Ad Code

परीक्ष्य लोकान्‌ कर्मचितान्‌ ब्राह्मणो

 


परीक्ष्य लोकान्‌ कर्मचितान्‌ ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्‌ समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्‌ ॥

लिप्यन्तरणम्

parīkṣya lokān karmacitān brāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena | tadvijñānārthaṁ sa gurumevābhigacchet samitpāṇiḥ śrotriyaṁ brahmaniṣṭham ||

अन्वयः

कर्मचितान् लोकान् परीक्ष ब्राह्मणः निर्वेदम् आयात्। कृतेन अकृतः न अस्ति तत् - विज्ञानार्थं सः समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुम् एव अभिगच्छेत् ॥

अन्वयलिप्यन्तरणम्

karmacitān lokān parīkṣa brāhmaṇaḥ nirvedam āyāt| kṛtena akṛtaḥ na asti tat - vijñānārthaṁ saḥ samitpāṇiḥ śrotriyaṁ brahmaniṣṭhaṁ gurum eva abhigacchet ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ मुमुक्षोः गुरूपसदनम् ]

परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।

तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥१२॥

तदेवमन्यदेवानन्तस्थिरफलम्, अन्यदेव तु कर्मफलं तदनयोरन्तरमजानानो यः कर्मफलेष्वेव रमते, नासावधिकारी ब्रह्मविद्यायाम् । यस्तु परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायात्, य इत्यध्याहार्यम्, श्रूयते ह्युत्तरत्र तच्छन्दः, यो निर्वेदमायात्स गुरुमभिगच्छेदित्यन्वयः । तथा च यः स्वर्गकामः स यजेतेत्यादौ कामनासम्बन्धस्येव निर्वेदसम्बन्धस्याधिकारिविशेषणत्वलाभः । परीक्ष्य लोकान्कर्मचितान् - आपाततः सुखरूपतया प्रतीयमानानिमानर्थाभासान्स्वर्गादिलोकान्कर्मसाध्यान्परितः प्रमाणैर्विचार्य इदमीदृशमिति यथावदवधृत्य, यो ब्राह्मणः - वेदवित्, निर्वेदमायात्- प्राप्नुयात् ।

ननु कुतो निर्वेदस्तद्विचारेणेत्यत्राह - नास्त्यकृतः कृतेनेति । योऽयमकृतः अनन्तस्थिरफलरूपः स कृतेन कर्मणा नास्त्येव, यस्मात्कर्मसाध्याः सर्वे लोका: क्षयिष्णव एव, तद्विचारे निर्वेदः स्यादेवेति भावः । इतिशब्दाध्याहारेण नास्त्यकृतः कृतेनेति निर्वेदमायादिति वा योजना । सञ्जातनिर्वेदोऽयमधिकारी तस्याकृतस्य नित्यसुखरूपस्य ससाधनस्य विज्ञानार्थं गुरुमेवाभिगच्छेत् । एवकारेण न यतः कुतश्चिदियं विद्या सम्पादनार्हा, किन्तु वक्ष्यमाणलक्षणागुरोरेवेति व्यज्यते । कीदृशम् ? उच्यते श्रोत्रियं ब्रह्मनिष्ठम् श्रोत्रियादप्यब्रह्मनिष्ठान्न सा विद्याऽधिगन्तव्येति भावः । कथमभिगच्छेदित्यत्राह समित्पाणिरिति । एतेन शिष्यभावासाधारणाकारो ज्ञाप्यते । तथा चानेनैव प्रकारेणोक्तलक्षणाद्गुरोरुक्तेनाधिकारिणोक्ता परा विद्या सम्पाद्येत्युक्तं भवति ॥१२॥

आङ्गल-अर्थः

The seeker of the Brahman, having put to the test the worlds piled up by works, arrives at world-distaste, for not by work done is reached He who is Uncreated. For the knowledge of That, let him approach, fuel in hand, a Guru, one who is learned in the Veda and is devoted to contemplation of the Brahman.

हिन्दी-अर्थः

ब्रह्म-जिज्ञासु (ब्राह्मण) कर्म-संचित लोकों की परीक्षा करके संसार के फीकेपन (निर्वेद) का अनुभव करता है, क्योंकि कर्मों को करने से ही 'उस' की उपलब्धि नहीं हो सकती जो 'अकृत'३ है। उस 'परतत्त्व' के ज्ञान के लिए वह (ब्राह्मण) हाथ में समिधा धारण करके वेदविद् (श्रोत्रिय) एवं ब्रह्मनिष्ठ गुरु के पास जाये । ३ अथवा, '''वह' जो असृष्ट है, सृष्ट पर आधारित नहीं है।" शाब्दिक अनुवादː ''कृत के द्वारा (अथवा, बनाये गया के द्वारा) 'अकृत' ('यह' जो असृष्ट है) नहीं।"

शब्दावली

ब्राह्मणः - brāhmaṇaḥ - the seeker of the Brahman

कर्मचितान् लोकान् - karmacitān lokān - the worlds piled up by works

परीक्ष - parīkṣa - having put to the test

निर्वेदम् - nirvedam - world-distaste

आयात् - āyāt - arrives at

न कृतेन - na kṛtena - for not by work done

अकृतः अस्ति - akṛtaḥ asti - the Uncreated is reached

तत् विज्ञानार्थम् - tat vijñānārtham - for the knowledge of That

सः - saḥ - he

समित्पाणिः - samitpāṇiḥ - fuel in hand

श्रोत्रियम् - śrotriyam - one who is learned in the Veda

ब्रह्मनिष्ठम् - brahmaniṣṭham - devoted to contemplation of the Brahman

गुरुम् एव - gurum eva - a Guru

अभिगच्छेत् - abhigacchet - let him approach


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code