सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते। तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्टन्त एवम् वाङ्मनष्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥
॥ लिप्यन्तरणम् ॥
so'bhimānādūrdhvamutkrāmata iva tasminnutkrāmatyathetare sarva evotkrāmante tasmiṁśca pratiṣṭhamāne sarva eva pratiṣṭhante | tadyathā makṣikā madhukararājānamutkrāmantaṁ sarva evotkrāmante tasmiṁśca pratiṣṭhamāne sarva eva pratiṣṭanta evam vāṅmanaṣcakṣuḥ śrotraṁ ca te prītāḥ prāṇaṁ stunvanti ||
॥ अन्वयः ॥
सः अभिमानात् ऊर्ध्वम् उत्क्रमते इव तस्मिन् उत्क्रामति अथ इतरे सर्वे एव प्राणाः उत्क्रामन्ते तस्मिन् च प्रतिष्ठमाने सर्वे एव प्रातिष्ठन्ते। तत् यथा मधुकरराजानम् उत्क्रामन्तं सर्वाः एव मक्षिकाः उत्क्रामन्ते तस्मिन् प्रतिष्ठमाने सर्वाः एव प्रतिष्ठन्ते एवं वाक् मनः चक्षुः श्रोत्रं च अकुर्वन् । ते प्रीताः प्राणं स्तुन्वन्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
saḥ abhimānāt ūrdhvam utkramate iva tasmin utkrāmati atha itare sarve eva prāṇāḥ utkrāmante tasmin ca pratiṣṭhamāne sarve eva prātiṣṭhante| tat yathā madhukararājānam utkrāmantaṁ sarvāḥ eva makṣikāḥ utkrāmante tasmin pratiṣṭhamāne sarvāḥ eva pratiṣṭhante evaṁ vāk manaḥ cakṣuḥ śrotraṁ ca ( akurvan )| te prītāḥ prāṇaṁ stunvanti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
तेऽश्रद्दधाना बभूवुः । सोऽभिमानादूर्ध्वमुत्क्रमत इव तस्मिन्नुत्क्रामत्यथे- तरे सर्व एवोत्क्रामन्ते । तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते । तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्त एवं वाङ्मनश्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुवन्ति ॥४॥
इदमुपश्रुत्य ते आकाशादयोऽश्रद्दधाना बभूवुः । अश्रद्धामेषामवलोक्य सोऽभिमानादूर्ध्वमुत्क्रामत इव । ईषदर्थ इवशब्दः । किञ्चिदुच्चचालेत्यर्थः । तस्मिन् प्राणे उत्क्रामति सर्वे एव वागादय उत्क्रामन्ते, तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते, यथा मधुकरराजानमुत्क्रामन्तं सर्वा एव मक्षिका उत्क्रामन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव मक्षिकाः प्रतिष्ठन्ते । अथ वाड्मनः प्रभृतयस्ते प्रीताः प्राणं वक्ष्यमाणप्रकारेण स्तुवन्ति स्म ॥४॥
॥ आङ्गल-अर्थः ॥
“Therefore offended he rose up, he was issuing out from the body. But when the Breath goeth out, then go all the others with him, and when the Breath abideth all the others abide; therefore as bees with the kingbee: when he goeth out all go out with him, and when he abideth all abide, even so was it with Speech and Mind and Sight and Hearing; then were they wellpleased and hymned the Breath to adore him.
॥ हिन्दी-अर्थः ॥
"अतएव वह क्रुद्ध होकर ऊपर की ओर उठने लगा वह शरीर से बाहर निकलने लगा। किन्तु जब प्राण शरीर से बाहर निकलता है तब उसके साथ अन्य सब भी बाहर निकलने लगते हैं, और जब प्राण प्रतिष्ठित (सुस्थिर) रहता है तो अन्य सभी प्रतिष्ठित सुस्थिर रहते हैं; जिस प्रकार मधुमक्खियाँ मधुकर-राजा के साथ होती हैं?जब वह बाहर जाता है, सब उसके साथ बाहर निकल जाती हैं तथा जब वह अन्दर बैठ जाता है,सब बैठ जाती हैं, ऐसा ही है 'वाङ्', 'मन', 'चक्षु' तथा 'श्रोत्र' के साथ भी तत्पश्चात् वे सब अतिप्रसन्न हो गये तथा 'प्राण' का स्तुतिगान करने लगे।
॥ शब्दावली ॥
सः - saḥ - he
अभिमानात् - abhimānāt - therefore offended
ऊर्ध्वम् उत्क्रमते इव - ūrdhvam utkramate iva - rose up (he was issuing out from the body)
तस्मिन् उत्क्रामति - tasmin utkrāmati - when the Breath goeth out
अथ - atha - then
इतरे सर्वे एव प्राणाः - itare sarve eva prāṇāḥ - all the others
उत्क्रामन्ते - utkrāmante - go out with him
तस्मिन् च प्रतिष्ठमाने - tasmin ca pratiṣṭhamāne - when the Breath abideth
सर्वे एव - sarve eva - all the others
प्रातिष्ठन्ते - prātiṣṭhante - abide
तत् - tat - therefore
यथा - yathā - as
मधुकरराजानम् - madhukararājānam - the kingbee
उत्क्रामन्तम् - utkrāmantam - when goeth out
सर्वाः एव मक्षिकाः - sarvāḥ eva makṣikāḥ - all bees and
उत्क्रामन्ते - utkrāmante - go out with him
तस्मिन् प्रतिष्ठमाने - tasmin pratiṣṭhamāne - when he abideth
सर्वाः एव - sarvāḥ eva - all
प्रतिष्ठन्ते - pratiṣṭhante - abide
एवम् - evam - even so was it with
वाक् - vāk - Speech
मनः - manaḥ - Mind
चक्षुः - cakṣuḥ - Sight and hymned the Breath to adore him
श्रोत्रम् च - śrotram ca - and Hearing
ते प्रीताः - te prītāḥ - then were they well pleased
प्राणम् स्तुन्वन्ति - prāṇam stunvanti - hymned the Breath to adore him

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know