२
ब्रह्मविदिव वै सोम्य भासि ।
को नु त्वानुशशासेति ।
अन्ये मनुष्येभ्य इति ह प्रतिजज्ञे ।
भगवांस्त्वेव मे कामे ब्रूयात् ॥ ४,९.२ ॥
__________
भाष्य ४,९.२ ब्रह्मविदिव वै सोम्य भासि ।
प्रसन्नेन्द्रियः प्रहसितवदनश्च निश्चिन्तः कृतार्थो ब्रह्मविद्भवति ।
अत आचार्यो ब्रह्मविदिव भासोति ।
को न्विति वितर्कयन्नुवाच कस्त्वामनुशशासेति ।
स चाऽह सत्यकामोऽन्ये मनुष्येभ्यः ।
देवता मामनुशिष्टवत्यः ।
कोऽन्यो भगवच्छिष्यं मां मनुष्यः सन्ननुशासितुमुत्सहेतेत्यभिप्रायः ।
अतोऽन्ये मनुष्येभ्य इति ह प्रतिजज्ञे प्रतिज्ञातवान् ।
भगवांस्त्वेव मे कामे ममेच्छायां ब्रूयात्किमन्यैरुक्तेन नाहं तद्गणयामीत्यभिप्रायः ॥२ ॥
_______________________________________________________________________
४,९.३
श्रुतं ह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापतीति ।
तस्मै ह एतदेव उवाच ।
अत्र ह न किंचन वीयायेति वीयायेति ॥ ४,९.३ ॥
__________
भाष्य ४,९.३ किञ्च श्रुतं हि यस्मान्मम विद्यत एवास्मिन्नर्थे भगवत्समेभ्य ॠषिभ्यः ।
आचार्याद्धैव विद्या विदिता साधिष्ठं साधुतमत्वं प्रापदिति प्राप्नोतीत्यतो भगवानेब ब्रूयादित्युक्त आचार्योऽब्रवीत्तस्मै तामेव दैवतैरुक्तां विद्याम् ।
अत्र ह न किञ्चन षोडशकलविद्यायाः किञ्चिदेकदेशमात्रमपि न वीयाय न विगतमित्यर्थः ।
द्विरभ्यासो विद्यापरिसमाप्त्यर्थः ॥३॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य नवमः खण्डः
---------------
४,१०.१
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचार्यमुवास ।
तस्य ह द्वादश वार्षान्यग्नीन् परिचचार ।
स ह स्मान्यानन्तेवासिनः समावर्तयंस्तं ह स्मैव न समावर्तयति ॥ ४,१०.१ ॥
__________
भाष्य ४,१०.१ पुनर्ब्रह्मविद्यां प्रकारान्तरेण वक्ष्यामीत्यारभेत गतिं च तद्विदोऽग्निविद्यां च ।
आख्यायिका पूर्ववच्छ्रद्धातपसोर्ब्रह्मविद्यासाधनत्वप्रदश्रनार्थाउपकोसलो ह वै नामतः कमलस्यापत्यं कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य, हः एतिह्यार्थः ।
तस्याऽचार्यस्य द्वादश वर्षाण्यग्नीन्परिचचाराग्नीनां परिचरणं कृतवान् ।
स ह स्माऽचार्योऽन्यान्ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयंस्तमेवोपकोसलमेकं न समावर्तयति स्म ह ॥१ ॥
_______________________________________________________________________
४,१०.२
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन् परिचचारीत् ।
मा त्वा अग्नयः परिप्रवोचन् ।
प्रब्रूह्यस्मा इति ।
तस्मै हाप्रोच्यैव प्रवासां चक्रे ॥ ४,१०.२ ॥
__________
भाष्य ४,१०.२ तमाचार्यजायोवाच तप्तोब्रह्मचारी कुशलं सम्यगग्नीन्परिचचारीत्परिचरितवान् ।
भगवांश्चाग्निषु भक्तं न समावर्तयति ।
अतोऽस्मद्भक्तं न समावर्तयतीति ज्ञात्वा त्वामग्नयो मा परिप्रवोचन्गर्हां तव मा कुर्युः ।
अतः प्रब्रूह्यस्मै विद्यामिष्टामुपकोसलायेति ।
तस्मा एवं जाययोक्तोऽपि हाप्रोच्यैवानुक्त्वैव किञ्चित्प्रवासांचक्रे प्रवसितवान् ॥२ ॥
_______________________________________________________________________
४,१०.३
स ह व्याधिना अनशितुं दध्रे ।
तमाचार्यजाया उवाच ब्रह्मचारिन्नशान ।
किं नु न अश्नासि इति ।
स ह उवाच बहव इमेऽस्मिन् पुरुषे कामा नानात्यायाः ।
व्याधीभीः प्रतिपूर्णोऽस्मि ।
न अस्।िष्यामि इति ॥ ४,१०.३ ॥
__________
भाष्य ४,१०.३ स होपकोसलो व्याधिना मानसेन दुःखेनानशितुमनशनं कर्तुं दध्रे धृतवान्मनः ।
तं तूष्णीमग्न्यगारेऽवस्थितमाचार्यजायोवाच हे ब्रह्मचारिन्नशान भुङ्क्ष्व किं नु कस्मान्नु कारणान्नाश्नासीति ।
