Ad Code

अथ उपनिषद् ॥>तैत्तिरीयोपनिषद् >शिक्षावल्ली




अथ उपनिषद् ॥>तैत्तिरीयोपनिषद्

>शिक्षावल्लीप्रथमोऽनुवाकः

ॐ शं नो मित्रः शं वरुणः॥ शं नो भवत्वर्यमा॥ शं न इन्द्रो बृहस्पतिः॥ शं नो विष्णुरुरुक्रमः। नमो ब्रह्मणे॥ नमस्ते वायो॥ त्वमेव प्रत्यक्षं ब्रह्मासि॥ त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि॥ ऋतं वदिष्यामि॥ सत्यं वदिष्यामि॥ तन्मामवतु। तद्वक्तारमवतु॥ अवतु माम्‌। अवतु वक्तारम्‌।ॐ शान्तिः शान्तिः शान्तिः॥

लिप्यन्तरणम्

om śaṁ no mitraḥ śaṁ varuṇaḥ || śaṁ no bhavatvaryamā || śaṁ na indro bṛhaspatiḥ || śaṁ no viṣṇururukramaḥ | namo brahmaṇe || namaste vāyo || tvameva pratyakṣaṁ brahmāsi || tvameva pratyakṣaṁ brahma vadiṣyāmi || ṛtaṁ vadiṣyāmi || satyaṁ vadiṣyāmi || tanmāmavatu | tadvaktāramavatu || avatu mām | avatu vaktāram |om śāntiḥ śāntiḥ śāntiḥ||

अन्वयः

मित्रः नः शं भवतु । वरुणः नः शं भवन्तु । अर्यमा नः शं भवतु । इन्द्रः बृहस्पति नः शं भवतु। उरुक्रमः विष्णुः नः शं भवतु । ब्रह्मणे नमः हे वायो ते नमः। त्वम् एव प्रत्यक्षं ब्रह्म असि। त्वाम् एव प्रत्यक्षं ब्रह्म वदिष्यामि। त्वाम् एव ऋतं वदिष्यामि। त्वाम् एव सत्यं वदिष्यामि। तत् माम् अवतु। तत् वक्तारम् अवतु अवतु। माम् अवतु वक्तारम्। ॐ शान्तिः शान्तिः शान्तिः॥

अन्वयलिप्यन्तरणम्

mitraḥ naḥ śaṁ ( bhavatu )| varuṇaḥ ( naḥ ) śaṁ ( bhavantu )| aryamā naḥ śaṁ ( bhavatu )| indraḥ bṛhaspati ( naḥ ) śaṁ bhavatu| urukramaḥ viṣṇuḥ naḥ śaṁ ( bhavatu )| brahmaṇe namaḥ ( he )vāyo te namaḥ| tvam eva pratyakṣaṁ brahma asi| tvām eva pratyakṣaṁ brahma vadiṣyāmi| ( tvām eva ) ṛtaṁ vadiṣyāmi| ( tvām eva ) satyaṁ vadiṣyāmi| tat mām avatu| tat vaktāram avatu avatu| mām avatu vaktāram| om śāntiḥ śāntiḥ śāntiḥ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

तैत्तिरीयोपनिषत्

स्वामिनारायणमूल भाष्यसमेता

मङ्गलाचरणम्

अस्ति यो हृदयाकाशे पुरुषोऽयं मनोमयः ।

हिरण्मयं तममृतं नित्यानन्दमुपास्महे ।।

स एष सहजानन्दो भगवान् पुरुषोत्तमः ।

आविरस्तु हृदम्भोजे धियं विमलयन्मम ।।

यत्प्रसादसमुद्भूतविशुद्धमतिसम्पदा ।

तैत्तिरीयोपनिषदां विवृतिः क्रियते मया ॥

शिक्षावल्ली

प्रथमोऽनुवाकः

[ उपक्रमशान्तिपाठः ]

अथ विद्यां श्रावयति, कर्मणां हि विद्यायां विनियोगः कार्यो निःश्रेयसकामेन, निःश्रेयससाधनीभूता हि विद्या मृदितमनः कषायस्यैव स्यात्, तदुपमर्दश्चानुष्ठितैरकामैः कर्मभिः । अकृते च विद्यायामुपयोगे गतागतश्रमफलकान्येव कर्माणि स्युः । तत्रादौ शान्तिमन्त्रः श्राव्यते, येन शान्तिमन्त्रेण पठितेन विद्याप्रत्यूहोपशमः स्यात्, ततश्च विद्यारम्भो निरन्तरायो निर्वर्तेत । शं न इत्यादि ।

ॐ शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ।

नमो ब्रह्मणे नमस्ते वायो ।

त्वमेव प्रत्यक्षं ब्रह्माऽसि त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि ।

तन्मामवतु तद्वक्तारमवतु अवतु माम् । अवतु वक्तारम् ।

ओं शान्तिः शान्तिः शान्तिः ।

शं प्रार्थ्यते मित्रादिभ्यः । मित्रः सूर्यः यः प्राणान् रश्मिभिः पुष्णाति स एष प्राणवृत्तेरह्नश्चाभिमानी नः शं प्रयच्छतु । उत्तरत्र श्रूयमाणस्य भवत्वित्यस्य वाऽत्रापि सम्बन्धः, शमिति साधने साध्योपचारः, सुखकारी भवत्विति यावत् । पञ्चम्या: स्थाने छान्दसः सुप्रत्ययो वा, मित्रात् शं भवत्विति यावत् । तथा वरुणादिभ्यः शं प्रार्थ्यते । वरुणोऽपानवृत्त्यभिमानी रात्रेश्चाभिमानी देवताविशेषः । अर्यमा चक्षुषोऽभिमानी । इन्द्रः बलाभिमानी । बृहस्पतिः वाचो बुद्धेश्चाभिमानी । उरुक्रमो विष्णुः - यस्य क्रमणं सर्ववस्तुषु उरु - सर्वतोऽधिकम्, सोऽयं सर्वव्यापी विष्णुः । तत्तदभिमानिभ्यः सूर्यादिभ्यस्तत्र तत्र शिवं विष्णोश्च सर्वतः शिवं प्रार्थ्यते । अध्येष्यमाणोपनिषदात्मकं वेदं नमस्करोति - नमो ब्रह्मणे - नमो वेदाय । अथ वायुं प्रणिपत्य स्तौति - नमस्ते वायो इत्यादिना । वायुरेव हि प्राणापानाद्यात्मना भूत्वा शरीरमिदं धत्ते, वायुनैव सर्वाणीमानि विधृतानि । सर्वक्रियानिर्वहणे प्राधान्यं च तस्यैव । वायो ते नमः । स्तूयते - त्वमेव प्रत्यक्षं ब्रह्मासि - यत् सर्वतो बृहत्त्वात् ब्रह्मेति ख्यायते तदप्रत्यक्षं नः, त्वं तु न: प्रत्यक्षं ब्रह्मासि, बृहत्त्वगुणयोगात् । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि यदहं प्रत्यक्षं ब्रह्मोपनिषदात्मकं पठिष्यामि तद्ब्रह्मापि त्वमेव, वेदाक्षराणां वायोरेव ह्यभिव्यक्तिः, तदेकायत्तप्रकाशे तस्मिंस्त्वमेव तदिति स्तुतिः । यद्वृतं स्वरवर्णाद्यस्खलनलक्षणं वदिष्यामि तदृतमपि त्वमेवेति तदृतं त्वामेव वदिष्यामि । यदहं सत्यं यथावस्थितार्थावबोधकं वदिष्यामि तत्सत्यमपि त्वमेवेति त्वामेव सत्यं ब्रह्म वदिष्यामि । तदिदं ब्रह्म वेदाख्यं मामध्येतारं वक्तारमध्यापकं चावतु । आदरात्पुनराह - अवतु मामवतु वक्तारमिति । शान्तिः - विघ्नानामस्त्विति शेषः । त्रिः पाठ आदरात् । । आध्यात्मिकादित्रिविधविघ्नोपशमनार्थो वा ।

इति प्रथमोऽनुवाकः ॥

आङ्गल-अर्थः ॥

Hari OM. Be peace to us Mitra. Be peace to us Varuna. Be peace to us Aryaman. Be peace to us Indra & Brihaspati. May far striding Vishnu be peace to us. Adoration to the Eternal. Adoration to thee, O Vayu. Thou, thou art the visible Eternal and as the visible Eternal I will declare thee. I will declare Righteousness! I will declare Truth! May that protect me! May that protect the Speaker! Yea, may it protect me! May it protect the Speaker. OM Peace! Peace! Peace!

हिन्दी-अर्थः ॥

हरिः ॐ। मित्र हमारे लिए शान्तिस्वरूप हों। वरुण हमारे लिए शान्तिस्वरूप हों। अर्यमा हमारे लिए शान्तिस्वरूप हों। इन्द्र एवं बृहस्पति हमारे लिए शान्तिस्वरूप हों। सुदूर-पदक्षेपी (उरुक्रम) विष्णु हमारे लिए शान्तिप्रदाता हों। ब्रह्म को नमन। हे वायु, आपको श्रद्धापूर्वक नमन। आप, आप ही प्रत्यक्ष 'ब्रह्म' हैं तथा प्रत्यक्ष ब्रह्म के रूप में मैं आपका ही कथन करूँगा। मैं सत्याचरण (ऋतम्) का कथन करूँगा! मैं सत्य का कथन करूँगा! वह मेरी रक्षा करे। वह 'वक्ता' की रक्षा करे! हाँ, वह मेरी रक्षा करे। वह 'वक्ता' की रक्षा करे। ॐ शान्तिः। शान्तिः! शान्तिः!

शब्दावली

शम् नः - be peace to us - śam naḥ

मित्रः - mitraḥ - Mitra

शम् वरुणः - śam varuṇaḥ - be peace to us Varuna

अर्यमा - aryamā - Aryaman

नः - naḥ - to us

श भवतु - śa bhavatu - be peace

शम् नः - śam naḥ - be peace to us

इन्द्रः - indraḥ - Indra

बृहस्पति च - bṛhaspati ca - be peace to us Brihaspati

उरुक्रमः विष्णुः - urukramaḥ viṣṇuḥ - May far striding Vishnu

नः शम् - naḥ śam - be peace to us

ब्रह्मणे नमः - brahmaṇe namaḥ - Adoration to the Eternal

वायो - vāyo - O Vayu !

ते नमः - te namaḥ - Adoration to thee

त्वम् एव - tvam eva - Thou, thou art

प्रत्यक्षम् ब्रह्म असि - pratyakṣam brahma asi - the visible Eternal

त्वाम् एव - tvām eva - thee

प्रत्यक्षम् ब्रह्म - pratyakṣam brahma - as the visible Eternal

वदिष्यामि - vadiṣyāmi - I will declare

ऋतम् वदिष्यामि - ṛtam vadiṣyāmi - I will declare Righteousness

सत्यम् वदिष्यामि - satyam vadiṣyāmi - I will declare Truth

तत् माम् अवतु - tat mām avatu - may that protect me

तत् वक्तारम् अवतु - tat vaktāram avatu - May that protect the Speaker

अवतु माम् - avatu mām - may it protect me

अवतु वक्तारम् - avatu vaktāram - may it protect the Speaker

म् शान्तिः शान्तिः शान्तिः - m śāntiḥ śāntiḥ śāntiḥ - OM Peace! Peace! Peace!


तैत्तिरीयोपनिषद्

शिक्षावल्ली

द्वितीयोऽनुवाकः

ॐ शीक्षां व्याख्यास्यामः। वर्णः स्वरः। मात्रा बलम्‌। साम सन्तानः। इत्युक्तः शीक्षाध्यायः॥

लिप्यन्तरणम्

om śīkṣāṁ vyākhyāsyāmaḥ | varṇaḥ svaraḥ | mātrā balam | sāma santānaḥ | ityuktaḥ śīkṣādhyāyaḥ ||

अन्वयः

ॐ शीक्षां व्याखास्यामः। वर्णः स्वरः मात्रा बलं सामः सन्तानः इति शीक्षाध्यायः उक्तः॥

अन्वयलिप्यन्तरणम्

om śīkṣāṁ vyākhāsyāmaḥ| varṇaḥ svaraḥ mātrā balaṁ sāmaḥ santānaḥ iti śīkṣādhyāyaḥ uktaḥ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

द्वितीयोऽनुवाकः

[ शिक्षार्थसङ्ग्रहः ]

ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः मात्रा बलं साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥१॥( शीक्षां पञ्च )

उपनिषदमुपदेक्ष्यन् अध्येतॄणामध्ययने (उपनिषदां पाठे) स्वरादिप्रमादो मा भूदिति शीक्षाध्याय आदौ श्राव्यते । येन वेदाङ्गभूतशिक्षाध्ययनेनावगतस्वरादिनियमतया स प्रमादो न प्रसजेत् । ननु प्रमादे कोऽनर्थः, अन्यथाप्रतिपत्तिः स्यादिति दृष्टानर्थश्च यथावदवबोधने ह्युपनिषदः प्रवृत्ताः । शीक्षामिति दीर्घश्छान्दसः, शिक्ष्यते इति शिक्षा, शिक्षणं शिक्षणप्रकारं व्याख्यास्यामः । शिक्ष्यते अनयेति वा, वेदाङ्गभूता या शिक्षा तां व्याख्यास्यामः - विशेषेण अस्मिन्नस्मिन्विषये प्रवृत्तां व्याख्यास्यामः । शिक्षया के शिक्ष्यन्ते तान् निरूपयाम इति यावत् । शिक्ष्यत इति कर्मणि वा । वर्णः अकारादिः स्वरः उदात्तादिः, मात्रा ह्रस्वाद्याः, बलं प्रयत्नविशेष:, साम समता सा चोच्चारणे, सन्तानः - संहिता, शिक्षया शिक्षितव्या एते । ये वर्णादयः शिक्षाशास्त्रेण यथाशिक्षणमवगन्तव्यास्तेषां निरूपणलक्षणोऽयं शिक्षाध्याय उक्तः ॥१॥

॥ इति द्वितीयोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

OM. We will expound Shiksha, the elements. Syllable and Accent, Pitch and Effort, Even Tone and Continuity, in these six we have declared the chapter of the elements.

॥ हिन्दी-अर्थः ॥

ॐ। हम शिक्षा की अर्थात् मौलिकतत्त्वों की व्याख्या करेंगे। 'वर्ण' तथा 'स्वर', 'सुरतारत्व' (मात्रा) तथा 'प्रयास' (बल), 'समतान' (साम) तथा 'सातत्य' (सन्तान) इन छहों में हमने शिक्षा के अध्याय का कथन किया है।

शब्दावली

- om - OM

शीक्षाम् - śīkṣām - Shiksha, the elements

व्याखास्यामः - vyākhāsyāmaḥ - we will expound

वर्णः स्वरः - varṇaḥ svaraḥ - Syllable and Accent

मात्रा बलम् - mātrā balam - Pitch and Effort

साम सन्तानः - sāma santānaḥ - Tone and Continuity

इति शीक्षाध्यायः उक्तः - iti śīkṣādhyāyaḥ uktaḥ - thus the chapter of the elements have been declared


तैत्तिरीयोपनिषद्

शिक्षावल्ली

तृतीयोऽनुवाकः

सह नौ यशः। सह नौ ब्रह्मवर्चसम्‌। अथातः संहिताया उपनिषदं व्याख्यास्यामः। पञ्चस्वधिकरणेषु। अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम्‌। ता महासंहिता इत्याचक्षते। अथाधिलोकम्‌। पृथिवी पूर्वरूपम्‌। द्यौरुत्तररूपम्। आकाशः सन्धिः। वायुः सन्धानम्‌। इत्यधिलोकम्। अथाधिजौतिषम्। अग्निः पूर्वरूपम्‌। आदित्य उत्तररूपम्‌। आपः सन्धिः। वैद्युतः सन्धानम्‌। इत्यधिज्यौतिषम्‌। अथाधिविद्यम्। आचार्यः पूर्वरूपम्। अन्तेवास्युत्तररूपम्‌। विद्या सन्धिः। प्रवचनं सन्धानम्‌।इत्यधिविद्यम्‌। अथाधिप्रजम्‌। माता पूर्वरूपम्। पितोत्तररूपम्‌। प्रजा सन्धिः। प्रजननं सन्धानम्। इत्यधिप्रजम्‌। अथाध्यात्मम्‌। अधरा हनुः पूर्वरूपम्‌।उत्तरा हनुरुत्तररूपम्‌। वाक् सन्धिः। जिह्वा सन्धानम्‌। इत्यध्यात्मम्। इतीमा महासंहिताः।य एवमेता महासंहिता व्याख्याता वेद।सन्धीयते प्रजया पशुभिः।ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन॥

लिप्यन्तरणम्

saha nau yaśaḥ | saha nau brahmavarcasam | athātaḥ saṁhitāyā upaniṣadaṁ vyākhyāsyāmaḥ |pañcasvadhikaraṇeṣu | adhilokamadhijyautiṣamadhividyamadhiprajamadhyātmam | tā mahāsaṁhitā ityācakṣate| athādhilokam | pṛthivī pūrvarūpam | dyauruttararūpam| ākāśaḥ sandhiḥ | vāyuḥ sandhānam | ityadhilokam| athādhijautiṣam| agniḥ pūrvarūpam | āditya uttararūpam | āpaḥ sandhiḥ | vaidyutaḥ sandhānam | ityadhijyautiṣam| athādhividyam| ācāryaḥ pūrvarūpam| antevāsyuttararūpam | vidyā sandhiḥ | pravacanaṁ sandhānam |ityadhividyam| athādhiprajam | mātā pūrvarūpam| pitottararūpam | prajā sandhiḥ | prajananaṁ sandhānam| ityadhiprajam| athādhyātmam | adharā hanuḥ pūrvarūpam |uttarā hanuruttararūpam | vāk sandhiḥ | jihvā sandhānam | ityadhyātmam| itīmā mahāsaṁhitāḥ |ya evametā mahāsaṁhitā vyākhyātā veda |sandhīyate prajayā paśubhiḥ |brahmavarcasenānnādyena suvargyeṇa lokena||

अन्वयः

नौ यशः सह अस्तु नौ ब्रह्मवर्चसं सह अस्तु । अथ अतः पञ्चसु अधिकरणेषु संहितायाः उपनिषदं व्याख्यास्यामः। अधिलोकम् अधिज्योतिषम् अधिविद्यम् अधिप्रजम् अध्यात्मम्। ताः महासंहिताः इति आचक्षते। अथ अधिलोकम् - पृथिवी पूर्वरूपम् द्यौः उत्तररूपम् आकाशः सन्धिः वायुः सन्धानम् इति अधिलोकं ध्यायेत् । अथ अधिज्योतिषम्। अग्निः पूर्वरूपम् आदित्यः उत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इति अधिज्योतिषं ध्यायेत् । अथ अधिविद्यम्। आचार्यः पूर्वरूपम् अन्तेवासी उत्तररूपम् विद्या सन्धिः प्रवचनं सन्धानम् इति अधिविद्यं ध्यायेत् । अथ अधिप्रजम्। माता पूर्वरूपम् पिता उत्तररूपम् प्रजा सन्धिः प्रजजनं सन्धानम् इति अधिप्रजं ध्यायेत् अथ अध्यात्मम्। अधरा हनुः पूर्वरूपम् उत्तरा हनुः उत्तररूपम् वाक् सन्धिः जिह्वा सन्धानम् इति अध्यात्मम् ध्यायेत् । इमाः महासंहिताः इति उच्यन्ते । एताः व्याख्याताः महासंहिताः यः वेद सः प्रजया पशुभिः ब्रह्मवर्चसेन अन्नाद्येन सुवर्ग्येण लोकेन सन्धीयते।

