ब्रह्मसिद्धिः/ब्रह्मकाण्डः (प्रथमः) मण्डनमिश्रः

 



ब्रह्मसिद्धिः/ब्रह्मकाण्डः (प्रथमः)


मण्डनमिश्रः


आनन्दमेकममृतमजं विज्ञानमक्षरम् ।

असर्वं सर्वमभयं नमस्यामः प्रजापतिम् ॥ १.१ ॥



वेदान्तेषु विप्रतिपद्यन्ते विपश्चितः

केचिदप्रामाण्यं मन्यन्ते, आत्मनः प्रमाणान्तरसिद्धत्वे तेषामनुवादकत्वम्, असिद्धत्वे संबन्धाग्रहणात्, अपदार्थत्वे वाक्यस्याविषयत्वात्, प्रवृत्तिनिवृत्त्यनुपदेशे चापुरुषार्थत्वात् ।

अन्ये तु प्रतिपत्तिकर्तव्यताप्रामाण्यव्याजेनाप्रामाण्यमेवाहुः ।

अन्ये तु कर्मविधिविरोधात्प्रत्यक्षादिविरोधाच्च श्रुतार्थपरिग्रहे उपचरितार्थान्मन्यन्ते ।

तन्निरासार्थमुच्यते आनन्दमिति ।

परां च देवतां गुणाभिधानलक्षणया स्तुत्या कायवाङ्मनःप्रह्वतालक्षणया च प्रणत्या पूजयति ।

प्रकरणार्थं चोपक्षिपति

विप्रतिपत्तिनिराकरणमुखेन वेदान्तानामेवंभूतेऽर्थे प्रामाण्यप्रतिपादनाद्यतो भवत्येषोऽपि प्रकरणार्थः ।


अत्र केचित्

आनन्दात्मकत्वे ब्रह्मणः, आनन्दरागान्मुमुक्षुप्रवृत्तिः स्यात् ।

रागनिबन्धना च प्रवृत्तिः संसारबीजमिति न मुक्तये स्यात् ।

शान्तस्य दान्तस्य चात्मनि दर्शनमुच्यते ।

न चानन्दानुरागात्प्रवर्तमानः शान्तो भवति ।

तस्मात्सकलदुःखातिगे ब्रह्मतत्त्वे दुःखेभ्य उद्विग्नः सुखेभ्यश्च वीतरागः प्रवर्तमानो मुच्यते ।

आनन्दश्रुतयश्च सकलदुःखातिक्रममेवाहुः ।

दृष्टो हि क्षुद्दुःखादिनिवृत्तौ सुखशब्दः ।

सैव च सुखमित्यन्ये ।

न चाश्मादौ प्रसङ्गः, प्रत्यग्वृत्तेरुपलभ्यमानायाः सुखत्वात्, तद्विशिष्टात्मोपलब्धेर्वा ।

तान् प्रत्याह आनन्दमिति ।

न तावद्दुःखनिवृत्तिरेव सुखम्, युगपत्सुखदुःखयोर्दर्शनात्संतापवतः शीतह्रदे निमग्नार्धकायस्य ।

अथ [कुप्पुस्वामी संस्करण २] सत्यप्यनिमग्नार्धकायदुःखे इतरस्याभावात्सुखमिति, कुम्भीपाके पच्यमानस्य नरकान्तरदुःखाभावात्सुखित्वप्रसङ्गः ।

एकेन्द्रियद्वारदुःखस्य च इन्द्रियान्तर्द्वारदुःखाभावात् ।

इतश्च, अदुःखस्यापि विषयविशेषसंपर्कात्संवेद्याह्लादोत्पत्तेः ।

यत्रापि दुःखविगमः, तत्रापि न तन्मात्रमेव सुखम्, अन्नपानविशेषोपादानात् ।

दुःखविगमो हि यैस्तैरन्नपानैः सिध्यति ।

न च स विशेषवान्, येन तद्विशेषाय तत्साधनविशेषोऽपेक्ष्येत ।

सुखे त्वतिशयवत्त्वाद्युक्ता तत्साधनातिशयापेक्षा ।


यदपि मन्यन्ते

यदापि नान्यद्दुःखं निवर्त्यम्, तदापि कामस्य दुःखात्मकत्वात्तन्निबर्हणरूपं सुखम् ।

तत्राप्यकामस्य विषयविशेषोपभोगे न सुखिता स्यात् ।

भवति च मध्यस्थोऽपि रमणीयविषयसंपर्के ह्लादवान् ।

स्यादेतत्

यत्रैव कामः स एव सुखयति विषयः, नेतरः ।

तस्मात्कामनिवृत्त्यैव विषयाः सुखयितारः ।

अन्यथा य एकस्य सुखः स सर्वस्य स्यात् ।

कामनिवृत्त्या तु सुखत्वे यत्र यस्य कामोऽभिरुचिः स एव तस्य सुख इति युज्यते ।

तत्राकामस्यापि विषयविशेषोपभोगात्कामाभिव्यक्तौ तन्निवृत्तौ तत्सुखित्वमिति ।

तदप्यसारम्, यतो विषयोपभोगा नावश्यं कामनिबर्हणाः ।

उक्तं हि ’न जातु कामः कामानामुपभोगेन शाम्यतिऽ इति ।

तथा ’भोगाभ्यासमनु विवर्धन्ते रागाः, कौशलानि चेन्द्रियाणाम्ऽ इति ।

विषयदोषदर्शनादपि च कामनिवृत्तिः, तत्रोपभोगतुल्य आह्लादः स्यात् ।

समाने च प्रार्थितार्थलाभे प्रमोदभेदो न स्यात्, कामनिवृत्तेरविशेषात् ।

स्यादेतत्

कामातिरेके तन्निवृत्तौ सुखातिशयाभिमानः, इतरत्रान्यथेति ।

तच्च न ।

कामातिरेकात्प्रयस्यन्तमवाप्तोऽर्थो न तथा प्रीणयति, यथाप्रार्थितो विना प्रयासादुपनतः ।

तथाहि

क्लेशादवाप्तोऽयमिति न तेन तथा प्रीयते, यथानाशंसितोपनतेन ।

कामाभावमात्रे च सुखेऽकामितविषयोपभोगे न भोगावस्थायाः पूर्वापरे अवस्थे भिद्येयाताम् ।

कामप्रध्वंसे वा परावस्था न भिद्येत ।

भोगावस्थायां प्रबुद्धाध्वस्तकाम एवेति चेत्पूर्वा [कुप्पुस्वामी संस्करण ३] परयोरपि द्वयोरवस्थयोस्तर्हि सुखी इतरत्र दुःखीत्यनुभवविरुद्धमापद्येत ।

अप्राप्तश्च स्मरणविपरिवर्ती विषयः कामस्योद्बोधकः, प्राप्तो निवर्तकः ।

प्राप्तस्योद्बोधत्वे न ततो निवृत्तिः स्यात् ।


न च यत्र कामस्तत्र सुखम्, मनोरथशतार्थितस्याप्युपभोगेन कस्यचिद्दुःखित्वदर्शनात् ।

सुखपूर्वकस्तु कामः, अनुभूततद्भावे तद्दर्शनात् ।

यापि काचिदननुभूतेऽपि जातिविशेषभाजां कामप्रवृत्तिः सापि प्राग्भवीयानुभवनिबन्धना ।

यथा च कस्यचित्क्वचित्कामो जातिभेदादिनिमित्तः, तथा किञ्चित्कस्यचित्सुखमिति नाव्यवस्था ।

