नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा। अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥
॥ लिप्यन्तरणम् ॥
naiva vācā na manasā prāptuṁ śakyo na cakṣuṣā | astīti bruvato'nyatra kathaṁ tadupalabhyate ||
॥ अन्वयः ॥
सः आत्मा वाचा न एव। मनसा न एव । चक्षुषाः न एव प्राप्तुं शक्यः। आत्मा असि इति ब्रुबतः अन्यत्र कथम् उपलभ्यते॥ ॥
॥ अन्वयलिप्यन्तरणम् ॥
( saḥ ) ātmā vācā na eva| manasā na ( eva )| cakṣuṣāḥ na ( eva ) prāptuṁ śakyaḥ| ( ātmā ) asi iti brubataḥ anyatra katham upalabhyate
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ अनन्यभक्तया परमात्मा प्राप्य: ]
ननु - प्रलोभनमेतत्, योगदशायां विशदतरं परमात्मतत्त्वं प्रकाशत इति । प्रमाणतस्तत्सिद्धौ हि योगेन वाऽन्येन वा तस्य प्रकाश इत्येतदिष्येत । तच्छ्रद्धापिशाचिकापरिगृहीतानां गोष्ठ्यामेतन्निवेद्यतामित्यासुरभावेन शङ्कायामुत्तरयति - नैव इति -
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥१२
सत्यम् । अयमात्मा न चक्षुषा, न वा केवलेन तर्ककुशलेन मनसा, न वा केवलया वादविचक्षणया वाचा निश्चेतुं शक्यः । अस्ति ब्रह्मेति ज्ञापयतो वैदिकाद्वचनादृते कथं तदुपलभ्येत ? यो वैदिको ब्रह्मास्तित्ववादः, तत्र चेदप्रामाण्यशङ्का, न कथञ्चन तत्सिद्धिः । तदास्तिकानामेवैतत्प्रकाशो न त्वासुराणाम् ।
"प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते । असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥" (भगवद्गीता - १६.७, ८) ते हि नष्टात्मानोऽल्पबुद्धयः ॥१२॥
॥ आङ्गल-अर्थः ॥
Not with the mind hath man the power to see God, no, nor by speech nor with the eye. Unless one saith “He is,” how can one become sensible of Him?
॥ हिन्दी-अर्थः ॥
''मनुष्य न मन के द्वारा 'परमेश्वर' को देख सकता है, न ही वाणी के द्वारा और न ही चक्षु के द्वारा। ''वह है'' इस कथन के अतिरिक्त मनुष्य 'उसके' प्रति कैसे सचेतन हो सकता है।
॥ शब्दावली ॥
न मनसा - na manasā - not with the mind
वाचा न एव - vācā na eva - nor by speech
न चक्षुषाः - na cakṣuṣāḥ - nor with the eye
प्राप्तुम् शक्यः - prāptum śakyaḥ - that the man has the power to see God
अस्ति इति - asti iti - “He is”
अन्यत्र ब्रुबतः - anyatra brubataḥ - unless one saith
कथम् - katham - how
तत् पलभ्यते - tat palabhyate - can one become sensible of Him?
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know