Ad Code

एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो



एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः। एष पृथिवी रयिर्देवः सदसच्चामृतं च यत्‌ ॥

लिप्यन्तरणम्

eṣo'gnistapatyeṣa sūrya eṣa parjanyo maghavāneṣa vāyuḥ| eṣa pṛthivī rayirdevaḥ sadasaccāmṛtaṁ ca yat ||

अन्वयः

एषः अग्निः सन् तपति एषः सूर्यः एषः पर्जन्यः एषः मघवान् एषः वायुः एषः देवः पृथिवी रयिः सत् असत् च अमृतं च यत् ॥

अन्वयलिप्यन्तरणम्

eṣaḥ agniḥ ( san ) tapati eṣaḥ sūryaḥ eṣaḥ parjanyaḥ ( eṣaḥ ) maghavān eṣaḥ vāyuḥ eṣaḥ devaḥ pṛthivī rayiḥ sat asat ca amṛtaṁ ca yat ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुरेष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥५॥

एषोऽग्निस्तपति - योऽग्निस्तपत्येष मुख्यप्राण एव सः । यश्च प्रकाशते सूर्यः सोऽप्येष एव। यो वर्षति पर्जन्यः सोऽप्येष एव । यस्त्रैलोक्याधिप इन्द्रः सोऽप्येष एव । यो मेघादीन्विधत्ते वायुः सोऽप्येष एव । या धत्ते जङ्गमाजङ्गममिदं पृथिवी साऽप्येष एव । यः पुष्णात्योषधीः स रयिर्देवश्चन्द्रमाः सोऽप्येष एव । यच्च सूक्ष्मं यच्च स्थूलं सर्वमेवैषः । यच्चामृतम् अजरामरत्वापादकं तदपि स एव । सर्वेषामेतदायत्तस्थितिकत्वादेष एवाग्निरेष एव सूर्य इति सामानाधिकरण्येन स्तूयते ॥५॥

आङ्गल-अर्थः

“'Lo this is he that is Fire and the Sun that burneth, Rain and Indra and Earth and Air, Matter and Deity, Form and Formless, and Immortality.

हिन्दी-अर्थः

" 'देखो यही वह है जो 'अग्नि' है तथा यही 'सूर्य' है जो तपता है यही 'वर्षा' है तथा यही इन्द्र है यही 'पृथ्वी' है यही 'वायु' है यही 'रवि' तथा 'देव है 'सत्' तथा 'असत्' एवं 'अमृतत्वं' यही है।

शब्दावली

एषः अग्निः - eṣaḥ agniḥ - this is he that is Fire

तपति - tapati - that burneth

एषः सूर्यः - eṣaḥ sūryaḥ - this is he that is the Sun

एषः पर्जन्यः - eṣaḥ parjanyaḥ - this is he that is Rain

मघवान् - maghavān - this is he that is Indra

एषः वायुः - eṣaḥ vāyuḥ - this is he that is Air

एषः देवः - eṣaḥ devaḥ - this is he that is Deity

पृथिवी - pṛthivī - this is he that is Earth

रयिः - rayiḥ - this is he that is Matter

सत् असत् च - sat asat ca - this is he that is Form and Formless

अमृतम् च यत् - amṛtam ca yat - and this is he that is Immortality


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code