अपि च कामनिवृत्त्यापि केचिद्दूयन्ते, तदभावे विषयोपभोगसामर्थ्याभावात् ।

न तर्हि निवृत्तिकामाः ।

निवृत्तिकामा विषयं प्रति, तस्य कुतश्चिन्निमित्तादनुपभोग्यत्वात् ।

किमिति तर्हि दूयन्ते? अनुभूतचरस्य तज्जन्मनः सुखस्याप्राप्तेः ।

यथा पित्ताद्युपहतेन्द्रिया विशिष्टेभ्योऽन्नपानेभ्यो निवृत्तिकामाः, तथैव कामनिवृत्त्या तप्यन्ते ।

तत्रानुभूतचरतज्जन्माह्लादविच्छेदान्नान्यो हेतुः ।

तस्मात्प्रत्यात्मवेदनीयसुखप्रत्याख्यानमयुक्तम् ।

सुखसङ्गिजनोपच्छन्दनाय तु तत्रभवद्भिर्वर्णितमिति पश्यामः ।

तदेवं दुःखनिवृत्तेरन्यत्सुखम् ।

स चानन्दशब्दस्य मुख्योऽर्थः ।

शब्दप्रमाणके च यथाशब्दं प्रतिपत्तिर्युक्ता ।


न च रागनिबन्धना तत्र प्रवृत्तिः ।

न हीच्छामात्रं रागः ।

अविद्याक्षिप्तमभूतगुणाभिनिवेशं रागमाचक्षते ।

तत्त्वदर्शनवैमल्यात्तु तत्त्वे चेतसः प्रसादोऽभिरुचिरभीच्छा न रागपक्षे व्यवस्थाप्यते, यथा संसारासारतातत्त्वदर्शननिष्पन्नो नोद्वेगस्ततो द्वेषपक्षे ।

अन्यथा सर्वदुःखातिगेऽपि तत्त्वे तद्द्वेषनिबन्धना प्रवृत्तिरिति संसारानुबन्धः स्यात् ।

अपि च दृष्टपरोत्कर्षरागिभ्योऽपीन्द्रियजय उपदिश्यते साधनत्वेन कामादित्यागात्मकः, तथेहापि भविष्यति ।

कथं च तत्र समीहितेतरविषयाभिष्वङ्गनिषेधः? सर्वनिषेधेऽप्रवृत्तिदर्शनात् ।

तथोत्तमसुखरागादितरस्मादुपनतादपि निवृत्तिः ।

तथा चोक्तम्

’कामात्मता न प्रशस्ता न चैवेहास्त्यकामताऽ इति ।


स्यादेतत्

आनन्दश्चेद्ब्रह्मणि संवेद्यः, कर्तुरन्यत्कर्मेति द्वैतप्रसङ्गः ।

कर्तृकर्मभावश्च न क्रियां करणं चान्तरेण यतः ।

ततः ’ानन्दं ब्रह्मऽ [कुप्पुस्वामी संस्करण ४] इति च न स्यात् ।

तद्वत्तया व्यपदेशे अद्वितीयमिति न युज्यते ।

असंवेदने सन्नप्यसत्कल्प इति व्यर्थं तत्संकीर्तनम् ।

पुरुषार्थत्वाय हि तत्संकीर्तनम्, असंवेद्यश्च कथं पुरुषार्थः? उच्यते

फलवत्कर्तृवच्चेदं द्रष्टव्यम् ।

तथा हि

प्रमाणस्य फलमर्थान्तरमनर्थान्तरं वा सर्वपरीक्षकैः प्रतिज्ञायते प्रज्ञायते च ।

न च तदसंवेद्यम्, तदसंवेद्यत्वे सर्वासंवेद्यत्वप्रसङ्गात्, तत्कृतत्वात्संवेद्यभावस्य भावानाम् ।

न च संवेद्यम्, फलान्तरानुपलब्धेरनवस्थाप्रसङ्गाच्च ।

तस्मात्संवेद्यम्, आत्मप्रकाशत्वात् ।

असंवेद्यं च, विषयवत्कर्मभावाभावात् ।

यथा च कर्तर्यात्मन्यसंवेद्ये संविदेव न स्यात् ।

न हि तदैवं भवति

मयेदं विदितम्

इति ।

न ह्यात्मासंवेद्यः फले विषये चानुसंधातुं शक्यः ।

अननुसंधाने च स्वपरसंवेद्ययोः कोऽतिशयः? न च संवेद्यः, कर्मत्वे कर्तुर्व्यतिरेकप्रसङ्गातनात्मत्वप्रसङ्गाच्च ।

तस्मादात्मप्रकाशतैव तस्य संवेद्यता ।

तथा ब्रह्मणः स्वात्मप्रकाशस्यानन्दस्वभावो न संवेद्यः, कर्मत्वाभावात् ।

न चासंवेद्यः, स्वप्रकाशत्वात् ।

’तत्केन कं पश्येत्?ऽइत्यपि निषेधः कर्मविषयः ।

तथा हि सर्वकर्मप्रत्यस्तमयहेतुक एव स उच्यते ’यदास्य सर्वमात्मैवाभूत्ऽ इति ।


अन्ये मन्यन्ते

द्विविधा धर्माः

भावरूपा अभावरूपाश्चेति ।

तत्राभावरूपा नाद्वैतं विघ्नन्ति, यथा

’ेकममृतमजम्ऽ इति ।

न हि भेदोदयव्ययानां निवृत्तिः किञ्चिद्वस्तु, येन द्वैतमावहेत् ।

आनन्दश्च यदि भावः, तस्य धर्मित्वे विज्ञानं धर्मः स्यात् ।

अथ विज्ञानं धर्मिरूपम्, आनन्दो धर्मः ।

न ह्येकस्य द्वे रूपे युज्येते, विरोधात् ।

तत्र ’विज्ञानमानन्दं ब्रह्मऽ इति भावरूपयोरानन्दब्रह्मणोर्धर्मधर्मिणोर्भेदादद्वैतविघातः ।

स्यादेतत्

धर्मोऽपि धर्मिणो न भिन्नः, भेदे गवाश्ववद्धर्मधर्मिभावानुपपत्तेः ।

तदसत्, अभेदेऽपि धर्मिरूपवत्तदनुपपत्तेः ।

तस्मात्कथञ्चिद्भिन्नो धर्मः ।

तथा चात्यन्तिकभेदाभावश्रुतिः ’ेकमेवाद्वितीयम्ऽ इति न युज्यते ।

एवं योऽप्येकस्य रूपद्वयं प्रतिपद्यते ।

तस्माद्विज्ञानात्मनो ब्रह्मणो दुःखाभावोपाधिरेवानन्दशब्दः, [कुप्पुस्वामी संस्करण ५] यथा

स्थूलाभावाद्युपाधयः ’स्थूलमनण्वह्रस्वम्ऽइत्यादयः शब्दाः ।

न च विज्ञानानन्दयोरेकत्वमेव, शब्दद्वयप्रयोगवैयर्थ्यात् ।

कथं चापर्यायशब्दाभिधेय एकत्वम्? तस्माद्दुःखोपरम एवानन्दशब्दस्य ब्रह्मण्यर्थ इति ।


अत्रोच्यते

विशिष्टस्याह्लादात्मनः प्रकाशस्य चान्द्रमसस्येव शब्दद्वयेन प्रतिपादनान्न दोषः ।

यथा च

प्रकृष्टः प्रकाशः सविता

इति ।

न च प्रकृष्टप्रकाशशब्दयोः पर्यायत्वम् ।

अथ च एक एवाभ्यामर्थविशेषः प्रतिपाद्यते प्रकाशविशेषः ।

न हि प्रकर्षोऽन्यः प्रकाशरूपात्सवितरि, न प्रकाशरूपो वा प्रकर्षात्, अपि तु प्रकाशभेदः शब्दद्वयोपायः प्रतीयते ।

तथा ’विज्ञानमानन्दं ब्रह्मऽ इत्यानन्दभेदो विज्ञानभेदो वा ब्रह्मरूपमिति शब्दद्वयेनावगम्यते ।