स होवाच बहवोऽनेकेऽस्मिन्पुरुषेऽकृतार्थे प्राकृते कामा इच्छाः कर्तव्यं प्रति नानात्ययोऽतिगमनं येषां व्याधीनां कर्तव्यचिन्तानां ते नानात्यया व्याधयः कर्तव्यताप्राप्तिनिमित्तानि चित्तदुःखानीत्यर्थः ।
तैः प्रतिपूर्णोऽस्मि ।
अतो नाशिष्यामीति ॥३ ॥
_______________________________________________________________________
४,१०.४
अथ हाग्नयः समूदिरे ।
तप्तो ब्रह्मचारी कुशलं नः पर्यचारीत् ।
हन्तास्मै प्रब्रवामेति तस्मै होचुः ।
प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ ४,१०.४ ॥
__________
भाष्य ४,१०.४ उक्त्वा तूष्णींभूते ब्रह्मचारिण्यथ हाग्नयः शुश्रूषयाऽवर्जिताः कारुण्याविष्टाः सन्तस्रयोऽपि समूदिरे संभूयोक्तवन्तः ।
हन्तेदानीमस्मै ब्रह्मचारिणेऽस्मद्भक्ताय दुःखिताय तपस्विने श्रद्दधानाय सर्वेऽनुशास्मोऽनुप्रब्रवाम ब्रह्मविद्यामिति ।
एवं संप्रधार्य तस्मै होचुरुक्तवन्तः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥४ ॥
_______________________________________________________________________
४,१०.५
स होवाच ।
विजानाम्यहं यत्प्राणो ब्रह्म ।
कं च तु खं च न विजानामीति ।
ते होचुः ।
यद्वाव कं तदेव खम् ।
यदेव खं तदेव कमिति ।
प्राणं च हास्मै तदाकाशं चोचुः ॥ ४,१०.५ ॥
__________
भाष्य ४,१०.५ स होवाच ब्रह्मचारी विजानाम्यहं यद्भवद्भिरुक्तं प्रसिद्धपदार्थकत्वात्प्राणो ब्रह्मेति ।
यस्मिन्सति जीवनं यदपगमे च न भवतीति तस्मिन्वायुविशेषे लोके रूढोऽतो युक्तं ब्रह्मत्वं तस्य ।
तेन प्रसिद्धपदार्थकत्वाद्विजानाम्यहं यत्प्राणो ब्रह्मेति ।
कं च तु खं न विजानामीति ।
ननु कङ्खंशब्दयोरपि सुखाकाशविषयत्वेन प्रसिद्धपदार्थकत्वमेव, कस्माद्ब्रह्मचारिणोऽज्ञानम्?नृनं सुखस्य कंशब्दवाच्यस्य क्षणप्रध्वंसित्वात्खंशब्दवाच्यस्य चाऽकाशस्याचेतनस्य कथं ब्रह्मत्वमिति मन्यते ।
कथं च भवतां वाक्यमप्रमाणं स्यादिति ।
अतो न विजानामीत्याह ।
तमेवमुक्तन्तं ब्रह्मचारिणं ते हाग्नयः ऊचुः यद्वाव यदेव वयं कमवोचाम तदेव खमाकाशमित्येवं खेन विशेष्यमाणं कं विषयेन्द्रिसंयोगजात्सुखान्निवर्तितं स्यान्नीलेनेव विशेष्यमाणमुत्पलं रक्तादिभ्यः ।
यदेव खमित्याकाशमवोचाम तदेव च कं सुखमिति जानीहि ।
एवं च सुखेन विशेष्यमाणं खं भौतिकादचेतनात्खान्निवर्तितं स्यान्नीलोत्पलवदेव ।
सुखमाकाशस्थं नेतरल्लौकिकम् ।
आकाशं च सुखाश्रयं नेतरद्भौतिकमित्यर्थः ।
नन्वाकाशं चेत्सुखेन विशेषयितुमिष्टमस्त्वन्यतरदेव विशेषणं यद्वाव कं तदेव खमित्यतिरिक्तमितरत् ।
यदेव खं तदेव कमिति पूर्वविशेषेणं वा ।
ननु सुखाकाशयोरुभयोरपि लौकिकसुखाकाशाभ्यां व्यावृत्तिरिष्टेत्यवोचाम ।
सुखेनाऽकाशे विशेषिते व्यावृत्तिरुभयोरर्थप्राप्तैवेति चेत्सत्यमेवं किन्तु सुखेन विशेषितस्यैवाऽकाशस्य ध्येयत्वं विहितं न त्वाकाशगुणस्य विशेषणस्य सुखस्य ध्येयत्वं विहितं स्यात् ।
विशेषणोपादानस्य विशेष्यनियन्तृत्वेनैवोपक्षयात् ।
अतः खेन सुखमपि विशेष्यते ध्येयत्वाय ।
कुतश्चैतन्निश्चीयते ।
कंशब्दस्यापि ब्रह्मशब्दसम्बन्धात्कं ब्रह्मेति ।
यदि हि सुखगुणविशिष्टस्य खस्य ध्येयत्वं विवक्षितं स्यात्कं खं ब्रह्मेति ब्रूयुरग्नयः प्रथमम् ।
न चैवमुक्तवन्तः ।
किं तर्हि कं ब्रह्म खं ब्रह्मेति ।
अतो ब्रह्मचारिणो मोहापनयनाय कङ्खंशब्दयोरितरेतरविशेषणविशेष्यत्व निर्देशो युक्त एव यद्वाव कमित्यादिः ।
तदेतदग्निभिरुक्तं वाक्यार्थमस्मद्बोधाय श्रुतिराहप्राणं च हास्मै ब्रह्मचारिणे ।
तस्याऽकाशस्तदाकाशः ।
प्राणस्य सम्बन्ध्याश्रयत्वेन हार्द आकाश इत्यर्थः ।
सुखगुणवत्त्वनिर्देशात्तं चाऽकाशं सुखगुणविशिष्टं ब्रह्म तत्स्थं च प्राणं ब्रह्मसम्पर्कादेव ब्रह्मेत्युभयं प्राणं चाऽकाशं च समुच्चित्य ब्रह्मणी ऊचुरग्नय इति ॥५॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य दशमः खण्डः
