Ad Code

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो



इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः। नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥

॥ लिप्यन्तरणम् ॥

iṣṭāpūrtaṁ manyamānā variṣṭhaṁ nānyacchreyo vedayante pramūḍhāḥ | nākasya pṛṣṭhe te sukṛte'nubhūtvemaṁ lokaṁ hīnataraṁ vā viśanti ||

॥ अन्वयः ॥

इष्टापूर्तं वरिष्ठं मन्यमानाः प्रमूढाः अन्यत् श्रेयः अस्ति इति न वेदयन्ते ते सुकृते नाकस्य पृष्ठे अनुभूत्वा इमं लोकं हीनतरं वा विशन्ति ॥

अन्वयलिप्यन्तरणम्

iṣṭāpūrtaṁ variṣṭhaṁ manyamānāḥ pramūḍhāḥ anyat śreyaḥ ( asti iti ) na vedayante te sukṛte nākasya pṛṣṭhe anubhūtvā imaṁ lokaṁ hīnataraṁ vā viśanti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ कर्मिणां पुनराप्तिप्रकारः ]

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।

नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥१०॥

इष्टमिति श्रौतं लक्ष्यते, पूर्तमिति च स्मार्तं कर्म लक्ष्यते । परिमितफलसाधनमप्येतदेव वरिष्ठम् - सर्वपुरुषार्थसाधनतया श्रेष्ठं मन्यमानाः प्रमूढाः - प्रकर्षेण मूढाः श्रेयोऽन्यदुत्कृष्टं नैव जानन्ति । ते तु सुकृते - सुकृतफलीभूते, साध्ये साधनोपचारः । नाकस्य पृष्ठे- स्वर्गस्योर्ध्वभागे सुखमनुभूय, क्षीणे पुण्ये, इमं मानुषं ततोऽपि निहीनं वाऽन्यं लोकं विशन्ति ॥१०॥

आङ्गल-अर्थः

Minds bewildered who hold the oblation offered and the well dug for the greatest righteousness and know not any other highest good, on the back of heaven they enjoy the world won by their righteousness and enter again this or even a lower world.

हिन्दी-अर्थः

मोहग्रस्त ये लोग जो यज्ञयागादि कर्मों तथा कूपादि खनन के कार्यों को ही सर्वश्रेष्ठ (वरिष्ठ) सत्कर्म समझते हैं तथा अन्य किसी श्रेय को नहीं जानते, वे स्वर्ग-पृष्ठ में सुकृत-लोक की अनुभूति करके इस लोक में अथवा इससे भी हीनतर लोक में प्रवेश करते हैं।

शब्दावली

इष्टापूर्तम् - iṣṭāpūrtam - the oblation offered and the well dug

वरिष्ठम् - variṣṭham - for the greatest righteousness

मन्यमानाः - manyamānāḥ - hold

प्रमूढाः - pramūḍhāḥ - minds bewildered

अन्यत् श्रेयः - anyat śreyaḥ - any other highest good

न वेदयन्ते - na vedayante - know not

ते - te - they

सुकृते - sukṛte - the world won by their righteousness

नाकस्य पृष्ठे - nākasya pṛṣṭhe - on the back of heaven

अनुभूत्वा - anubhūtvā - enjoying

इमम् लोकम् - imam lokam - this world

हीनतरम् - hīnataram - even a lower world

वा - vā - or

विशन्ति - viśanti - and enter again


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code