परमतामप्यस्य केचित्साधनपारतन्त्र्यलक्षणायाः क्षयितालक्षणायाश्च दुःखताया अभावान्मन्यन्ते ।

तदपि यथाशब्दं प्रतिपत्तेः शब्दप्रमाणकेऽर्थे नानुमन्यन्ते ।

न हि स्वरूपतः परमतासंभवे विरोध्यसंसर्गादुपचरिता सा युक्ता भवितुम् ।

तस्मादात्मप्रकाशप्रकृष्टात्मस्वभावमेव ब्रह्मेति युक्तम् ।

एवं च लौकिकानन्द एतस्य मात्रेति युज्यते, अवच्छेदात् ।

दुःखनिवृत्तौ तु दुर्योजमेतत् ।

इतश्चानन्दस्वभाव आत्मा, परप्रेमास्पदत्वात् ।

श्रूयते हि परप्रेमास्पदत्वम् ’तदेतत्प्रेयः पुत्रात्ऽ इति ।

प्रतीयते च ।

तथा हि

सर्वस्येयमात्माशीः कृमेरपि ’मा न भूवम्, भूयासम्ऽ इति ।

सा च प्रियेऽवकल्पते ।

प्रेमा च सुखात्मनि ।

न दुःखे, नोभयरूपरहिते, द्वेषादुपेक्षणाच्च ।

अन्ये तु सुषुप्ते ’सुखमहमस्वाप्सम्ऽ इति परामर्शादात्मनि सुखानुभवमाहुः ।

न ह्यननुभवे परामर्श एवं स्यात्, सुषुप्ताभ्युपगमश्च ।

[कुप्पुस्वामी संस्करण ६] न चान्यथानुभवे सुखमिति परामर्शः ।

न च तत्रात्मनोऽन्यदनुभवनीयमस्ति ।

तथा चाहरहर्ब्रह्मलोकावाप्तिः श्रूयते ।

तत्रान्य आहुः

दुःखोपरमादपि तथा परामर्शसिद्धेर्नैकान्ततः सुखित्वसिद्धिः ।

तान् प्रत्याहुः

अन्यथाभावेऽवगते दुःखोपरमनिमित्तः सुखशब्द इति युज्यते, अन्यथा मुख्यार्थतैव युक्ता ।

तत्राहुः

उभयथा व्यपदेशस्य दर्शनादुपपत्तेश्च न व्यपदेशमात्रादर्थसिद्धिरित्यलमतिविस्तरेण ।


अत्र केचित्

भोगव्यवस्थानात्, मुक्तसंसारिविभागोपपत्तेश्च, दृक्छक्तेश्चार्थवत्त्वात्स्वात्मनि वृत्तिविरोधात्, दृश्येन च द्रष्टुरनुमानात्, दृश्यस्य च सुखदुःखमोहभेदवच्छब्दादिविभागोपलब्धेः, एकत्वश्रुतिः जातिदेशकालविभागाभावनिमित्तोपचारान्मन्यन्ते ।

’ात्मैवेदं सर्वम्ऽ इति च तादर्थ्यनिमित्तोपचारात् ।

तान् प्रत्युच्यते

एकमिति ।

’िन्द्रो मायाभिः पुरुरूप ईयतेऽ इति व्यक्तमेव नानारूपावगमो मायानिबन्धनो दर्शितः ।

तत्र कथमेकत्वमुपचरितमिति वक्तुं शक्यम्? तथा व्यक्तो नानात्वनिषेधः

’नेह नानास्ति किञ्चनऽ इति ।

नानात्वदर्शननिन्दा च

’मृत्योः स मृत्युमाप्नोतिऽ इति ।

भेददर्शनस्य चाभावः

भेददृष्टिरिव भ्रमात्

’य इह नानेव पश्यतिऽ इति इवशब्देन प्रकाशितो नोपचरित एकत्वेऽवकल्पते ।

काममुपचारादस्त्वेकत्वम्, न तु भाविकस्य नानात्वस्य निवृत्तिः ।

साप्युपचारेणैवोच्यत इति चेत्, न, प्रयोजनाभावात् ।

सति निमित्ते प्रयोजने चोपचारः ।

न च नानात्वनिवृत्त्युपचारे प्रयोजनं पश्यामः ।

विपर्ययाच्च ।

अभ्युदयाय निःश्रेयसाय वा नानात्वनिवृत्तिरुपचर्येत ।

सा हि साध्यसाधनादिविभागं निवर्तयन्ती सर्वत्र चात्माभिमानमाविर्भावयन्ती तद्विरोधिनी स्यात् ।

तथा हि सर्वतो निवृत्तस्य निःश्रेयसमित्यविसंवादः (चोर्रेच्तेद्॑ अपि संवादः एदितिओन्) ।

तथा ’ेकमेवाद्वितीयम्ऽइत्यवधारणाद्वितीयशब्दाभ्यां तस्यैवार्थस्य पुनःपुनरभिधानात्सर्वप्रकारभेदनिवृत्तिपरता श्रुतेर्लक्ष्यते ।

अभ्यासे हि भूयस्त्वमर्थस्य भवति, यथा ’हो दर्शनीया, अहो दर्शनीयाऽ इति ।

न न्यूनत्वमपि ।

दूरत एवोपचरितत्वम् ।

[कुप्पुस्वामी संस्करण ७] यत्तु भोगव्यवस्थानादिति, तत्रोच्यते

कल्पितादपि भेदाद्भोगव्यवस्थासिद्धेरसारमेतत् ।

तथा हि

एकस्मिन्नप्यात्मनि सर्वगते शरीरपरिमाणेऽणुपरिमाणे वा कल्पितभेदनिबन्धना भोगव्यवस्था दृश्यते

पादे मे वेदना, शिरसि मे वेदना

इति ।

न हि पादस्य शिरसो वा वेदनयाभिसंबन्धः, अज्ञत्वात् ।

शरीरपरिमाणात्मवादिनोऽपि नावयवा एव वेदनाभाजः, आत्मनस्तद्विरहप्रसङ्गात् ।

स्यादेतत्

ऐकात्म्ये तद्वदेव देहान्तरभोगानुसन्धानं स्यात् ।

अन्यदिदानीमेतत् ।

अस्ति तावद्भोगव्यवस्था ।

अपि च तत्रापि न प्रदेशः प्रदेशान्तरवेदनामनुसंदधाति, तथेहापि न जीवो जीवान्तरवेदनामनुसंदधातीति समानम् ।

तथा मणिकृपाणदर्पणादिषु सुखादीनां वर्णसंस्थानभेदव्यवस्थानमुपलभ्यते भेदाभावेऽपि ।

एवं च मुक्तसंसारिविभागोऽप्युपपन्नः ।

तथा हि

एकोऽप्यात्मा प्रदेशैः सुखदुःखादिभिर्युज्यमानस्तत्र बद्ध इव इतरत्र मुक्त इव च गम्यते ।

यथा मलीमसे दर्पणतले मलीमसं मुखं विशुद्धे विशुद्धं दर्पणरहितं च गम्यमानं तदुपाधिदोषासंपृक्तम् ।

स्यादेतत्

कल्पना प्रतिपत्तुः प्रत्ययस्य धर्मो न वस्तु व्यवस्थापयितुमलम् ।

न खलु प्रतिपत्तुः प्रत्ययमनु विपरिवर्तन्ते वस्तूनि ।

न चोपचरितात्कार्यमुपपद्यते ।

न ह्युपचरिताग्निभावो माणवको दहति ।

उदाहृता तु व्यवस्था ।

सत्यम् ।

विभ्रमो हि सः ।

अत्रापि विभ्रमत्वं न दण्डवारितम् ।

कल्पितोऽपि चाहिदंशो मरणकार्याय कल्पते, प्रतिसूर्यकश्च प्रकाशकार्याय ।


यदपि दृश्येनैव द्रष्टुरनुमानाद्द्रष्टृदृश्ययोर्भेदः, दृश्यस्य च सुखादिभेदोपलब्धेर्नानात्वमिति, तदप्यसत् ।

