॥ अथ उपनिषद् ॥>माण्डूक्योपनिषद्
ओमित्येतदक्षरामिदं सर्वं तस्योपव्याख्यानं भूतं भवद् भविष्यदिति सर्वमोङ्कार एव।
सर्वं ह्येतद् ब्रह्म अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पत् ॥
जागरितस्थानो बहिःप्रज्ञः सप्तङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः ॥
स्वप्नस्थानोऽन्तःप्रज्ञः सप्तङ्ग एकोनविंशतिमुखः प्रविक्तभुक् तैजसो द्वितीयः पादः ॥
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम्।
एष सर्वेश्वरः एष सर्वज्ञ एशोऽन्तर्याम्येष योनिः सर्वस्य प्रभवप्यौ हि भूतानाम॥
नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञाघनं न प्राज्ञं नाप्रज्ञम्
अद्रष्टमव्याहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रापञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥
सोऽयमाध्यक्षात्मरामोङकारोऽधिमात्रं पाद मात्रा मात्राश्च पाद अकार उकारो मकर इति ॥
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा। आप्तेरादिमत्वाद् वा आप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥
स्वप्नस्थानस्तैजस उकारो द्वितीय मात्रा उत्करादुभयत्वाद वा उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित् कुले भवति य एवं वेद ॥
सुषुप्तस्थानः प्राज्ञो मकरस्त्रितेय मात्रा मिटेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥
अमात्रश्चतुर्तोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङकार आत्मैव संविषत्यात्मनात्मानं य एवं वेद य एवं वेद ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know