Ad Code

उपनिषदं भो ब्रूहीत्युक्ता



उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद् ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥

॥ लिप्यन्तरणम् ॥

upaniṣadaṁ bho brūhītyuktā ta upaniṣad brāhmīṁ vāva ta upaniṣadamabrūmeti ||

॥ अन्वयः ॥

भोः उपनिषदं ब्रुहि इति। ते उपनिषत् उक्त्वा ब्राह्मीं वाव उपनिषदं ते अब्रूम इति ॥

॥ अन्वयलिप्यन्तरणम् ॥

bhoḥ upaniṣadaṁ bruhi iti | te upaniṣat uktvā brāhmīṁ vāva upaniṣadaṁ te abrūma iti ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

एवमुपदिष्टः शिष्यो ब्रह्मविद्यायां निरूपितायामपि तदुपायरहस्यं जिज्ञासुः परिपृच्छति - उपनिषदं भो ब्रूहि इति ।

उपनिषदं भो ब्रूहीति । उक्ता त उपनिषद् ।

ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥७॥

उपनिषदम् - रहस्यम्, वक्तव्यं रहस्यं ब्रूहीत्यर्थः । आचार्य आह - उक्तेति । ते तुभ्यम्, उपनिषदुक्ता। उक्तेत्येतदेव द्रढयति - ब्राह्मीमिति । ब्रह्मविद्यामब्रूम किल ते । वाव इति एवार्थकम् । उक्तैव ब्रह्मविद्या, नात्रावशिष्टं किञ्चित्, किन्तु तदुपयोगि तु वक्ष्यमाणं श्रृण्विति भावः ॥७॥

॥ आङ्गल-अर्थः ॥

Thou hast said “Speak to me Upanishad”; spoken to thee is Upanishad. Of the Eternal verily is the Upanishad that we have spoken.

॥ हिन्दी-अर्थः ॥

तुमने कहा-''उपनिषद्६ का प्रवचन कीजिये''; तुम्हारे लिए उपनिषद् का प्रवचन कर दिया है। निश्चित रूप से यह ब्राह्मी (ब्रह्मज्ञान सम्बन्धी) उपनिषद् है जिसका हमने उपदेश दिया है। ६उपनिषद् का तात्पर्य है अन्तरज्ञान, वह ज्ञान जो परम सत्य में प्रवेश करता है और उसमें प्रतिष्ठित हो जाता है।..

॥ शब्दावली ॥

भोः - bhoḥ - O Thou!

उपनिषदम् - upaniṣadam - the Upanishad

ब्रुहि - bruhi - speak (to me)

इति - iti - thus

ते - te - to thee

उपनिषत् - upaniṣat - the Upanishad

उक्त्वा - uktvā - spoken

ब्राह्मीम् - brāhmīm - of the Eternal

वाव - vāva - verily

उपनिषदम् - upaniṣadam - (is) the Upanishad

ते - te - to thee

अब्रूम इति - abrūma iti - that we have spoken


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code