न द्रष्टर्यप्रकाशे यतो दृश्यस्य सिद्धिरस्तीत्युक्तम् ।

दृश्यभेदोपलब्धिश्च नास्ति, प्रमाणस्यानवच्छेदकत्वादिति वक्ष्यते ।

दृक्छक्तेश्चार्थवत्त्वं स्वात्मोपयोगात् ।

न च स्वात्मनि वृत्तिविरोधः ।

प्रदीपवत्प्रमाणफलवच्चेत्युक्तम् ।

अपि च एकत्व एवायं द्रष्टृदृश्यभावोऽवकल्पते, द्रष्टुरेव चिदात्मनस्तथा तथा विपरिणामाद्विवर्तनाद्वा ।

नानात्वे तु [कुप्पुस्वामी संस्करण ८] विवित्कस्वभावयोरसंसृष्टपरस्परस्वरूपयोरसम्बद्धयोः कीदृशो द्रष्टृदृश्यभावः ।

न हि चित्यासंसृष्टं चेतितमिति युज्यते ।

एकान्तःकरणसंक्रान्तावस्त्येव सम्बन्ध इति चेत्, न, चितेः शुद्धत्वादपरिणामादप्रतिसंक्रमाच्च ।

दृश्या बुद्धिश्चितिसन्निधेस्तच्छायया विवर्तत इति चेत्, अथ केयं तच्छायता? अतदात्मनस्तदवभासः ।

न तर्हि परमार्थतो दृश्यं दृश्यते ।

परमार्थतश्चादृश्यमानं द्रष्टृव्यतिरिक्तमस्तीति दुर्भणम् ।

योऽपि मन्यते

दृश्यतयैव दृश्यं व्यवस्थाप्यते, न सम्बन्धेन ।

दर्शनं च ’िदम्ऽइति पराग्रूपविषयम् ।

स वक्तव्यः

सत्यं पराग्रूपविषयम् ।

तत्त्वेकस्यैवात्मनस्तथा तथा विपरिणामाद्विवर्तनाद्वा दर्पणतल इवात्मनः ।

तथा हि दर्पणतलस्थमात्मानं विभक्तमिवात्मनः प्रत्येति ।

चितेस्तु विभक्तमसंसृष्टं तया चेत्यत इति दुरवगमम् ।

एवं च द्रष्टुरव्यतिरेको दृश्यस्याम्नायते

’ात्मनि विज्ञाते सर्वमिदं विज्ञातं भवतिऽ इति ।

तस्मात्सुष्ठूक्तमेकमिति ।


क्षणिकज्ञानात्मवादिनस्तु सवासनक्लेशसमुच्छेदाज्ज्ञानोपरमलक्षणामेव ब्रह्मप्राप्तिमाहुः ।

तथा च श्रूयते

’न प्रेत्य संज्ञास्तिऽ इति ।

अन्ये तु समुच्छिन्नसकलवासनत्वाद्विधूतविषयाकारोपप्लवविशुद्धज्ञानोत्पादलक्षणाम् ।

अनादिनिधनत्वे हि नापनेयं नोपनेयं वा किञ्चिदस्तीति तदर्थानि शास्त्राणि तदर्थाश्च प्रवृत्तयो व्यर्थाः स्युः ।

तथा हि विद्यास्वभावं चेत्, न किञ्चिन्निवर्तव्यमवाप्तव्यं वा स्यात्, अविद्याया अभावाद्विद्यायाश्च भावात् ।

अविद्यास्वभावं चेत्, तस्य नित्यत्वे पूर्वस्वभावत्यागात्स्वभावान्तरानापत्तेश्च ।

एवमुभयस्वभावत्वेऽपि विद्यायाः प्राप्तत्वादविद्यायाश्चोच्छेत्तुमशक्यत्वात् ।

तान् प्रत्याह

अमृतमजमिति ।

न च शास्त्राणां मुक्त्यर्थानां च प्रवृत्तीनां वैयर्थ्यम्, अविद्याया निवर्त्यत्वात् ।

सर्वप्रवादेषु चानादिरप्यविद्योच्छेद्याभ्युपगम्यते ।

न ब्रूमोऽनादेर्नोच्छेद इति, किं तु नित्यस्य ब्रह्मणः स्वभावस्य ।

[कुप्पुस्वामी संस्करण ९] अथाविद्या न ब्रह्मणः स्वभावः, अर्थान्तरं ब्रह्मण आपद्येत ।

न वा स्यात्, तत्र किं निवर्त्यम्? अथ मतम्

अग्रहणमविद्या, सा कथमर्थान्तरं स्यात्? न चानिवर्त्या, सर्वप्रमाणव्यापाराणामग्रहणनिवृत्त्यर्थत्वात् ।

तदप्ययुक्तम् ।

तत्त्वाग्रहणात्मिकया विद्यया निवर्त्यते ।

सा च नित्या ब्रह्मणि ।

न च ब्रह्मणोऽन्योऽस्ति, यस्य तत्त्वाग्रहणं ब्रह्मणि प्रयत्नलभ्यया विद्यया निवर्त्येत ।

ब्रह्मणि तु युगपद्ग्रहणाग्रहणे विप्रतिषिद्धे ।

अविप्रतिषेधे वा न कदाचिदविद्या निवर्त्येत ।

यस्य तु विपर्ययग्रहणमविद्या, तस्य ब्रह्मणः स्वभावश्चेत्स नित्यः कथं निवर्त्येत? अस्वभावश्चेदर्थान्तरमापद्येत ।

कस्य च तदिति वाच्यम्, ब्रह्मणोऽन्यस्याभावात् ।

ब्रह्मण एवेति चेत्, विप्रतिषेधः, तस्य विद्यास्वरूपत्वात् ।

अविप्रतिषेधे वा केन निवृत्तिः?


अत्रोच्यते

नाविद्या ब्रह्मणः स्वभावः, नार्थान्तरम्, नात्यन्तमसती, नापि सती ।

एवमेवेयमविद्या माया मिथ्यावभास इत्युच्यते ।

स्वभावश्चेत्कस्यचित्, अन्योऽनन्यो वा परमार्थ एवेति नाविद्या ।

अत्यन्तासत्त्वे खपुष्पसदृशी न व्यवहाराङ्गम् ।

तस्मादनिर्वचनीया ।

सर्वप्रवादिभिश्चेत्थमियमास्थेया ।

तथा हि

शून्यवादिना सत्त्वे यथार्थदर्शनम्, नाविद्या ।

खपुष्पतुल्यत्वे न व्यवहाराङ्गम् ।

विज्ञानमात्रवादिनोऽपि यथावभासं ज्ञानसद्भावे नार्थापह्नवः, नीलपीतादेर्ज्ञेयाकारस्य बहिरवभासानपह्नवात्, अत्यन्तासत्त्वे बहिरवभासायोगात्, खपुष्पवत् ।

बाह्यार्थवादिनामप्यनित्यादिषु नित्यादिख्यातयो रजतादिविभ्रान्तयश्चावभासमानरूपसद्भावे नाविद्यात्वमश्नुवीरन् ।

