तस्मै स होवाचातिप्रश्चान् पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥
॥ लिप्यन्तरणम् ॥
tasmai sa houvācātipraścān pṛcchasi brahmiṣṭho'sīti tasmātte'haṁ bravīmi ||
॥ अन्वयः ॥
सः तस्मै उवाच त्वम् अतिप्रश्नान् पृच्छसि। ब्रह्मिष्ठः असि इति तस्मात् अहं ते ब्रवीमि ॥
॥ अन्वयलिप्यन्तरणम् ॥
saḥ tasmai uvāca ( tvam ) atipraśnān pṛcchasi| brahmiṣṭhaḥ asi iti tasmāt ahaṁ te bravīmi ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
तस्मै सहोवाच अतिप्रश्नान्पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥२॥
अतिक्रम्य वर्तमानाः प्रश्ना अतिप्रश्नाः । कबन्धिवैदर्भिप्रश्नावतिक्रम्य वर्तमानतया अतिप्रश्ना इत्युक्तिः । तवेमे प्रश्नाः प्राक्कृतात्प्रश्नतो रहस्यार्थगोचरा इति भावः । अयं हि प्रश्नः परमकारणं परमात्मानमेवावलम्बते । यस्तु प्रथमः प्रश्नः स तावदादित्यादिसृष्टि- निरूपणेनोपशाम्यतीति नैकान्ततः साक्षात्परमात्मप्रतिपत्तावुपयुज्यते । विजानतां स्यान्नाम हिरण्यगर्भशरीरकतया स्रष्टरि तस्मिंस्तद्वचनान्वयः । यश्च द्वितीयः सोऽपि प्राणधार्यत्वकथनेन विश्राम्यति तथैवेति युक्तमुक्तमतिप्रश्नान्पृच्छ्सीति । उत्साहेन स्तौति - ब्रह्मिष्ठोऽसीति ॥२॥
॥ आङ्गल-अर्थः ॥
To him answered the Rishi Pippalada: “Many and difficult things thou askest; but because thou art very holy, therefore will I tell thee.
॥ हिन्दी अर्थः- ॥
ऋषि पिप्पलाद ने उसे उत्तर दिया, ''तुम बहुत सारे एवं दुरूह प्रश्न पूछ रहे हो; परन्तु, क्योंकि तुम अतिपुण्यात्मा (ब्रह्मिष्ठ) हो, इसलिए मैं तुम्हें बताऊँगा।
॥ शब्दावली ॥
सः - saḥ - he (the Rishi Pippalada)
तस्मै - tasmai - to him
उवाच - uvāca - answered
अतिप्रश्नान् - atipraśnān - many and difficult things
पृच्छसि - pṛcchasi - thou askest
ब्रह्मिष्ठः असि इति - brahmiṣṭhaḥ asi iti - but because thou art very holy
तस्मात् - tasmāt - therefore
अहम् - aham - I
ते - te - to thee
ब्रवीमि - bravīmi - will tell
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know