अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥
॥ लिप्यन्तरणम् ॥
anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt | anyatra bhūtācca bhavyācca yattatpaśyasi tadvada ||
॥ अन्वयः ॥
धर्मात् अन्यत्र अधर्मात् अन्यत्र अस्मात् कृतकृतात् अन्यत्र भूयात् भव्यात् अन्यत्र यत् पश्यसि तत् वद ॥
॥ अन्वयलिप्यन्तरणम् ॥
dharmāt anyatra adharmāt anyatra asmāt kṛtakṛtāt anyatra bhūyāt bhavyāt anyatra yat paśyasi tat vada ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ उपायोपेयपरमात्मविषयकः प्रश्नः ]
एवं सङ्गृह्य उक्तमर्थविशेषं विशिष्य ज्ञातुकामो नचिकेता : पृच्छति - अन्यत्रेति ।
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥१४॥
धर्मादधर्माच्चान्यत्र यत्पश्यसि - पुण्यादपुण्याच्च विलक्षणं यत्साधनं पश्यसि, तद्वद । लोके शुभायाशुभाय वा फलाय पुण्यं पापमिति साधनं प्रसिद्धम् । 'देवं मत्वा हर्षशोकौ जहाति ' (कठोपनिषद् - २.१२) इति निगदता त्वया ताभ्यामन्यदेव किञ्चिच्छ्रेयस्साधनं प्रस्तुतं तद्विविच्य ब्रूहीति भावः । अन्यत्र अस्मात्कृताकृतात् समाहारविवक्षया एकवद्भावः, कृतादकृताच्चान्यदित्यर्थः कृतात् कार्यात्मनाऽवस्थितात्, अकृतात् कारणात्मनाऽवस्थिताच्च अन्यद्यत्प्राप्यस्वरूपं पश्यसि तद्वद इत्यर्थः । प्राप्यं हि लौकिकमैहिकमाऽऽमुष्मिकं वा, कार्यात्मना कारणात्मना वा विद्यमानादस्मात्प्रपञ्चान्नान्यत् । 'हर्षशोकौ जहाति' (कठोपनिषद् - २.१२) इति निगदता त्वया आभ्यामन्यदेव किमपि प्राप्यस्वरूपं प्रस्तुतं भवति । प्राप्यानामेषां प्रकृतानामनुस्यूतहर्षशोकत्वात् । तत् - प्रस्तुतं प्राप्यं विविच्य ज्ञापयेत्याशय:। ‘हर्षशोकौ जहाति' (कठोपनिषद् - २.१२) इति कर्तृतया निर्दिष्टो यः प्राप्ता तत्स्वरूपमपि सम्यग्विवेचय इत्याह - अन्यत्र भूताच्च भव्याच्चेति । अतीतानागताच्चान्यत्, कालत्रयेऽपि वर्तमानमित्यर्थः, एकस्वरूपमित्येतत् । यत्प्राप्तृस्वरूपं पश्यसि तद्वदेत्यर्थः । 'हर्षशोकौ जहाति ' (कठोपनिषद् - २.१२) इति हर्षशोकापगममात्रं निदर्शयता कालापरिच्छिन्नमुपेतृस्वरूपं प्रस्तुतं भवति, तद्विविच्य वद इत्याशयः ।
यद्वा भूताच्च भव्याच्चान्यद्यत्पश्यसि उपेतृस्वरूपं यत्पश्यसीत्यर्थः । लोके साधनवेलायां फलमागामि, फलवेलायां तु साधनमतीतम्, उभयत्रानुवर्तमानस्तूपेता, तदयं लक्ष्यते भूताद्भव्याच्चान्यदिति । उपेतृस्वरूपं यत्पश्यसि तद्वद इत्यर्थः । उपेतृस्वरूपम् 'अणुमेतमाप्य मोदनीयं हि लब्ध्वा " (कठोपनिषद् - २.१३ ) इत्यादिना उपास्याद्देवात् पृथगेव किञ्चिदस्तीति प्रस्तुतम्, तद्विविच्य ज्ञापयेत्याशयः ॥१४॥
॥ आङ्गल-अर्थः ॥
Tell me of That which thou seest otherwhere than in virtue and otherwhere than in unrighteousness, otherwhere than in the created and the uncreated, otherwhere than in that which has been and that which shall be.
॥ हिन्दी-अर्थः ॥
नचिकेता कहता हैː "मुझे उस 'परतत्त्व' के विषय में बताइये जिसे आप धर्म से परे (अन्यत्र), अधर्म से परे इस सृष्ट (कृत) तथा असृष्ट (अकृत) से अन्यत्र, भूत तथा भविष्यत् से भी अन्यत्र देखते हैं।''
॥ शब्दावली ॥
धर्मात् अन्यत्र - dharmāt anyatra - otherwhere than in virtue
अधर्मात् अन्यत्र - adharmāt anyatra - otherwhere than in unrighteousness
अस्मात् कृतकृतात् अन्यत्र - asmāt kṛtakṛtāt anyatra - otherwhere than in the created and the uncreated
भूयात् भव्यात् अन्यत्र - bhūyāt bhavyāt anyatra - otherwhere than in that which has been and that which shall be
यत् पश्यसि - yat paśyasi - which thou seest
तत् वद - tat vada - tell me of That
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know