---------------
४,११.१
अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति ।
य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एव अहमस्मि इति ॥ ४,११.१ ॥
__________
भाष्य ४,११.१ सम्भूयाग्नयो ब्रह्मचारिणे ब्रह्मोक्तवन्तः ।
अथानन्तरं प्रत्येकं स्वस्वविषयां विद्यां वक्तुमारेभिरे ।
तत्राऽदावेनं ब्रह्मचारिणं गार्हपत्योऽग्निरनुशशास ।
पृथिव्यग्निरन्नमादित्य इति ममैताश्चस्रस्तनवः ।
तत्र य आदित्य एष पुरुषो दृश्यते सोऽहमस्मि गार्हपत्योऽग्निर्यश्च गार्हपत्योऽग्निः स एवाहमादित्यो पुरुषोऽस्मीति ।
पुनः परावृत्त्या स एवाहमस्मीति वचनम् ।
पृथिव्यन्नयोरिव भोज्यत्वलक्षणयोः सम्बन्धो न गार्हपत्यादित्ययोः ।
अत्तृत्वपक्तृत्वप्रकाशनधर्मा अविशिष्टा इत्यत एकत्वमेवानयोरत्यन्तम् ।
पृथिव्यन्नयोस्तु भोज्यत्वेनाऽभ्यां सम्बन्धः ॥१ ॥
_______________________________________________________________________
४,११.२
स य एतमेवं विद्वानुपास्ते ।
अपहते पापकृत्याम् ।
लोकी भवति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
न अस्य अवरपुरुषाः क्षीयन्ते ।
उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च ।
य एतमेवं विद्वानुपास्ते ॥ ४,११.२ ॥
__________
भाष्य ४,११.२ स यः कश्चिदेवं यथोक्तं गार्हपत्यमग्निमन्नान्नादत्वेन चतुर्धा प्रविभक्तमुपास्ते सोऽपहते विनाशयति पापकृत्यां पापं कर्म ।
लोकी लोकवांश्चास्मदायेन लोकेनाऽग्नेयेन तद्वान्भवति यथा वयमिह च लोके ।
सर्वं वर्षशतमायुरेति प्राप्नोति ज्योगुज्जवलं जीवति नाप्रख्यात इत्येतत् ।
न चास्यावराश्च ते पुरुषाश्चास्य विदुषः सन्ततिजा इत्यर्थः ।
न क्षीयन्ते सन्तत्युच्छेदो न भवतीत्यर्थः ।
किं च तं वयमुपभुञ्जामः पालयामोऽस्मिंश्च लोके जीवन्तममुष्मिंश्च परलोके ।
य एतमेवं विद्वानुपास्ते यथेक्तं तस्यैतत्फलमित्यर्थः ॥२॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्यैकादशः खण्डः
---------------
४,१२.१
अथ ह एनमन्वाहार्यपचनोऽनुशशास आपो दिशो नक्षत्राणि चन्द्रमा इति ।
य एष चन्द्रमसि पुरुषो दृष्यते सोऽहमस्मि स एव अहमस्मि इति ॥ ४,१२.१ ॥
स य एतमेवं विद्वानुपास्ते ।
अपहते पापकृत्याम् ।
लोकी भवति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
न अस्य अवरपुरुषाः क्षीयन्ते ।
उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च ।
य एतमेवं विद्वानुपास्ते ॥ ४,१२.२ ॥
__________
भाष्य ४,१२.१,२ अथ हैनमन्वाहार्यपचनोऽनुशशास दक्षिणाग्निरापो दिशो नक्षत्राणि चन्द्रमा इत्येता मम चतस्रस्तनवश्चतुर्धाहमन्वाहार्यपचन आत्मानं प्रविभज्यावस्थितः तत्र य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति पूर्ववत् ।
अन्नसम्बन्धाज्ज्योतिष्ट्वसामान्याच्चान्वाहार्यपचनचन्द्रमसोरेकत्वन्दक्षिणा(ण) दिक्सम्बन्धाच्च ।
अपां नक्षत्राणां च पूर्ववदन्नत्वेनैव सम्बन्धः ।
नक्षत्राणां चन्द्रमसो भोग्यत्वप्रसिद्धेः ।
अपान्नोत्पादकत्वादन्नत्वं दक्षिणाग्नेः पृथिवीवद्गार्हपत्यस्य ।
समानमन्यत् ॥१२ ॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य द्वादशः खण्डः
---------------
४,१३.१
अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति ।
य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ ४,१३.१ ॥
स य एतमेवं विद्वानुपास्ते ।
अपह
ते पापकृत्याम् ।
लोकी भवति ।
सर्वमयुरेति ।
ज्योग्जीवति ।
नास्यावरपुरुषाः क्षीयन्ते ।
उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च ।
