Editors Choice

जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

अथाध्यात्मं यद्देतद्



अथाध्यात्मं यद्देतद् गच्छतीव च मनोऽनेन चैतदुपस्मरत्यभीक्श्णं सङ्कल्पः ॥

॥ लिप्यन्तरणम् ॥

athādhyātmaṁ yaddetad gacchatīva ca mano'nena caitadupasmaratyabhīkśṇaṁ saṅkalpaḥ ||

॥ अन्वयः ॥

अथ अध्यातम्। यत् एतत् अनेन मनः एतत् गछति इव च अभिक्षणम् उपस्मरति सङ्कल्पः क्रियते च ॥

॥ अन्वयलिप्यन्तरणम् ॥

atha adhyātam| yat etat anena manaḥ etat gachati iva ca abhikṣaṇam upasmarati saṅkalpaḥ (kriyate ) ca ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ मनस इव ब्रह्मण: आविर्भाव: क्षणिकः ]

अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन

चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥५॥

अथाध्यात्मम् - अथ शरीरान्तरुपमानोपदेशः क्रियत इत्यर्थः । मन एतत् गच्छतीति यत्, तदिव, इत्यध्यात्ममादेश इत्यन्वयः । एतत् - ब्रह्म गच्छति - विषयीकरोतीत्येतत् । मनो ब्रह्म विषयीकरोतीति यत्तद्वदित्यर्थः । यथा मनसो ब्रह्मविषयीकरणं न चिरतरस्थायि किन्तु क्षणमात्रं तथा ब्रह्मण आविर्भावोऽयमिति भावः ।

मनसो ब्रह्मण्यस्थैर्यमेवोपपादयति न चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः । सङ्कल्पः । मनसो वृत्तिविशेषः, अभीक्ष्णम् - असकृत्, अविच्छेदेनेति यावत्, एतत् ब्रह्म न स्मरति हि । चो ह्यर्थः । अनादिविषयवासनादूषिततया मनसो ब्रह्मणि बलाद्योजनेऽपि तदीया वृत्तिः क्षणं संश्लिष्य सहसैवापसरत्यन्यत्रेति भावः ।

[ पाठान्तरयोजना ]

मनोऽनेन चेति पाठे ननु मनसो ब्रह्मणि चिरतरावस्थानाभावे कथमुपासकानां ध्यानं घटेतेत्याशङ्कायामाह - अनेनेति । सङ्कल्पः असकृत् एनत्- ब्रह्म स्मरतीति यत्, तत्त्वनेन प्रसन्नेन ब्रह्मणा । यद्यपि ब्रह्मणि प्रसन्ने मनसोऽवधानं तस्मिन् भवेत्, तथाप्यनादिवासनासंसृष्टतया प्रकृत्या मनसो ब्रह्मणि न चिरावस्थानमिति घटेतेदमुदाहरणमिति भावः ।

[ सर्वं ब्रह्मप्रशासनाधीनम् ]

यद्वा तस्यैष आदेशः, आदेशः - प्रशासनम् । यदेतद्विद्युतो व्यद्युतत् विद्युतो विद्योतनमिति यत्, एष तस्य परब्रह्मण आदेश: - आज्ञा । आज्ञासाध्यत्वादाज्ञेति निर्देशः । इदमुपलक्षणं विचित्रव्यापाराणाम्। तथा च स्मरणम् -

मेघोदयः सागरसन्निवृत्तिरिन्दोर्विभागः स्फुरितानि वायोः ।

विद्युद्विभङ्गो गतमुष्णरश्मेर्विष्णोर्विचित्रा: प्रभवन्ति मायाः ॥

(भगवद्गीता - भा.९.६) इति । एवं विचित्रव्यापारमुक्त्वा विचित्रो वा स्यादल्पो वा स्यात्सर्वं तदाज्ञावशगम् । तेन विना किमपि न चलतीत्यैश्वर्यं प्रदर्शयितुमाह - न्यमीमिषदिति । यच्च निमिषितं तदपि तत्सङ्कल्पायत्तमिति भावः । एवं बाह्यव्यापारस्य तदादेशगोचरत्वमुक्त्वाऽऽन्तरस्यापि तथात्वमाह - अथेति । एतन्मनो गच्छतीवेति यत्, एषोऽपि तस्याऽऽदेश इत्यन्वयः । मनः स्वदेशादप्रचलितमेव नानादेशान्गच्छति इवेति यत् तदपि तस्याज्ञेत्यर्थः ।

मनो न प्रचलति अथ च गच्छतीवेति किम् ? तदेतत्स्फुटयन्नाह - अनेनेति । एतत् - मनः, सङ्कल्पो भूत्वा, सङ्कल्पद्वारेणेत्येतत् । अभीक्ष्णम् - असकृत् तांस्तान्विषयान्स्मरति, इदमेव गच्छतीवेति निर्दिष्टमिति भावः । इदमपि, अनेन च अनेन हि ब्रह्मणा विद्युद्विभङ्गप्रभृतिचिन्तितनिमिषितावधि अत्याश्चर्यमत्यल्पं सर्वमेव व्यापारजातं तत्प्रशासनगोचरमिति भावः । तदेवं स्वीयेऽर्थतत्त्वे युष्माभिरस्माकमेवायं महिमाऽस्माकमेवायं विजय इति न भ्रमितव्यमिति व्यञ्जितम् ॥५॥

॥ आङ्गल-अर्थः ॥

Then in that which is of the Self,-as the motion of this mind seems to attain to That and by it afterwards the will in the thought continually remembers It.

॥ हिन्दी-अर्थः ॥

अब अध्यात्म-भाव यथा इस मन की गति 'उस' (परतत्त्व) को प्राप्त करती प्रतीत होती है एवं तत्पश्चात् उससे चिन्तनगत संकल्प निरन्तर 'उसका’ स्मरण करता है।

॥ शब्दावली ॥

अथ - atha - then

अध्यातम् - adhyātam - that which is of the Self

यत् - yat - that

मनः - manaḥ - the motion of this mind

एतत् - etat - this

अनेन - anena - by it

सङ्कल्पः - saṅkalpaḥ - will in the thought

अभिक्षणम् - abhikṣaṇam - continually

एतत् - etat - this

गछति - gachati - attains to

इव - iva - iva

च - ca - and

उपस्मरति - upasmarati - remembers

च - ca - and

एक टिप्पणी भेजें

0 टिप्पणियाँ