नात्यन्तासत्त्वे तन्निबन्धनः कश्चन व्यवहारः स्यात् ।

स्यादेतत्

अवभासमानं रूपं मा भूत्, अवभासस्तु सन्नेव, स चाविद्येति गीयते ।

नैतत्सारम् ।

अवभासमानेऽसति तदवभासोऽपि सत्यतो दुर्निरूपः ।

अवभासमात्रं तु स्यात् ।

तदवभास इत्यपि भ्रान्तिरेव ।

तस्मान्नाविद्या सती, नाप्यसतीति ।

अत एव चास्या निवृत्तिरदृढस्वभावायाः, मायामात्रत्वात् ।

अन्यथास्वभावे दृढं व्यवस्थितायाः कथमन्यथात्वम्? स्वभावहानात् ।

[कुप्पुस्वामी संस्करण १०] शून्यत्वे स्वयं निवृत्तत्वात् ।

एवं च नाद्वैतहानम्, न निवर्तनीयस्याभावो वा ।


यत्तु कस्याविद्येति ।

जीवानामिति ब्रूमः ।

ननु न जीवा ब्रह्मणो भिद्यन्ते ।

एवं ह्याह

’नेन जीवेनात्मानुप्रविश्यऽ इति ।

सत्यं परमार्थतः ।

कल्पनया तु भिद्यन्ते ।

कस्य पुनः कल्पना भेदिका? न तावद्ब्रह्मणः, तस्य विद्यात्मनः कल्पनाशून्यत्वात् ।

नापि जीवानाम्, कल्पनायाः प्राक्तदभावादितरेतराश्रयप्रसङ्गात्

कल्पनाधीनो हि जीवविभागः, जीवाश्रया कल्पनेति ।


अत्र केचिदाहुः

वस्तुसिद्धावेव दोषः

नासिद्धं वस्तु वस्त्वन्तरनिष्पत्तयेऽलम्, न मायामात्रे ।

न हि मायायां काचिदनुपपत्तिः ।

अनुपपद्यमानार्थैव हि माया ।

उपपद्यमानार्थत्वे यथार्थभावान्न माया स्यात् ।

अन्ये तु

अनादित्वादुभयोरविद्याजीवयोर्बीजाङ्कुरसन्तानयोरिव नेतरेतराश्रयमप्रकॢप्तिमावहतीति वर्णयन्ति ।

तथा चोक्तमविद्योपादानवादिभिः

’नादिरप्रयोजना चाविद्याऽ इति ।

तत्रानादित्वान्नेतरेतराश्रयत्वदोषः, अप्रयोजनत्वान्न भेदप्रपञ्चसर्गप्रयोजनपर्यनुयोगावकाशः ।

यदेके पर्यनुयुञ्जते

’प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्ततेऽ इति, तत्र परस्य ब्रह्मणः प्रपञ्चसर्गप्रयोजनं वाच्यम् ।

न तावत्परानुग्रहः ।

प्राक्सर्गादनुग्राह्याणामभावात्, दुःखोत्तरत्वाच्च सर्गस्य ।

नात्मार्थक्रीडादिः, आप्तकामत्वादिति

तस्य अविद्यानिबन्धनत्वे सर्गे नावकाशः ।

न ह्यविद्या प्रयोजनमपेक्ष्य प्रवर्तते ।

न हि गन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति ।

तथा ’पुरुषस्य विशुद्धस्य नाशुद्धा विकृतिर्भवेत्ऽ इत्यपि प्रयुक्तमविद्यानिबन्धने सर्गविभागे ।

अपि च कृतार्थानामाप्तकामानामेव क्रीडादिप्रवृत्तिरुल्लासात् ।

प्रार्थनापरिकृष्टचेतसां तु रतिविरहिणामनभिमतैव क्रीडा भवति ।

न च वैषम्यनैर्घृण्यदोषः ।

न हि मायाकारस्य विविधं प्रपञ्चं [कुप्पुस्वामी संस्करण ११] दर्शयतोऽङ्गसाकल्यवैकल्यविभागेन रागद्वेषविभागः ।

चित्रपुस्तादिकृतां वा विकलाविकलादिभेदेन चित्राणि तानि तानि कुर्वताम्, बालानां च मृण्मयादिभिः प्रतिकृतिभेदैर्विचित्रैः क्रीडतां न तेषु किञ्चिद्वैषम्यं नैर्घृण्यं वा ।

कर्माशयानुरोधेन च विदधतो वैचित्र्यं न दोष इत्याचार्याः ।

न चानीश्वरत्वदोषः ।

न हि सेवाभेदानुरोधेन फलभेदप्रदः प्रभुरप्रभुर्भवति ।

तथा शुद्धस्याप्यशुद्धो विकारः ।

न हि प्रकृतिविकारयोरत्यन्तमवैलक्षण्यम् ।

प्रकृतिविकारभाव एव न स्यात् ।

द्रवाणां चापां करकादिः कठिनो विकारः, तथाचेतनस्य गोमयस्य चेतनो वृश्चिक इत्यादि बहुविधं प्रकृतिविकारवैलक्षण्यमुत्प्रेक्षितव्यमित्यलमतिप्रसङ्गेन ।


ननु जीवा अपि ब्रह्मतत्त्वाव्यतिरेकाद्विशुद्धस्वभावाः ।

तत्कथं तेष्वविद्यावकाशः? वार्तमेतत् ।

न च तावद्बिम्बादवदातात्प्रतिबिम्बं कृपाणादिषु भिन्नम् ।

अथ च तत्र श्यामतादिरशुद्धिरवकाशं लभते ।

विभ्रमः स इति चेत्, समानमेतज्जीवानामप्यशुद्धिर्विभ्रमः ।

अन्यथा दुरवापैव विशुद्धिः स्यादित्युक्तम् ।

स्यादेतत्

कृपाणादयो मुखे विभ्रान्तिहेतवः, तथेहापि विभ्रमहेतुर्वाच्यः ।

अनादौ विभ्रमे हेत्वन्वेषणमसाम्प्रतमिव ।

तथा च ’स्वप्नादिवदविद्यायाः प्रवृत्तिस्तस्य किङ्कृताऽ इति प्रत्युक्तम् ।

ननु स्वाभाविक्यनादिरविद्या निर्हेतुः, सा कथमुच्छिद्येत? सर्वशास्त्राण्येव तावन्नैसर्गिक्या अविद्याया उच्छेदाय प्रस्थितानि ।

अपि च पार्थिवानामणूनां श्यामतानादिः पाकजेन वर्णेन निवर्त्यते ।

ननु स्वाभाविकमपि किञ्चिद्विलक्षणप्रत्ययोपनिपातान्निवर्तताम् ।

ऐकात्म्यवादिनस्त्वनागन्तुकार्थस्य तदभावात्कुतो निवृत्तिः? न खल्वात्मस्वभाव एव विद्या अविद्यानिवर्तिका, अविद्यायास्तया सह वृत्तेरविरोधात् ।

विरोधे वा नित्यनिवृत्तेर्नित्यमुक्तं जगत्स्यात् ।

न च विद्यान्तरमागन्तुकं विरोधि निवर्तकम्, ऐकात्म्यवादे व्यतिरिक्तस्य तस्यायोगात्, आगन्तुकस्य ब्रह्मस्वभावत्वानुपपत्तेश्च ।

तदुक्तम्


’स्वाभाविकीमविद्यां तु नोच्छेत्तुं कश्चिदर्हति ।

विलक्षणोपपाते हि नश्येत्स्वाभाविकं क्वचित् ॥

[कुप्पुस्वामी संस्करण १२] न त्वैकात्म्याभ्युपायानां हेतुरस्ति विलक्षणःऽ ।

इति ।


अत्रोच्यते

उक्तमेतज्जीवानामविद्याकलुषितत्वम्, न ब्रह्मणः ।

तद्धि सदा विशुद्धनित्यप्रकाशमनागन्तुकार्थम् ।

अन्यथा ब्रह्मभूयं गतस्यापि नाविद्या निवर्तेत ।

तत्रानिर्मोक्षः ।

अथ ब्रह्मैव संसरति ब्रह्मैव मुच्यते, एकमुक्तौ सर्वमुक्तिप्रसङ्गः ।

यतो भेददर्शनेन ब्रह्मैव संसरति, अभेददर्शनेन च मुच्यते ।

तेषां च निसर्गजाविद्याकलुषाणां विलक्षणप्रत्ययविद्योदयेनोपपद्यतेऽविद्यानिवृत्तिः ।