य एतमेवं विद्वानुपास्ते ॥ ४,१३.२ ॥
__________
भाष्य ४,१३.१,२ अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति ममाप्येताश्चतस्रस्तनवः ।
य एव विद्युति पुरुषो दृश्यते सोऽहमस्मीत्यादि पूर्ववत्सामान्यात् ।
दिवा(द्य्वा) काशयोस्त्वाश्रयत्वाद्विद्युदाहवनीययोर्भोग्यत्वेनैव सम्बन्धः ।
समानमन्यत् ॥१२ ॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य त्रयोदशः खण्डः
---------------
४,१४.१
ते होचुः ।
उपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या च ।
आचार्यस्तु ते गतिं वक्तेति ।
आजगाम हास्याचार्यः ।
तमाचार्योऽभ्युवादोपकोसल ३ इति ॥ ४,१४.१ ॥
__________
भाष्य ४,१४.१ ते पुनः सम्भूयोचुर्हेपकोसलैषा सोम्य ते तवास्मद्विद्याग्निविद्येत्यर्थः ।
आत्मविद्या पूर्वोक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति च ।
आचार्यस्तु ते गतिं वक्ता विद्याफलप्राप्तय इत्युक्त्वोपरेमुरग्नयः ।
आजगाम हास्याऽचार्यः कालेन ।
तं च शिष्यमाचार्योऽभ्युवादोपकोसल३ इति ॥१ ॥
_______________________________________________________________________
४,१४.२३
भगव इति ह प्रतिशुश्राव ।
ब्रह्मविद इव सोम्य मुखं भाति ।
को नु त्वानुशशासेति ।
को नु मानुशिश्याद्भो इतीहापेव निह्नुते ।
इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे ।
किं नु सोम्य किल तेऽवोचन्निति ॥ ४,१४.२ ॥
इदमिति ह प्रतिजज्ञे ।
लोकान् वाव किल सोम्य तेऽवोचन् ।
अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत इति ।
ब्रवीतु मे भगवानिति ।
तस्मै होवाच ॥ ४,१४.३ ॥
__________
भाष्य ४,१४.२,३ भगव इति ह प्रतिशुश्राव ।
ब्रह्मविद इव सोम्य ते मुखं प्रसन्नं भाति को नु त्वानुशशासेत्युक्तः प्रत्याह ।
को नु मानुशिष्यादनुशासनं कुर्याद्भो भगवंस्त्वयि प्रोषित इतीहापेव निह्नुतेऽपनिह्नुत इवेति व्यवहितेन सम्बन्धो न चापनिह्नुते न च यतावदग्निभिरुक्तं ब्रवीतीत्यभिप्रायः ।
कथमिमेऽग्नयो मया परिचरिता उक्तवन्तो नूनं यतस्त्वां दृष्ट्वा वेपमाना इवेदृशा दृश्यन्ते पूर्वमन्यादृशाः सन्त इतीहाग्नीनभ्यूदेऽभ्युक्तवान्काक्वाग्नीन्दर्शयन् ।
किं नु सोम्य किल ते तुभ्यमवोचन्नग्नय इति पृष्ट इत्येवमिदमुक्तवन्त इत्येवं ह प्रतिजज्ञे प्रतिज्ञातवान्प्रतीकमात्रं किञ्चिन्न सर्वं यथोक्तमग्निभिरुक्तमवोचत् ।
यत आहाऽचार्यो लोकान्वाव पृथिव्यादीन्हे सोम्य किल तेऽवोचन्न ब्रह्म साकल्येन ।
अहं तु ते तुभ्यं तद्ब्रह्म यदिच्छसि त्वं श्रोतुं वक्ष्यामि, शृणु तस्य मयोच्यमानस्य ब्रह्मणो ज्ञानमाहात्म्यं यथा पुष्करपलाशे पद्मपत्र आपो न शिलष्यन्त एवं यता वक्ष्यामि ब्रह्मैवंविदि पापं कर्म न शिलष्यते न सम्बध्यत इत्येवमुक्तवत्याचार्य आहोपकोसलो ब्रवीतु मे भगवानिति तस्मै होवाचाऽचार्यः ॥२३ ॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य चतुर्दशः खण्डः
---------------
४,१५.१
य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
तद्यद्यप्यस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ ४,१५.१ ॥
__________
भाष्य ४,१५.१ य एषोऽक्षिणि पुरुषो दृश्यते निवृत्तचक्षुर्भिर्ब्रह्मचर्यादिसाधनसम्पन्नैः शान्तैर्विवेकिभिर्दृष्टेर्द्रष्टा"चक्षुषश्चक्षुः"इत्यादिश्रुत्यन्तरात् ।
नन्वग्निभिरुक्तं वितथं यत आचार्यस्तु ते गतिं वक्तेति गतिमात्रस्य वक्तेत्यवोचन्भविष्यद्विषयापरिज्ञानं चाग्नीनम् ।
नैष दोषः ।
सुखाकाशस्यैवाक्षिणि दृश्यत इति द्रष्टुरनुवादात् ।
एष आत्मा प्राणिनामिति होवाचैवमुक्तवानेतद्यदेवाऽत्मतत्त्वमवोचाम ।
एतदमृतममरणधर्म्यविनाश्यत एवाभयं यस्य हि विनाशाशङ्का तस्य भयोपपत्तिस्तदभावादभयमत एवैतद्ब्रह्म बृहदनन्तमिति ।