अन्वयलिप्यन्तरणम्

nau yaśaḥ saha ( astu ) nau brahmavarcasaṁ saha ( astu )| atha ataḥ pañcasu adhikaraṇeṣu saṁhitāyāḥ upaniṣadaṁ vyākhyāsyāmaḥ| adhilokam adhijyotiṣam adhividyam adhiprajam adhyātmam| tāḥ mahāsaṁhitāḥ iti ācakṣate| atha adhilokam - pṛthivī pūrvarūpam dyauḥ uttararūpam ākāśaḥ sandhiḥ vāyuḥ sandhānam iti adhilokaṁ ( dhyāyet )| atha adhijyotiṣam| agniḥ pūrvarūpam ādityaḥ uttararūpam āpaḥ sandhiḥ vaidyutaḥ sandhānam iti adhijyotiṣaṁ ( dhyāyet )| atha adhividyam| ācāryaḥ pūrvarūpam antevāsī uttararūpam vidyā sandhiḥ pravacanaṁ sandhānam iti adhividyaṁ ( dhyāyet )| atha adhiprajam| mātā pūrvarūpam pitā uttararūpam prajā sandhiḥ prajajanaṁ sandhānam iti adhiprajaṁ ( dhyāyet ) atha adhyātmam| adharā hanuḥ pūrvarūpam uttarā hanuḥ uttararūpam vāk sandhiḥ jihvā sandhānam iti adhyātmam ( dhyāyet ) | imāḥ mahāsaṁhitāḥ iti ( ucyante )| etāḥ vyākhyātāḥ mahāsaṁhitāḥ yaḥ veda ( saḥ ) prajayā paśubhiḥ brahmavarcasena annādyena suvargyeṇa lokena sandhīyate|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

तृतीयोऽनुवाकः

[ महासंहितोपासनम् ]

सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः संहिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासंहिता इत्याचक्षते । अथाधिलोकम् । 

पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः ॥१॥

वायुः सन्धानम् । इत्यधिलोकम् । अथाधिज्योतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । 

आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्योतिषम् । अथाधिविद्यम् । आचार्य: पूर्वरूपम् ॥२॥

अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनं सन्धानम् । इत्यधिविद्यम् । अथाधिप्रजम् । 

माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा सन्धिः । प्रजननं सन्धानम् । इत्यधिप्रजम् ॥३॥

अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररूपम् । वाक्सन्धिः । 

जिह्वा सन्धानम् । इत्यध्यात्मम् । इतीमा महासंहिताः । य एवमेता महासंहिता व्याख्याता वेद । 

सन्धीयते प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन सुवर्येण लोकेन ॥४॥

सह नाविति शान्तिपाठोऽयं संहितोपनिषदध्ययनशेषभूतः । शं न इत्यादिस्तु कृत्स्नोपनिषदध्ययनार्थः। शिष्याचार्यौ प्रार्थयेते - नौ शिष्याचार्ययोः अध्ययनजन्यमध्यापनजन्यं यद्यशः ब्रह्मवर्चसं च तदावयोरस्तु । अथ - शिक्षाया अनन्तरमुपनिषदं व्याख्यास्यामः । उपनिषच्च संहितायाः। संहितोपासनमित्येतत् । पर्वक्रमतो ब्रह्मविद्यायां पदमाधापयितुं संहितोपनिषत् प्रथमं प्रस्तूयते । प्रथमं शब्दोपासनं तत अर्थोपासनमिति पर्वक्रमः । वेदाख्यशब्दाध्ययनसंस्कृतचित्तस्यार्थोपासनात् प्रथमं शब्दविशेषलक्षणसंहितोपासनं सन्निहितमिति प्रथमं सन्निहितां संहितामेवालम्बनतया ग्राहयन्ती सेयं संहितोपनिषत् प्रवर्तते । वर्णानां सन्निकर्षः संहितोच्यते, सा च संहिता अधीताया: शाखाया बोध्या, सान्निध्यात् तदिदमुपासनं पञ्चस्वधिकरणेषु - आश्रयेषु विषयेषु भिन्नभिन्नं प्रवर्तते । तत्राधिलोकमेकमधिज्योतिषमेकमधिविद्यमेकमधिप्रजमेकमध्यात्ममेकम्, लोकादिदृष्ट्योपास्यमानास्ता एता महासंहिता इत्याचक्षते द्रष्टार आचार्याः, तत्र अधिलोकम् - लोके विषये उपासनमुच्यते । अ उ - ओ, इत्यस्यां वर्णसंहितायां पूर्वापररूपभूतौ पूर्वापरौ वर्णौ द्वौ, श्लिष्टोच्चारणलक्षणः 'परः सन्निकर्षः संहिता' (पाणिनीयसूत्रम् - १.४.१०९) इत्युक्तलक्षणः सन्धिः, तदनुकूलयत्नलक्षणं सन्धानम् इति द्वौ, संभूय संहिताया अवयवाश्चत्वारः। तेष्वेषु पूर्वरूपं पृथिवी, पूर्वरूपे पृथिवीदृष्टिः कार्या, उत्तररूपं द्यौः, उत्तररूपे द्युलोकदृष्टिः कार्या, आकाशः सन्धिः - सन्धावाकाशदृष्टिः कार्या वायुः सन्धानम् - सन्धाने वायुदृष्टिः कार्या । इत्यधिलोकं संहितोपासनमुक्तम् । अथाधिज्योतिषमित्यादि । अतिरोहितार्थमेतत् । इतीमा महासंहिताः पञ्चस्वधिकरणेषु व्याख्याताः । एतद्वेदनस्य फलमाह - य एवमेता इत्यादिना ॥१-४॥

इति तृतीयोऽनुवाकः

॥ आङ्गल-अर्थः ॥

Together may we attain glory, together to the radiance of holiness. Hereupon we will expound next the secret meaning of Sanhita whereof there are five capitals; Concerning the Worlds: Concerning the Shining Fires: Concerning the Knowledge: Concerning Progeny: Concerning Self. These are called the great Sanhitas. Now concerning the worlds. Earth is the first form; the heavens are the second form; ether is the linking; air is the joint of the linking. Thus far concerning the worlds. Next concerning the shining fires. Fire is the first form; the Sun is the latter form; the waters are the linking; electricity is the joint of the linking. Thus far concerning the shining fires. Next concerning the Knowledge. The Master is the first form; the disciple is the latter form; Knowledge is the linking; exposition is the joint of the linking. Thus far concerning the Knowledge. Next concerning progeny. The mother is the first form; the father is the latter form; progeny is the linking; act of procreation is the joint of the linking. Thus far concerning progeny. Next concerning Self. The upper jaw is the first form; the lower jaw is the latter form; speech is the linking; the tongue is the joint of the linking. Thus far concerning Self. These are the great Sanhitas. He who knoweth thus the great Sanhitas as we have expounded them, to him are linked progeny and wealth of cattle and the radiance of holiness and food and all that is of food and the world of his high estate in heaven.

॥ हिन्दी-अर्थः ॥

हम दोनों (आचार्य एवं शिष्य) एक साथ यश लाभ करें, एक साथ ब्रह्मतेन (ब्रह्मवर्चस) प्राप्त करें। इसके पश्चात् हम संहिता के गहन अर्थ की व्याख्या करेंगे जिसके पाँच प्रमुख विषय (अधिकरण) हैं; 'लोकों' से सम्बन्धित (अधिलोकम्)ː 'ज्योतिर्मय अग्नियों' से सम्बन्धित (अधिज्योतिषम्)ː 'विद्या' से सम्बन्धित (अधिविद्यम्)ː 'सन्तति' (प्रजा) से सम्बन्धित (अधिप्रज्ञम्)ː 'आत्मा' से सम्बन्धित (अध्यात्मम्)। इन्हें 'महासंहिता' कहा जाता है। प्रथम लोक-विषयक। पृथ्वी प्रथम (पूर्व) रूप है; द्युलोक द्वितीय (उत्तर) रूप हैं; आकाश सन्धि है; वायु संयोजक (सन्धान) है। इतना ही है अधिलोकम्। तत्पश्चात् ज्योतिर्मय अग्नि-विषयक। अग्नि पूर्व-रूप है; सूर्य उत्तर-रूप है; जल सन्धि हैं; विद्युत् संयोजक (सन्धान) है। इतना ही है अधिज्योतिषम्। तत्पश्चात् विद्या-विषयक। आचार्य पूर्व-रूप है; अन्तेवासी (शिष्य) उत्तर-रूप है; विद्या सन्धि है; प्रवचन संयोजक (सन्धान) है। इतना ही है अधिविद्यम् । तत्पश्चात् प्रजा-विषयक। माता पूर्व-रूप है; पिता उत्तर-रूप है; प्रजा (सन्तान) सन्धि है; प्रजनन प्रक्रिया संयोजक (सन्धान) है। इतना ही है अधिप्रज्ञम्। तत्पश्चात् आत्मा-विषयक। अधर हनु (ऊपरी जबड़ा) पूर्व-रूप है; उत्तर हनु (नीचे का जबड़ा) उत्तर-रूप है; वाक् है सन्धि; जिह्वा है संयोजक (सन्धान)। इतना ही है अध्यात्मम्। ये ही हैं महासहिताएँ। जो इस प्रकार इन महासहिताओं को जानता है जैसी हमने उनकी व्याख्या की है, वह प्रजा (सन्तति) से, पशुधन से, ब्रह्मतेज से, अन्न से, अन्न के भोग-पदार्थों से तथा स्वर्ग में अपनी उच्च अवस्थिति के लोकों से सम्पन्न हो जाता है।

शब्दावली

सह - saha - together

नौ यशः - nau yaśaḥ - may we attain glory

नौ ब्रह्मवर्चसम् - nau brahmavarcasam - may we attain to the radiance of holiness

अथ अतः - atha ataḥ - hereupon next

पञ्चसु अधिकरणेषु - pañcasu adhikaraṇeṣu - whereof there are five capitals

संहितायाः - saṁhitāyāḥ - of Sanhita

उपनिषदम् - upaniṣadam - the secret meaning

व्याख्यास्यामः - vyākhyāsyāmaḥ - we will expound

अधिलोकम् - adhilokam - concerning the Worlds

अधिज्योतिषम् - adhijyotiṣam - concerning the Shining Fires

अधिविद्यम् - adhividyam - concerning the Knowledge

अधिप्रजम् - adhiprajam - concerning Progeny

अध्यात्मम् - adhyātmam - concerning Self

ताः महासंहिताः - tāḥ mahāsaṁhitāḥ - the great Sanhitas

इति आचक्षते - iti ācakṣate - these are called

अथ अधिलोकम् - atha adhilokam - now concerning the worlds

पृथिवी पूर्वरूपम् - pṛthivī pūrvarūpam - Earth is the first form

द्यौः उत्तररूपम् - dyauḥ uttararūpam - the heavens are the second form

आकाशः सन्धिः - ākāśaḥ sandhiḥ - ether is the linking

वायुः सन्धानम् - vāyuḥ sandhānam - air is the joint of the linking

इति अधिलोकम् - iti adhilokam - thus far concerning the worlds

अथ अधिज्योतिषम् - atha adhijyotiṣam - next concerning the shining fires

अग्निः पूर्वरूपम् - agniḥ pūrvarūpam - Fire is the first form

आदित्यः उत्तररुपम् - ādityaḥ uttararupam - the Sun is the latter form

आपः सन्धिः - āpaḥ sandhiḥ - the waters are the linking

वैद्युतः सन्धानम् - vaidyutaḥ sandhānam - electricity is the joint of the linking

इति अधिज्योतिषम् - iti adhijyotiṣam - thus far concerning the shining fires

अथ अधिविद्यम् - atha adhividyam - next concerning the Knowledge

आचार्यः पूर्वरूपम् - ācāryaḥ pūrvarūpam - the Master is the first form

अन्तेवासी उत्तररूपम् - antevāsī uttararūpam - the disciple is the latter form

विद्या सन्धिः - vidyā sandhiḥ - Knowledge is the linking

प्रवचनम् सन्धानम् - pravacanam sandhānam - exposition is the joint of the linking

इति अधिविद्यम् - iti adhividyam - thus far concerning the Knowledge

अथ अधिप्रजम् - atha adhiprajam - next concerning progeny

माता पूर्वरूपम् - mātā pūrvarūpam - the mother is the first form

पिता उत्तररूपम् - pitā uttararūpam - the father is the latter form

प्रजा सन्धिः - prajā sandhiḥ - progeny is the linking

प्रजजनम् सन्धानम् - prajajanam sandhānam - act of procreation is the joint of the linking

इति अधिप्रजम् - iti adhiprajam - thus far concerning progeny

अथ अध्यात्मम् - atha adhyātmam - next concerning Self

अधरा हनुः पूर्वरूपम् - adharā hanuḥ pūrvarūpam - the upper jaw is the first form

उत्तरा हनुः उत्तररूपम् - uttarā hanuḥ uttararūpam - the lower jaw is the latter form

वाक् सन्धिः - vāk sandhiḥ - speech is the linking

जिह्वा सन्धानम् - jihvā sandhānam - the tongue is the joint of the linking

इति अध्यात्मम् - iti adhyātmam - thus far concerning Self

इति इमाः महासंहिताः - iti imāḥ mahāsaṁhitāḥ - these are the great Sanhitas

एताः व्याख्याताः महासंहिताः - etāḥ vyākhyātāḥ mahāsaṁhitāḥ - the great Sanhitas as expounded

यः वेद - yaḥ veda - he who knoweth thus

प्रजया - prajayā - with progeny

पशुभिः - paśubhiḥ - with wealth of cattle

ब्रह्मवर्चसेन - brahmavarcasena - with the radiance of holiness

अन्नाद्येन - annādyena - with food and all that is of food

सुवर्ग्येण लोकेन - suvargyeṇa lokena - with the world of his high estate in heaven

सन्धीयते - sandhīyate - he becomes linked


तैत्तिरीयोपनिषद्

शिक्षावल्ली

चतुर्थोऽनुवाकः

यश्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात् संबभूव। स मेन्द्रो मेधया स्पृणोतु। अमृतस्य देव धारणो भूयासम्‌।शरीरं मे विचर्षणम्‌। जिह्वा मे मधुमत्तमा।कर्णाभ्यां भूरि विश्रुवम्‌।ब्रह्मणः कोशोऽसि मेधया पिहितः।श्रुतं मे गोपाय। आवहन्ती वितन्वाना। कुर्वाणा चीरमात्मनः। वासांसि मम गावश्च। अन्नपाने च सर्वदा। ततो मे श्रियमावह।लोमशां पशुभिः सह स्वाहा। आ मा यन्तु ब्रह्मचारिणः स्वाहा। वि मायन्तु ब्रह्मचारिणः स्वाहा। प्रमायन्तु ब्रह्मचारिणः स्वाहा। दमायन्तु ब्रह्मचारिणः स्वाहा। शमायन्तु ब्रह्मचारिणः स्वाहा। यशो जनेऽसानि स्वाहा। श्रेयान्‌ वस्यसोऽसानि स्वाहा। तं त्वा भग प्रविशानि स्वाहा। स मा भग प्रविश स्वाहा। तस्मिन् त्सहस्रशाख। नि भगाहं त्वयि मृजे स्वाहा। यथापः प्रवता यन्ति। यथा मासा अहर्जरम्‌। एवं मां ब्रह्मचारिणः। धातरायन्तु सर्वतः स्वाहा। प्रतिवेशोऽसि। प्र मा भाहि। प्र मा पद्यस्व।

॥ लिप्यन्तरणम् ॥

yaśchandasāmṛṣabho viśvarūpaḥ | chandobhyo'dhyamṛtāt saṁbabhūva | sa mendro medhayā spṛṇotu | amṛtasya deva dhāraṇo bhūyāsam |śarīraṁ me vicarṣaṇam | jihvā me madhumattamā karṇābhyāṁ bhūri viśruvam |brahmaṇaḥ kośo'si medhayā pihitaḥ |śrutaṁ me gopāya | āvahantī vitanvānā| kurvāṇā cīramātmanaḥ | vāsāṁsi mama gāvaśca| annapāne ca sarvadā | tato me śriyamāvaha |lomaśāṁ paśubhiḥ saha svāhā| ā mā yantu brahmacāriṇaḥ svāhā | vi māyantu brahmacāriṇaḥ svāhā | pramāyantu brahmacāriṇaḥ svāhā | damāyantu brahmacāriṇaḥ svāhā | śamāyantu brahmacāriṇaḥ svāhā | yaśo jane'sāni svāhā | śreyān vasyaso'sāni svāhā | taṁ tvā bhaga praviśāni svāhā | sa mā bhaga praviśa svāhā | tasmin tsahasraśākha| ni bhagāhaṁ tvayi mṛje svāhā | yathāpaḥ pravatā yanti| yathā māsā aharjaram | evaṁ māṁ brahmacāriṇaḥ | dhātarāyantu sarvataḥ svāhā | prativeśo'si| pra mā bhāhi| pra mā padyasva|

॥ अन्वयः ॥

छन्दसाम् ऋषभः विश्वरूपः यः अमृतात् छन्दोभ्यः अधि सम्बभूव सः इन्द्रः मा मेधया स्पृणोतु हे देव अमृतस्य धारणः भूयासम्। मे शरीरं विचर्षणम् मे जिह्वा मधुमत्तमा च भूयात् । कर्णाभ्यां भूरि विश्रुवं मेधया पिहितः ब्रह्मणः कोशः असि मे श्रुतं गोपाय। हे देव ततः मे पशुभिः सह। लोमशां श्रियम् आवह या श्रीः मम आत्मनः अन्न -पाने वासांसि गावः च सर्वदा अचीरं कुर्वाणा वितन्वान आवहन्ती च भवन्तु । स्वाहा ब्रह्मचारिणः मा आ यन्तु। स्वाहा ब्रह्मचारिनः मा वि आयन्तु। स्वाहा। ब्रह्मचारिणः सः प्र आयन्तु। स्वाहा। ब्रह्मचारिणः दमायन्तु। स्वाहा ब्रह्मचरिणः शमायन्तु। स्वाहा। जने यशः असानि। स्वाहा वस्यसः श्रेयान् असानि। भग तं त्वा प्रविशानि। स्वाहा। भग सः त्वं मा प्रविश। स्वाहा। भग तस्मिन् सहस्रशाखे त्वै अहं निमृजे। स्वाहा। हे धातः यथा आपः प्रवता यन्ति यथा मासाः अहर्जरं यन्ति एवं मां ब्रह्मचारिणः सर्वतः आयन्तु। स्वाहा। प्रतिवेशः असि मा प्रभाहि मा प्रपद्यस्व।

॥ अन्वयलिप्यन्तरणम् ॥

chandasām ṛṣabhaḥ viśvarūpaḥ yaḥ amṛtāt chandobhyaḥ adhi sambabhūva saḥ indraḥ mā medhayā spṛṇotu ( he ) deva amṛtasya dhāraṇaḥ bhūyāsam| me śarīraṁ vicarṣaṇam me jihvā madhumattamā ( ca bhūyāt )| karṇābhyāṁ bhūri viśruvaṁ medhayā pihitaḥ brahmaṇaḥ kośaḥ asi me śrutaṁ gopāya| ( he deva ) tataḥ me paśubhiḥ saha | lomaśāṁ śriyam āvaha ( yā śrīḥ ) mama ātmanaḥ anna -pāne vāsāṁsi gāvaḥ ca sarvadā acīraṁ kurvāṇā vitanvāna āvahantī ca ( bhavantu )| svāhā brahmacāriṇaḥ mā ā yantu| svāhā brahmacārinaḥ mā vi āyantu| svāhā| brahmacāriṇaḥ saḥ pra āyantu| svāhā| brahmacāriṇaḥ damāyantu| svāhā brahmacariṇaḥ śamāyantu| svāhā| jane yaśaḥ asāni| svāhā vasyasaḥ śreyān asāni| bhaga taṁ tvā praviśāni | svāhā| bhaga saḥ ( tvaṁ ) mā praviśa| svāhā| bhaga tasmin sahasraśākhe tvai ahaṁ nimṛje| svāhā| ( he ) dhātaḥ yathā āpaḥ pravatā yanti yathā māsāḥ aharjaraṁ ( yanti )evaṁ māṁ brahmacāriṇaḥ sarvataḥ āyantu| svāhā | prativeśaḥ asi mā prabhāhi mā prapadyasva|