न हि जीवेषु निसर्गजा विद्यास्ति ।

अविद्यैव हि नैसर्गिकी ।

तस्या आगन्तुक्या विद्यया प्रविलयः ।

अव्यतिरेकेऽपि च ब्रह्मणो जीवानां बिम्बप्रतिबिम्बवद्विद्याविद्याव्यवस्था व्याख्याता ।

केन पुनरुपायेनाविद्या निवर्तते? श्रवणमननध्यानाभ्यासैर्ब्रह्मचर्यादिभिश्च साधनभेदैः शास्त्रोक्तैः ।

कथम्? योऽयं श्रवणमननपूर्वको ध्यानाभ्यासः प्रतिषिद्धाखिलभेदप्रपञ्चे ’स एष नेति नेतिऽआत्मनि, स व्यक्तमेव भेददर्शनप्रतियोगी तन्निवर्तयति ।

स च सामान्येन भेददर्शनं प्रविलापयन्नात्मनापि प्रविलीयते ।

न च श्रोतृश्रवणश्रोतव्यादिविभागपरिहाण्या विभागान्तरनिवृत्तिविषयाः श्रवणादयः, अपि तु सामान्येन ।

तथा च तस्मिन्नपि प्रविलीने स्वच्छः परिशुद्धोऽस्यात्मा प्रकाशते ।

यथा रजःसम्पर्ककलुषितमुदकं द्रव्यविशेषचूर्णरजः प्रक्षिप्तं रजोन्तराणि संहरत्स्वयमपि संह्रियमाणं स्वच्छां स्वरूपावस्थामुपनयति, एवमेव श्रवणादिभिर्भेददर्शने प्रविलीयमाने विशेषाभावात्तद्गते च भेदे, स्वच्छे परिशुद्धे स्वरूपे जीवोऽवतिष्ठते ।

अविद्ययैव तु ब्रह्मणो जीवो विभक्तः, तन्निवृत्तौ ब्रह्मस्वरूपमेव भवति ।

यथा घटादिभेदे तदाकाशं परिशुद्धं परमाकाशमेव भवति ।

स्यादेतत्

कथं भेदेनैव भेदः प्रतिसंह्रियते? भेदप्रतिपक्षत्वात्, यथा रजसा रजः

इत्युक्तम् ।

व्यक्तमेव भेदातीतब्रह्मणि श्रवणमननध्यानाभ्यासानां भेददर्शनप्रतिपक्षत्वमविद्यानुबन्धेऽपि ।

यथा पयः पयो जरयति [कुप्पुस्वामी संस्करण १३] स्वयं च जीर्यति, यथा च विषं विषान्तरं शमयति स्वयं च शाम्यति ।

यथोक्तम्


’विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।

अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुतेऽ ॥



एतदुक्तं भवति

विद्याविद्ये द्वे अप्युपायोपेयभावात्सहिते ।

नाविद्यामन्तरेण विद्योदयोऽस्ति ।

साध्या तर्हि, तथा च कृतकत्वादनित्यत्वम्, अत आह

अविद्यया मृत्युमिति ।

एषोऽर्थः

नाविद्या विद्यायाः साधनम् ।

किं त्वविद्यया श्रवणादिलक्षणयाप्यविद्यैव निवर्तते ।

मृत्युरित्यविद्यैवोच्यते ।

तस्यां निवृत्तायां विद्यारूपोपलक्षितममृतमश्नुते स्वरूपावस्थानं स्फटिकमणिरिवोपाध्याश्रयनिबन्धनोपरागत्यागात् ।

अन्तरेण प्रयत्नान्तरं विद्यास्वरूपेऽवतिष्ठत इति ।

अन्योऽर्थः

नाविद्या विद्यारहितास्ति ।

तथा हि

भेददर्शनमपि न प्रकाशशून्यम् ।

तदभावे न भेदः प्रकाशेत ।

तस्मात्पर एव प्रकाशस्तथा तथा प्रकाशते ।

यथोक्तम्

’तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽ इति ।

किं त्वविद्यानुबद्धः ।

यथोक्तम्

’सर्वं दर्शनमन्यूनमविकल्पं विकल्पितमिव त्वयमान्तरः पुरुषोऽभिमन्यतेऽ ।

तथा न विद्या ऐकात्म्यश्रवणादिलक्षणा विनाविद्यया, श्रोतृश्रवणादिविभागानुबद्धत्वात् ।

तत्राविद्ययैव विद्याप्रत्यासन्नया विभागदर्शनमविद्यां तीर्त्वा विद्यालक्षणे नित्ये स्वरूपेऽवतिष्ठते, प्रतिबिम्बकलुषितमिवोदकं तन्निवृत्तौ ।

स्यादेतत्

ऐकात्म्ये विभागस्यासत्यत्वात्, तदधिष्ठानश्रवणादयोऽप्यसत्याः कथं कस्मैचित्कार्याय स्युः? असत्याच्च सत्यप्रतिपत्तिर्मिथ्यैव, यथा धूम इति मिथ्यागृहीताद्बाष्पादिति ।

उच्यते ।

नायं नियमः

असत्यं न कस्मैचित्कार्याय भवतीति ।

भवति हि माया प्रीतेर्भयस्य च निमित्तम्, असत्यं च [कुप्पुस्वामी संस्करण १४] सत्यप्रतिपत्तेः, यथा रेखागवयो लिप्यक्षराणि च ।

स्यादेतत्

स्वरूपेणेदं सत्यम्, न शून्यम् ।


ऐकात्म्यवादिनस्तु स्वरूपेणाप्युपायानामसत्यता ।

उच्यते

सन्तु स्वरूपेण सत्याः ।

येन तु रूपेण प्रतिपादकास्तदसत्यम् ।

कार्योपयोगरहिता स्वरूपसत्यता व्यर्था ।

अपि च अभेददर्शनोपाया अपि न स्वरूपेण मिथ्या, यतो ब्रह्मैवैषां स्वरूपम् ।

तत्र ब्रह्मैवाविद्यानुबद्धं ब्रह्मप्राप्त्युपायः, यथा रेखादयः ’ककारोऽयम्, गवयोऽयम्ऽइत्यविद्यमानरूपेणैव वर्णादीनां बोधकाः ।

योऽपि मन्यते

न रेखागवयो गवयत्वेन गवयान्तराणां प्रतिपत्तिहेतुः, न रेखा वर्णत्वेन ।

किं तु सादृश्यात्

एतत्सदृशो गवय इति, रेखा च समयात्

ईदृशीं रेखां दृष्ट्वायं वर्णः स्मर्तव्य इति ।

तस्य लोकविरोधः ।

तथा हि

बाला हि रेखासु वर्णत्वेनैव व्युत्पाद्यन्ते लोकेऽभेदेन च व्यपदेशः

’यं गवयःऽइत्याख्यातुः, प्रतिपत्तुश्च

’गवयोऽयं मया दृष्टःऽ इति ।

तथासत्यात्प्रतिबिम्बाच्चादृष्टस्य प्रतिबिम्बहेतोर्विशिष्टदेशावस्थस्यानुमानं न मृषा ।

शब्दाच्च नित्यादसत्यदीर्घादिविभागभाजोऽर्थभेदप्रतिपत्तिर्न मिथ्या ।

तथा मिथ्याहिदंशो मरणहेतुः ।

ततश्च मरणमूर्च्छाद्यनुमानं न वितथम्, कालादि भेदयुक्तात्सत्याहिदंशादिव ।


यस्यैव क्षणिकज्ञानमात्मा तस्यैव तूपनेयापनेयासम्भवान्मोक्षशोस्त्राणां मुक्त्यर्थानां च प्रवृत्तीनां वैयर्थ्यम् ।

