मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम्। ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु रन्योऽप्येवं यो विदध्यात्ममेव ॥
॥ लिप्यन्तरणम् ॥
mṛtyuproktāṁ naciketo'tha labdhvā vidyāmetāṁ yogavidhiṁ ca kṛtsnam | brahmaprāpto virajo'bhūdvimṛtyu ranyo'pyevaṁ yo vidadhyātmameva ||
॥ अन्वयः ॥
अथ नचिकेतः मृत्युप्रोक्ताम् एतां विद्यां कृस्नं योगविधिं च लव्ध्वा विरजः विमृत्युः भूत्वा ब्रह्मप्राप्तः अभूत्। अन्यः यः अपि एव अध्यात्मम् एव वित् ब्रह्मप्राप्तो भवति ॥
॥ अन्वयलिप्यन्तरणम् ॥
atha naciketaḥ mṛtyuproktām etāṁ vidyāṁ kṛsnaṁ yogavidhiṁ ca lavdhvā virajaḥ vimṛtyuḥ ( bhūtvā ) brahmaprāptaḥ abhūt| anyaḥ yaḥ api eva adhyātmam eva vit ( brahmaprāpto bhavati ) ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ नाचिकेताग्निविद्याफलम् ]
विद्यास्तुतये प्रक्रान्तामाख्यायिकामुपसंहरति श्रुतिः - मृत्युप्रोक्तामिति ।
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।
ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव ॥१८॥
अथ नचिकेता मृत्युप्रोक्ताम् - परमात्मविद्यामेतां योगविधिं च तदुक्तं कृत्स्नमधिगत्य ब्रह्मोपसम्पन्नो विरजा विमृत्युश्चाभूत् । 'परं ज्योतिरूपसम्पद्य स्वेन रूपेण अभिनिष्पद्यत' (छांदोग्योपनिषद् - ८.३.४) इति चान्यत्र श्रूयते । योऽप्यन्योऽध्यात्मवित्, सोऽप्येवमेव । नचिकेता इवान्योऽपि चेदात्मतत्त्वं परं जानीयात्, सोऽपि स इव ब्रह्मप्राप्तो विरजा विमृत्युर्भवतीत्यर्थः॥१८॥
[ शान्तिपाठः ]
विद्यादानादानयोर्यो नियमः, प्रमादतः तदतिलङ्घने शिष्याचार्ययोर्यो दोष:, तत्प्रशमनार्था शान्तिराम्नायते सहेति ।
सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
नौ - शिष्याचार्यौ । स हि - विद्यागम्यः परमात्मा, अवतु - रक्षतु तत्त्वार्थप्रकाशनेन । हेति प्रसिद्धौ । सह नौ भुनक्तु स हि सर्वस्य स्वामी शेषभूतौ नौ भुनक्तु । विद्याफलभूतपरिपूर्णशेषवृत्तिप्रदानेन भुनक्त्विति भावः । आवां सह वीर्यं विद्यायाः करवावहै । नौ - आवयोः, अधीतं तेजस्व्यस्तु । मा विद्विषावहै - नियमातिलङ्घनकृतो विद्वेषो नौ माऽभूत् । स्मर्यते च नियमातिलङ्घने विद्वेषः - 'यश्चाधर्मेण विब्रूते यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति ॥' (महा.भा.शां. ३३५.५) इति । शान्तिः शान्तिः शान्तिः - सर्वदोषप्रशमनाय त्रिरुक्तिः ॥
॥ इति कठोपनिषद्भाष्ये द्वितीयाध्याये तृतीया वल्ली ॥
॥ इति श्रीमद्भगवत्स्वामिनारायणचरणकमलपरिचर्य्यापरायणसकलतन्त्रपारावारपारीणपरमहंस-वर्य्ययोगिराजश्रीगोपालानन्दस्वामिविरचितं कठोपनिषदः स्वामिनारायणमूलभाष्यं समाप्तम् ॥
॥ आङ्गल-अर्थः ॥
Thus did Nachiketas with Death for his teacher win the God-knowledge; he learned likewise the whole ordinance of the Yoga: thereafter he obtained Brahman and became void of stain and void of death. So shall another be who cometh likewise to the science of the Spirit.
॥ हिन्दी-अर्थः ॥
इस प्रकार नचिकेता ने मृत्यु-रूपी गुरु के द्वारा कही गयी इस ब्रह्मविद्या को प्राप्त किया; उसी प्रकार उसने सम्पूर्ण योग-विधि को जानाː तदनन्तर उसने 'ब्रह्म' को प्राप्त किया एवं वह विमल तथा मृत्यु-विहीन हो गया। अन्य जो भी कोई इस अध्यात्म-विद्या को प्राप्त करेगा, वह भी उसके समान हो जायेगा।
॥ शब्दावली ॥
अथ - atha - thus
नचिकेतः - naciketaḥ - Nachiketas
मृत्युप्रोक्ताम् - mṛtyuproktām - spoken by Death
एताम् विद्याम् - etām vidyām - this God-knowledge
कृस्नम् योगविधिम् च - kṛsnam yogavidhim ca - and the whole ordinance of the Yoga
लव्ध्वा - lavdhvā - having learned / obtained
विरजः - virajaḥ - void of stain
ब्रह्मप्राप्तः - brahmaprāptaḥ - having obtained Brahman
विमृत्युः - vimṛtyuḥ - void of death
अभूत् - abhūt - became
अन्यः यः अपि - anyaḥ yaḥ api - so shall another be
एवम् - evam - likewise
अध्यात्मम् - adhyātmam - to the science of the Spirit
विदध्यात् - vidadhyāt - he cometh
ब्रह्मप्राप्तो भवति - ( brahmaprāpto bhavati ) -
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know