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

चतुर्थोऽनुवाकः

[ मेधासिद्धये जपनीयाः मन्त्राः ]

मेधायाः श्रियश्च सिद्धये विनियोज्या मन्त्राः पठ्यन्ते चतुर्थेऽनुवाके ।

यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात् सम्बभूव । स मेन्द्रो मेधया स्पृणोतु । 

अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । 

कर्णाभ्यां भूरि विश्रुवम् ।ब्रह्मणः कोशोऽसि मेधया पिहितः । 

श्रुतं मे गोपाय । आवहन्ती वितन्वाना ॥१॥

कुर्वाणा चीरमात्मनः । वासांसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । 

लोमशां पशुभिः सह स्वाहा । आमायन्तु ब्रह्मचारिणः स्वाहा । 

( विमायन्तु ब्रह्मचारिणः स्वाहा । प्रमायन्तु ब्रह्मचारिणः स्वाहा । दमायन्तु ब्रह्मचारिणः स्वाहा । शमायन्तु ब्रह्मचारिणः स्वाहा । ) 

यशो जनेऽसानि स्वाहा । श्रेयान्वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । 

स मा भग प्रविश स्वाहा ॥२॥

तस्मिन्सहस्त्रशाखे । निभगाहं त्वयि मृजे स्वाहा । यथाऽऽपः प्रवता यन्ति । यथा मासा अहर्जरम् ।

एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा । प्रतिवेशोऽसि प्रमा पाहिमा पद्यस्व ॥३॥

वितन्वाना प्रविश स्वाहा सप्त च । 

( वितन्वाना शमायन्तु ब्रह्मचारिणः स्वाहा । धातरायन्तु सर्वतः स्वाहैकं च ) ॥४॥

तत्र - 'यश्छन्दसा 'मित्यादीनां मेधासिद्ध्यर्थानां जपे विनियोगः, 'आवहन्ती वितन्वाने'त्यादीनां श्रीसिद्ध्यर्थानां होमे विनियोगो बोध्यः । 'लोमशा 'मित्याद्युत्तरवाक्येषु स्वाहाशब्दयोगात् । मेधायाः श्रियश्च ब्रह्मविद्याशेषतयाऽऽशंस्यतेति विद्याप्रकरणेऽस्य श्रवणं सङ्गतम् । असत्यां मेधायां न प्रभवति श्रवणमननयो:, अनिष्पन्नश्रवणमननस्य न विद्यानिष्पत्तिः, तथा पश्वादिद्रव्यसम्पत्तिरहितो न प्रभवति कर्मसु । अननुष्ठितेषु कर्मसु न भवति विद्यान्तरायदुरितक्षयः, अप्रक्षीणदुरितस्य नान्तःकरणं प्रसीदति, अप्रसन्ने मनसि न विद्यानिष्पत्ति: । तत् मेधाश्रियोरपि विद्यार्थता युक्ता नाम । प्रणवः प्रार्थ्यते मेधाकामनया - यश्छन्दसामिति । प्रणवस्यायं विशेषो यत् परस्य ब्रह्मणो वाचक इति वाच्यस्यैवायं महिमा यद्वाचकसमाश्रयणेनार्थसिद्धिरिति । यः - प्रणवः छन्दसां ऋषभः श्रेष्ठः, त्रय्याः सारो हि सः । विश्वरूपः - विश्वमस्य रूपमिति स्तूयते वाच्यमहिमाश्रयणेन । विश्वं वाग्जातमस्यैव रूपमिति वा विश्वरूपम् । श्रूयते चान्यत्र 'तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृष्णानि एवमोङ्कारेण सर्वा वाक् सन्तृष्णा ओङ्कार एवेदं सर्वम्' (छांदोग्योपनिषद् - २.२३.३) इति । छन्दोभ्यो ऽध्यमृतात् सम्बभूव - वेदेभ्यो ऋग्यजुःसामलक्षणेभ्यो यदमृतं व्याहृतित्रयम्, तस्मादप्यधिकतया प्रणवः सम्बभूव । त्रयीसारभूतव्याहृतित्रयसारभूत इति यावत् । सोऽयमिन्द्रः - परमेश्वरः, वाच्यगतमैश्वर्यं वाचके समारोप्य स्तूयते । मा - मां मेधया स्पृणोतु - उज्जीवयतु । मेधाबलं प्रयच्छत्विति यावत् । हे देव प्रणव अमृतस्य - प्रकरणात् विद्यालक्षणस्य धारणो धारको भूयासम् । विद्यासिद्धिर्मे - भूयादिति यावत् । मे शरीरं विचर्षणम् - विचक्षणं बलारोग्यसम्पन्नं भूयात् । मे जिह्वा मधुमत्ता - प्रकरणात् ब्रह्मवदनशीलतया मधुरभाषिणी भूयात् । कर्णाभ्यां भूरि - भूय: विश्रवम् प्रकरणात् ब्रह्मविद्यावबोधकं शास्त्रं शृणवानि । शरीरवाक् श्रवणादि सर्वं विद्यानुकूलवृत्ति भूयादिति यावत् । हे प्रणव त्वं ब्रह्मणः - परमात्मनः कोशो ऽसि । असिः कोश इव परं ब्रह्म त्वयि वाचके आलम्बनभूते वा निहितमिति भावः । मेधया बाह्यलौकिकवस्त्ववगाहिन्या पिहितोऽसि, लौकिकमतयस्त्वां न जानन्तीति यावत् । यद्वा ब्रह्मणः कोशोऽसि - धनमिव कोशे त्वयि ब्रह्म निगूढमस्ति, तदिदं सर्वे न जानन्ति । त्वमसि मेधया - येयं प्रज्ञा जपादिसाधनविशेषावलम्बिनी तया, पिहितोऽसि । शब्दब्रह्मनिष्ठा बहवो हि त्वदीयं शाब्दमेव महिमानमखिलवाङ्मयमूलत्वादिलक्षणं जानन्तो जपहोमादिषु केवलं त्वामाश्रयन्ते । कश्चिदेव तु त्वां परमालम्बनं परस्य ब्रह्मणो जानन् उपास्ते, लभते च ततः कोशादिव धनं परं ब्रह्म । गुरुभ्यो यन्मया श्रुतं तद्गोपाय - परिरक्ष ।

अथ होमे विनियोज्याः श्रीसिद्धिप्रदा मन्त्रा उच्यन्ते - आवहन्तीत्यादिना । आवहन्ती उपनयन्ती, प्रकरणात् धर्माचरणौपयिकामर्थसम्पत्तिम्, वितन्वाना विस्तारयन्ती, चीरमिति दीर्घश्छान्दसः, चिरं कुर्वाणा - चिरकालमनुवर्तमानां कुर्वाणा, श्रीरस्तु कस्य ? आत्मनः मम । तथा वासांसि गावश्च मम सन्तु, तथाऽन्नपाने च सर्वदा यावज्जीवं मम स्ताम् । धर्मैकशेषभूतधनसम्पत्तिलक्षणा श्री: देहयात्रौपयिकवासः प्रभृति चेति द्वयं प्रार्थितम्, तत्र प्रथमं देहयात्रौपयिकवासःप्रभृतेः प्राधान्यं ज्ञापयन् आह - ततो मे श्रियमावहेति । उभयोराशास्ययोर्मध्ये प्रथमं वासः प्रभृति देहि, तदनन्तरं तां श्रियं ममावह। प्रणव एव प्रार्थ्यते, स एव हि प्रकृत: । सा च श्रीधर्मैकशेषभूतेति व्यञ्जयन्नाह - लोमशां पशुभिः सहेति । गव्यादिप्रधानां पशुभिरन्यैश्च सह युक्तां श्रियमावहेति यावत् । यागादिधर्मैकशेषता व्यज्यते । स्वाहाशब्दो होमे विनियोगज्ञापकः । अथानुकूलशिष्यसम्पत्तिः प्रार्थ्यते - आमायन्त्विति । ब्रह्मचारिणः - विद्यार्थब्रह्मचर्यव्रतनिष्ठाः मा माम् आयन्तु आयान्तु । जने जनानां मध्ये यश: - यशस्वी असानि । वस्यसः - वसुमत्तराणां मध्ये श्रेयान् - प्रशस्य: असानि । हे भग ऐश्वर्यप्रदत्वात् साधने साध्योपचारेण भगेति प्रणवः सम्बोध्यते, भगवन् इति वाऽर्थः । तं त्वां प्रविशानि - वाच्यस्य ब्रह्मण: वाचकस्य प्रणवस्य चाभेदभावनयेदमुच्यते, सर्वाश्रयं त्वामहं प्रविशानि, त्वदेकाश्रयोऽहमसानीति यावत् । स त्वं सर्वात्मको मां प्रविश । हे भग भगवन् तस्मिन्सहस्त्रशाखे त्वयि त्रयीमूलत्वात् प्रणवः स्तूयते सहस्रशाख इति, अहं निमृजे शोधयामि, त्वत्संश्लेषेण व्यपेतपापः स्यामिति यावत् । हे धातः - यथा आपः प्रवताः - प्रवणा यन्ति, आपो यथा निम्नदेशे स्वतः प्रवणा यन्ति, यथा वा मासा अहर्जरम् - संवत्सरं यन्ति तथा मां ब्रह्मचारिण आयान्तु सर्वतः । अहोभिः परिवर्तमानो लोकान् जरयतीत्यहर्जर : संवत्सर उच्यते । त्वं प्रतिवेशोऽसि आसन्नगृहस्थानी योऽसि, सन्निहितोऽसीत्येतत् । मां प्र पाहि । मां प्रपद्यस्व - प्रपदयस्व । अन्तर्भावितण्यर्थोऽयम् ॥१-४॥

इति चतुर्थोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

The bull of the hymns of Veda whose visible form is all this Universe, he above the Vedas who sprang from that which is deathless, may Indra increase intellect unto me for my strengthening. O God, may I become a vessel of immortality. May my body be swift to all works, may my tongue drop pure honey. May I hear vast and manifold lore with my ears. O Indra, thou art the sheath of the Eternal and the veil that the workings of brain have drawn over Him; preserve whole unto me the sacred lore that I have studied. She bringeth unto me wealth and extendeth it, yea, she maketh speedily my own raiment and cattle and drink and food now and always; therefore carry to me Fortune of much fleecy wealth and cattle with her. Swaha! May the Brahmacharins come unto me. Swaha! From here and there may the Brahmacharins come unto me. Swaha! May the Brahmacharins set forth unto me. Swaha! May the Brahmacharins attain selfmastery. Swaha! May the Brahmacharins attain to peace of soul. Swaha! May I be a name among the folk! Swaha! May I be the first of the wealthy! Swaha! O Glorious Lord, into That which is Thou may I enter. Swaha! Do thou also enter into me, O Shining One. Swaha! Thou art a river with a hundred branching streams, O Lord of Grace, in thee may I wash me clean. Swaha! As the waters of a river pour down the steep, as the months of the year hasten to the old age of days, O Lord that cherisheth, so may the Brahmacharins come to me from all the regions . Swaha! O Lord, thou art my neighbour, thou dwellest very near me. Come to me, be my light and sun.

॥ हिन्दी-अर्थः ॥

वैदिक छन्दों (ऋचाओं) का जो ऋषभ है, जिसका दृश्यरूप है यह सम्पूर्ण विश्व, वेदों से ऊपर विद्यमान जो अमृतत्व है, उससे वह उत्पन्न हुआ है, इन्द्र मेरी पुष्टि के लिए मेधा शक्ति को संवर्धित करें! हे देव मैं अमरता का पात्र बनूँ। मेरा शरीर प्रत्येक कार्य के लिए स्फूर्त बने, मेरी जिह्वा मधुरता वर्षण करे। मैं अपने कानों से व्यापक एवं बहुविध विद्या का श्रवण करूँ। हे इन्द्र, आप 'ब्रह्म' का कोश हैं तथा आप ही हैं वह आवरण जिसे बुद्धि की क्रियाओं ने 'उस' (ब्रह्म) पर डाल दिया है; मैंने जिस पवित्र विद्या का अध्ययन किया है उस सम्पूर्ण विद्या का मेरे लिए संरक्षण करिये। वह मेरे लिए सम्पत्ति लाती है तथा उसका विस्तार करती है, हाँ, वह शीघ्रता से मेरे लिए वस्त्रों, गौओं, अत्र तथा पेय पदार्थों की सदा सर्वदा रचना करती है; अतः उसके साथ मेरे लिए अधिक लोमयुक्त सम्पत्ति तथा पशुओं सहित उस 'श्री' (सम्पदा) को लाइये। स्वाहा ! ब्रह्मचारीगण मेरे पास आयें। स्वाहा ! इधर-उधर से ब्रह्मचारीगण मेरे पास आयें। स्वाहा ! ब्रह्मचारीगण मेरी ओर प्रस्थान करें। स्वाहा ! ब्रह्मचारीगण आत्म-प्रभुत्व प्राप्त करें। स्वाहा ! ब्रह्मचारीगण आत्म-शान्ति प्राप्त करें। स्वाहा! मैं लोगों में यशस्वी होऊँ। स्वाहा! मैं धनवानों में श्रेष्ठ होऊँ। स्वाहा हे ऐश्वर्यशाली प्रभो, जो 'आप' हैं मैं 'उस' में प्रवेश करूँ। स्वाहा! हे ज्योतिर्मय, आप भी मेरे अन्दर प्रविष्ट हो जाइये। स्वाहा! हे करुणामय प्रभो, आप सहस्रधाराओं वाली सरिता के समान हैं,ऐसे आपके अन्दर मैं मज्जन करके पवित्र हो जाऊँ। स्वाहा ! जिस प्रकार सरिता का जल नीचे की ओर बहता है, जैसे वर्ष के माह दिवस के अवसान की ओर तीव्रगति से जाते हैं, हे पालनकर्ता प्रभो, उसी प्रकार सभी दिशाओं से ब्रह्मचारीगण मेरी ओर आयें। स्वाहा! हे प्रभो, आप मेरे प्रतिवेशी हैं, आप मेरे बहुत समीप निवास करते हैं। मेरे अन्दर पधारिये, मेरी ज्योति, मेरा सूर्य बनकर मुझे प्रकाशित करिये!

॥ शब्दावली ॥

छन्दसाम् - chandasām - of the hymns of Veda

ऋषभः - ṛṣabhaḥ - the bull

विश्वरूपः - viśvarūpaḥ - whose visible form is all this Universe

यः - yaḥ - he who

अधि छन्दोभ्यः - adhi chandobhyaḥ - above the Vedas

अमृतात् - amṛtāt - from that which is deathless

सम्बभूव - sambabhūva - sprang

सः इन्द्रः - saḥ indraḥ - that Indra

मा - mā - unto me

मेधया - medhayā - intellect for my strengthening

स्पृणोतु - spṛṇotu - may increase

हे देव - he deva - O God!

अमृतस्य - amṛtasya - of immortality

धारणः - dhāraṇaḥ - a vessel

भूयासम् - bhūyāsam - may I become

मे शरीरम् विचर्षणम् - me śarīram vicarṣaṇam - may my body be swift to all works

मे जिह्वा मधुमत्तमा - me jihvā madhumattamā - may my tongue drop pure honey

कर्णाभ्याम् - karṇābhyām - with my ears

भूरि विश्रुवम् - bhūri viśruvam - may I be the one hearing vast and manifold lore

मेधया पिहितः - medhayā pihitaḥ - the veil that the workings of brain have drawn over Him

ब्रह्मणः कोशः - brahmaṇaḥ kośaḥ - the sheath of the Eternal

असि - asi - O Indra, thou art

मे श्रुतम् - me śrutam - the sacred lore that I have studied

गोपाय - gopāya - preserve whole unto me

ततः - tataḥ - then

मे - me - unto me

पशुभिः सह - paśubhiḥ saha - with cattle

लोमशाम् श्रियम् - lomaśām śriyam - fleecy wealth

आवह - āvaha - bring

मम आत्मनः - mama ātmanaḥ - my own

अन्नपाने - annapāne - drink and food

वासांसि - vāsāṁsi - raiment

गावः च - gāvaḥ ca - cattle

सर्वदा - sarvadā - now and always

अचीरम् - acīram - speedily

कुर्वाणा - kurvāṇā - making

वितन्वान - vitanvāna - extending

आवहन्ती च - āvahantī ca - and bringing

स्वाहा - svāhā - Swaha!

ब्रह्मचारिणः - brahmacāriṇaḥ - the Brahmacharins

मा आ यन्तु - mā ā yantu - may come unto me

स्वाहा - svāhā - Swaha !

ब्रह्मचारिनः - brahmacārinaḥ - the Brahmacharins. Swaha!

मा वि यन्तु - mā vi yantu - may come unto me from here and there

स्वाहा - svāhā - Swaha!

ब्रह्मचारिणः - brahmacāriṇaḥ - the Brahmacharins

दमायन्तु - damāyantu - may attain self-mastery

स्वाहा - svāhā - Swaha!

ब्रह्मचारिणः - brahmacāriṇaḥ - the Brahmacharins

शमायन्तु - śamāyantu - may attain to peace of soul

स्वाहा - svāhā - Swaha!

जने - jane - among the folk

यशः असानि - yaśaḥ asāni - may be a name or attain glory

स्वाहा - svāhā - Swaha!

वस्यसः - vasyasaḥ - of the wealthy

श्रेयान् असानि - śreyān asāni - may I be the first or better

भग - bhaga - O Glorious Lord!

तम् त्वा - tam tvā - into That which is Thou

प्रविशानि - praviśāni - may I enter

स्वाहा - svāhā - Swaha!

भग - bhaga - O Shining One!

सः त्वम् - saḥ tvam - do thou

मा प्रविश - mā praviśa - enter into me

स्वाहा - svāhā - Swaha!

भग - bhaga - O Lord of Grace!

तस्मिन् सहस्रशाखे त्वै - tasmin sahasraśākhe tvai - in thee a river with a hundred branching streams

अहम् निमृजे - aham nimṛje - may I wash me clean

स्वाहा - svāhā - Swaha!

धातः - dhātaḥ - O Lord that cherisheth!

यथा - yathā - as

आपः - āpaḥ - the waters of a river

प्रवता यन्ति - pravatā yanti - pour down the steep

यथा - yathā - as

मासाः - māsāḥ - the months of the year

अहर्जरम् - aharjaram - hasten to the old age of days

एवम् - evam - so

माम् - mām - to me

ब्रह्मचारिणः - brahmacāriṇaḥ - the Brahmacharins

सर्वतः - sarvataḥ - from all the regions

आयन्तु - āyantu - may come

स्वाहा - svāhā - Swaha!

