Ad Code

तस्यैष आदेशो यदेतद्विद्युतो



तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा इतीन्न्यमीमिषदा इत्यधिदैवतम्‌ ॥

॥ लिप्यन्तरणम् ॥

tasyaiṣa ādeśo yadetadvidyuto vyadyutadā itīnnyamīmiṣadā ityadhidaivatam ||

॥ अन्वयः ॥

तस्य एषः आदेशः यत् एतत् विद्युतः व्यद्युतत् आ३ न्यमीमिषद् इति इत् आ३ इति अधिदैवतम् ॥

॥ अन्वयलिप्यन्तरणम् ॥

tasya eṣaḥ ādeśaḥ yat etat vidyuataḥ vyadyutat ā3 nyamīmiṣad iti it ā3 iti adhidaivatam ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ ब्रह्मण: यक्षरूपेण आविर्भावतिरोभावयोः उपमानदर्शनम् ]

अथ ब्रह्मणस्तदानीन्तनाविर्भावतिरोभावे निदर्शनमुपदिशति - तस्यैष इति । 

तस्यैष आदेशो यदेतद्विद्युतोव्यद्युतदा३

इतीन्यमीमिषदा ३ इत्यधिदैवतम् ॥४॥

तस्य - क्षणमाविर्भूय तिरोभूतस्य ब्रह्मणः, एष आदेशः वक्ष्यमाण उपमोपदेशः । विद्युतो व्यद्युतदिति यच्च न्यमीमिषदिति, एष आदेश इति पूर्वेणान्वयः । वचनव्यत्ययश्छान्दसः । न्यमीमिषदिति प्रकाशाभावो लक्ष्यते । स्वार्थे णिच् । यथा विद्युत् घनान्धकारं सहसैवापसार्य अभिभूय सर्वं प्रकाशकं स्वयमेका विद्योतते, तथा तद् व्यद्योतत । यथा च सपदि क्षणेनैव अलक्षितविशेषं तिरोभवति तथा तिरोभूतं चेति भावः । आ इति प्रसिद्धौ । इदित्यनर्थको निपातः । यद्वा चक्षुर्न्यमीमिषत्, स्वार्थे णिच् निमेषव्यापारमकरोदिति यत्, अयमपर उपमानोपदेश इत्यर्थः । इतः समुच्चयोऽर्थः । यथा विद्युत्सहसाऽविर्भूय सहसा तिरोभवति, यथा च निमेषव्यापारः पक्ष्मणोः संश्लेषरूपः क्षणेन सहसा भूत्वा सहसाऽपैति, तथा ब्रह्माविर्भूतं तिरोभूतं चेति भावः । इत्यधिदैवतमिति । एवं प्रकारेणाधिदैवतम् - देवतासु बाह्येषु भूतेषु, उपमानोपदेशः कृतः इति भावः ॥४॥

॥ आङ्गल-अर्थः ॥

Now this is the indication of That,-as is this flash of the lightning upon us or as is this falling of the eyelid, so in that which is of the gods.

॥ हिन्दी-अर्थः ॥

यह 'उसी' का निर्देश है,... जैसे विद्युत् का चमकना हो अथवा जैसे पलक का झपक जाना हो, वैसा ही अधिदैव-भाव है।

॥ शब्दावली ॥

तस्य - tasya - his

एषः - eṣaḥ - this

आदेशः - ādeśaḥ - indication

यत् - yat - that which

एतत् - vidyataḥ - this

विद्यतः - vidyataḥ - of the lightning

आ व्यद्युतत् - ā vyadyutat - flash

आ न्यमीमिषद् - ā nyamīmiṣad - falling of the eyelid

इति - iti - thus / so

इत् - it - that which

इति - iti - thus / so

अधिदैवतम् - adhidaivatam - is of the gods


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code