तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥
॥ लिप्यन्तरणम् ॥
tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāni satyamāyatanam ||
॥ अन्वयः ॥
तपः दमः कर्म इति तस्यै प्रतिष्ठा। वेदाः सर्वाङ्गानि सत्यम् आयतनम् ॥
॥ अन्वयलिप्यन्तरणम् ॥
tapaḥ damaḥ karma iti tasyai pratiṣṭhā | vedāḥ sarvāṅgāni satyam āyatanam ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ ब्रह्मविद्यासाधनानि ]
तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥८॥
तस्या इति । तस्यै ब्रह्मविद्यायै । तपः कृच्छ्रचान्द्रायणादि, दमः - इन्द्रियनिग्रहः, कर्म - अग्निहोत्रादिकम्, इतीदं प्रतिष्ठा - हेतु: । वेदास्तदङ्गानि सत्यमिति च, आयतनम् - स्थानम्, हेतुरित्यर्थः । विद्यायामिति शेषः ॥८॥
॥ आङ्गल-अर्थः ॥
Of this knowledge austerity and self-conquest and works are the foundation, the Vedas are all its limbs, truth is its dwelling place.
॥ हिन्दी-अर्थः ॥
तप, आत्म-विजय (दम) तथा कर्म इस अन्तरज्ञान के आधार (प्रतिष्ठा) हैं, 'वेद' इसके सब अंग हैं, सत्य इसका धाम है।
॥ शब्दावली ॥
तप - tapa - austerity
दम - dama - self-conquest
कर्म - karma - works
इति - iti - thus
तस्यै - tasyai - of this (knowledge)
प्रतिष्ठा - pratiṣṭhā - foundation
वेदाः - vedāḥ - the Vedas (are)
सर्वाङ्गानि - sarvāṅgāni - all (its) limbs
सत्यम् - satyam - truth
आयतनम् - āyatanam - (its) dwelling place

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know