प्रतिवेशः असि - prativeśaḥ asi - O Lord, thou art my neighbor, thou dwellest very near me

मा प्रभाहि - mā prabhāhi - be my light and sun

मा प्रपद्यस्व - mā prapadyasva - come to me


तैत्तिरीयोपनिषद्

शिक्षावल्ली

पञ्चमोऽनुवाकः

भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः। तासामु ह स्मैतां चतुर्थीम्‌। माहाचमस्यः प्रवेदयते। मह इति। तत्‌ ब्रह्म। स आत्मा। अङ्गान्यन्या देवताः। भूरिति वा अयं लोकः। भुव इत्यन्तरिक्षम्‌। सुवरित्यसौ लोकः। मह इत्यादित्यः। आदित्येन वाव सर्वे लोका महीयन्ते। भूरिति वा अग्निः। भुव इति वायुः। सुवरित्यादित्यः ंअह इति चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योती षि महीयन्ते। भूरिति वा ऋचः।भुव इति सामानि।सुवरिति यजू षि। मह इति ब्रह्म। ब्रह्मणा वाव सर्वे वेदा महीयन्ते। भूरिति वै प्राणः। भुव इत्यपानः। सुवरिति व्यानः। मह इत्यन्नम्‌। अन्नेन वाव सर्वे प्राणा महीयन्ते। ता वा एताश्चतस्रश्चतुर्ध। चतस्रश्चतस्रो व्याहृतयः। ता यो वेद।स वेद ब्रह्म। सर्वेऽस्मै देवा बलिमावहन्ति।

लिप्यन्तरणम्

bhūrbhuvaḥ suvariti vā etāstisro vyāhṛtayaḥ | tāsāmu ha smaitāṁ caturthīm | māhācamasyaḥ pravedayate | maha iti | tat brahma | sa ātmā | aṅgānyanyā devatāḥ | bhūriti vā ayaṁ lokaḥ | bhuva ityantarikṣam | suvarityasau lokaḥ| maha ityādityaḥ | ādityena vāva sarve lokā mahīyante | bhūriti vā agniḥ | bhuva iti vāyuḥ | suvarityādityaḥ ṁaha iti candramāḥ | candramasā vāva sarvāṇi jyotī ṣi mahīyante | bhūriti vā ṛcaḥ |bhuva iti sāmāni |suvariti yajū ṣi| maha iti brahma | brahmaṇā vāva sarve vedā mahīyante | bhūriti vai prāṇaḥ | bhuva ityapānaḥ | suvariti vyānaḥ | maha ityannam | annena vāva sarve prāṇā mahīyante | tā vā etāścatasraścaturdha | catasraścatasro vyāhṛtayaḥ | tā yo veda |sa veda brahma | sarve'smai devā balimāvahanti|

अन्वयः

भूः भुवः सुवः इति एताः तिस्रः वै व्याहृतयः उ ह तासाम् एतां चतुर्थीं महः इति माहाचमस्यः प्रवेदयते स्म। तत् ब्रह्म सः आत्मा अन्याः देवताः अङ्गानि। भूः इति वै अयं लोकः। भुवः इति अन्तरिक्षम् सुवः इति असौ लोकः महः इति आदित्यः आदित्येन वाव सर्वे लोकाः महीयन्ते भूः इति वै अग्निः भुवः इति वायुः सुवः इति आदित्यः महः इति चन्द्रमाः चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते। भूः इति। वै ऋचः भुवः इति सामानि सुवः इति यजूंषि महः इति ब्रह्म ब्रह्मणा वाव सर्वे वेदाः महीयन्ते। भूः इति वै प्राणः भुवः इति अपानः सुवः इति। व्यानः महः इति अन्नम् अन्नेन वाव सर्वे प्राणाः महीयन्ते। ताः वै एताः चतस्रः व्याहृतयः चतस्रः चतस्रः चतुर्धा भवन्ति यः ताः वेद सः ब्रह्म वेद। सर्वे देवाः अस्मै बलिम् आवहन्ति।

अन्वयलिप्यन्तरणम्

bhūḥ bhuvaḥ suvaḥ iti etāḥ tisraḥ vai vyāhṛtayaḥ u ha tāsām etāṁ caturthīṁ mahaḥ iti māhācamasyaḥ pravedayate sma| tat brahma saḥ ātmā anyāḥ devatāḥ aṅgāni| bhūḥ iti vai ayaṁ lokaḥ| bhuvaḥ iti antarikṣam suvaḥ iti asau lokaḥ mahaḥ iti ādityaḥ ādityena vāva sarve lokāḥ mahīyante bhūḥ iti vai agniḥ bhuvaḥ iti vāyuḥ suvaḥ iti ādityaḥ mahaḥ iti candramāḥ candramasā vāva sarvāṇi jyotīṁṣi mahīyante| bhūḥ iti| vai ṛcaḥ bhuvaḥ iti sāmāni suvaḥ iti yajūṁṣi mahaḥ iti brahma brahmaṇā vāva sarve vedāḥ mahīyante | bhūḥ iti vai prāṇaḥ bhuvaḥ iti apānaḥ suvaḥ iti| vyānaḥ mahaḥ iti annam annena vāva sarve prāṇāḥ mahīyante| tāḥ vai etāḥ catasraḥ vyāhṛtayaḥ catasraḥ catasraḥ caturdhā ( bhavanti ) yaḥ tāḥ veda saḥ brahma veda | sarve devāāḥ asmai balim āvahanti|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

पञ्चमोऽनुवाकः

[ परविद्योपासनाङ्गव्याहृत्युपासनम् ]

अथ परविद्यामुपदेक्ष्यन् प्रथमं तदङ्गभूतव्याहृत्युपासनमुपदिशति - भूर्भुवःसुवरित्यादिना ।

भूर्भुवःसुवरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मै तां चतुर्थीम् । माहाचमस्यः प्रवेदयते ।

मह इति तद्ब्रह्म । स आत्मा अङ्गान्यन्या देवताः । भूरिति वाऽयं लोकः ।

भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः ॥१॥

मह इत्यादित्यः । आदित्येन वा सर्वे लोका महीयन्ते । भूरिति वाऽग्निः । भुव इति वायुः ।

सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वा सर्वाणि ज्योतींषि महीयन्ते ।

भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि ॥२॥

मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः ।

मह इत्यन्नम् । अन्ने वा सर्वे प्राणा महीयन्ते । ता वा एताश्चतस्त्रश्चतुर्धा । चतस्त्रश्चतस्रो व्याहृतयः ।

ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥३॥( असौ लोको यजूंषि वेद द्वे च ॥)

भूर्भुवःसुवरित्येता व्याहृतयस्तिस्रः प्रसिद्धाः, तासां व्याहृतीनां चतुर्थी व्याहृतिं मह इत्येतां माहाचमस्यः - महाचमसस्यापत्यं कश्चिदृषिः प्रवेदयते, उहेति वृत्तानुवादे, चतुर्थी व्याहृतिं महाचमस्यो महर्षिर्मन्त्रद्रष्टा ददर्शेति यावत् । मह इति ब्रह्म, महत्त्वात्, ब्रह्मैव हि सर्वतो महत्, महत् बृहदित्यनन्यार्थम् । स एवात्मा सर्वस्य । तस्य महः शब्दवाच्यस्य परस्य ब्रह्मणः अङ्गान्यन्या देवताः । एवं चतुर्थ्या व्याहृतेर्यो मुख्यार्थः स निरूपितः । अथ चतुर्विधं व्याहृतिचतुष्टयोपासनमुच्यते - भूरिति वा अयं लोकः - भूलोकः, भूरिति व्याहृतौ भूलोकदृष्टि: कार्येति यावत् । भुव इत्यन्तरिक्षम् - भुव इति व्याहृतिमन्तरिक्षं भावयेत् । सुवरित्यसौ लोकः - स्वर्गो लोकः, सुवरित्येतां व्याहृतिं स्वर्गं चिन्तयेत् । मह इति चतुर्थी व्याहृतिरादित्यः, तामादित्यं भावयेत् । तस्यां तथा दृष्टौ निमित्तमाह - आदित्येन वा सर्वे भूरादयो लोका महीयन्ते, तथा चतुर्थ्या मह इत्यनया व्याहृत्या भूरादयो व्याहृतयो महीयते । भूरिति वाऽग्निरित्यादि । भूरादिषु क्रमादग्न्यादिदृष्टिः कार्या । चतुर्थ्यां चन्द्रदृष्टौ निमित्तमाह - चन्द्रमसा वा सर्वाणि ज्योतींषि महीयन्ते इति भूरिति वा ऋच इति । मह इति ब्रह्म - प्रणव: भूरादिषु क्रमादृगादिदृष्टिः कार्येति यावत् । चतुर्थ्यां व्याहृतौ प्रणवदृष्टौ निमित्तमाह - ब्रह्मणा वावेति । भूरिति वै प्राण इत्यादि । भूरादिषु क्रमात् प्राणादिदृष्टिः कार्येति यावत् । चतुर्थ्यां व्याहृतावन्नदृष्टौ निमित्तमुच्यते - अन्नेन वेति । ता वा एता भूरादयो व्याहृतयश्चतस्त्रश्चतुर्धा भवन्ति दृष्टिभेदात् । तस्मात् चतस्रोऽपि व्याहृतयः प्रत्येकं चतस्र: । प्रथमां व्याहृति भूलोकात्मना अग्न्यात्मना ऋगात्मना प्राणात्मना च पश्येत्, द्वितीयामन्तरिक्षात्मना वाय्वात्मना सामात्मना अपानात्मना च पश्येत्, तृतीयां स्वर्गात्मना आदित्यात्मना यजुरात्मना व्यानात्मना च पश्येत्, चतुर्थीमादित्यात्मना चन्द्रात्मना प्रणवात्मना अन्नात्मना च पश्येदिति चतसृणामपि चतुर्विधं मिलितमुपासनं कार्यमित्युक्तं भवति । ता एता व्याहतीरुक्तेन प्रकारेण वेद, स वेद ब्रह्म वक्ष्यमाणब्रह्मविद्यां लभते, ततश्चास्मै ब्रह्मविदे सर्वे देवा बलिमुपहरन्ति - पूजयन्तीत्येतत् । अङ्गिफलमङ्गे प्रोच्यते ॥१-३॥­­

इति पञ्चमोऽनुवाकः ॥

आङ्गल-अर्थः ॥

Bhur, Bhuvar and Suvar, these are the three Words of His naming. Verily the Rishi Mahachamasya made known a fourth to these, which is Mahas. It is Brahman, it is the Self, and the other gods are his members. Bhur, it is this world; Bhuvar, it is the sky; Suvar, it is the other world: but Mahas is the Sun. By the Sun all these worlds increase and prosper. Bhˆ ur, it is Fire; Bhuvar, it is Air; Suvar, it is the Sun: but Mahas is the Moon. By theMoon all these shining fires increase and prosper. Bhˆ ur, it is the hymns of the Rigveda; Bhuvar, it is the hymns of the Sˆama; Suvar, it is the hymns of the Yajur: but Mahas is the Eternal. By the Eternal all these Vedas increase and prosper. Bhˆ ur, it is the main breath; Bhuvar, it is the lower breath; Suvar, it is the breath pervasor: but Mahas is food. By food all these breaths increase and prosper. These are the four&they are fourfold;-fourWords of His naming and each is four again. He who knoweth these knoweth the Eternal, and to him all the Gods carry the offering.

हिन्दी-अर्थः ॥

'भू' 'भुवः' 'तथा' 'स्वः' ये तीन 'विशेष शब्द' (व्याहृतियाँ) हैं 'उसके' नाम के। माहाचमस्य ऋषि ने ही वास्तव में इनके साथ चौथी व्याहति 'महः' का ज्ञान कराया। वह 'ब्रह्म' है, वह 'आत्मा' है तथा अन्य देवगण उसके ही अंगरूप हैं। 'भू' है यह लोक; 'भुवः' है अन्तरिक्षः 'स्वः' है वह अन्य लोक; किन्तु 'महः' है सूर्य। सूर्य से ही ये समस्त लोक संवर्धित तथा समृद्ध (महिमान्वित) होते हैं। भूः है अग्नि; 'भुवः' है वायु; 'स्वः' है सूर्य; किन्तु 'महः' है चन्द्रमा। चन्द्रमा से ही ये ज्योतिर्मय अग्निपुञ्ज (ग्रह-नक्षत्र) संवर्धित एवं समृद्ध (महिमान्वित) होते हैं। 'भूः' है ऋगवेद की ऋचाँ; 'भुवः' है सामवेद के मन्त्र; 'स्वः' है यजुर्वेद के मन्त्र; किन्तु 'महः' है 'ब्रह्म'। ब्रह्म से ही ये समस्त वेद संवर्धित तथा समृद्ध (महिमान्वित) होते हैं। 'भूः' है प्राण-प्रधान वायु; 'भुवः' है अपान-निम्नतर वायु; 'स्वः' है व्यान-व्याप्त वायु; किन्तु 'महः' है अन्न। अन्न से ही ये सब वायु संवर्धित तथा समृद्ध होते हैं। ये चार हैं तथा चारो पुनः चतुर्विध हैं; 'उसके' नाम के चार 'विशेष शब्द' (व्याहतियाँ) हैं तथा पुनः प्रत्येक चतुर्विध हैं। जो इनको जानता है वह 'ब्रह्म' को जानता है; तथा उसी के लिए सभी देवगण बलि (हवि) लाते हैं।

॥ शब्दावली ॥

भूः - bhūḥ - Bhur

भुवः - bhuvaḥ - Bhuvar

सुवः - suvaḥ - Suvar

इति एताः तिस्रः - iti etāḥ tisraḥ - these are the three

वै व्याहृतयः - vai vyāhṛtayaḥ - Words of His naming

उ ह - u ha - verily

तासाम् एताम् - tāsām etām - to these

चतुर्थीम् - caturthīm - a fourth

महः इति - mahaḥ iti - which is Mahas

माहाचमस्यः - māhācamasyaḥ - the Rishi Mahachamasya

प्रवेदयते स्म - pravedayate sma - made known

तत् ब्रह्म - tat brahma - it is Brahman

सः आत्मा - saḥ ātmā - it is the Self

अन्याः देवताः - anyāḥ devatāḥ - and the other gods

अङ्गानि - aṅgāni - are his members

भूः इति वै - bhūḥ iti vai - Bhur

अयम् लोकः - ayam lokaḥ - it is this world

भुवः इति - bhuvaḥ iti - Suvar

अन्तरिक्षम् - antarikṣam - it is the sky

सुवः इति - suvaḥ iti - Suvar

महः इति - mahaḥ iti - but Mahas is

आदित्यः - ādityaḥ - the Sun

आदित्येन वाव - ādityena vāva - By the Sun, indeed

सर्वे लोकाः - sarve lokāḥ - all these worlds

महीयन्ते - mahīyante - increase and prosper

भूः इति वै - bhūḥ iti vai - Bhur

अग्निः - agniḥ - it is Fire

भुवः इति - bhuvaḥ iti - Bhuvar

वायुः - vāyuḥ - it is Air

सुवः इति - suvaḥ iti - Suvar

आदित्यः - ādityaḥ - it is the Sun

महः इति - mahaḥ iti - but Mahas is

चन्द्रमाः - candramāḥ - the Moon

चन्द्रमसा वाव - candramasā vāva - by the Moon indeed

सर्वाणि ज्योतींषि - sarvāṇi jyotīṁṣi - all these shining fires

महीयन्ते - mahīyante - increase and prosper

भूः इति वै - bhūḥ iti vai - bhur

ऋचः - ṛcaḥ - it is the hymns of the Rigveda

भुवः इति - bhuvaḥ iti - bhuvar

सामानि - sāmāni - it is the hymns of the Sama

सुवः इति - suvaḥ iti - Suvar

यजूंषि - yajūṁṣi - it is the hymns of the Yajur

महः इति - mahaḥ iti - but Mahas is

ब्रह्म - brahma - the Eternal

ब्रह्मणा वाव - brahmaṇā vāva - by the Eternal

सर्वे वेदाः - sarve vedāḥ - all these Vedas

महीयन्ते - mahīyante - increase and prosper

भूः इति वै - bhūḥ iti vai - Bhur

प्राणः - prāṇaḥ - it is the main breath

भुवः इति - bhuvaḥ iti - Bhuvar

अपानः - apānaḥ - it is the lower breath

सुवः इति - suvaḥ iti - Suvar

व्यानः - vyānaḥ - it is the breath pervasor

महः इति - mahaḥ iti - but Mahas is

अन्नम् - annam - food

अन्नेन वाव - annena vāva - by food

सर्वे प्राणाः - sarve prāṇāḥ - all these breaths

महीयन्ते - mahīyante - increase and prosper

ताः वै एताः - tāḥ vai etāḥ - these are

चतस्रः व्याहृतयः - catasraḥ vyāhṛtayaḥ - four Words of His naming

चतस्रः चतस्रः - catasraḥ catasraḥ - these are the four and each is four again

चतुर्धा - caturdhā - they are fourfold

यः ताः वेद - yaḥ tāḥ veda - who knoweth these

सः ब्रह्म वेद - saḥ brahma veda - he knoweth the Eternal

सर्वे देवाः - sarve devāāḥ - all the Gods

अस्मै - asmai - to him

बलिम् आवहन्ति - balim āvahanti - carry the offering


तैत्तिरीयोपनिषद्

शिक्षावल्ली

षष्ठोऽनुवाकः

स य एषोऽन्तरहृदय आकाशः। तस्मिन्नयं पुरुषो मनोमयः। अमृतो हिरण्मयः। अन्तरेण तालुके। य एष स्तन इवावलम्बते।सेन्द्रयोनिः। यत्रासौ केशान्तो विवर्तते। व्यपोह्य शीर्षकपाले। भूरित्यग्नौ प्रतितिष्ठति।भुव इति वायौ। सुवरित्यादित्ये। मह इति ब्रह्मणि। आप्नोति स्वाराज्यम्। आप्नोति मनसस्पतिम्‌। वाक्पतिश्चक्षुष्पतिः।श्रोत्रपतिर्विज्ञानपतिः। एतत्ततो भवति। आकाशशरीरं ब्रह्म। सत्यात्मप्राणारामं मनानन्दम्‌।शान्तिसमृद्धममृतम्। इति प्राचीनयोग्योपास्व॥

लिप्यन्तरणम्

sa ya eṣo'ntarahṛdaya ākāśaḥ | tasminnayaṁ puruṣo manomayaḥ| amṛto hiraṇmayaḥ | antareṇa tāluke | ya eṣa stana ivāvalambate |sendrayoniḥ | yatrāsau keśānto vivartate | vyapohya śīrṣakapāle | bhūrityagnau pratitiṣṭhati |bhuva iti vāyau | suvarityāditye | maha iti brahmaṇi | āpnoti svārājyam| āpnoti manasaspatim | vākpatiścakṣuṣpatiḥ |śrotrapatirvijñānapatiḥ | etattato bhavati | ākāśaśarīraṁ brahma | satyātmaprāṇārāmaṁ manāanandam |śāntisamṛddhamamṛtam| iti prācīnayogyopāsva ||

अन्वयः

अन्तर्हृदय यः एषः आकाशः तस्मिन् सः अयं मनोमयः अमृतः हिरण्मयः पुरुषः साक्षात्कर्तव्यः उपासितव्यः च । या नाडी सुषुम्ना नाम तालुके अन्तरेण यः एषः स्तनः इव अबलम्बते तस्य च अन्तरेण गता यत्र असौ केशान्तः विवर्तते तत्र शीर्षकपाले। व्यपोह्य विनिर्गता च सा इन्द्रयोनिः तया विनिष्क्रम्य विद्वान् अग्नौ भूः इति आदित्ये सुवः इति ब्रह्मणि महः इति च प्रतितिष्ठति ब्रह्मभूतः स्वाराज्यम् आप्नोति मनसस्पतिम् आप्नोति किं च वाक्पतिः चक्षुष्पतिः श्रोत्रपतिः विज्ञानपतिः च भवति । ततः एतत् आकाशशरीरं सत्यात्म -प्राणारामं मन -आनन्दं शान्तिसमृद्धम् अमृतं ब्रह्म भवति इति प्राचीनयोग्य उपास्व।

अन्वयलिप्यन्तरणम्

antarhṛdaya yaḥ eṣaḥ ākāśaḥ tasmin saḥ ayaṁ manomayaḥ amṛtaḥ hiraṇmayaḥ puruṣaḥ ( sākṣāatkartavyaḥ upāsitavyaḥ ca )| ( yā nāḍī suṣumnā nāma ) tāluke antareṇa yaḥ eṣaḥ stanaḥ iva abalambate ( tasya ca antareṇa gatā ) yatra asau keśāntaḥ vivartate ( tatra ) śīrṣakapāle| vyapohya ( vinirgatā ca ) sā indrayoniḥ ( tayā viniṣkramya vidvān ) agnau bhūḥ iti āditye suvaḥ iti brahmaṇi mahaḥ iti ( ca ) pratitiṣṭhati brahmabhūtaḥ svārājyam āpnoti manasaspatim āpnoti ( kiṁ ca ) vākpatiḥ cakṣuṣpatiḥ śrotrapatiḥ vijñānapatiḥ ( ca bhavati )| tataḥ etat ākāśaśarīraṁ satyātma -prāṇārāmaṁ mana -ānandaṁ śāntisamṛddham amṛtaṁ brahma bhavati iti prācīnayogya upāsva|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

