Ad Code

तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं



तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्‌। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥

॥ लिप्यन्तरणम् ॥

taṁ durdarśaṁ gūḍhamanupraviṣṭaṁ guhāhitaṁ gahvareṣṭhaṁ purāṇam | adhyātmayogādhigamena devaṁ matvā dhīro harṣaśokau jahāti ||

॥ अन्वयः ॥

दुर्दर्शं गूधम् अनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणं तम् देवं अध्यात्मयोगाधिगमेन मत्वा धीरः हर्षशोकौ जहाति ॥

॥ अन्वयलिप्यन्तरणम् ॥

durdarśaṁ gūdham anupraviṣṭaṁ guhāhitaṁ gahvareṣṭhaṁ purāṇaṁ tam devaṁ adhyātmayogādhigamena matvā dhīraḥ harṣaśokau jahāti ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ भक्तियोगसाध्यः परमात्मा ]

एवमवधार्याऽधिकारमभिनन्द्य च, तमर्थं प्रतिवदन् पृष्टं मुक्तिस्वरूपमधिकृत्य आह - तं दुर्दशमिति ।

तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ।

अध्यात्मयोगाधिगमेन देवं मत्त्वा धीरो हर्षशोकौ जहाति ॥१२॥

दुर्दर्शम् - सुखेन द्रष्टुमशक्यम्, दुःखमाप्तुमयोगत: (भगवद्गीता -  ५.६ ) इत्येतत् । श्रवणायापि बहुभिर्यो न लभ्य इत्येतत् दौर्लभ्यमुक्तं भवति । गूढम् - दैव्यां गुणमय्यां मायायवनिकायां निगूढम् । दुर्दर्शत्वे निमित्तमेतत् । मायायवनिकाप्रतिरुद्धदृष्टिप्रसराणामगोचरमिति यावत् । अनुप्रविष्टम् - सृष्टेषु सृष्टिमनुप्रविष्टम् । इदमन्तर्यामितया । गुहाहितम् - हदयगुहासन्निहितम् । इदन्तु विग्रहतोऽपि ।

यद्वा गुहाहितम् अनुप्रविष्टम् इत्यन्वयः । गुहा - हृदयं, योऽयमाहितः तत्र कर्मणा, तं जीवमनुप्रविष्टं स्वेच्छयेत्यर्थ: । आहितात् प्रविष्टे विशेषो वचनव्यक्त्यैव व्यक्त: । आहित इति कर्मणि क्तः । अन्यकर्तृकाधानकर्मत्वात्पारवश्यम् । प्रविष्ट इति कर्तरि । कर्तृत्वाच्च स्वातन्त्र्यम् । स्वतन्त्रः कर्ता (पाणिनीयसूत्रम् - १.४.५४)। कर्मणा प्रवेश्यमानं जीवमनुप्रविशति भगवान् तद्रक्षणायेति भावः । गह्वरेष्ठम् - दुष्प्रवेशे देशे स्थितम्, अप्राकृते देशविशेषे स्थितमिति यावत् । अक्षरे परमे व्योमन् (तैत्तिरीसनारायणोपनिषद् - २) इति अन्यत्र श्रूयते ।

यद्वा अतिसन्निकटे देशे जीवरूपे स्थितम् अन्तर्यामितया इत्येतत् । पुराणम् - कारणमिति यावत् । कार्यं हि अर्वाचीनम् । तम् - त्रयीप्रसिद्धम्, देवम् - निरतिशयदीप्तियुक्तम् । यस्य भासा सर्वमिदं विभाति तं पुराणं देवम् इति वा अन्वयः । यद्यपि व्यपदिश्यन्ते देवा इति । नाममात्रमेतत् । अर्वाचीनाश्च । 'नारायणाद्ब्रह्मा जायते नारायणादिन्द्रो जायते' (नारायणोपनिषत् - १), अनर्वाचीनो देवः, स एक एव नारायण इत्यर्थः । अध्यात्मयोगाधिगमेन मत्त्वा बाह्येभ्योऽर्थेभ्यः प्रतिसंहृत्यात्मस्वरूपे प्रवर्तितो मनसो योगः अध्यात्मयोगः, तेन जातोऽधिगमः - प्रकृतिविलक्षणपरिशुद्धात्मविज्ञानम्, आत्मावलोकनमित्येतत्; तेनाङ्गभूतेन । उक्तं देवं मत्वा - आत्मावलोकनपूर्वकपरमात्मोपासनं प्राप्य इति यावत् । 

'निजात्मानं ब्रह्मरूपं देहत्रयविलक्षणम् ।

विभाव्य तेन कर्तव्या भक्तिः कृष्णस्य सर्वदा ॥'

इति भगवद्वचनमिह उपबृंहणं बोध्यम् । अध्यात्मयोगस्य अधिगमः - प्राप्तिः, योगसिद्धिः, तया देवं मत्वा योगदृष्ट्या देवमवलोक्य इत्यर्थः इति केचित् । एवं साधनस्वरूपमुक्त्वा फलमाह - हर्षशोकौ जहाति वैषयिकौ । हर्षशोकशब्दौ पुण्यपापलक्षकौ वा । आत्यन्तिकसंसारनिवृत्तिर्भवतीत्येतत् ॥१२॥

॥ आङ्गल-अर्थः ॥

Realising God by attainment to Him through spiritual Yoga, even the Ancient of Days who hath entered deep into that which is hidden and is hard to see, for he is established in our secret being and lodged in the cavern heart of things, the wise and steadfast man casts far from him joy and sorrow.

॥ हिन्दी-अर्थः ॥

''अध्यात्मयोग के द्वारा उस 'देव' का बोध प्राप्त करके, जो 'पुराण' (पुरातन) है तथा जिसका दर्शन दुर्लभ है, कारण, वह हमारी गृढता में प्रविष्ट हो गया है, गुह्य-सत्ता में निहित है एवं पदार्थो की हृद्गुहा में स्थित है; ज्ञानी एवं धीर पुरुष हर्ष और शोक का परित्याग कर देता है।

॥ शब्दावली ॥

पुराणम् - purāṇam - the Ancient of Days

गूधम् अनुप्रविष्टम् - gūdham anupraviṣṭam - the one who has entered deep into that which is hidden

दुर्दर्शम् - durdarśam - hard to see

गुहाहितम् - guhāhitam - established in our secret being

गह्वरेष्ठम् - gahvareṣṭham - lodged in the cavern heart of things

तम् देवम् - tam devam - that God

अध्यात्मयोगाधिगमेन - adhyātmayogādhigamena - by attainment to Him through spiritual Yoga

मत्वा - matvā - realising

धीरः - dhīraḥ - the wise and steadfast man

हर्षशोकौ - harṣaśokau - joy and sorrow

जहाति - jahāti - casts (far from him)


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code