तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः। सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥
॥ लिप्यन्तरणम् ॥
tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṁso bhaikṣyacaryāṁ carantaḥ | sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā ||
॥ अन्वयः ॥
ये हि शान्ताः विद्वांसः भैक्षचर्यां चरन्तः अरण्ये तपःश्रद्धे उपवसन्ति ते विरजाः सन्तः सूर्यद्वारेण यत्र सः अमृतः अव्ययात्मा पुरुषः तत्र प्रयान्ति हि ॥
॥ अन्वयलिप्यन्तरणम् ॥
ye hi śāntāḥ vidvāṁsaḥ bhaikṣacaryāṁ carantaḥ araṇye tapaḥśraddhe upavasanti te virajāḥ ( santaḥ ) sūryadvāreṇa yatra saḥ amṛtaḥ avyayātmā puruṣaḥ ( tatra ) prayānti hi ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ उपासकानां ब्रह्मलोकप्राप्तिः ]
एवं कर्मणामल्पास्थिरफलतां निरूप्य ब्रह्मज्ञानस्यानन्तस्थिरफलतां निरूपयति -
तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः ।
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥११॥
ये विद्वांसः - आत्मयाथात्म्यविदः, अत एव शान्ताः - निवृत्तरागाः, उपरतकरणाः, अरण्ये विजने प्रदेशे स्थिताः, भैक्षचर्यां चरन्तः - इदं चोपलक्षकम्, अयत्नोपनतेन शरीरधारणं कुर्वाणा इति यावत्, तपःश्रद्धे - तपः - आश्रमानुगुणं कर्म, श्रद्धा - विद्या, तदुभयमुपवसन्ति सेवन्ते । न केवलं कर्म न केवलं विद्याम्, किन्तु वर्णाश्रमनियतकर्माङ्गेन सह ब्रह्मविद्यां सेवन्त इति यावत् । तपः - ब्रह्म, श्रद्धा - तद्विषयकत्वरा, तदुभयं सेवन्ते । त्वरापूर्वकं ब्रह्म सेवन्त इति भाव इत्यपरे । ते विरजाः - विरजसः, विधूतपाप्मानः, सूर्यद्वारेण सूर्यो द्वारं यस्मिन् मार्गे, स चार्चिरादि:, तेन मार्गेण प्रयान्ति तं देशविशेषम् । यत्र देशेऽव्ययात्माऽमृतः स पुरुषोऽस्ति - अव्यय आत्मा स्वरूपं यस्य सोऽव्ययात्मा सततैकरूपः । अमृतः भोग्यभूतः, निरतिशयसुखस्वरूप इति यावत् । सुखस्यैव भोग्यत्वादसङ्कोचन्यायाच्च । स पुरुषः यः परविद्यागम्यतयोपक्रमे प्रस्तुतः । अयं च पुरुषशब्दो नार्वाचिनं बोधयेत्, विशेषणद्वयस्वारस्यभङ्गप्रसङ्गात्, न हि हिरण्यगर्भो निरतिशयसुखरूपो न वा सततैकरूपः । अव्यवहितमन्त्रे च ‘येनाक्षरं पुरुषं वेद सत्य' मिति पुरुषशब्दः श्रूयते परे ब्रह्मणि ॥११॥
॥ आङ्गल-अर्थः ॥
But they who in the forest follow after faith and self-discipline, calm and full of knowledge, living upon alms, cast from them the dust of their passions, and through the gate of the Sun they pass on there where is the Immortal, the Spirit, the Self undecaying and imperishable.
॥ हिन्दी-अर्थः ॥
किन्तु जो अरण्य में अपनी श्रद्धा एवं तपश्चर्या का पालन करते हुए शान्त-चित्त एवं ज्ञाननिष्ठ भाव से भिक्षावृत्ति के द्वारा जीवनयापन करते हैं, वे अपनी कामनाओं की धूलि (रज) से मुक्त होकर सूर्य के द्वार से निकलकर वहाँ पहुँच जाते हैं जहाँ 'अव्ययात्मा', 'अमृत-पुरुष' विद्यमान है।
॥ शब्दावली ॥
ये हि - ye hi - they who
शान्ताः - śāntāḥ - calm
विद्वांसः - vidvāṁsaḥ - full of knowledge
भैक्षचर्याम् चरन्तः - bhaikṣacaryām carantaḥ - living upon alms
अरण्ये - araṇye - in the forest
तपःश्रद्धे - tapaḥśraddhe - faith and self-discipline
उपवसन्ति - upavasanti - follow after
ते - te - they
विरजाः - virajāḥ - cast from them the dust of their passions,
सूर्यद्वारेण - sūryadvāreṇa - through the gate of the Sun
यत्र - yatra - where is the, the,
सः - saḥ - that
अमृतः - amṛtaḥ - the Immortal
अव्ययात्मा - avyayātmā - the Self undecaying and imperishable
पुरुषः - puruṣaḥ - the Spirit
तत्र हि - tatra hi - there
प्रयान्ति - prayānti - they pass on

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know