षष्ठोऽनुवाकः

[ शिष्यं प्रति उपासनोपदेशः ]

अङ्गभूता विद्या प्रोक्ता, अथ तदङ्गिभूतां परविद्यामाह - स इति ।

स एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके ।

 य एष स्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले । 

भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ ॥१॥

सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्मप्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम् । इति प्राचीनयोग्योपास्स्व ॥२॥( वायावमृतमेकं च ॥)

य एष प्रसिद्धः अन्तर्हृदये आकाश:, तस्मिन् सोऽयं पुरुषः यो मह इत्येतस्याश्चतुर्थ्या व्याहृतेर्वाच्यः परमात्मा यस्याङ्गान्यन्या देवताः सन्निधत्ते सोऽयं मनोमयत्वादिधर्मविशिष्टः । मनोमय: - विशुद्धेन मनसा ग्राह्यः । अमृत: - जन्ममरणादिसांसारिकधर्मरहितः । हिरण्मयः कमनीयदिव्यविग्रहः । मनोमयत्वादिगुणविशिष्टतया सोऽयं पुरुषो हृदयाकाशे उपास्य इति यावत् । अथास्योपासकस्य ब्रह्मप्राप्तौ या गतिर्मार्गः स उच्यते - अन्तरेणेत्यादिना । अस्ति काचित् सृतिः सुषुम्णाख्या नाडी, या इन्द्रस्य - परमेश्वरस्य परमात्मनः योनिः - प्रापिका । प्रापकत्वाद्योनिरुच्यते । सेयं लक्ष्यते - अन्तरेण तालुके - तालुकयोरन्तरेण निर्गता, तथा तालुकयोरन्तरेण यः स्तन इव लम्बते मांसखण्ड: तस्मान्निर्गता, तथा यत्रासौ केशानामन्तो मूलं विवर्तते तत्र मूर्धप्रदेशे अभिसम्बद्धेत्येतत् व्यपोह्य शीर्षकपाले विनिर्गता । तयाऽयमुपासको विनिर्गतः अर्चिरादिना मार्गेण परं ब्रह्म प्राप्नोति । अस्योपासकस्यैतावान्विशेषः - यदेष व्याहृत्युपासकस्तत एव भूरित्येतत्प्रथमव्याहृत्युपासनमहिम्ना मुक्तिमार्गवशात्प्राप्तः अग्निलोके कञ्चित् कालं प्रतितिष्ठति । प्रथमव्याहृतावग्निदृष्टिर्ह्यनेन कृता, तथा द्वितीयायां वायुदृष्टिस्तृतीयायामादित्यदृष्टिः, ततोऽग्नेर्निर्गतो भुव इत्यनया व्याहृत्योपासितया वायौ वायुलोके । ततश्च सुवरित्यनयाऽदित्यलोके । तदिदमुच्यते - भूरित्यग्नौ प्रतितिष्ठति भुव इति वा सुवरित्यादित्ये इति । अथानेनैवातिवाहिकमार्गक्रमेण मह इत्येतस्या व्याहृतेर्वाच्यस्य परस्य ब्रह्मणो मनोमयत्वादिगुणविशिष्टस्योपासनात् परब्रह्मणि प्रतितिष्ठति । तदिदमाह - मह इति ब्रह्मणीति । स एष स्वाराज्यम् अकर्मवश्यतां प्राप्नोति । न च पुनरावर्तत इत्येतत् । यतोऽयमकर्मवश्यः, अत एवेन्द्रियवशगो न भवति । किन्तु मनःप्रभृतीनां पतिर्भवति । तत्तदिन्द्रियप्रकाश्यानामर्थानां तत्तदिन्द्रियनिरपेक्षं प्रकाशने समर्थो भवति । स्वसङ्कल्पायत्तसकलार्थप्रकाशो भवतीति यावत् । तदिदमुच्यते आप्नोति मनसस्पतिमिति । मनस्पतित्वमित्यर्थः । मानसवाचिकचाक्षुषश्रावणादिसकलविज्ञानानामेष प्रभविता भवति । ततो ब्रह्मप्राप्तेरेतच्च भवति आकाशशरीरं ब्रह्म - आसमन्तात् काशमानदिव्यशरीरम् असङ्कुचितज्ञानैकस्वरूपं च । ब्राह्मेण रूपेण परब्रह्मसाम्यं सम्पद्यत इति भावः । किञ्च - सत्यात्मप्राणारामं च भवति - सत्यमित्यविकृतमुच्यते, स्वरूपतः स्वभावतश्च यदविकृतं सर्वस्यात्मभूतं च सर्वप्राणनहेतुत्वात् प्राणभूतं च यत् परं ब्रह्म तदेकारामोऽयं मुक्तो भवति । मुक्तस्वरूपमिति विशेष्यमपेक्ष्य नपुंसकनिर्देशः, छान्दसो वा । मन आनन्दं च भवति मन:शब्दः सङ्कल्पपरः । सङ्कल्पमात्रसिद्धसर्वानन्दश्च भवतीति यावत् । कश्चिदाचार्य: प्राचीनयोग्यनामानं शिष्यमाह - हे प्राचीनयोग्य ! उक्तेन प्रकारेणोपास्व इति । अयमाचार्यवचनोपन्यास आदरार्थः ॥१-२॥

॥ इति षष्ठोऽनुवाकः

आङ्गल-अर्थः ॥

Lo this heaven of ether which is in the heart within, there dwelleth the Being who is all Mind, the radiant & golden Immortal. Between the two palates, this that hangeth down like the breast of a woman, is the womb of Indra; yea where the hair at its end whirleth round like an eddy, there it divideth the skull and pusheth through it. As Bhur He is established in Agni, as Bhuvar in Vayu, as Suvar in the Sun, as Mahas in the Eternal. He attaineth to the kingdom of Himself; He attaineth to be the Lord of Mind; He becometh Lord of Speech, Lord of Sight, Lord of Hearing, Lord of the Knowledge. Thereafter this too He becometh,-the Eternal whose body is all ethereal space, whose soul is Truth, whose bliss is in Mind, who taketh His ease in Prana, the Rich in Peace, the Immortal. As such, O son of the ancient Yoga, do thou adore Him.

॥ हिन्दी-अर्थः ॥

देखो, यह जो अन्तर्हदय में आकाशीय स्वर्ग है, वहाँ निवास करता है यह 'पुरुष' (आत्मसत्ता) जो मनोमय है, देदीप्यमान एवं स्वर्णिम (हिरण्मय) है, अमृतस्वरूप है। दोनों तालुओं के बीच यह जो स्त्री के स्तन जैसा लटक रहा है वह इन्द्र का उत्पत्ति स्थान (योनि) है। जहाँ केश अपने अन्तिम सिरे पर भँवर के समान कुन्तलित हो जाता है वही यह कपाल को विभाजित करके उसके बीच से निकल जाता है । 'भूः' के रूप में यह अग्नि में प्रतिष्ठित है; 'भुवः' के रूप में वायु में; 'सुवः' के रूप में आदित्य में;'महः' के रूप में शाश्वत 'ब्रह्म' में। वह 'स्वराज्य' को प्राप्त करता है। वह 'मन' के आधिपत्य को प्राप्त करता है; वह 'वाक्' का अधिपति, 'चक्षु' का अधिपति, 'श्रोत्र' का अधिपति, 'विज्ञान' का अधिपति बन जाता है। इसके पश्चात् 'वह' यह 'ब्रह्म' भी बन जाता है जिसका शरीर है समस्त आकाश, जिसका आत्मा है 'सत्य', जिसका आनन्द 'मन' में है, जो 'प्राण' में अपना सुख-आराम प्राप्त करता है, जो 'शान्ति-समृद्ध है 'अमृतमय' है। हे प्राचीन योग के पुत्र, इस रूप में तुम 'उसकी' उपासना करना।

शब्दावली

एषः आकाशः - eṣaḥ ākāśaḥ - this heaven of ether

यः अन्तर्हृदय - yaḥ antarhṛdaya - which is in the heart within

तस्मिन् - tasmin - there

सः अयम् पुरुषः - saḥ ayam puruṣaḥ - the Being that is

मनोमयः - manomayaḥ - is all Mind

हिरण्मयः - hiraṇmayaḥ - the radiant & golden

अमृतः - amṛtaḥ - Immortal

अन्तरेण तालुके - antareṇa tāluke - between the two palates

यः एषः - yaḥ eṣaḥ - this that

स्तनः इव - stanaḥ iva - like the breast of a woman

अबलम्बते - abalambate - hangeth down

सा इन्द्रयनिः - sā indrayaniḥ - is the womb of Indra

यत्र - yatra - where

असौ - asau - this

केशान्तः - keśāntaḥ - the hair at its end

विवर्तते - vivartate - whirleth round like an eddy

शीर्षकपाले व्यपोह्य - śīrṣakapāle vyapohya - there it divideth the skull and pusheth through it

भूः इति - bhūḥ iti - as Bhu

अग्नौ प्रतितिष्ठति - agnau pratitiṣṭhati - He is established in Agni

भुवः इति - bhuvaḥ iti - as Bhuva

वायौ - vāyau - in Vayu

सुवः इति - suvaḥ iti - as Suva

आदित्ये - āditye - in the Sun

महः इति - mahaḥ iti - as Mahas

ब्रह्मणि - brahmaṇi - in the Eternal

स्वाराज्यम् - svārājyam - to the kingdom of Himself

आप्नोति - āpnoti - He attaineth

वाक्पतिः - vākpatiḥ - He becometh Lord of Speech

चक्षुष्पतिः - cakṣuṣpatiḥ - Lord of Sight

श्रोत्रपतिः - śrotrapatiḥ - Lord of Hearing

विज्ञानपतिः - vijñānapatiḥ - Lord of the Knowledge

एतत् ब्रह्म - etat brahma - the Eternal

आकाशशरीरम् - ākāśaśarīram - whose body is all ethereal space

सत्यात्मप्राणारामम् - satyātmaprāṇārāmam - whose soul is Truth and who taketh His ease in Prana

मन आनन्दम् - mana ānandam - whose bliss is in Mind

शान्तिसमृद्धम् - śāntisamṛddham - Rich in Peace

अमृतम् - amṛtam - the Immortal Self

भवति इति - bhavati iti - thereafter this too He becometh

प्राचीनयोग्य - prācīnayogya - O son of the ancient Yoga !

उपास्व - upāsva - do thou adore Him


तैत्तिरीयोपनिषद्

शिक्षावल्ली

सप्तमोऽनुवाकः

पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशः अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि। आप ओषधयो वनस्पतय आकाश आत्मा। इत्यधिभूतम्‌ ऽथाध्यात्मम्‌। प्राणो व्यानोऽपान उदानः समानः। चक्षुः श्रोत्रं मनो वाक्त्वक्। चर्मं मांसं स्नावास्थि मज्जा। एतदधिविधायर्षिरवोचत्‌। पाङ्क्तं वा इदं सर्वम्‌। पाङ्क्तेनैव पाङ्क्तं स्पृणोतीति॥

लिप्यन्तरणम्

pṛthivyantarikṣaṁ dyaurdiśo'vāntaradiśaḥ agnirvāyurādityaścandramā nakṣatrāṇi| āpa oṣadhayo vanaspataya ākāśa ātmā | ityadhibhūtam 'thādhyātmam | prāṇo vyāno'pāna udānaḥ samānaḥ| cakṣuḥ śrotraṁ mano vāktvak| carmaṁ māṁsaṁ snāvāsthi majjā | etadadhividhāyarṣiravocat | pāṅktaṁ vā idaṁ sarvam | pāṅktenaiva pāṅktaṁ spṛṇotīti ||

अन्वयः

अधिभूतं पृथिवी अन्तरीक्षम्। द्यौः दिशः अवान्तरदिशा। अग्निः वायुः आदित्यः चन्द्रमाः नक्षत्राणि आपः ओसधयः वनस्पतयः अकाशः आत्मा इति ध्यायेत् । अथ अध्यात्मम् - प्राणः व्यानः अपानः उदानः समानः चक्षुः श्रोत्रं मनः वाक् त्वक् चर्म मांसम् स्नावा अस्थि मज्जा इति ध्यायेत् ऋषिः एतत् अधिविधाय पाङ्क्तं वै इदं सर्वं पाङ्क्तेन एव पाङ्क्तं स्पृणोति इति अवोचत्।

अन्वयलिप्यन्तरणम्

adhibhūtaṁ pṛthivī antarīkṣam| dyauḥ diśaḥ avāntaradiśā| agniḥ vāyuḥ ādityaḥ candramāḥ nakṣatrāṇi āpaḥ osadhayaḥ vanaspatayaḥ akāśaḥ ātmā iti ( dhyāyet )| atha adhyātmam - prāṇaḥ vyānaḥ apānaḥ udānaḥ samānaḥ cakṣuḥ śrotraṁ manaḥ vāk tvak carma māṁsam snāvā asthi majjā ( iti dhyāyet ) ṛṣiḥ etat adhividhāya pāṅktaṁ vai idaṁ sarvaṁ pāṅktena eva pāṅktaṁ spṛṇoti iti avocat|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

सप्तमोऽनुवाकः

[ पाङ्क्तोपासनम् ]

अथ पाङ्क्तोपासनमुपदिश्यते - पृथिव्यन्तरिक्षमित्यादिना ।

पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि ।

आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । अथाध्यात्मम् ।

प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक् त्वक् ।

चर्म मांसं स्नाय्वस्थि मज्जा । एतदधिविधाय ऋषिरवोचत् ।

पाङ्कं वा इदं सर्वम् ॥१॥ पाङ्क्तेनैव पाङ्कं स्पृणोतीति (सर्वमेकंच)

अधिभूतं पञ्चकत्रयमध्यात्मं च पञ्चकत्रयम् । तत्र प्रत्येकं पञ्चत्वसङ्ख्यासाम्यात् पाङ्क्तदृष्टिर्विधीयते - पाइङ्क्तं वा इदं सर्वमिति । शारीरमान्तरं प्राणाद्यध्यात्ममुच्यते बाह्यं पृथिव्याद्यधिभूतमुच्यते । तत्र पृथिव्यादि दिगन्तमेकं पञ्चकम्, अग्न्यादि नक्षत्रान्तमपरं पञ्चकम्, अबाद्यात्मान्तं तृतीयं पञ्चकम् ( आत्माऽत्र विराड्देह: ) । तथा प्राणादिपञ्चकम्, चक्षुरादिपञ्चकम्, चर्मादिपञ्चकं चेत्यध्यात्मम् । एतदधिविधाय एतदधिकृत्य कश्चिदृषिरवोचत् पाङ्क्ङ्कं वा इदं सर्वमिति । पङ्क्तिच्छन्दसः पञ्चाक्षरत्वेन पञ्चत्वसङ्ख्यासाम्यात् पञ्चकेऽस्मिन् पाङ्क्तदृष्टिर्विधेयेति यावत् । पाङ्क्तेन - पाङ्क्तदृष्ट्योपास्यमानेनानेन पाङ्क्तं पृथिव्यादि स्पृणोति - पालयति, साम्राज्यं लभत इति भावः ॥१॥

॥ इति सप्तमोऽनुवाकः

॥ आङ्गल-अर्थः ॥

Earth, sky, heaven, the quarters and the lesser quarters; Fire, Air, Sun, Moon and the Constellations; Waters, herbs of healing, trees of the forest, ether and the Self in all; these three concerning this outer creation. Then concerning the Self. The main breath, the middle breath, the nether breath, the upper breath and the breath pervasor; eye, ear, mind, speech and the skin; hide, flesh, muscle, bone and marrow. Thus the Rishi divided them and said, “In sets of five is this universe; five and five with five and five He relateth.”

॥ हिन्दी-अर्थः ॥

पृथ्वि, अन्तरिक्षः द्युलोक, दिशाएँ तथा अवान्तर दिशाएँ; अग्नि, वायु सूर्य, चन्द्रमा तथा विभिन्न नक्षत्र; जल (आपः), ओषधियाँ, वनस्पतियाँ (वन के वृक्षादि) आकाश तथा सर्वान्तरात्मा-ये तीनों हैं बाह्य सृष्टि-अधिभूत सम्बन्धी। तत्पश्चात् अध्यात्म विषयक (ज्ञान)। मुख्य वायु (प्राण), मध्य वायु (व्यान), निम्न वायु (अपान) ऊर्ध्वतर वायु (उदान) तथा सर्वत्र व्याप्त वायु (समान) चक्षु, श्रोत्र, मन, वाक् तथा त्वचा; चर्म, मांस, स्नायुः अस्थि तथा मज्जा। इस प्रकार इनका विभाजन करके ऋषि ने कहा- ''यह सम्पूर्ण विश्व पाँच-पाँच के जोड़ों में है। 'वह' पाँच और पाँच को पाँच और पाँच से सम्बद्ध करता है।''

शब्दावली

अधिभूतम् - adhibhūtam -

पृथिवी - pṛthivī - earth

अन्तरीक्षम् - antarīkṣam - sky

द्यौः - dyauḥ - heaven

दिशः - diśaḥ - the quarters

अवान्तरदिशा - avāntaradiśā - the lesser quarters

अग्निः - agniḥ - Fire

वायुः - vāyuḥ - Air

आदित्यः - ādityaḥ - Sun

चन्द्रमाः - candramāḥ - Moon

नक्षत्राणि - nakṣatrāṇi - the Constellations

आपः - āpaḥ - Waters

ओषधयः - oṣadhayaḥ - herbs of healing

वनस्पतयः - vanaspatayaḥ - trees of the forest

अकाशः - akāśaḥ - ether

आत्मा - ātmā - the Self in all

इति अधिभूतम् - iti adhibhūtam - these are concerning this outer creation.

