अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम्। ऋचो यजूषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥
॥ लिप्यन्तरणम् ॥
arā iva rathanābhau prāṇe sarvaṁ pratiṣṭhitam | ṛco yajūṣi sāmāni yajñaḥ kṣatraṁ brahma ca ||
॥ अन्वयः ॥
रथनाभौ अराः इव प्राणे सर्वं प्रतिष्ठितम्। ऋचः यजूषि सामानि यज्ञः क्षत्रं ब्रह्म च तस्मिन् प्रतिष्ठितम् ॥
॥ अन्वयलिप्यन्तरणम् ॥
rathanābhau arāḥ iva prāṇe sarvaṁ pratiṣṭhitam| ṛcaḥ yajūṣi sāmāni yajñaḥ kṣatraṁ brahma ca ( tasmin pratiṣṭhitam ) ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥६॥
सर्वमेव स्थावरं जङ्गमं वा अरा इव रथनाभौ प्राणे प्रतिष्ठितम् । या च त्रयी, यच्च त्रयीसाध्यं कर्म यज्ञादि, यच्च तद्रक्षकं क्षत्रम्, यच्च तत्प्रवर्तकं ब्रह्म, सर्वमेषः ॥६॥
॥ आङ्गल-अर्थः ॥
“'As the spokes meet in the nave of a wheel, so are all things in the Breath established, the Rigveda and the Yajur and the Sama, and Sacrifice and Brahminhood and Kshatriyahood.
॥ हिन्दी-अर्थः ॥
'' 'जिस प्रकार रथ के पहिये की नाभि में उसके सारे अरे मिलते हैं उसी प्रकार सब कुछ 'प्राण' में प्रतिष्ठित है, ऋग्वेद तथा यजुर्वेद तथा सामवेद, यज्ञ तथा ब्राह्मणत्व (ब्रह्म) तथा क्षत्रियत्वं (क्षत्र)।
॥ शब्दावली ॥
रथनाभौ - rathanābhau - in the nave of a wheel
अराः इव - arāḥ iva - as the spokes
प्राणे - prāṇe - in the Breath
सर्वम् प्रतिष्ठितम् - sarvam pratiṣṭhitam - so are all things established
ऋचः - ṛcaḥ - the Rigveda
यजूषि - yajūṣi - the Yajur
सामानि - sāmāni - the Sama
यज्ञः - yajñaḥ - Sacrifice
क्षत्रम् - kṣatram - Kshatriyahood
ब्रह्म च - brahma ca - and Brahminhood

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know