Ad Code

अथाध्यात्मं यद्देतद्



अथाध्यात्मं यद्देतद् गच्छतीव च मनोऽनेन चैतदुपस्मरत्यभीक्श्णं सङ्कल्पः ॥

॥ लिप्यन्तरणम् ॥

athādhyātmaṁ yaddetad gacchatīva ca mano'nena caitadupasmaratyabhīkśṇaṁ saṅkalpaḥ ||

॥ अन्वयः ॥

अथ अध्यातम्। यत् एतत् अनेन मनः एतत् गछति इव च अभिक्षणम् उपस्मरति सङ्कल्पः क्रियते च ॥

॥ अन्वयलिप्यन्तरणम् ॥

atha adhyātam| yat etat anena manaḥ etat gachati iva ca abhikṣaṇam upasmarati saṅkalpaḥ (kriyate ) ca ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ मनस इव ब्रह्मण: आविर्भाव: क्षणिकः ]

अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन

चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥५॥

अथाध्यात्मम् - अथ शरीरान्तरुपमानोपदेशः क्रियत इत्यर्थः । मन एतत् गच्छतीति यत्, तदिव, इत्यध्यात्ममादेश इत्यन्वयः । एतत् - ब्रह्म गच्छति - विषयीकरोतीत्येतत् । मनो ब्रह्म विषयीकरोतीति यत्तद्वदित्यर्थः । यथा मनसो ब्रह्मविषयीकरणं न चिरतरस्थायि किन्तु क्षणमात्रं तथा ब्रह्मण आविर्भावोऽयमिति भावः ।

मनसो ब्रह्मण्यस्थैर्यमेवोपपादयति न चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः । सङ्कल्पः । मनसो वृत्तिविशेषः, अभीक्ष्णम् - असकृत्, अविच्छेदेनेति यावत्, एतत् ब्रह्म न स्मरति हि । चो ह्यर्थः । अनादिविषयवासनादूषिततया मनसो ब्रह्मणि बलाद्योजनेऽपि तदीया वृत्तिः क्षणं संश्लिष्य सहसैवापसरत्यन्यत्रेति भावः ।

[ पाठान्तरयोजना ]

मनोऽनेन चेति पाठे ननु मनसो ब्रह्मणि चिरतरावस्थानाभावे कथमुपासकानां ध्यानं घटेतेत्याशङ्कायामाह - अनेनेति । सङ्कल्पः असकृत् एनत्- ब्रह्म स्मरतीति यत्, तत्त्वनेन प्रसन्नेन ब्रह्मणा । यद्यपि ब्रह्मणि प्रसन्ने मनसोऽवधानं तस्मिन् भवेत्, तथाप्यनादिवासनासंसृष्टतया प्रकृत्या मनसो ब्रह्मणि न चिरावस्थानमिति घटेतेदमुदाहरणमिति भावः ।

[ सर्वं ब्रह्मप्रशासनाधीनम् ]

यद्वा तस्यैष आदेशः, आदेशः - प्रशासनम् । यदेतद्विद्युतो व्यद्युतत् विद्युतो विद्योतनमिति यत्, एष तस्य परब्रह्मण आदेश: - आज्ञा । आज्ञासाध्यत्वादाज्ञेति निर्देशः । इदमुपलक्षणं विचित्रव्यापाराणाम्। तथा च स्मरणम् -

मेघोदयः सागरसन्निवृत्तिरिन्दोर्विभागः स्फुरितानि वायोः ।

विद्युद्विभङ्गो गतमुष्णरश्मेर्विष्णोर्विचित्रा: प्रभवन्ति मायाः ॥

(भगवद्गीता - भा.९.६) इति । एवं विचित्रव्यापारमुक्त्वा विचित्रो वा स्यादल्पो वा स्यात्सर्वं तदाज्ञावशगम् । तेन विना किमपि न चलतीत्यैश्वर्यं प्रदर्शयितुमाह - न्यमीमिषदिति । यच्च निमिषितं तदपि तत्सङ्कल्पायत्तमिति भावः । एवं बाह्यव्यापारस्य तदादेशगोचरत्वमुक्त्वाऽऽन्तरस्यापि तथात्वमाह - अथेति । एतन्मनो गच्छतीवेति यत्, एषोऽपि तस्याऽऽदेश इत्यन्वयः । मनः स्वदेशादप्रचलितमेव नानादेशान्गच्छति इवेति यत् तदपि तस्याज्ञेत्यर्थः ।

मनो न प्रचलति अथ च गच्छतीवेति किम् ? तदेतत्स्फुटयन्नाह - अनेनेति । एतत् - मनः, सङ्कल्पो भूत्वा, सङ्कल्पद्वारेणेत्येतत् । अभीक्ष्णम् - असकृत् तांस्तान्विषयान्स्मरति, इदमेव गच्छतीवेति निर्दिष्टमिति भावः । इदमपि, अनेन च अनेन हि ब्रह्मणा विद्युद्विभङ्गप्रभृतिचिन्तितनिमिषितावधि अत्याश्चर्यमत्यल्पं सर्वमेव व्यापारजातं तत्प्रशासनगोचरमिति भावः । तदेवं स्वीयेऽर्थतत्त्वे युष्माभिरस्माकमेवायं महिमाऽस्माकमेवायं विजय इति न भ्रमितव्यमिति व्यञ्जितम् ॥५॥

॥ आङ्गल-अर्थः ॥

Then in that which is of the Self,-as the motion of this mind seems to attain to That and by it afterwards the will in the thought continually remembers It.

॥ हिन्दी-अर्थः ॥

अब अध्यात्म-भाव यथा इस मन की गति 'उस' (परतत्त्व) को प्राप्त करती प्रतीत होती है एवं तत्पश्चात् उससे चिन्तनगत संकल्प निरन्तर 'उसका’ स्मरण करता है।

॥ शब्दावली ॥

अथ - atha - then

अध्यातम् - adhyātam - that which is of the Self

यत् - yat - that

मनः - manaḥ - the motion of this mind

एतत् - etat - this

अनेन - anena - by it

सङ्कल्पः - saṅkalpaḥ - will in the thought

अभिक्षणम् - abhikṣaṇam - continually

एतत् - etat - this

गछति - gachati - attains to

इव - iva - iva

च - ca - and

उपस्मरति - upasmarati - remembers

च - ca - and

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code