कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम्। स्तोमं अहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥
॥ लिप्यन्तरणम् ॥
kāmasyāptiṁ jagataḥ pratiṣṭhāṁ kratorānantyamabhayasya pāram | stomaṁ ahadurugāyaṁ pratiṣṭhāṁ dṛṣṭvā dhṛtyā dhīro naciketo'tyasrākṣīḥ ||
॥ अन्वयः ॥
नचिकेतः कामस्य आप्तिं जगतः प्रतिष्ठां क्रतोः आनन्त्यम् अभयस्य पारं स्तोमम् महत् उरुगायं प्रतिष्ठां दृष्ट्वा त्वं धृत्या तत् अत्यस्नाक्षीः ॥
॥ अन्वयलिप्यन्तरणम् ॥
naciketaḥ kāmasya āptiṁ jagataḥ pratiṣṭhāṁ kratoḥ ānantyam abhayasya pāraṁ stomam mahat urugāyaṁ pratiṣṭhāṁ dṛṣṭvā ( tvaṁ ) dhṛtyā ( tat ) atyasnākṣīḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ नचिकेतसः धीरत्वप्रतिपादनम् ]
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् ।
स्तोमं महदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥११॥
पुनरभिनन्दति नचिकेतसमनुस्मरन् तस्य विषयवैतृष्ण्यम् - हे नचिकेतः ! त्वमसि धीरः प्रज्ञाशाली । यत् क्रतोः - यागादेः कर्मणः, प्रतिष्ठाम् फलभूतां जगतः कामस्य - । जगत्सम्बन्धिकामस्य, ब्रह्माण्डोदरवर्तिनो लौकिकस्य कामस्य प्राप्तिम् । अथालौकिके त्वर्थे परमपुरुषार्थस्वरूपे आनन्त्यम् - अविनाशित्वम्, अभयस्य पारम् - अभयकाष्ठाम्, स्तोमम् - अपहतपाप्मत्वादिगुणस्तोमम्, स्तुत्यं वा स्वरूपम्, महत् महत्ताम्, उरुगायम् - प्रबलकीर्तिम्, प्रतिष्ठाम् अपुनरावृत्तिलक्षणं स्थैर्यम्, दृष्ट्वा विचिन्त्य, दोषगुणानुचिन्तनपूर्वकं दृष्ट्वा, लौकिकानर्थान् अत्यस्स्राक्षीः - त्यक्तवानसि ।
यद्वा - कामस्याऽऽप्तिं, जगतः प्रतिष्ठां दृष्ट्वा - जगत्प्रतिष्ठापरिमितां दृष्ट्वेति लौकिकार्थेषु दोषोक्तिः । अयं भावः - लौकिका हि अर्था मानुषभोगप्रभृतिकाः परिमितकालत्वेन क्षयिष्णवः । यच्चात्र जगति सर्वतोऽतिशयितं हैरण्यगर्भं पदं, तदपि जगतोऽस्य प्रलये तेन सह विनश्येदेवेति कामाप्तिः सर्वा ब्रह्मादिस्तम्बपर्यन्तजगत्सत्तां नातिशेत इति तत् प्रतिष्ठारूपेयम्, तस्य सान्तत्वे लौकिकार्थानां कुतोऽनन्तत्वम् ? इति । अथ मुक्तिस्वरूपे गुण उच्यते - क्रतोः आनन्त्यम् इति । क्रतोः - उपासनस्य, ब्रह्मोपासनस्य इत्येतत् । आनन्त्यम् - फलतः अपरिच्छिन्नत्वम् । अन्यत्पूर्ववत् ।
यद्वा - अभयस्य पारं स्तोमं महदुरुगायं प्रतिष्ठां च मोक्षेऽलौकिकपुरुषार्थे दृष्ट्वा कर्मफलभूतां लौकिककामाप्तिम् अत्यस्त्राक्षीः इत्यर्थः ॥११॥
॥ आङ्गल-अर्थः ॥
When thou hast seen in thy grasp, O Nachiketas, the possession of desire and firm foundation of this world and an infinity of power and the other shore of security and praise and scope and wide moving and firm foundation, wise and strong in steadfastness thou didst cast these things from thee.
॥ हिन्दी-अर्थः ॥
''हे नचिकेता! कामना की प्राप्ति को, इस जगत् की दृढ प्रतिष्ठा को, शक्ति की अनन्तता को, अभय के दूसरे पार को, महती स्तुति को एवं विस्तृत प्रतिष्ठा
को अपने अधिकार मे आया देखकर भी, विवेक एवं धैर्य मे दृढ रहकर, तुमने इन सबका परित्याग कर दिया है।
॥ शब्दावली ॥
नचिकेतः - naciketaḥ - O Nachiketas!
कामस्य आप्तिम् - kāmasya āptim - the possession of desire
जगतः प्रतिष्ठाम् - jagataḥ pratiṣṭhām - firm foundation of this world
क्रतोः आनन्त्यम् - kratoḥ ānantyam - an infinity of power
अभयस्य पारम् - abhayasya pāram - the other shore of security
स्तोमम् महत् - stomam mahat - praise and scope
उरुगायम् प्रतिष्ठाम् - urugāyam pratiṣṭhām - wide moving and firm foundation
दृष्ट्वा - dṛṣṭvā - having seen
धीरः - dhīraḥ - wise
धृत्या - dhṛtyā - strong in steadfastness
अत्यस्नाक्षीः - atyasnākṣīḥ - thou didst cast (these things from thee)


0 टिप्पणियाँ
If you have any Misunderstanding Please let me know