अथ अध्यात्मम् - atha adhyātmam - Then concerning the Self

प्राणः - prāṇaḥ - the main breath

व्यानः - vyānaḥ - the middle breath

अपानः - apānaḥ - the nether breath

उदानः - udānaḥ - the upper breath

समानः - samānaḥ - the breath pervasor

चक्षुः - cakṣuḥ - eye

श्रोत्रम् - śrotram - ear

मनः - manaḥ - mind

वाक् - vāk - speech

त्वक् - tvak - the skin

चर्म - carma - hide

मांसम् - māṁsam - flesh

स्नावा - snāvā - muscle

अस्थि - asthi - bone

मज्जा - majjā - marrow

इति ऋषिः - iti ṛṣiḥ - thus the Rishi

एतत् अधिविधाय - etat adhividhāya - having divided them

अवोचत् - avocat - in sets of five

पाङ्क्तम् वै - pāṅktam vai - in sets of five

इदम् सर्वम् - idam sarvam - is this universe

पाङ्क्तेन एव - pāṅktena eva - five and five with five

पाङ्क्तम् - pāṅktam - five

स्पृणोति इति - spṛṇoti iti - He relate

तैत्तिरीयोपनिषद्

शिक्षावल्ली

अष्टमोऽनुवाकः

ओमिति ब्रह्म। ओमितीदं सर्वम्‌।ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति।ओमिति सामानि गायन्ति। ओं शोमिति शस्त्राणि शंसन्ति।ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति। ओमिति ब्रह्मा प्रसौति। ओमित्यग्निहोत्रमनुजानाति।ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति।ब्रह्मैवोपाप्नोति॥

लिप्यन्तरणम्

omiti brahma | omitīdaṁ sarvam |omityetadanukṛtirha sma vā apyo śrāvayetyāśrāvayanti |omiti sāmāni gāyanti | oṁ śomiti śastrāṇi śaṁsanti |omityadhvaryuḥ pratigaraṁ pratigṛṇāti | omiti brahmā prasauti | omityagnihotramanujānāti |omiti brāhmaṇaḥ pravakṣyannāha brahmopāpnavānīti |brahmaivopāpnoti ||

अन्वयः

ओं इति ब्रह्म उपासीत ओं इति इदं सर्वं ओं इति एतत् ह स्म वै अपि अनुकृतिः ओ ओं श्रावय इति आश्रावयन्ति ओं इति सामानि गायन्ति ओं शों इति शस्त्राणि शंसन्ति। अध्वर्युः ओं इति प्रतिगरम् प्रतिगृणाति ब्रह्मा ओं इति प्रसौति यजमानः ओं इति अग्निहोत्रम् अनुजानाति ब्राह्मणः ब्रह्म उपाप्नवानि इति प्रवक्ष्यन् ओं इति आह ब्रह्म् उपाप्नोति एव।

अन्वयलिप्यन्तरणम्

oṁ iti brahma (upāsīta) oṁ iti idaṁ sarvaṁ oṁ iti etat ha sma vai api anukṛtiḥ o oṁ śrāvaya iti āśrāvayanti oṁ iti sāmāni gāyantio oṁ śoṁ iti śastrāṇi śaṁsanti| adhvaryuḥ oṁ iti pratigaram pratigṛṇāti brahmā oṁ iti prasauti (yajamānaḥ)oṁ iti agnihotram anujānāti brāahmaṇaḥ brahma upāpnavāni iti pravakṣyan oṁ iti āha brahm upāpnoti eva|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

अष्टमोऽनुवाकः

[प्रणवप्रशंसा ]

परब्रह्मोपसनालम्बनभूतं प्रणवं स्तौति - ओमितीति ।

ओमिति ब्रह्म । ओमितीदं सर्वम् । ओमित्येतदनुकृतिर्ह स्म वा अप्यों श्रावयेत्या श्रावयन्ति ।

ओमिति सामानि गायन्ति । ओं शमिति शस्त्राणि शंसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति 

ओमिति ब्रह्मा प्रस्तौति । ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण: प्रवक्ष्यन्नाह ब्रह्मोपानवानीति ।

ब्रह्मैवाप्राप्नोति ॥१॥

इतिशब्दः शब्दस्वरूपपरिच्छेदक: । ओमित्येतत् प्रणवस्वरूपं ब्रह्मैव वाचको वाच्याभेदारोपेण स्तूयते । ओमितीदं सर्वम् - प्रणव एव सर्वमिदं वाड्मयम् । सकलशब्दानां वेदप्रभवत्वात् वेदस्य चैतन्मूलत्वात् । सर्वमिदं वाच्यं प्रणव एवेति वा स्तूयते । यतः प्रणवो ब्रह्मैव अत एव ब्रह्मप्रभवमिदमखिलं प्रणव एवेति स्तूयते । ओमित्येतदनुकृतिः अनुकृतिरनुकरणमनुज्ञाक्षरम् । हस्म वा इति प्रसिद्धौ । कार्यमात्रमनुजानन्नोमिति ह्युच्चारयति । अपि - अपि च । ओं श्रावयेति प्रेषपूर्वकमाश्रावयन्ति । ओमित्युपक्रम्यैवोद्गातारः सामानि गायन्ति । ओं शमित्युपक्रम्यैव शस्त्राणि शंसन्ति । गीतिरहिता ऋचः शस्त्राण्युच्यन्ते । अध्वर्युः ओमित्येव प्रतिगरं - प्रतिशंसनं प्रतिगृणाति प्रतिशंसति । होतरि शंसति तच्छंसनमनु अध्वर्युः प्रतिशंसति ओमिति । ब्रह्मा ओमिति हि प्रस्तौति - अनुजानाति । ओमिति अग्निहोत्रमनुजानाति - जुहोमीत्युक्ते ओमित्यनुजानाति । प्रवक्ष्यन् वेदप्रवचनं करिष्यन् प्रथममाह ओमिति ब्रह्म वेदम् अध्ययनमुखेनोपाप्नवानि इति प्रवृत्त:, ओमित्येतदुच्चारणपूर्वकमेवाद्यापि प्राप्नोति । तदेवं वैदिकक्रियामात्रस्य प्रणवपूर्वकत्वेन प्रणवस्यैतावान् महिमा, सोऽयं प्रणव उपास्य इति भावः ॥१॥

इत्यष्टमोऽनुवाकः

॥ आङ्गल-अर्थः ॥

OM is the Eternal, OM is all this universe. OM is the syllable of assent: saying OM! let us hear, they begin the citation. With OM they sing the hymns of the Sama; with OM SHOM they pronounce the Shastra. With OM the priest officiating at the sacrifice sayeth the response. With OM Brahma beginneth creation (or With OM the chief priest giveth sanction). With OM one sanctioneth the burnt offering. With OM the Brahmin ere he expound the Knowledge, crieth “May I attain the Eternal.” The Eternal verily he attaineth.

हिन्दी-अर्थः

'ओम्' ही ब्रह्म है, 'ओम्' ही यह समस्त विश्व है। 'ओम्' ही अनुमोदन सूचक अक्षर है 'ओम्' कहकर ही वे कहते हैं, अब हम सुनें तथा वे 'ओम्' कहकर ही प्रवचन का आरम्भ करते हैं। 'ओम्' से ही सामवेद की ऋचाओं का गान करते हैं; 'ओम्' 'शोम्' कह कर ही वे शास्त्रों का उच्चार करते है। 'ओम्' से यज्ञ का होता (अध्वर्यु) प्रत्युत्तर देता है। 'ओम्' से ब्रह्मा सृष्टि का आरम्भ करते हैं (अथवा 'ओम्' से मुख्य होता (ब्रह्मा) अनुमति देता है।) 'ओम्' से ही अग्निहोत्र की अनुमति दी जाती है। ज्ञान की व्याख्या करने के पूर्व ब्राह्मण 'ओम्' का उच्चार करके कहता है- ''मैं ब्रह्म को प्राप्त करूँ।'' वास्तव में वह 'ब्रह्म' को प्राप्त कर लेता है।

शब्दावली

ओं इति ब्र - oṁ iti brahma - OM is the Eternal

ओं इति - oṁ iti - OM is

इदम् सर्वम् - idam sarvam - all this universe

ओं इति अपि - oṁ iti api - OM is also

अनुकृतिः - anukṛtiḥ - the syllable of assent

एतत् ह स्म वै ओ - etat ha sma vai o - saying OM!

ओं श्रावय - oṁ śrāvaya - let us hear OM!

इति आश्रावयन्ति - iti āśrāvayanti - they begin the citation

ओं इति - oṁ iti - with OM

सामानि - sāmāni - the hymns of the Sama

गायन्ति - gāyanti - they sing

ओं शोम् इति - oṁ śom iti - with OM SHOM

शस्त्राणि - śastrāṇi - the Shastras

शंसन्ति - śaṁsanti - they pronounce

ओं इति - oṁ iti - OM

अध्वर्युः - adhvaryuḥ - the priest officiating at the sacrifice

प्रतिगरम् प्रतिगृणाति - pratigaram pratigṛṇāti - sayeth the response

ओं इति - oṁ iti - with OM

ब्रह्मा - brahmā - Brahma

प्रसौति - prasauti - beginneth creation (or With OM the chief priest giveth sanction).

ओं इति - oṁ iti - with OM

अग्निहोत्रम् - agnihotram - the burnt offering

अनुजानाति - anujānāti - one sanctioneth

ब्राह्मणः - brāahmaṇaḥ - the Brahmin

आह - āha - crieth

ब्रह्म उपाप्नवानि इति - brahma upāpnavāni iti - “May I attain the Eternal”

ब्रह्म उपाप्नोति एव - brahma upāpnoti eva - the Eternal verily he attaineth

तैत्तिरीयोपनिषद्

शिक्षावल्ली

नवमोऽनुवाकः

ऋतं च स्वाध्यायप्रवचने च।सत्यं च स्वाध्यायप्रवचने च।तपश्च स्वाध्यायप्रवचने च। दमश्च स्वाध्यायप्रवचने च।शमश्च स्वाध्यायप्रवचने च। अग्नयश्च स्वाध्यायप्रवचने च। अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवचने च मानुषं च स्वाध्यायप्रवचने च।प्रजा च स्वाध्यायप्रवचने च।प्रजनश्च स्वाध्यायप्रवचने च।प्रजातिश्च स्वाध्यायप्रवचने च।सत्यमिति सत्यवचा राथीतरः।तप इति तपोनित्यः पौरुशिष्टिः।स्वाध्यायप्रवचने एवेति नाको मौद्‌गल्यः।तद्धि तपस्तद्धि तपः।

लिप्यन्तरणम्

ṛtaṁ ca svādhyāyapravacane ca |satyaṁ ca svādhyāyapravacane ca |tapaśca svādhyāyapravacane ca | damaśca svādhyāyapravacane ca |śamaśca svādhyāyapravacane ca| agnayaśca svādhyāyapravacane ca | agnihotraṁ ca svādhyāyapravacane ca| atithayaśca svādhyāyapravacane ca mānuṣaṁ ca svādhyāyapravacane ca prajā ca svādhyāyapravacane ca prajanaśca svādhyāyapravacane ca prajātiśca svādhyāyapravacane ca |satyamiti satyavacā rāthītaraḥ |tapa iti taponityaḥ pauruśiṣṭiḥ |svādhyāyapravacane eveti nāko maudgalyaḥ |taddhi tapastaddhi tapaḥ|

अन्वयः

ऋतं च स्वाध्यायप्रवचने च।सत्यं च स्वाध्यायप्रवचने च।तपः च स्वाध्यायप्रवचने च। दमः च स्वाध्यायप्रवचने च।शमः च स्वाध्यायप्रवचने च। अग्नयः च स्वाध्यायप्रवचने च। अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयः च स्वाध्यायप्रवचने च। मानुषं च स्वाध्यायप्रवचने च।प्रजा च स्वाध्यायप्रवचने च। प्रजनः च स्वाध्यायप्रवचने च। प्रजातिः च स्वाध्यायप्रवचने च अनुष्ठेयानि सत्यम् एव अनुष्ठेयं इति सत्यवचाः राथीतरः मन्यते तपः एव अनुष्ठेयं इति तपोनित्यः पौरुशिष्टिः मन्यते स्वाधायप्रवचने एव अनुष्ठातव्ये इति नाकः मौद्गल्यः मन्यते । तत् हि तपः। तत् हि तपः। स्वाध्यायप्रवचने।

अन्वयलिप्यन्तरणम्

ṛtaṁ ca svādhyāyapravacane ca |satyaṁ ca svādhyāyapravacane ca |tapaḥ ca svādhyāyapravacane ca | damaḥ ca svādhyāyapravacane ca |śamaḥ ca svādhyāyapravacane ca| agnayaḥ ca svādhyāyapravacane ca | agnihotraṁ ca svādhyāyapravacane ca| atithayaḥ ca svādhyāyapravacane ca| mānuṣaṁ ca svādhyāyapravacane ca prajā ca svādhyāyapravacane ca | prajanaḥ ca svādhyāyapravacane ca | prajātiḥ ca svādhyāyapravacane ca ( anuṣṭheyāni satyam ( eva anuṣṭheyaṁ ) iti satyavacāḥ rāthītaraḥ ( manyate ) tapaḥ ( eva anuṣṭheyaṁ ) iti taponityaḥ pauruśiṣṭiḥ ( manyate ) svādhāyapravacane eva ( anuṣṭhātavye ) iti nākaḥ maudgalyaḥ ( manyate )| tat hi tapaḥ | tat hi tapaḥ| svādhyāyapravacane|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

नवमोऽनुवाकः

[ स्वाध्यायप्रवचनादिविद्याङ्गकर्म

विविदिषोरपि कर्मणामावश्यकतां ज्ञापयन् कर्मणामवश्यानुष्ठेयतामाह - ऋतमित्यादिना ।

ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च ॥१॥ अतिथयश्च स्वाध्यायप्रवचने च । मानुष्यं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥

( प्रजाच स्वाध्यायप्रवचने च षट् च ) ।

ऋतम् - सूनृतवचनम्, स्वाध्यायप्रवचने अध्ययनाध्यापने, इत्येतान्यनुष्ठेयानि । सत्यम् - यथादृष्टार्थं भूतहितवचनम्, समदर्शनं वा । तथा च वचनम् - 'ऋतं च सूनृता वाणी सत्यं तु समदर्शनम्' (भागवतम् - ११.१९.३८) इति । ऋतं सत्यं तपः अन्यच्च वक्ष्यमाणमनुतिष्ठता स्वाध्यायप्रवचने न त्याज्ये इत्येदर्थज्ञापनाय प्रत्येकं सत्यादिभिः सह स्वाध्यायप्रवचनयोर्निर्देशः । तपः - कृच्छ्रचान्द्रायणादिलक्षणम्, दमः - बाह्यकरणजयः, शमः अन्तःकरणजयः संपाद्यः । अग्नयः आधातव्याः । अग्निहोत्रं कार्यम् । अतिथयः सत्कार्याः । मानुषम् - भृत्यबन्धुजनपोषणादिलक्षणं कर्म यथासंभवमनुष्ठेयम् । प्रजा धर्मप्रजा सम्पाद्या, तदर्थं प्रजननम् - ऋतौ भार्यागमनं कार्यम् । प्रजातिः प्रकर्षेण जातिर्जननम् - पौत्रादिसन्तानसम्पादनं कार्यम् । सर्वमिदमाश्रमाङ्गं कर्म यथाधिकारं स्वाध्यायप्रवचनाभ्यां सहैवानुष्ठेयम् । तथाभूतस्यैव विद्याभिमुख्यौपयिकत्वात् । अत्र सत्यवचा राथीतरो नाम ऋषिः सत्यमेवैषु प्रधानमित्याह । तपोनित्यः पौरुशिष्टिस्तप एव प्रधानमाह । नाको मौद्गल्यः स्वाध्यायप्रवचने एव प्रधाने इत्याह । तदेव - स्वाध्यायप्रवचनमेव हि तप इति स एव नाको मौद्गल्यो मन्यते । आदराद् द्विर्वचनम् । अत्र अनुष्ठेयतया निर्दिष्टेषु ऋतादिप्रजात्यन्तेषु सत्यतपःस्वाध्याय- प्रवचनानामार्षाभिमतप्राधान्यपक्षनिरूपणमितरापेक्षया तेषां प्राधान्यज्ञापनाय ॥१॥

॥ इति नवमोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

Righteousness with the study & teaching of Veda; Truth with the study and teaching of Veda; askesis with the study and teaching of Veda; self-mastery with the study and teaching of Veda. Peace of soul with the study and teaching of Veda. The household fires with the study and teaching of Veda. The burnt offering with the study and teaching of Veda. Progeny with the study and teaching of Veda. Act of procreation with the study and teaching of Veda. Children of thy children with the study and teaching of Veda- these duties. “Truth is first” said the truth speaker, the Rishi son of Rathitar. “Askesis is first” said the constant in austerity, the Rishi son of Purushishta. “Study and teaching of Veda is first” said Naka son of Mudgala. For this too is austerity and this too is askesis.

॥ हिन्दी-अर्थः ॥

वेद के स्वाध्याय एवं प्रवचन के साथ सत्याचरण-ऋतम् हो; वेद के स्वाध्याय एवं प्रवचन के साथ सत्य हो; वेद के स्वाध्याय एवं प्रवचन के साथ तपश्चर्या हो; वेद के स्वाध्याय एवं प्रवचन के साथ आत्म-प्रभुत्व (दम) हो; वेद के स्वाध्याय एवं प्रवचन के साथ आत्म-शान्ति (शम) हो; वेद के स्वाध्याय एवं प्रवचन के साथ गृहस्थस्य की अग्नियाँ हो; वेद के स्वाध्याय एवं प्रवचन के साथ अग्निहोत्र हो; (वेद के स्वाध्याय एवं प्रवचन के साथ अतिथि-सेवा हो; वेद के स्वाध्याय एवं प्रवचन के साथ मनुष्यत्व हो वेद के स्वाध्याय एवं प्रवचन के साथ सन्तति (प्रजा) हो; वेद के स्वाध्याय एवं प्रवचन के साथ प्रजनन का कार्य हो, वेद के स्वाध्याय एवं प्रवचन के साथ पुत्रों के पुत्र (प्रजाति) हों, -ये कर्तव्य हैं। ''सत्य सर्वप्रथम है" सत्यवादी ऋषि राथीतर (रथीतर के पुत्र) ने कहा। ''तप सर्वप्रथम है'' नित्य तपोनिष्ठ ऋषि पौरुशिष्टि (पुरुशिष्ट के पुत्र) ने कहा। "वेदों का स्वाध्याय एवं प्रवचन सर्वप्रथम है" मुद्गल पुत्र नाक ऋषि ने कहा। कारण, यह भी तपस्या है तथा यह भी तप है। "यह अंश मूलपाठ में है किन्तु श्रीअरविन्द के अनुवाद में नहीं है।-अनु.