क्षणिकस्य स्वरसेनैव निर्वाणात्, अनाधेयातिशयत्वाच्च ।

एकस्मिन् क्षणे विशेषाविशेषविभागाभावात्, क्षणस्याभेद्यत्वात् ।

यदि मतम्

सन्ततावुपनेयमपनेयं च समस्तीति, तदसत् ।

कर्ता भोक्ता च संसारी ।

न च सन्ततिरवस्तुत्वात्कर्त्री भोक्त्री वा ।

कथं वासतो मुक्तिबन्धौ? अथ मतम्

नात्यन्तमसती सन्ततिः, नापि सती, कल्पनया तु सती, तद्विमोक्षाय शास्त्राणि प्रवृत्तयश्चेति ।

कल्पितस्तर्हि संसरति विमुच्यते च ।

कल्पितविषयौ च संसारविमोक्षावपि कल्पि [कुप्पुस्वामी संस्करण १५] तावेव ।

तदेतदस्माभिरुच्यमानं किं न भवतोऽभिमतम्? उक्तमेतत्

कल्पितविषयावेव संसारमोक्षौ, न परस्मिन् परमार्थे ।

अपि चाभ्युपगम्यापि क्षणिकं विज्ञानमनादिनिधनाया एव सन्ततेर्मुक्तिसंसारावभ्युपेतौ ।

तथा हि

सन्ततेरनादित्वात्संसारस्यावस्तुत्वाच्च नोत्पादः ।

नोच्छेदः, अवस्तुत्वादन्त्यक्षणानुपपत्तेश्च ।

स ह्यन्त्यः क्षणः किञ्चित्कार्यमारभेत वा, न वा ।

आरम्भे नान्त्य इति तदभावान्नोच्छेदः ।

अनारम्भे सर्वशक्तिविरहादसल्लक्षणात्तस्यासत्त्वम् ।

तस्मिन्नसति सर्वेऽप्यनेनैव क्रमेणासन्तः सन्तानिनः स्युः ।

तदभावे सन्तान एव नास्ति, कस्योच्छेदः? अथारभत एव कार्यमन्त्यः सन्तानान्तरे सार्वज्ञे, सति हेतुफलभावे कथं सन्तानान्तरम्? न हेतुफलभावादन्यदेकसन्ततेर्व्यवस्थापकम् ।

न हेतुफलभावमात्रादेकसन्ततिव्यवस्था, अपि तु उपादानहेतुफलभावात् ।

न च सार्वज्ञस्य ज्ञानस्य चरमक्षण उपादानम् ।

आलम्बनप्रत्ययो हि सः ।

समनन्तरप्रत्ययश्चोपादानम् ।

स्वसन्ततिपतितसमनन्तरप्रत्ययजन्यं च सार्वज्ञं ज्ञानम् ।

आलम्बनप्रत्ययोऽस्य चरमक्षणः ।

यदि तुल्यजातीयमुपादानम्, न मुक्तचित्तसार्वज्ञज्ञानयोस्तुल्यजातीयता नास्ति ।

योऽपि मन्यते

विलक्षणकार्ये सन्तत्युच्छेद इति, तस्य रूपज्ञानप्रबन्धे विषयान्तरविज्ञानान्निर्वाणप्रसङ्गः ।

कथं चित्तुल्यतायामनिर्वाणमित्यलमतिप्रसङ्गेन ।


केचित्तु

विज्ञानगुणमविज्ञानस्वभावमात्मतत्त्वमिच्छन्तः समुत्खातसकलविशेषगुणे स्वरूपे तस्य स्थितिं ब्रह्मप्राप्तिमाहुः ।

सा हि तस्यावस्था देहेन्द्रियाद्युपाधिभिरकृतावच्छेदा बृहती ब्रह्मेति गीयते ।

ज्ञानस्वभावत्वे च सर्वगतस्य देहेन्द्रियनिरपेक्षस्य नित्यत्वाज्ज्ञानस्वरूपस्य सन्निहितविविधज्ञेयभेदस्य बृहत्तरः संसारः स्यात् ।

अथ न विजानाति किञ्चित्, न तर्हि ज्ञानस्वरूपः ।

सकर्मको हि जानात्यर्थो नासति कर्मसम्बन्धे युज्यते ।

तान् प्रत्याह

विज्ञानमिति ।

कुतः? श्रूयते हि

’सत्यं ज्ञानमनन्तं ब्रह्मऽ ’विज्ञानमानन्दम्ऽ इत्यादि ।

न चोक्तदोषः ।

यथा दाहकोऽपि वह्निरुपनीतं दाह्यं दहति, नानुपनीतमदाह्यं च ।

यथा च स्फटिकदर्पणादयः [कुप्पुस्वामी संस्करण १६] स्वच्छाः प्रकाशस्वभावा अपि यदेवोपनिधीयते योग्यं च तच्छायापत्त्या तदेव दर्शयन्ति ।

एवमयं पुरुषो भोगायतनशरीरस्थो भोगसाधनेन्द्रियोपनीतान् शब्दादीन् भुङ्क्ते, तच्छायापत्त्या नित्यचैतन्योऽपि ।

अतश्च न सर्वस्य सर्वदर्शित्वप्रसङ्गः ।

न च मुक्तौ बाह्यविषयोपभोगः ।

स्यादेतत्

सर्वगतस्य सर्वमेव विषयत्वेन वर्तते ।

तत्र किमुपनेयम्? उच्यते

यस्याप्यज्ञस्यात्मनो ज्ञानं मनःसंयोगादिजन्यम्, तस्यापि सर्वमनोभिः सर्वात्मनां संयोगात्कथमुपभोगव्यवस्था? मनःसंयोगमुखेन सर्वे हि तद्विषया विषयत्वेऽस्य वर्तन्ते ।

अथास्य कर्मनिबन्धनत्वादुपभोगस्य कर्मनिमित्ता व्यवस्था, सा चितिरूपात्मवादिनोऽपि न दण्डवारिता ।

अपि चास्याभेददर्शनपरिनिष्पत्त्या सर्वस्मिन्नात्मभावमापन्ने दृश्याभावादेव न दर्शनं दृक्स्वभावस्यापि दग्धुरिव वह्नेर्दाह्याभावान्न दाहः, प्रकाशस्येव च प्रकाश्याभावान्न प्रकाशकता ।

तदुक्तम्

’न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते, अविनाशित्वात् ।

न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तम्, यत्पश्येत्ऽ ’यत्र त्वस्य सर्वमात्मैवाभूत्ऽ इत्यादि ।

विज्ञानादिविशेषगुणनिवृत्तिलक्षणा च मुक्तिरुच्छेदपक्षान्न भिद्यते ।

न हि सतोऽप्यात्यन्तिको दर्शनाभावोऽभावाद्विशिष्यते ।

कश्च सर्वतः प्रेयस आत्मनोऽभावमभिकाङ्क्षेदित्यपुरुषार्थो मोक्षः स्यात् ।

स्यादेतत्

विविधदुःखोपशमत्वादात्मोच्छेदोऽपि पुरुषेणार्थ्यते ।

दृश्यन्ते हि तीव्रपापरोगग्रस्ताः स्वोच्छेदाय यतमानाः ।

सत्यं प्रवृद्धगदोन्मूलितनिखिलसुखा दुःखमयीमिव मूर्तिमुद्वहन्तः ।

न त्वेवं संसारिणो विविधविचित्रदेवाद्यानन्दभागिनः ।

तत्र यथा विविधदुःखोपरमत्वात्पुरुषार्थत्वम्, तथा विविधसुखोपरमत्वादपुरुषार्थत्वमपि ।