किञ्चास्य ब्रह्मणोऽक्षिपुरुषस्य माहात्म्यं तत्तत्र पुरुषस्य स्थानेऽक्षिणि यद्यप्यस्मिन्यर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति पक्ष्मावेव गच्छति न चक्षुषा सम्बन्ध्यते पद्मपत्रेणेवोदकम् ।
स्थानस्याप्येतन्माहात्म्यं किं पुनः स्थानिनोऽक्षिपुरुषस्य निरञ्जनत्वं वक्तव्यमित्यभिप्रायः ॥१ ॥
_______________________________________________________________________
४,१५.२
एतं संयद्वाम इत्याचक्षते ।
एतं हि सर्वाणि वामान्यभिसंयन्ति ।
सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ ४,१५.२ ॥
__________
भाष्य ४,१५.२ एतं यथोक्तं पुरुषं संयद्वाम इत्याचक्षते ।
कस्मात् ।
यस्मादेतं सर्वाणि वामानि वननीयानि संभजनीयानि शोभनान्यभिसंयन्त्यभिसङ्गच्छन्तीत्यतः संयद्वामः ।
तथैवंविदमेनं सर्वाणि वामान्यभिसंयन्ति य एवं वेद ॥२ ॥
_______________________________________________________________________
४,१५.३
एष उ एव वामनीः ।
एष हि सर्वाणि वामानि नयति ।
सर्वाणि वामानि नयति य एवं वेद ॥ ४,१५.३ ॥
__________
भाष्य ४,१५.३ एष उ एव वामनीर्यस्मादेष हि सर्वाणि वामानि पुण्यकर्मफलानि पुण्यानुरूपं प्राणिभ्यो नयति प्रापयति वहति चाऽत्मधर्मत्वेन ।
विदुषः फलंसर्वाणि वामानि नयति य एवं वेद ॥३ ॥
_______________________________________________________________________
४,१५.४
एष उ एव भामनीः ।
एष हि सर्वेषु लोकेषु भाति ।
सर्वेषु लोकेषु भाति य एवं वेद ॥ ४,१५.४ ॥
__________
भाष्य ४,१५.४ एष उ एव भामनीरेष हि यस्मात्सर्वेषु लोकेष्वादित्यचन्द्राग्न्यादिरूपैर्भाति दीप्यते ।
"तस्य भासा सर्वमिदं विभाति"इति श्रुतेरतो भामानि नयतीति भामनीः ।
य एवं वेदासावपि सर्वेषु लोकेषु भाति ॥४ ॥
_______________________________________________________________________
४,१५.५
अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसंभवन्ति ।
अर्चिषोऽहः ।
अह्न आपूर्यमाणपक्षम् ।
आपूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान् ।
मासेभ्यः संवत्सरम् ।
संवत्सरादादित्यम् ।
आदित्याच्चन्द्रमसम् ।
चन्द्रमसो विद्युतम् ।
तत्पुरुषोऽमानवः ।
स एनान् ब्रह्म गमयति ।
एष देवपथो ब्रह्मपथः ।
एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥ ४,१५.५ ॥
__________
भाष्य ४,१५.५ अथेदानीं यथोक्तब्रह्मविदो गतिरुच्यते ।
यद्यदि उ चैवास्मिन्नेवंविदि शव्यं शवकर्म मृते कुर्वन्ति यदि च न कुर्वन्ति ऋत्विजः सर्वथाप्येवंवित्तेन शवकर्मणाकृतेनापि प्रतिबद्धो न ब्रह्म[द्मटप्राप्नोति ।
न च कृतेन शवकर्मणास्य कश्चनाभ्यधिको लोकः ।
"न कर्मणा वर्धते नो कनीयान्"इति श्रुत्यन्तरात् ।
शवकर्मण्यनादरं दर्शयन्विद्यां स्तौति न पुनः शवकर्मैवंविदो न कर्तव्यमिति ।
अक्रियमाणे हि शवकर्मणि कर्मणा फलारम्भे प्रतिबन्धः कश्चिदनुमीयतेऽन्यत्र ।
यत इह विद्याफलारम्भकाले शवकर्म स्याद्वा न वेति विद्यावतोऽप्रतिबन्धेन फलारम्भं दर्शयति ।
ये सुखाकाशमक्षिस्थं संयद्वामो वामनीर्भामनीरित्येवङ्गुणमुपासते प्राणसहितामग्निविद्यां च तेषामन्यत्कर्म भवतु मा वा भूत्सर्वथापि तेऽर्चिषमेवाभिसम्भवन्त्यर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्त इत्यर्थः ।
अर्चिषोऽर्चिर्देवताया अहरहरभिमानिनीं देवतामह्न आपूर्यमाणपक्षं शुक्लपक्षदेवतामापूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङुत्तरां दिशमेति सविता तान्मासानुत्तरायणदेवतां तेभ्यो मासेभ्यः संवत्सरं संवत्सरदेवतां ततः संवत्सरादादिदित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्तत्रस्थांस्तान्पुरुषः कश्चिद्ब्रह्मलोकादेत्यामानवो मानव्यां सृष्टौ भवो मानवो न मानवोऽमानवः स पुरुष एनान्ब्रह्म सत्यलोकस्थं गमयति गन्तृगन्तव्यगमयितृत्वव्यपदेशेभ्यः ।