शब्दावली

ऋतम् - ṛtam ca - righteousness

स्वाध्यायप्रवचने च - svādhyāyapravacane ca - with the study & teaching of Veda

सत्यम् च - satyam ca - truth

स्वाध्यायप्रवचने च - svādhyāyapravacane ca - with the study & teaching of Veda

तपः च - tapaḥ ca - askesis

स्वाध्यायप्रवचने च - svādhyāyapravacane ca - with the study & teaching of Veda

दमः च - damaḥ ca - self-mastery

स्वाध्यायप्रवचने च - svādhyāyapravacane ca - with the study & teaching of Veda

शमः च - śamaḥ ca - peace of soul

स्वाध्यायप्रवचने च - svādhyāyapravacane ca - with the study & teaching of Veda

अग्नयः च - agnayaḥ ca - the household fires

स्वाध्यायप्रवचने च - svādhyāyapravacane ca - with the study & teaching of Veda

अग्निहोत्रम् च - agnihotram ca - the burnt offering

स्वाध्यायप्रवचने च - svādhyāyapravacane ca - with the study & teaching of Veda

अतिथयः च - atithayaḥ ca - guests

स्वाध्यायप्रवचने च - svādhyāyapravacane ca - with the study & teaching of Veda

मानुषं च - mānuṣaṁ ca - man

स्वाध्यायप्रवचने च - svādhyāyapravacane ca - with the study & teaching of Veda

प्रजा च - prajā ca - progeny

स्वाध्यायप्रवचने - svādhyāyapravacane - with the study & teaching of Veda

प्रजनः च - prajanaḥ ca - act of procreation

स्वाध्यायप्रवचने च - svādhyāyapravacane ca - with the study & teaching of Veda

प्रजातिः च - prajātiḥ ca - children of children

स्वाध्यायप्रवचने च - svādhyāyapravacane ca - with the study & teaching of Veda

सत्यम् इति - satyam iti - thruth is first

सत्यवचाः राथीतरः - satyavacāḥ rāthītaraḥ - thus said the truth speaker, the Rishi son of Rathitar

तपः इति - tapaḥ iti - Askesis is first

तपोनित्यः पौरुशिष्टिः - taponityaḥ pauruśiṣṭiḥ - said the constant in austerity, the Rishi son of Purushishta

स्वाधायप्रवचने इति - svādhāyapravacane iti - study and teaching of Veda is first

नाकः मौद्गल्यः - nākaḥ maudgalyaḥ - said Naka son of Mudgala

तत् हि तपः - tat hi tapaḥ - for this too is austerity

तत् हि तपः - tat hi tapaḥ - for this too is austerity

तैत्तिरीयोपनिषद्

शिक्षावल्ली

दशमोऽनुवाकः

अहं वृक्षस्य रेरिवा। कीर्तिः पृष्ठं गिरेरिव।ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि। द्रविणं सवर्चसम्‌। सुमेधा अमृतोक्षितः। इति त्रिशङ्कोर्वेदानुवचनम्।

लिप्यन्तरणम्  ॥

ahaṁ vṛkṣasya rerivā | kīrtiḥ pṛṣṭhaṁ gireriva |ūrdhvapavitro vājinīva svamṛtamasmi | draviṇaṁ savarcasam | sumedhā amṛtokṣitaḥ | iti triśaṅkorvedānuvacanam|

अन्वयः

अहं वृक्षस्य रेरिवा मम कीर्तिः गिरेः पृष्ठम् इव उच्छ्रिता अहं ऊर्ध्वपवित्रः वाजिनी इव सु - अमृतं सवर्चसं द्रविणं सुमेधाः अमृतोक्षितः च अस्मि। इति त्रिशङ्कोः वेदानुवचनम्।

अन्वयलिप्यन्तरणम्

ahaṁ vṛkṣasya rerivā mama kīrtiḥ gireḥ pṛṣṭham iva ( ucchritā ) ( ahaṁ ) ūrdhvapavitraḥ vājinī iva su - amṛtaṁ savarcasaṁ draviṇaṁ sumedhāḥ amṛtokṣitaḥ ( ca ) asmi| iti triśaṅkoḥ vedānuvacanam|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

दशमोऽनुवाकः

[ विद्याङ्गमन्त्रः ]

अथ विविदिषुणा विद्यासिद्ध्यर्थं जप्यं मन्त्रमाह - अहमित्यादिना । 

अहं वृक्षस्य रेरिवा कीर्तिः पृष्ठंगिरेरिव । ऊर्ध्वप्रवित्रो वाजिनीव स्वमृतमस्मि ।

द्रविणं सुवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥१॥(अहं षट् )

अहं वृक्षस्य रेरिवा- छेद्यस्वभावस्य शाखोपशाखासहस्रसङ्कुलस्याहङ्काराख्य- संसारतरोः क्षपयिता, समुच्छिन्नदेहात्माभिमान इति यावत् । मम कीर्तिर्विज्ञानजनिता गिरेः पृष्ठवदत्युन्नता । समधिककीर्तिशाल्यहमिति यावत् । यद्वा - देहो ह्येष वृक्ष इव छेद्यस्वभावः, पामरा हि वृक्षेऽस्मिन्निमग्नमात्मानं वृक्षसधर्माणं पश्यन्तो वृद्धिह्रासादिभिरुपश्लिष्टं पश्यन्ति, नाहं तथा मन्ये, किन्तु वृक्षस्यास्य रेरिवा - प्रेरकः, जडोऽयं वृक्षो देहः, अजडेन मयाऽधिष्ठात्रा चेष्टते । अजडतामेव द्रढयति कीर्तिः पृष्ठं गिरेरिव कीर्तिः दीप्तिः सा च नैसर्गिकचैतन्यज्योतिषः, सेयं दीप्ति: गिरेः पृष्ठमिव - अप्रकम्प्या समधिकोच्छ्राया च । देहोऽयं मलमयः केवलमपवित्रः। अहं तु - ऊर्ध्वपवित्रः - इतरेभ्यः पवित्रेभ्य ऊर्ध्वं वर्तमानः पवित्रः । पवित्रतम इति यावत् । न हि ज्ञानघनादन्यत् पवित्रम् । अविजानतां स्वात्मज्योति: पवित्रतापादनाय जडवस्त्वन्तरान्वेषणम् । न केवलं पवित्रतमत्वम्, किन्तु भोग्यतमता च, मलमयं हि देहाख्यं हेयद्रव्यं किमपि, अहं तु वाजिनीव स्वमृतमस्मि । वाजिनि - वाजमन्नम्, तदस्येति वाजी आदित्यः, आदित्याज्जायते वृष्टिस्तस्मादन्नं प्रजायते, तदन्नमादित्यस्य हि । (जन्यजनकभावलक्षण: सम्बन्धोऽत्र विवक्षितः) तस्मिन्निव - तस्मिन्वर्तमानं स्वमृतमिव, अहं स्वमृतमस्मि । आदित्ये हि परमपुरुषः परमानन्दमयः सन्निहितो योगिभिरुपास्यः, स चामृतं ब्रह्मदर्शिनामिति प्रकृष्टामृततया स्वमृतमुच्यते । तद्वदहं स्वमृतमस्मि, न तु तदेवामृतमहम्, किन्तु नैसर्गिकशुद्धस्वभावतस्तत्साधर्म्यात् तत्सदृशोऽहमस्मि । सुवर्चसं द्रविणम् - ज्ञानैकघनतया दीप्तिमद् द्रव्यमस्मि । सुमेधाः आत्यन्तिकदुःखोच्छेदकविज्ञानसम्पन्नतया सुमेधाः । अमृतोऽक्षितः - मरणरहितः क्षयवर्जितश्च । इति - इत्ययं मन्त्र: त्रिशङ्कनामकस्य कस्यचिदृषेर्मन्त्रद्रष्टुर्वेदानुवचनम् - वेदो वेदनमात्मविज्ञानं तदनुवचनम्, विज्ञानज्ञापकं वचनमित्येतत् ॥१॥

इति दशमोऽनुवाकः ॥

आङ्गल-अर्थः ॥

“I am He that moveth the Tree of the Universe & my glory is like the shoulders of a high mountain. I am lofty and pure like sweet nectar in the strong, I am the shining riches of the world, I am the deep thinker, the deathless One who decayeth not from the beginning.” This is Trishanku's voicing of Veda and the hymn of his self-knowledge.

हिन्दी-अर्थः ॥

''मैं ही 'वह' हूँ जो विश्व-वृक्ष को गति देता है तथा मेरी कीर्ति उच्च गिरि के स्कन्धसदृश है। शक्तिशाली में मधुर अमृत के समान मैं उत्कृष्ट एवं पवित्र हूँ, मैं संसार की ज्योतिर्मयी सम्पदा हूँ, मैं गहन चिन्तक हूँ, आदिकाल से अक्षय अमृत-रूपी हूँ। ''यह है त्रिशंकु का वेद-अनुवचन तथा उसके आत्म-ज्ञान की ऋचा।

शब्दावली

अहम् - aham - I am He

वृक्षस्य रेरिवा - vṛkṣasya rerivā - that moveth the Tree of the Universe

मम कीर्तिः - mama kīrtiḥ - my glory

गिरेः पृष्ठम् इव - gireḥ pṛṣṭham iva - is like the shoulders of a high mountain

ऊर्ध्वपवित्रः - ūrdhvapavitraḥ - “I am lofty and pure.” This is Trishanku's voicing of Veda and the hymn of his self-knowledge.

सु अमृतम् वाजिनी इव - su amṛtam vājinī iva - like sweet nectar in the strong

सवर्चसम् द्रविणम् इव - savarcasam draviṇam iva - I am the shining riches of the world

सुमेधाः - sumedhāḥ - I am the deep thinker

अमृतोक्षितः अस्मि - amṛtokṣitaḥ asmi - the deathless One who decayeth not from the beginning

इति त्रिशङ्कोः - iti triśaṅkoḥ - this is Trishanku's

वेदानुवचनम् - vedānuvacanam - voicing of Veda and the hymn of his self-knowledge


तैत्तिरीयोपनिषद्

एकादशोऽनुवाकः

वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति। सत्यं वद। धर्मं चर। स्वाध्यायान्मा प्रमदः। आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः।सत्यान्न प्रमदितव्यम्‌। धर्मान्न प्रमदितव्यम्‌।कुशलान्न प्रमदितव्यम्‌। भूत्यै न प्रमदितव्यम्‌।स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्‌। देवपितृकार्याभ्यां न प्रमदितव्यम्‌। मातृदेवो भव।पितृदेवो भव। आचार्यदेवो भव। अतिथिदेवो भव। यान्यनवद्यानि कर्माणि। तानि सेवितव्यानि। नो इतराणि।यान्यस्माकं सुचरितानि।तानि त्वयोपास्यानि। नो इतराणि। ये के चास्मच्छ्रेयांसो ब्राह्मणाः। तेषां त्वयासनेन प्रश्वसितव्यम्‌। श्रद्धया देयम्‌। अश्रद्धयाऽदेयम्‌। श्रिया देयम्‌। ह्रिया देयम्‌। भिया देयम्‌। संविदा देयम्‌। अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात्‌। ये तत्र ब्राह्मणाः सम्मर्शिनः। युक्ता आयुक्ताः। अलूक्षा धर्मकामाः स्युः। यथा ते तत्र वर्तेरन्‌।तथा तत्र वर्तेथाः। अथाभ्याख्यातेषु।ये तत्र ब्राह्मणाः संमर्शिनः। युक्ता आयुक्ताः। अलूक्षा धर्मकामाः स्युः। यथा ते तेषु वर्तेरन्‌।तथा तेषु वर्तेथाः। एष आदेशः। एष उपदेशः।एषा वेदोपनिषत्‌। एतदनुशासनम्‌। एवमुपासितव्यम्‌। एवमु चैतदुपास्यम्।

लिप्यन्तरणम्

vedamanūcyācāryo'ntevāsinamanuśāsti | satyaṁ vada | dharmaṁ cara | svādhyāyānmā pramadaḥ| ācāryāya priyaṁ dhanamāhṛtya prajātantuṁ mā vyavacchetsīḥ |satyānna pramaditavyam | dharmānna pramaditavyam kuśalānna pramaditavyam | bhūtyai na pramaditavyam |svādhyāyapravacanābhyāṁ na pramaditavyam| devapitṛkāryābhyāṁ na pramaditavyam | mātṛdevo bhava pitṛdevo bhava | ācāryadevo bhava | atithidevo bhava | yānyanavadyāni karmāṇi | tāni sevitavyāni | no itarāṇi |yānyasmākaṁ sucaritāni |tāni tvayopāsyāni| no itarāṇi| ye ke cāsmacchreyāṁso brāhmaṇāḥ | teṣāṁ tvayāsanena praśvasitavyam | śraddhayā deyam | aśraddhayā'deyam | śriyā deyam | hriyā deyam | bhiyā deyam | saṁvidā deyam | atha yadi te karmavicikitsā vā vṛttavicikitsā vā syāt| ye tatra brāhmaṇāḥ sammarśinaḥ | yuktā āyuktāḥ | alūkṣā dharmakāmāḥ syuḥ | yathā te tatra varteran |tathā tatra vartethāḥ | athābhyākhyāteṣu |ye tatra brāhmaṇāḥ saṁmarśinaḥ | yuktā āyuktāḥ| alūkṣā dharmakāmāḥ syuḥ | yathā te teṣu varteran |tathā teṣu vartethāḥ | eṣa ādeśaḥ | eṣa upadeśaḥ |eṣā vedopaniṣat | etadanuśāsanam | evamupāsitavyam | evamu caitadupāsyam|

अन्वयः

वेदम् अनुच्य आचार्यः अन्तेवसिनम् अनुशास्ति सत्यं वद। धर्मं चर स्वाध्यायात् मा प्रमदः आचार्याय प्रियं धनम् आहृत्य प्रजा - तन्तुं मा व्यवच्छेत्सीः सत्यात् न प्रमदितव्यम् धर्मात् न प्रमदितव्यम्। कुशलात् न प्रमदितव्यम् भूत्यै न प्रमदितव्यम् स्वाधायप्रवचनाभ्यां न प्रमदितव्यम्। देव -पितृकार्याभ्यां न प्रमदितव्यं। मातृदेवः भव पितृदेवः भव आचार्यदेवः भव। अतिथिदेवःभव। यानि कर्माणि अनवद्यानि तानि सेवितव्यानि। नो इतराणि यानि अस्माकं सुचरितानि तानि त्वया उपास्यानि नो इतराणि। ये के च अस्मात् श्रेयांशः ब्राह्मणाः तेषां आसने त्वया न प्रश्वसितव्यम्।श्रद्धया देयम् अश्रद्धया अदेयम् श्रिया देयम् ह्रिया देयम्। भिया देयम् सम्विदा देयम्। अथ यदि ते कर्म -विचि -कित्सा वा स्यात् तत्र ये सम्मर्शिनः युक्ताः आयुक्ताः अलूक्षाः धर्मकामाः ब्राह्मणाः स्युः ते तत्र यथा वर्तेरन् तथा वर्तेथाः। अथ अभ्याख्यातेषु ये सम्मर्शिनः युक्ताः आयुक्ताः अलूक्षाः धर्मकामाः ब्राह्मणाः स्युः ते तत्र तेषु यथा वर्तेरन् तथा वर्तेथाः। एषः आदेशः एषः उपदेशः एषा वेदोपनिषत् एतत् अनुस्शासनम् एवम् उपासितव्यम्। एवम् उ च एतत् उपास्यम्।

अन्वयलिप्यन्तरणम्

vedam anucya ācāryaḥ antevasinam anuśāsti satyaṁ vada | dharmaṁ cara svādhyāyāt mā pramadaḥ ācāryāya priyaṁ dhanam āhṛtya prajā - tantuṁ mā vyavacchetsīḥ satyāt na pramaditavyam dharmāt na pramaditavyam| kuśalāt na pramaditavyam bhūtyai na pramaditavyam svādhāyapravacanābhyāṁ na pramaditavyam| deva -pitṛkāryābhyāṁ na pramaditavyaṁ| mātṛdevaḥ bhava pitṛdevaḥ bhava ācāryadevaḥ bhava| atithidevaḥbhava| yāni karmāṇi anavadyāni tāni sevitavyāni| no itarāṇi yāni asmākaṁ sucaritāni tāni tvayā upāsyāni no itarāṇi| ye ke ca asmāt śreyāṁśaḥ brāhmaṇāḥ teṣāṁ āsane tvayā na praśvasitavyam|śraddhayā deyam aśraddhayā adeyam śriyā deyam hriyā deyam| bhiyā deyam samvidā deyam| atha yadi te karma -vici -kitsā vā syāt tatra ye sammarśinaḥ yuktāḥ āyuktāḥ alūkṣāḥ dharmakāmāḥ brāhmaṇāḥ syuḥ te tatra yathā varteran tathā vartethāḥ| atha abhyāakhyāteṣu ye sammarśinaḥ yuktāḥ āyuktāḥ alūkṣāḥ dharmakāmāḥ brāhmaṇāḥ syuḥ te tatra teṣu yathā varteran tathā vartethāḥ| eṣaḥ ādeśaḥ eṣaḥ upadeśaḥ eṣā vedopaniṣat etat anusśāsanam evam upāsitavyam| evam u ca etat upāsyam|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

एकादशोऽनुवाकः

[आचार्याअनुशाषनम्  ]

वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । 

आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । 

धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । 

स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥१॥

देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि । नो इतराणि । यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि ॥२॥

नो इतराणि । ये के चास्मच्छ्रेयांसो ब्राह्मणाः । तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् । 

अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥३॥

ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । 

तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । 

युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा तेषु वर्तेरन् ॥४॥ 

तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपासितव्यम् ।

( स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यं तानि त्वयोपास्यानि विचिकित्सा वा स्यात्तेषु वर्तेरन् सप्त च ) ॥

इदमाचार्यानुशासनमुखेन प्रवर्तते वेदानुशासनम्, विविदिषोः कर्मकर्तव्यता- नियमज्ञापनार्थम् । विद्याप्रकरणे श्रवणाच्चैवं हार्दमुन्नीयते । न विविदिषामात्रेण कर्मभ्यो विरतिरुचिता । आविद्यानिष्पत्तेरनुष्ठेयं नाम कर्म, विद्या चापरोक्षलक्षणा, साहि ध्यानपरिपाकनिष्पाद्या, कर्मभिरुपमर्दितदुरितान्तरायस्यैव तत्सिद्धिः । यद्यपि निःश्रेयसे विद्यैव साधनम्, अथापि तन्निष्पत्तौ कर्मणामस्त्युपयोग इति कर्मावश्यमनुष्ठेयम् । श्रूयते च 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा' (ईशावास्योपनिषद् - २) इति । अत एव च कर्मणो विद्याङ्गत्वम् । अध्याप्य वेदमाचार्योऽन्तेवासिनमनुशास्ति । सत्यं वद - सर्वतः श्रेयानयं धर्मः, यत् सत्यवदनम्, समूल वा एष परिशुष्यति योऽनृतं वदति । धर्मं चर - श्रौतं स्मार्तं च यथाधिकारमाचर । स्वाध्यायादध्ययनान्मा प्रमदः, अध्ययने त्वनुदिनमवहितेन भाव्यम्, विज्ञानमूलं हि तत्, आचार्याय तस्य यत्प्रियं धनं तदाहृत्य आनीय समर्प्य तेनानुज्ञातः कृत्वा दारसङ्ग्रहं प्रजातन्तुम् - पुत्रपौत्रादिलक्षणं प्रजासन्तानं मा व्यवच्छेत्सीः । सन्तानसम्पत्तये दारानुद्वहेः इति यावत्। धर्मानुष्ठानशेषतयैतद्विधानम् । सत्यात् - सत्याचरणान्न प्रमदितव्यम्, प्रमादतोऽपि नासत्यं कुर्याः, पूर्वमनृतवदनं प्रतिषिद्धमिह तदाचरणं प्रतिषिध्यते, प्रमादतोऽपि न कार्यमित्यपि विशेषः । धर्मान्न प्रमदितव्यम्, अत्र प्रमादो निषिद्ध्यत इति विशेष:, अनुष्ठेयेष्वेकोऽपि प्रमादेन न त्याज्य इति यावत् । कुशलात् - क्षेमात् न प्रमदितव्यम् । आपदि गौणधर्माचरणादिभिरात्मा रक्ष्य इति यावत् । भूत्यै न प्रमदितव्यम् - मङ्गलावहं कर्मावहितः समाचरे:, इति यावत् । अध्ययनाध्यापनाभ्यां न प्रमदितव्यम् । अध्ययने प्रमादो निषिध्यते, अध्यापनेऽपीत्यपि विशेषः । धर्मान्न प्रमदितव्यमिति सामान्यतः समादिष्टमपि विशेषतः समादिशति तदाचरणदाढर्याय - देवपितृकार्याभ्यां न प्रमदितव्यम् - दैवं वैश्वदेवादि, पित्र्यं श्राद्धम् । स्वाहाकारस्वधाकारविरहितमन्यत् कर्म कृतमप्यकृतप्रायमिति यावत् । मात्रादयस्त्वया देवतावदुपास्याः । अथ शिष्टाचारप्राप्तानि यान्यनवद्यानि दोषरहितानि तानि त्वया सेवितव्यानि । नो इतराणि - सदोषाणि शिष्टानुष्ठितान्यपि न त्वया सेव्यानि । शिष्टानामपि जातु रजसः समुन्मेषेण भवेदेव निन्दिताचरणम्, तदाचरणं न प्रमाणं कर्तव्ये कर्मणि, इति भावः । अस्माकमप्याचार्याणां यानि सुचरितानि श्रुतिस्मृत्यविरुद्धानि तान्येव त्वयोपास्यानि । नो इतराणि । आचार्याणामप्यस्माकमवर्जनीयो नाम गुणमयसङ्गात् कामलोभोन्मेषः, तन्मूलकानि प्रामादिकान्यसदाचरितानि नैव सेव्यानि । ये के च अस्मत् - अस्मत्तः श्रेयांसः - श्रेष्ठाः विद्यया वृत्ततो वा ब्राह्मणाः तेषां त्वया आसनेन आसनदानादिना प्रश्वसितव्यम्, विनयेन वर्तितव्यमित्येतत् । यद्देयं तच्छ्रद्धयैव देयम्, अश्रद्धया देयम्, श्रिया देयम् - श्रीरत्र मनस्तुष्टिलक्षणा, तया देयम् । ह्रिया देयम् - लज्जया देयम्, बहु दीयमानमपि इदमत्यल्पमस्मै कथं दद्यामिति लज्जापूर्वकं देयम्, न तु मया बहु दीयते इत्यभिमतिपूर्वकम् । भिया देयम् - अदत्ते तस्करादिभ्य इह भयात् परतश्च प्रत्यवायतो भयात् देयम् । संविदा देयम् - संविदा मैत्र्या देयम्, प्रयोजननिरपेक्षमिति यावत् । अथैवं वर्तमानस्य ते कर्मणि वृत्ते वा विचिकित्सा संशयः स्यात्, तदा तत्र देशे काले वा, ये वक्ष्यमाणगुणविशिष्टा ब्राह्मणाः स्युः कीदृशा: ? संमर्शिनः सर्वत्र कर्तव्ये कर्मणि शास्त्रीये वृत्ते वा विचारक्षमाः, युक्ताः - न केवलं विचारक्षमाः अपि तु युक्ताः - नियमेन कर्मसु युक्ताः, आयुक्ताः - समन्ताद्युक्ताः साङ्गोपाङ्ग सकलेषु श्रौतेषु स्मार्तेषु च कर्मसु युक्ताः, अलूक्षाः - अरूक्षा अक्रूरमतयः, क्रोधादिरहिता इति यावत्। धर्मे एव कामो येषां नार्थे तथाभूताः, त एते ब्राह्मणाः तेषु - सन्दिग्धेषु कर्मसु वृत्तेषु वा यथा वर्तेरन् तथा त्वं तत्र वर्तेथाः । अथ अभ्याख्यातेषु - अभिशस्तेषु दोषग्रस्ततया सन्दिह्यमानेषु, पूर्ववत् तेषु ये संमर्शिनो ब्राह्मणा युक्तत्वाद्युक्तगुणविशिष्टा ब्राह्मणा यथा वर्तेरन् तथा त्वं तेषु वर्तेथाः । तद्विनिर्णयेऽपि तेषां वचनमेव प्रमाणम् । एष आदेश: - प्रशासनम्, राज्ञ: प्रशासनमिवानतिलङ्घनीयमिदमनुशासनमिति यावत् । एष उपदेश: - पुत्रं प्रति पित्रादेखि हितैषिवचनम् । एषा वेदोपनिषत् - वेदैः क्रियमाणो रहस्योपदेशो हितोपदेशो वा । एतदेव शिष्यं प्रति सर्वैराचार्यैः क्रियमाणमनुशासनम् । एवम् उक्तेन प्रकारेण उपासितव्यम् अनुष्ठेयम् । एवमु - एवमेव उपासितव्यम् - अनुष्ठेयम् । अवधारणार्थं पुनर्वचनम् ॥१-४॥

