एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य। स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥
॥ लिप्यन्तरणम् ॥
etacchrutvā samparigṛhya martyaḥ pravṛhya dharmyamaṇumetamāpya | sa modate modanīyaṁ hi labdhvā vivṛtaṁ sadma naciketasaṁ manye ||
॥ अन्वयः ॥
मर्त्यः एतत् श्रुत्वा अणुम् धर्म्यम् प्रब्रुह्य सम्परिगृह्य सः एतम् आप्य मोदनीयम् लब्ध्वा मोदते हि नचिकेतसम् प्रति सद्म विवृतम् मन्ये ॥
॥ अन्वयलिप्यन्तरणम् ॥
martyaḥ etat śrutvā aṇum dharmyam prabruhya samparigṛhya saḥ etam āpya modanīyam labdhvā modate hi naciketasam( prati ) sadma vivṛtam manye ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ उपासकस्य स्वस्वरूपावाप्तिफलम् ]
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य ।
स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥१३॥
मर्त्य इत्युपलक्षकम्, योऽधिकारी सः । एतत् - अन्तर्याम्यात्मतत्त्वं श्रुत्वा सद्गुरुत:, सम्परिगृह्य मनसा, मुहुर्विभाव्येत्यर्थः, मननं कृत्वेति यावत् । इदमुपासनस्योपलक्षकम् । धर्म्यं प्रवृह्य - धर्मसाधनं धर्मसाध्यं वेदं शरीरं प्रवृह्य - पृथक्कृत्य, प्रारब्धावसानसमये परित्यज्येत्येतत् । एतमणुमाप्य - 'अणीयान् ह्यतर्क्यमणुप्रमाणात् ' ( कठोपनिषद् - २.८) इति पूर्वं निर्दिष्टं सर्वतः सूक्ष्मतमम्, सर्वतः सन्निधानशक्तेः, अतिगूढत्वाद्वा सूक्ष्मम् । आप्य देशविशेषेऽचिरादिना प्राप्य । सः - उक्तोपासकः । मोदनीयम् - अपहतपाप्मत्वादि ब्राह्मं स्वरूपं लब्ध्वा मोदते - परमानन्दमाप्नोति । “सोऽश्नुते सर्वान्कामान् सह ब्रह्मणा विपश्चिता" (तैत्तिरीयोपनिषद् आनन्दवल्ली - १.२), "एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाऽभिनिष्पद्यते " (छांदोग्योपनिषद् - ८.१२.२) इति श्रुत्यन्तरैकार्थ्यं बोध्यम् । एवम्भूतात्मतत्त्वे श्रद्धातिशययुक्तोऽयं यन्नचिकेता अस्मत्त इदमेवाधिगन्तुमुद्युङ्क्तः, तन्नचिकेतसं प्रति स परब्रह्मणो विवृतम् - उद्घाटितद्वारं मन्ये । परं ब्रह्माऽयं सुखेनाधिगमिष्यतीति भावः । 'हर्षशोकौ जहाति ' (कठोपनिषद् - २.१२) 'स मोदते' इत्याभ्यां नात्मोच्छित्तिर्मुक्तिः, किन्तु सत एवास्योपासकस्याऽऽत्यन्तिकदुःखनिवृत्तिपूर्वकः परमानन्दलाभो मुक्तिरित्युक्तं भवति । स च प्रकृतिवियोगानन्तरभावीत्युक्तं भवति प्रवृह्य धर्म्यमित्यतः । अणुमेतमाप्य मोदनीयं लब्ध्वेत्यतः स्वरूपलाभः परब्रह्मलाभश्च मुक्तौ न केवलमात्मलाभ इत्युक्तं भवति । अनेन च परब्रह्मापत्तिर्मुक्तिरिति व्यज्यते । 'आप्य' 'लब्ध्वा' इति निर्देशस्वारस्याच्च । अन्यथा भूत्वेति हि श्रूयते स्वरसतः । ' देवं मत्वा हर्षशोकौ जहाति' (कठोपनिषद् - २.१२) इत्यत: उपास्योपासकयोर्वैलक्षण्यं व्यञ्जितं भवति । " अध्यात्मयोगाधिगमेन देवं मत्त्वा" (कठोपनिषद् - २.१२) " एतच्छ्रुत्वा सम्परिगृह्य" इत्युपायविशेषप्रदर्शनेन न प्रातिभासिकभेदनिवृत्तिर्निर्विशेष- सन्मात्रापत्तिर्वा मोक्ष इति व्यज्यते । तथा सति वाक्यार्थज्ञानमात्रस्यैवोपायत्वेनोपासन- विशेषस्यानपेक्षणात् । इत्थञ्च आभ्यां मन्त्राभ्यां 'येयं प्रेते विचिकित्सा' (कठोपनिषद् - १.२१) इत्यनेन कृतः प्रश्नः सङ्क्षिप्योत्तरितः ॥१३॥
॥ आङ्गल-अर्थः ॥
When mortal man has heard, when he has grasped, when he has forcefully separated the Righteous One from his body and won that subtle Being, then he has delight, for he has got that which one can indeed delight in. Verily I deem of Nachiketas as a house wide open.
॥ हिन्दी-अर्थः ॥
११अथवा, ''तथा उस महिमामय यश को, जिसका गान विशालतम देशो में हो।'' ''जब मर्त्यशील मनुष्य इस 'धर्म्य-तत्त्व' का श्रवण करके उसे प्राप्त कर लेता है तथा उसे अपने शरीर से पूर्णतया पृथक् करके उस 'अणुरूप सूक्ष्म सत्ता' को प्राप्त कर लेता है, तब वह आनन्दित होता है, क्योकि तब उसने उस 'तत्त्व' को प्राप्त कर लिया है जो वस्तुतः आनन्द का विषय है। निश्चय ही मैं नचिकेता को एक खुले हुए सदन के समान मानता हूँ।''
॥ शब्दावली ॥
मर्त्यः - martyaḥ - the mortal man
एतत् - etat - this
श्रुत्वा - śrutvā - hearing
सम्परिगृह्य - samparigṛhya - having grasped / understood
धर्म्यम् - dharmyam - the Righteous One
प्रब्रुह्य - prabruhya - having forcefully separated from his body
सः - saḥ - that
एतम् अणुम् - etam aṇum - that subtle Being
आप्य - āpya - having won
मोदनीयम् - modanīyam - that which one can indeed delight in
लब्ध्वा - labdhvā - having got
मोदते - modate - delights in
हि - hi - verily
नचिकेतसम् - naciketasam - of Nachiketas
विवृतम् सद्म - vivṛtam sadma - a house wide open
मन्ये - manye - I deem

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know