सन्मात्रब्रह्मप्राप्तौ तदनुपपत्तेः ।
ब्रह्मैव सन्ब्रह्माप्येतीति हि तत्र वक्तुं न्याय्यम् ।
सर्वभेदनिरासेन सन्मात्रप्रतिपत्तिं वक्ष्यति ।
न चादृष्टो मार्गोऽगमनायोपतिष्ठते ।
"स एनमविदितो न भुनक्ति"इति श्रुत्यन्तरात् ।
एष देवपथः देवैरर्चिरादिभिः गमयितृत्वेनाधिकृतैः उपलक्षितः पन्था देवपथ उच्यते ।
ब्रह्म गन्तव्यं तेन चोपलक्षित इति ब्रह्मपथः ।
एतेन प्रतिपद्यमाना गच्छन्तो ब्रह्मेमं मानवं मनुसम्बन्धिनं मनोः सृष्टिलक्षणमावत नाऽवर्तन्त आवर्तन्तेऽस्मिञ्जननमरणप्रबन्धचक्रारूढा घटीयन्त्रवत्पुनः पुनरित्यार्वतस्तं न प्रतिपद्यन्ते ।
नावर्तन्ते नाऽवर्तन्ते इति द्विरुक्तिः सफलाया विद्यायाः परिसमाप्तिप्रदर्शनार्था ॥५॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य पञ्चदशः खण्डः
---------------
४,१६.१
एष ह वै यज्ञो योऽयं पवते ।
एष ह यन्निदं सर्वं पुनाति ।
यदेष यन्निदं सर्वं पुनाति ।
तस्मादेष एव यज्ञः ।
तस्य मनश्च वाक्च वर्तनी ॥ ४,१६.१ ॥
__________
भाष्य ४,१६.१ रहस्यप्रकरणे प्रसङ्गादारण्यकत्वसामान्याच्च यज्ञे क्षत उत्पन्ने व्याहृतयः प्रायश्चित्तार्था विधातव्यास्तदभिज्ञस्य चर्त्विजो ब्रह्मणो मौनमित्यत इदमारभ्यतेएष ह वा एष वायुर्योऽयं पवतेऽयं यज्ञः ।
ह वा इति प्रसिद्धार्थावद्योतकौ निपातौ ।
वायुप्रतिष्ठो हि यज्ञः प्रसिद्धः श्रुतिषु ।
"स्वाहा वातेधाः ।
" "अयं वै यज्ञो योऽयं पवते"इत्यादिश्रुतिभ्यः ।
वात एव हि चलनात्मवत्वात्क्रियासमवायी ।
"वात एव यज्ञस्याऽरम्भको वातः प्रतिष्ठा"इति च श्रवणात् ।
एष ह यन्गच्छंश्चलन्निदं सर्वं जगत्पुनाति पावयति शोधयति ।
न ह्यचलतः शुद्धिरस्ति ।
दोषनिरसनं चलतो हि दृष्टं न स्थिरस्य ।
यद्यस्माच्च यन्नष इदं सर्वं पुनाति तस्मादेष एव यज्ञो यत्पुनातीति ।
तस्यास्यैवं विशिष्टस्य यज्ञस्य वाक्च मन्त्रोच्चारणे व्यापृता ।
मनश्च यथाभूतार्थज्ञाने व्यापृतम् ।
ते एते वाङ्मनसे वर्तनी मार्गौ याभ्यां यज्ञस्तायमानः प्रवर्तते ते वर्तनी ।
प्राणापानपरिचलनवत्या हि"वाचश्चित्तस्य चोत्तरोत्तरक्रमो यद्यज्ञः"इति हि श्रुत्यन्तरम् ।
अतो वाङ्मनसाभ्यां यज्ञो वर्तत इति वाङ्मनसे वर्तनी उच्येते यज्ञस्य ॥१॥
_______________________________________________________________________
४,१६.२३
तयोरन्यतरां मनसा संस्करोति ब्रह्मा ।
वाचा होताध्वर्युरुद्गातान्यतराम् ।
स यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यववदति ॥ ४,१६.२ ॥
अन्यतरामेव वर्तनीं संस्करोति ।
हीयतेऽन्यतरा ।
स यथैकपाद्व्रजन् रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञो रिष्यति ।
यज्ञं रिष्यन्तं यजमानोऽनु रिष्यति ।
स इष्ट्वा पापीयान् भवति ॥ ४,१६.३ ॥
__________
भाष्य ४,१६.३ तयोर्वर्तन्योरन्यतरां वर्तनीं मनसा विवेकज्ञानवता संस्करोति ब्रह्मर्त्विग्वाचा वर्तन्या होताध्वर्युरुद्गातेत्येते त्रयोऽप्यृत्विजोऽन्यतरां वाग्लक्षणां वर्तनीं वाचैव संस्कुर्वन्ति ।
तत्रैवं सति वाङ्मनसे वर्तनी संस्कार्ये यज्ञे ।
अथ स ब्रह्मा यत्र यस्मिन्काल उपाकृते प्रारब्धे प्रातरनुवाके शस्रे पुरा पूर्वं परिधानीयाया ऋचो ब्रह्मैतस्मिन्नन्तरे काले व्यववदति मौनं परित्यजति यदि तदान्यतरामेव वा॰ग्वर्तनीं संस्करोति ब्रह्मणासंस्क्रियमाणा मनोवर्तनी हीयते विनश्यति च्छिद्रीभवत्यन्यतरा ।
स यज्ञो वाग्वर्तन्यैवान्यतरया वर्तितुमशक्नुवन्रिष्यति ।
कथमिवेत्याह ।
