अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम्। तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥
॥ लिप्यन्तरणम् ॥
aṇoraṇīyānmahato mahīyānātmāsya jantornihito guhāyām | tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamātmanaḥ ||
॥ अन्वयः ॥
अणोः अणीयान् महतः महीयान् आत्मा अस्य जन्तोः गुहायां निहितः। अक्रतुः वीतशोकः धातुप्रसादात् आत्मनः तं महिमानं पश्यति ॥
॥ अन्वयलिप्यन्तरणम् ॥
aṇoḥ aṇīyān mahataḥ mahīyān ātmā asya jantoḥ guhāyāṁ nihitaḥ| akratuḥ vītaśokaḥ dhātuprasādāt ātmanaḥ taṁ mahimānaṁ paśyati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ परमात्मस्वरूपज्ञानवतः फलम् ]
प्रत्यगात्मानं निरूप्य तस्यात्मतयाऽवस्थितं परमात्मानमाह - अणोरिति ।
अणोरणीयान् महतो महीयान् आत्माऽस्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥२० ॥
अस्ति कश्चिदाश्चर्यस्वरूपः, योऽयम् अणोरणीयान् महतो महीयान् । 'अणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकतण्डुलाद्वा, ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः' (छांदोग्योपनिषद् - ३.१४.३) सर्वत्र कात्स्न्र्त्स्न्येन व्यापनशीलत्वात् । यतोऽयमात्माऽणोरणीयानत एवायमस्यात्मा 'न जायत' इत्यादिना पूर्वमन्त्रनिर्दिष्टस्य प्रत्यगात्मनोऽप्यात्मा। स चायं नातिदूरे, निहितो गुहायाम् - सन्निहित एव गुहाविशेषे । गुहा च न मेरो: हिमवतो वा, किन्तु जन्तोः - प्राणिनो हृदयगुहेति यावत् । ‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्ट:' (श्वेताश्वतरोपनिषद् - ३.१३), स्वस्वहृदयसन्निहितस्य उपासने न अतीव क्लेश इति व्यज्यते । एवम्भूतस्य आत्मनः प्रत्यगात्मनोऽप्यात्मभूतस्य महिमानं अणोरणीयस्त्वादिरूपं महिमानम्, योऽक्रतुः - काम्यकर्मण्यनासक्तः, पश्यति - चिन्तयति, उक्तमहिमविशिष्टं तं यः पश्यतीत्येतत् । सः धातुस्तस्य प्रसादाद्वीतशोको भवति ।
यद्वा - योऽयमस्यात्मनो महिमा, अणोरणीयस्त्वादिरूपः, तं न सर्वे साक्षात्कर्तुं क्षमाः, कश्चिदेवाक्रतुः अकामः, बाह्येष्वनिविष्टमनाः, तदेककाम इत्येतत् । तस्यैव धातुः प्रसादाद्वीतशोकः पश्यति । तादृशमहिमविशिष्टं तं साक्षात्करोतीत्येतत् । धातुप्रसादादिति पाठे धातोः - धारकस्य तस्येत्यर्थः । धातवो मनःप्रभृतीनि शरीरधारणात् । तेषां प्रसादेन नैर्मल्येनेति वार्थः ॥२० ॥
॥ आङ्गल-अर्थः ॥
Finer than the fine, huger than the huge the Self hides in the secret heart of the creature: when a man strips himself of will and is weaned from sorrow, then he beholds Him, purified from the mental elements he sees the greatness of the Self-being.
॥ हिन्दी-अर्थः ॥
''अणु से भी सूक्ष्मतर, महान् से भी महत्तर, 'आत्मतत्त्व' प्राणी की हृद्-गुहा में निहित है। जब मनुष्य अपने आपको कामादि संकल्पों से मुक्त एवं शोक से रहित कर लेता है तब वह 'उसका' दर्शन करता है। मानसिक प्रवृत्तियों की शुद्धि के प्रसाद से वह 'आत्म-सत्ता' की महिमा का दर्शन करता है।
॥ शब्दावली ॥
अणोः अणीयान् - aṇoḥ aṇīyān - finer than the fine
महतः महीयान् - mahataḥ mahīyān - huger than the huge
आत्मा - ātmā - the Self
अस्य जन्तोः - asya jantoḥ - of this creature
गुहायाम् - guhāyām - in the secret heart
निहितः - nihitaḥ - hidden
अक्रतुः - akratuḥ - one who had stripped himself of will
वीतशोकः - vītaśokaḥ - one who is weaned from sorrow
धातुप्रसादात् - dhātuprasādāt - purified from the mental elements
आत्मनः - ātmanaḥ - of the Self-being
तम् महिमानम् - tam mahimānam - that greatness
पश्यति - paśyati - beholds

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know