इत्येकादशोऽनुवाकः

॥ आङ्गल-अर्थः ॥

When the Master hath declared Veda, then he giveth the commandments to his disciple. Speak truth, walk in the way of thy duty, neglect not the study of Veda. When thou hast brought to the Master the wealth that he desireth, thou shalt not cut short the long thread of thy race. Thou shalt not be negligent of truth; thou shalt not be negligent of thy duty; thou shalt not be negligent of welfare; thou shalt not be negligent towards thy increase and thy thriving; thou shalt not be negligent of the study & teaching of Veda. Thou shalt not be negligent of thy works unto the Gods or thy works unto the Fathers. Let thy father be unto thee as thy God and thy mother as thy Goddess whom thou adorest. Serve the Master as a God and as a God the stranger within thy dwelling. The works that are without blame before the people, thou shalt do these with diligence and no others. The deeds we have done that are good and righteous, thou shalt practise these as a religion and no others. Whosoever are better and nobler than we among the Brahmins, thou shalt refresh with a seat to honour them. Thou shalt give with faith and reverence; without faith thou shalt not give. Thou shalt give with shame, thou shalt give with fear; thou shalt give with fellowfeeling. Moreover if thou doubt of thy course or of thy action, then whatsoever Brahmins be there who are careful thinkers, devout, not moved by others, lovers of virtue, not severe or cruel, even as they do in that thing, so do thou. Then as to men accused & arraigned by their fellows, whatsoever Brahmins be there who are careful thinkers, devout, not moved by others, lovers of virtue, not severe or cruel, even as they are towards these, so be thou. This is the law & the teaching. These are the Commandments. In such wise shalt thou practise religion, yea, verily in such wise do ever religiously.

॥ हिन्दी-अर्थः ॥

वेद का व्याख्यान करने के उपरान्त आचार्य अपने शिष्य को अनुशासन का आदेश देते हैं। सत्य बोलो, अपने धर्म के मार्ग पर चलो, वेदों के स्वाध्याय में अवहेलना मत करो। अपने आचार्य को उनका इष्ट धन लाकर देने के बाद तुम अपनी पुत्र परम्परा के दीर्घ सूत्र को नहीं काटोगे। सत्य के विषय में तुम प्रमाद मत करना। अपने कर्तव्य के विषय में तुम असावधान मत होना। कुशलता के सम्बन्ध में तुम असावधान मत होना। अपनी उन्नति, वृद्धि एवं उद्यम के प्रति असावधान मत होना। वेदों के स्वाध्याय एवं प्रवचन के विषय में प्रमाद मत करना। देवों अथवा पितरों के प्रति अपने कर्तव्यों में अवहेलना मत करना। तुम्हारे पिता तुम्हारे लिए देवतुल्य हों तथा तुम्हारे माता देवीतुल्या हों जिनकी तुम आराधना करते हो। अपने आचार्य की देवसमान सेवा करो तथा घर आये अतिथि की देवसमान अभ्यर्थना करो। लोगों के सम्मुख हो कर्म अनिन्द्य हैं तुम केवल उन्हीं कर्मों को सयत्न करना अन्यान्य कर्मों को नहीं। हमने जिन सत्कर्मों को किया है वे ही तुम्हारे द्वारा धर्म-समान करणीय (उपास्य) हैं, अन्य कोई नहीं। जो भी ब्रह्मचारी हमसे अधिक श्रेष्ठ एवं महान् हों तुम्हें उनको आसन देकर सम्मानित एवं परितृप्त करना चाहिये। तुम्हें श्रद्धा एवं आदरपूर्वक दान करना चाहिये; अश्रद्धा से तुम नहीं दोगे। (तुम श्री-सम्पत्ति के अनुरूप दान करोगे)*। तुम सलज्जभाव से दान करोगे, तुम सभय दान करोगे; तुम संविदभाव से (सहदयता एवं सहानुभूतिपूर्वक) दान करोगे। इसके अतिरिक्त यदि तुम्हें अपने कर्म तथा कर्मपथ (आचरण) के विषय में शंका हो तो जो भी ब्राह्मण वहाँ हों जो सुविचारशील हों भक्त हों, दूसरों से संचालित न हों धर्मपरायण हों, कठोर एवं क्रूर न हों, जैसा वे उस विषय में आचरण करे वैसा ही तुम करो। और यदि कोई व्यक्ति दूसरों के द्वारा अभियुक्त तथा अपराधी घोषित हो तो उसके साथ भी तुम उसी प्रकार आचरण करो जैसा उसके प्रति वे सब ब्राह्मण करते हैं जो सुविचारवान् श्रद्धावान् हैं, दूसरो के द्वारा संचालित नहीं हैं, धर्मपरायण हैं, जो कठोर एवं कूर नहीं हैं। यही विधान तथा उपदेश हैं। ये ही परम 'आदेश' हैं। (यही वेदों का उपनिषद् (अन्तर ज्ञान) है। इसी ज्ञान के अनुसार तुम धर्म का पालन करोगे। हाँ, निश्चित रूप से यही ज्ञान है जो धर्मपूर्वक करणीय है। *यह अंश मूलपाठ में है। श्रीअरविन्द के अनुवाद में यह नहीं है –अनु

॥ शब्दावली ॥

वेदम् अनुच्य - vedam anucya - having declared the Veda

आचार्यः - ācāryaḥ - the Master

अन्तेवसिनम् - antevasinam - to the inmates / disciples

अनुशास्ति - anuśāsti - gives the commandments

सत्यम् वद - satyam vada - Speak truth

धर्मम् चर - dharmam cara - walk in the way of thy duty

स्वाध्यायात् मा प्रमदः - svādhyāyāt mā pramadaḥ - neglect not the study of Veda

आचार्याय - ācāryāya - to the Master

प्रियम् धनम् आहृत्य - priyam dhanam āhṛtya - having brought the wealth that he desires

प्रजातन्तुम् - prajātantum - the long thread of thy race

मा व्यवच्छेत्सीः - mā vyavacchetsīḥ - thou shalt not cut short

सत्यात् न प्रमदितव्यम् - satyāt na pramaditavyam - thou shalt not be negligent of truth

धर्मात् न प्रमदितव्यम् - dharmāt na pramaditavyam - thou shalt not be negligent of thy duty

कुशलात् न प्रमदितव्यम् - kuśalāt na pramaditavyam - thou shalt not be negligent of welfare

भूत्यै न प्रमदितव्यम् - bhūtyai na pramaditavyam - thou shalt not be negligent towards thy increase and thy thriving

स्वाधायप्रवचनाभ्याम् - svādhāyapravacanābhyām - of the study & teaching of Veda

न प्रमदितव्यम् - na pramaditavyam - thou shalt not be negligent

देव पितृकार्याभ्याम् - deva pitṛkāryābhyām - of thy works unto the Gods or thy works unto the Fathers

न प्रमदितव्यम् - na pramaditavyam - thou shalt not be negligent

मातृदेवः भव - mātṛdevaḥ bhava - let thy mother be unto thee as thy Goddess whom thou adorest

पितृदेवः भव - pitṛdevaḥ bhava - let thy father be unto thee as thy God

आचार्यदेवः भव - ācāryadevaḥ bhava - serve the Master as a God

अतिथिदेवः भव - atithidevaḥ bhava - serve the stranger as a God within thy dwelling

यानि कर्माणि - yāni karmāṇi - the works

अनवद्यानि - anavadyāni - that are without blame before the people

तानि सेवितव्यानि - tāni sevitavyāni - thou shalt do these with diligence

नो इतराणि - no itarāṇi - and no others

यानि अस्माकम् सुचरितानि - yāni asmākam sucaritāni - the deeds we have done that are good and righteous

तानि त्वया उपास्यानि - tāni tvayā upāsyāni - thou shalt practise these as a religion

नो इतराणि - no itarāṇi - and no others

ये के च - ye ke ca - whosoever are

अस्मात् श्रेयांशः ब्राह्मणाः - asmāt śreyāṁśaḥ brāhmaṇāḥ - better and nobler than we among the Brahmins

तेषाम् आसनेन त्वया प्रश्वसितव्यम् - teṣām āsanena tvayā praśvasitavyam - thou shalt refresh with a seat to honour them

श्रद्धया देयम् - śraddhayā deyam - thou shalt give with faith and reverence

अश्रद्धया अदेयम् - aśraddhayā adeyam - without faith and reverence thou shalt not give

श्रिया देयम् - śriyā deyam - thou shalt give with reverence

ह्रिया देयम् - hriyā deyam - thou shalt give with shame

भिया देयम् - bhiyā deyam - thou shalt give with fear

सम्विदा देयम् - samvidā deyam - thou shalt give with fellow-feeling

अथ यदि - atha yadi - moreover if

ते कर्म विचिकित्सा वा स्यात् - te karma vicikitsā vā syāt - thou doubt of thy course or of thy action then

तत्र ये ब्राह्मणाः - tatra ye brāhmaṇāḥ - whatsoever Brahmins be there

सम्मर्शिनः - sammarśinaḥ - who are careful thinkers

युक्ताः - yuktāḥ - devout

आयुक्ताः - āyuktāḥ - not moved by others

अलूक्षाः - alūkṣāḥ - not severe or cruel

धर्मकामाः - dharmakāmāḥ - lovers of virtue

स्युः - syuḥ - are

ते तत्र यथा वर्तेरन् - te tatra yathā varteran - even as they do in that thing

तथा वर्तेथाः - tathā vartethāḥ - so do thou

अथ अभ्याख्यातेषु - atha abhyāakhyāteṣu - then as to men accused & arraigned by their fellows

तत्र ये ब्राह्मणाः - tatra ye brāhmaṇāḥ - whatsoever Brahmins be there

सम्मर्शिनः - sammarśinaḥ - who are careful thinkers

युक्ताः - yuktāḥ - devout

आयुक्ताः - āyuktāḥ - not moved by others

अलूक्षाः - alūkṣāḥ - not severe or cruel

धर्मकामाः - dharmakāmāḥ - lovers of virtue

स्युः - syuḥ - are

ते तत्र तेषु यथा वर्तेरन् - te tatra teṣu yathā varteran - even as they do in that thing

तथा वर्तेथाः - tathā vartethāḥ - so do thou

एषः आदेशः एषः उपदेशः - eṣaḥ ādeśaḥ eṣaḥ upadeśaḥ - these are the Commandments

एषा वेदोपनिषत् - eṣā vedopaniṣat - this is the teaching

एतत् अनुस्शासनम् - etat anusśāsanam - this is the law

एवम् उपासितव्यम् - evam upāsitavyam - in such wise shalt thou practise religion

एवम् उ च एतत् उपास्यम् - evam u ca etat upāsyam - yea, verily in such wise do ever religiously

तैत्तिरीयोपनिषद्

द्वादशोऽनुवाकः

शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा। शं न इन्द्रो बृहस्पतिः। शं नो विष्णुरुरुक्रमः। नमो ब्रह्मणे। नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि। त्वामेव प्रत्यक्षं ब्रह्मावादिषम्‌। ऋतमवादिषम्‌। सत्यमवादिषम्‌। तन्मामावीत्‌। तद्वक्तारमावीत्‌। आवीन्माम्‌। आवीद्वक्तारम्‌। ॐ शान्तिः शान्तिः शान्तिः।

लिप्यन्तरणम्

śaṁ no mitraḥ śaṁ varuṇaḥ | śaṁ no bhavatvaryamā | śaṁ na indro bṛhaspatiḥ | śaṁ no viṣṇururukramaḥ | namo brahmaṇe | namaste vāyo | tvameva pratyakṣaṁ brahmāsi | tvāmeva pratyakṣaṁ brahmāvādiṣam | ṛtamavādiṣam | satyamavādiṣam | tanmāmāvīt | tadvaktāramāvīt | āvīnmām | āvīdvaktāram | om śāntiḥ śāntiḥ śāntiḥ|

अन्वयः

मित्रः नः शं भवतु । वरुणः नः शं भवन्तु । अर्यमा नः शं भवतु । इन्द्रः बृहस्पति नः शं भवतु। उरुक्रमः विष्णुः नः शं भवतु । ब्रह्मणे नमः हे वायो ते नमः। त्वम् एव प्रत्यक्षं ब्रह्म असि। त्वाम् एव प्रत्यक्षं ब्रह्म वदिष्यामि। त्वाम् एव ऋतं वदिष्यामि। त्वाम् एव सत्यं वदिष्यामि। तत् माम् अवतु। तत् वक्तारम् अवतु अवतु। माम् अवतु वक्तारम्। ॐ शान्तिः शान्तिः शान्तिः॥

अन्वयलिप्यन्तरणम्

mitraḥ naḥ śaṁ ( bhavatu )| varuṇaḥ ( naḥ ) śaṁ ( bhavantu )| aryamā naḥ śaṁ ( bhavatu )| indraḥ bṛhaspati ( naḥ ) śaṁ bhavatu| urukramaḥ viṣṇuḥ naḥ śaṁ ( bhavatu )| brahmaṇe namaḥ ( he )vāyo te namaḥ| tvam eva pratyakṣaṁ brahma asi| tvām eva pratyakṣaṁ brahma vadiṣyāmi| ( tvām eva ) ṛtaṁ vadiṣyāmi| ( tvām eva ) satyaṁ vadiṣyāmi| tat mām avatu| tat vaktāram avatu avatu| mām avatu vaktāram| om śāntiḥ śāntiḥ śāntiḥ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

द्वादशोऽनुवाकः

[ उपसंहारशान्तिपाठः]

शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्माऽसि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् ॥१॥

तन्मामावीत् । तद्वक्तारमावीत् । आवीद्वक्तारम् । ओं शान्तिः शान्तिः शान्तिः । ( सत्यमवादिषं पञ्चच )

इयमुत्तरशान्तिः । अध्ययनावसाने पठितव्या शान्तिः । व्याख्यातोऽयं मन्त्रः । भूतार्थत्वात् वदिष्यामीति स्थाने अवादिषमिति । अवतु इति स्थाने आवीदिति प्रयोग: ॥

॥ इति द्वादशोऽनुवाकः ॥

॥ इति तैत्तिरीयोपनिषद्भाष्ये शिक्षावल्ली ॥

॥ आङ्गल-अर्थः ॥

Hari OM. Be peace to us Mitra. Be peace to us Varuna. Be peace to us Aryaman. Be peace to us Indra & Brihaspati. May farstriding Vishnu be peace to us. Adoration to the Eternal. Adoration to thee, O Vaiou. Thou, thou art the visible Eternal and as the visible Eternal I will declare thee. I will declare Righteousness! I will declare Truth! May that protect me! May that protect the Speaker! Yea, may it protect me! May it protect the Speaker. OM Peace! Peace! Peace!

॥ हिन्दी-अर्थः ॥

मित्र हमारे लिए शान्तिस्वरूप हों। वरुण हमारे लिए शान्तिस्वरूप हों। ये हमारे लिए शान्तिस्वरूप हों। इन्द्र एवं बृहस्पति हमारे लिए शान्तिस्वरूप 'सुदूर-पदक्षेपी' (उरुक्रम) विष्णु हमारे लिए शान्तिप्रदाता हों। ब्रह्म को नमन। हे वायु, आपको मेरा नमन। आप, आप ही प्रत्यक्ष 'ब्रह्म' हैं तथा प्रत्यक्ष ब्रह्म रूप में मैनें आपका ही कथन किया है। मैनें सत्याचरण (ऋतम्) का कथन किया है। मैनें सत्य का कथन किया है। उसी ने मेरी रक्षा की है। उसी ने 'वक्ता' की रक्षा की है। अवश्य ही उसने मेरी रक्षा की है; उसने 'वक्ता' की रक्षा की है। ॐ शान्तिः! शान्तिः! शान्तिः! हरिः ॐ! *यह अंश (एषा वेदोपनिषत्) मूलपाठ में है। श्रीअरविन्द के अनुवाद में स्पष्टरूप से उल्लिखित नहीं है।-अनु.

शब्दावली

शम् नः - śam naḥ - be peace to us

मित्रः - mitraḥ - Mitra

शम् वरुणः - śam varuṇaḥ - be peace to us Varuna

अर्यमा - aryamā - Aryaman

नः - naḥ - to us

शम् भवतु - śam bhavatu - be peace

इन्द्रः - indraḥ - Indra

बृहस्पति च - bṛhaspati ca - be peace to us Brihaspati

उरुक्रमः विष्णुः - urukramaḥ viṣṇuḥ - May far striding Vishnu

न शम् - na śam - be peace to us

ब्रह्मणे नमः - brahmaṇe namaḥ - Adoration to the Eternal

वायो - vāyo - O Vayu!

ते नमः - te namaḥ - Adoration to thee

त्वम् एव - tvam eva - Thou, thou art

प्रत्यक्षम् ब्रह्म असि - pratyakṣam brahma asi - the visible Eternal

त्वाम् एव - tvām eva - thee

प्रत्यक्षम् ब्रह्म - pratyakṣam brahma - as the visible Eternal

वदिष्यामि - vadiṣyāmi - I will declare

ऋतम् वदिष्यामि - ṛtam vadiṣyāmi - I will declare Righteousness

सत्यम् वदिष्यामि - satyam vadiṣyāmi - I will declare Truth

तत् माम् अवतु - tat mām avatu - may that protect me

तत् वक्तारम् अवतु - tat vaktāram avatu - May that protect the Speaker

अवतु माम् - avatu mām - may it protect me

अवतु वक्तारम् - avatu vaktāram - may it protect the Speaker

ॐ शान्तिः शान्तिः शान्तिः - om śāntiḥ śāntiḥ śāntiḥ -

॥ अथ उपनिषद् ॥

अगला खण्ड ब्रह्मानंदबल्ली


Post a Comment

0 Comments

Ad Code