स यथैकपात्पुरुषो ब्रजन्गच्छन्नध्वानं रिष्यति, रथो वैकेन चक्रेण वर्तमानो गच्छन्रिष्यत्येवमस्य यजमानस्य कुब्रह्मणा यज्ञो रिष्यति विनश्यति ।
यज्ञं रिष्यन्तं यजमानोऽरिष्यति ।
यज्ञप्राणो हि यजमानः ।
अतो युक्तो यज्ञरेषे रेषस्तस्य ।
स तं यज्ञमिष्ट्वा तादृशं पापीयान्पापतरो भवति ॥२३ ॥
_______________________________________________________________________
४,१६.४५
अथ यत्र उपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यववदत्युभे एव वर्तनी संस्कुर्वन्ति ।
न हीयतेऽन्यतरा ॥ ४,१६.४ ॥
स यथोभयपाद्व्रजन् रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनु प्रतितिष्ठति ।
स इष्ट्वा श्रेयान् भवति ॥ ४,१६.५ ॥
__________
भाष्य ४,१६.४,५ अथ पुनर्यत्र ब्रह्मा विद्वान्मौनं परिगृह्य वाग्विसर्गमकुर्वन्वर्तते यावत्परिधानीयाया न व्यववदति तथैव सर्वर्त्विज उभे एव वर्तनी संस्कुर्वन्ति न हीयतेऽन्यतरापि ।
किमिवेत्याह ।
पूर्वोक्तविपरीतौ दृष्टान्तौ ।
एवमस्य यजमानस्य यज्ञः स्ववर्तनीभ्यां वर्तमानः प्रतितिष्ठति स्वेनाऽत्मनाविनश्यन्वर्तत इत्यर्थः ।
यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स यजमान एवं मौनविज्ञानवद्ब्रह्मोपेतं यज्ञमिष्ट्वा श्रेयान्भवति श्रेष्ठो भवतीत्यर्थः ॥४५ ॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य षोडशः खण्डः
---------------
४,१७.१
प्रजापतिर्लोकानभ्यतपत् ।
तेषां तप्यमानानां रसान् प्रावृहत् ।
अग्निं पृथिव्याः ।
वायुमन्तरिक्षात् ।
आदित्यं दिवः ॥ ४,१७.१ ॥
__________
भाष्य ४,१७.१ अत्र ब्रह्मणो मौनं विहितं तद्रेषे ब्रह्मत्वकर्मणि चान्यस्मिंश्च होत्रादिकर्मरेषे व्याहृतिहोमः प्रायश्चित्तमिति तदर्थं व्याहृतयो विधातव्या इत्याहप्रजापतिर्लोकानभ्यतपल्लोकानुद्दिश्य तत्र सारजिघृक्षया ध्यानलक्षणं तपश्चचार ।
तेषां तप्यमानानां लोकानां रसान्साररूपान्प्रावृहदुद्धृतवाञ्जग्राहेत्यर्थः ।
कान् ।
अग्निं रसं पृथिव्याः ।
वायुमन्तरिक्षात् ।
आदित्यं दिवः ॥१ ॥
_______________________________________________________________________
४,१७.२
स एतास्तिस्रो देवता अभ्यतपत् ।
तासां तप्यमानानां रसान् प्रावृहत् ।
अग्नेरृचः ।
वायोर्यजूंषि ।
सामान्यादित्यात् ॥ ४,१७.२ ॥
__________
भाष्य ४,१७.२ पुनरप्येवमेवमग्न्याद्याः स एतास्तिस्रो देवता उद्दिश्याभ्यतपत् ।
ततोऽपि सारं रसं त्रयीविद्यां जग्राह ॥२ ॥
_______________________________________________________________________
४,१७.३४
स एतां त्रयीं विद्यामभ्यतपत् ।
तस्यास्तप्यमानाया रसान् प्रावृहत् ।
भूरित्यृग्भ्यः ।
भुवरिति यजुर्भ्यः ।
स्वरिति सामभ्यः ॥ ४,१७.३ ॥
तद्यद्यृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयात् ।
ऋचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टं संदधाति ॥ ४,१७.४ ॥
__________
भाष्य ४,१७.३,४ स एतां पुनरभ्यतपत्त्रयीं विद्याम् ।
तस्यास्तप्यमानाया रसं भूरिति व्याहृतिमृग्भ्यो जग्राह ।
भुवरिति व्याहृतिं यजुर्भ्यः ।
स्वरिति व्याहृतिं सामभ्यः ।
अत एव लोकदेववेदरसा महाव्याहृतयाः ।
अतस्तत्तत्र यज्ञे यद्यृक्त ऋक्सम्बन्धादृङ्निमित्तं रिष्येद्यज्ञः क्षतं प्राप्नुयाद्भूः स्वाहेति गार्हपत्ये जुहुयात् ।
सा तत्र प्रायश्चित्तिः ।
कथम्, ॠचामेव तदिति क्रियाविशेषणं, रसेनर्चां वीर्येणौजसर्चां यज्ञस्य ऋक्सम्बन्धिनो यज्ञस्य विरिष्टं विच्छिन्नं क्षतरूपमुत्पन्नं सन्दधाति प्रतिसन्धत्ते ॥३४ ॥
_______________________________________________________________________
४,१७.५६
अथ यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयात् ।
यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टं संदधाति ॥ ४,१७.५ ॥
अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात् ।
साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टं संदधाति ॥ ४,१७.६ ॥
__________
भाष्य ४,१७.५,६ अथ यदि यजुष्टो यजुर्निमित्तं रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयात् ।
तथा सामनिमित्ते रेषे स्वः स्वाहेत्याहवनीये जुहुयात् ।
तथा पूर्ववद्यज्ञं सन्दधाति ।
ब्रह्मनिमित्ते तु रेषे त्रिष्वग्निषु ।
तिसृभिर्व्याहृतिभिर्जुहुयात् ।
त्रय्या हि विद्यायाः स रेषः ।
"अथ केन ब्रह्मत्वमित्यनयैव त्रय्या विद्यया"इति श्रुतेः ।
न्यायान्तरं वा मृग्यं ब्रह्मत्वनिमित्ते रेषे ॥५६ ॥
_______________________________________________________________________
४,१७.७८
तद्यथा लवणेन सुवर्णं संदध्यात् ।
सुवर्णेन रजतं रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ४,१७.७ ॥
एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टं संदधाति ।
भेषजकृतो ह वा एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ४,१७.८ ॥
__________
भाष्य ४,१७.७,८ तद्यथा लवणेन सुवर्णं सन्दध्यात् ।
क्षारेण टङ्कणादिना खरे॑मृदुत्वकरं हि तत् ।
सुवर्णेन रजतमशक्यसन्धानं सन्दध्यात् ।
रजतेन तथा त्रपु त्रपुणा सीसं सीसेन लोह लोहेन दारु दारु चर्मणा चर्मबन्धनेन ।
एवमेषां लोकानामासां देवतानामस्यास्रय्या विद्याया वीर्येण रसाख्येनौजसा यज्ञस्य विरिष्टं सन्दधाति ।
भेषजकृतो ह वा एष यज्ञः ।
रोगार्त इव पुमांश्चिकित्सकेन सुशिक्षितेनैष यज्ञो भवति ।
कोऽसौ ।
यत्र यस्मिन्यज्ञ एवंविद्यथोक्तव्याहृतिहोमप्रायश्चित्तविद्ब्रह्मर्त्विग्भवति स यज्ञ इत्यर्थः ॥७८ ॥
_______________________________________________________________________
४,१७.९
एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवति ।
एवंविदं ह वा एषा ब्रह्माणमनु गाथा ।
यतो यत आवर्तते तत्तद्गच्छति ॥ ४,१७.९ ॥
__________
भाष्य ४,१७.९ किञ्चैष ह वा उदक्प्रवण उदङ्निम्नो दक्षिणोच्छ्रायो यज्ञो भवति ।
उत्तरमार्गप्रतिपत्तिहेतुरित्यर्थः ।
यत्रैवंविद्ब्रह्मा भवत्येवंविदं ह वै ब्रह्माणमृत्विजं प्रत्येषानुगाथा ब्रह्मणः स्तुतिपरा ।
यतो यत आवर्तते कर्म प्रदेशादृत्विजां यज्ञः क्षतीभवंस्तत्तद्यज्ञस्य क्षतरूपं प्रतिसन्दधत्प्रायश्चित्तेन गच्छति परिपालयतीत्येतत् ॥९ ॥
_______________________________________________________________________
४,१७.१०
मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥१०॥
मानवः ।
ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षति ।
एवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति ।
तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ ४,१७.१० ॥
__________
भाष्य ४,१७.१० मानवो भ्रह्मा मौनाचरणान्मननाद्वा ज्ञावनत्त्वात्ततो ब्रह्मैवैकर्त्विक्कुरून्कर्तॄन् ।
योद्धॄनारूढानश्वा वडवा यथाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति तत्कृतदोषापनयनात् ।
यत एवंविशिष्टो ब्रह्मा विद्वांस्तस्मादेवंविदमेव यथोक्तव्याहृत्यादिविदं ब्रह्माणं कुर्वीत नानेवंविदं कदाचनेति ।
द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थः ॥१० ॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य सप्तदशः खण्डः
इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यपरमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पादकृतौ च्छान्दोग्योपनिषद्विवरणे चतुर्थोऽध्यायः
0 Comments
If you have any Misunderstanding Please let me know