यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम्। यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥
॥ लिप्यन्तरणम् ॥
yadi manyase suvedeti dabhramevāpi nūnaṁ tvaṁ vettha brahmaṇo rūpam | yadasya tvaṁ yadasya deveṣvatha nu mīmāṁsyameva te manye viditam ||
॥ अन्वयः ॥
यदि सुवेद इति मन्यसे नूनं त्वं दभ्रम् एव अपि रूपं वेत्थ। अपि च देवेषु अस्य यत् एव। अथ नु ते मीमांस्यं एव मन्ये वीदितम् ॥
॥ अन्वयलिप्यन्तरणम् ॥
yadi suveda iti manyase nūnaṁ tvaṁ dabhram eva api rūpaṁ vettha | api ca deveṣu asya yat eva | atha nu te mīmāṁsyaṁ eva manye vīditam ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ ब्रह्मणः परिच्छिन्नज्ञानागोचरतादृढीकरणम् ]
ब्रह्मस्वरूपस्य परिच्छिद्य ज्ञानागोचरता " नेदं यदिदमुपासत" इत्यादिनोक्ता, तामेव द्रढयति - यदि मन्यस इति ।
यदि मन्यसे सुवेदेति दभ्रमेवापि नूनम् त्वं वेत्थ ब्रह्मणो रूपम् ।
यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥१॥
अहं ब्रह्मस्वरूपं सुवेद - सुस्पष्टं जानामीति यदि मन्यसे तर्हि त्वया ब्रह्मस्वरूपं परिच्छिन्नमेवावगतं स्यादित्याह - दभ्रमेवापि नूनम् । दभ्रमेव तत् - अल्पमेव तत् । अस्य ब्रह्मणो रूपं यदिह लोके त्वं वेत्थ, यच्चास्य रूपं देवेषु वा त्वं वेत्थ, तदुभयं दभ्रमेवेत्यन्वयः ।
अयं भावः - यत् सुस्पष्टं प्रतीयते तेन परिच्छिन्नेन भाव्यम्, न ह्यपरिच्छिन्नं वस्तु करतलामलकवत् साकल्येन सुस्पष्टं प्रतीयेत । तद् ब्रह्मस्वरूपं सुवेदेति वदता त्वया परिच्छिन्नमिह वा देवेषु वाऽवधृतं स्यात्, हन्त ! परिच्छिन्नमेव त्वयाऽवधृतम्, तद् ब्रह्म त्वया नावधृतमेवेति । अथ - इतः परम्, ते - त्वया मीमांस्यमेव । ब्रह्मस्वरूपमिति शेषः । ब्रह्मस्वरूपं न सम्यगवधृतं पुनर्विचार्यमिति भावः । एवमुक्तः शिष्यः किञ्चिद्विचार्याऽऽह - मन्ये विदितमिति ॥१॥
॥ आङ्गल-अर्थः ॥
If thou thinkest that thou knowest It well, little indeed dost thou know the form of the Brahman. That of It which is thou, that of It which is in the gods, this thou hast to think out. I think It known.
॥ हिन्दी-अर्थः ॥
१. यदि तुम मानते हो कि तुम 'उसे' भली प्रकार जानते हो तो निस्संदेह, तुम स्वल्पमात्र ही 'ब्रह्म' के स्वरूप को जानते हो। उसका 'वह' रूप जो तुम हो, उसका 'वह' रूप जो देवगणों में है, उसकी तुम्हें मीमांसा करनी है। तब 'उसे' मैं ज्ञात मानता हूँ।
॥ शब्दावली ॥
यदि - yadi - if
सुवेद - suveda - knowest It well
इति - iti - thus
मन्यसे - manyase - thou thinkest
नूनम् - nūnam - surely
त्वम् - tvam - dost thou
दभ्रम् - dabhram - very little
एव - eva - indeed
अपि - api - also
रूपम् - rūpam - the form
वेत्थ - vettha - know
अपि - api - also
च - ca - and
देवेषु - deveṣu - in the gods
अस्य - asya - of It
यत् - yat - that which
एव - eva - surely
अथ - atha - this
नु - nu - indeed
ते - te - thou
मीमांस्यम् - mīmāṁsyam - hast to think out
एव - eva - alone
मन्ये - manye - I think
वीदितम् - vīditam - (It) known

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know