यस्य तु निर्मृष्टनिखिलदुःखानुषङ्गा परमानन्दसंवेदनावस्था तस्यैवैकान्तिकं पुरुषार्थत्वमित्यलमतिप्रसङ्गेन ।


अक्षरमिति शब्दात्मतामाह, विशेषेण सामान्यस्य लक्षणात् ।

अपरिणामित्वं वा, परिणामे पूर्वधर्मनिवृत्तेः क्षरणस्य भावात्, तद्व्युदासेन ।

कथं [कुप्पुस्वामी संस्करण १७] तावच्छब्दात्मता? ’परं चापरं च ब्रह्म यदोङ्कारःऽइत्यादिश्रुतिभ्यः ।

न चेदमभिधेयापेक्षम्, कारप्रत्ययान्तस्य शब्दस्वरूपपरत्वात् ।

अवर्णादपि वर्णसमुदायात्परः कारप्रत्ययो दृश्यते

’ेवकारः किमर्थः?ऽ ’किमर्थश्चकारः?ऽ इति ।

नन्विदमन्यथैव व्याचक्षते

सर्वविशेषातिगस्य ब्रह्मण उपासितुमशक्यत्वात्प्रतीकोपदेशोऽयम् ।

अस्मिन्नालम्बने ब्रह्मोपासितव्यम् ।

यथा देवतायाः साक्षात्पूजासम्भवात्तल्लाञ्छने दारुण्यश्मनि वा पूजाविधानं तद्बुद्ध्या, तथा ध्याता देवता सा प्रसीदतीति ।

अनेन वाभिधानेन तद्ध्येयम्, प्रणवस्य तदभिधानत्वात् ।

उच्यते

’ोमित्यात्मानं ध्यायथऽ ’ोमिति युञ्जीतऽइति यत्र योगाङ्गता श्रूयते तत्रैवम् ।

यत्र तु युञ्जीतेत्यादेरश्रवणात्तादात्म्य एव पर्यवस्यति वाक्यम्, तत्र नेत्थम् ।

यथा ’ोमिति ब्रह्म, ओमितीदं सर्वम्ऽ इति ।

अत्र हि सर्ववागनुगमेन तदत्यागादोङ्कारो वाचस्तत्त्वमिति दर्शयित्वा वाग्रूपात्यागाच्च रूपप्रपञ्चस्य ’ोङ्कार एवेदं सर्वम्ऽइत्युपसंहरति ।

यत्रापि ’ेतेनैव परं पुरुषमभिध्यायीतऽ इति श्रवणम्, तदपि सर्वात्मभावप्रतिपादनपूर्वकम् ।

न च सर्वात्मभाव औपचारिकः स्तुत्यर्थ इति युक्तम्, मुख्यार्थत्वेऽप्यविरोधात् ।

सर्वस्य हि प्रत्यक्षाद्यनवसेयं शास्त्रगम्यमिदं रूपं न विरुद्ध्यते ।

न हि प्रमाणान्तरेणानवगमः प्रमाणान्तरस्य विषयमपहरति ।

’तस्माद्विद्वान्ऽ इति च सार्वात्मविद एव तेन ध्यानोपदेशः ।

न च तदन्यतः ।

तस्मादनन्तरमेव वाक्यं तत्र पर्यवसितम् ।

ततोऽधिगतसार्वात्म्यस्य सतो ध्यानोपदेशः ।

अथ वा

’वागेव विश्वा भुवनानि जज्ञे वागेवेदं बुभुजे वागुवाचऽइत्यादौ वाचः सार्वात्म्यं श्रूयते ।

तथा वाक्सूक्ते वाचः सर्वात्मत्वं सर्वेशित्वं च प्रदर्शितम्

’हं रुद्रेभिर्वसुभिश्चरामिऽ इति वाचैव ।

यथात्मनि प्रतिबुद्धेन [कुप्पुस्वामी संस्करण १८] वामदेवेन

’हं मनुरभवं सूर्यश्चऽ इति ।

अपि च प्रकृतिरूपान्विता विकाराः ।

वाग्रूपान्वितं च जगत् ।

अतो वाचो विपरिणामो विवर्तो वावसीयते ।

कथं तदनुगमः? तदुपरागविज्ञानवेदनीयत्वात् ।

तथा हि धूमादत्राग्निरिति प्रतिपत्तेर्व्यधिकरणतया व्यक्तं वैलक्षण्यं शब्दादर्थावगमस्य संवेद्यते सर्वेण ।

इतश्चैतदेवम्

यस्तु शब्दयोर्विशेष्यविशेषणभावोऽवगम्यते ’नीलमुत्पलम्ऽ इति, अर्थगत एवासौ ।

अन्यथा यथा ’ूर्ध्वत्वे काकनिलयनात्स्थाणुःऽइति परस्परव्यवच्छिन्नाभ्यामर्थाभ्यामर्थान्तरप्रतीतिः, तथा स्यात् ।

अपि च धूम इव शब्दे प्रतिपत्तिहेतौ न ताद्रूप्येण निश्चयः स्यात् ।

न च धूमात्प्रमाणान्तराद्वाग्नौ निश्चयो धूमरूपानुकारी भवति ।

भवति तु प्रमाणान्तरादप्यर्थेषु निश्चयः शब्दरूपपरामर्शी ।

तद्दर्शनाच्छब्दादपि प्रतिपत्तौ तथा प्रतिपत्तिः, न त्वानन्तर्यनिमित्ता भ्रान्तिरित्यध्यवस्यामः ।

बालानामपि च येयमन्यपरिहारेण स्तनादौ प्रवृत्तिः, सा न ’िदम्ऽइत्यनिश्चिन्वतां भवितुमर्हति ।

नानिश्चिते स्थाणौ पुरुषे वान्यतरनिबन्धना प्रवृत्तिः ।

न च निश्चयः शब्दानुरागशून्य इति तेषामपि पूर्वजन्मशब्दभावनाभाजां वाग्रूपोपरक्तमेव ज्ञानं निश्चीयते ।

तथा च तद्रूपोपग्राह्यं जगत्तद्विवर्त इति प्रतीमः ।

अपि च सन्त्यर्था व्यावहारिकाः, येषां न शब्दविवर्तादन्यत्तत्त्वम् ।

तत्सामान्यादितरेऽपि तथावसातव्याः ।

यथा ’कुर्यात्, न कुर्यात्ऽ इति विधिनिषेधौ, वाक्यार्थः, समूहः, असन्तश्चालातचक्रशशविषाणादयः ।

तत्र न तावद्विधिनिषेधौ भूते प्रवृत्तिनिवृत्ती, न च वर्तमाने, न भविष्यन्त्यौ ।

अपाक्षीत्पचति पक्ष्यतीत्यविशेषप्रसङ्गात् ।

कार्ये इति चेत् ।

न, कालत्रयातिरेकेण कार्यत्वस्यानिरूपणात् ।

तस्मात्प्रवृत्तिनिवृत्त्यनुगुणमवस्तुकं प्रतिभामात्रं विधिनिषेधश्च स्याताम् ।

न चानालम्बना ज्ञानस्वभावत्वात्प्रतिभा युक्ता ।

न च सा शब्दरूपपरामर्शविकला ।

तस्मात्प्रवृत्तिनिवृत्त्यानुगुण्येन शब्दतत्त्वमेव [कुप्पुस्वामी संस्करण १९] तथा तथावभासत इति साम्प्रतम् ।

एवं वाक्यार्थः ।

संसर्गो न संसर्गिव्यतिरेकेण कश्चित्, न संसर्ग्यसंसर्गिरूपातिरिक्तः ।

न ज्ञेयशून्यं ज्ञानम् ।

न विकल्पप्रत्ययो वाग्रूपोपरागरहित इति वाक्तत्त्वमेव तथा तथा विवर्तत इति न्याय्यम् ।

एवं समूहे वनादावसत्सु चालातचक्रादिषु योजनीयम् ।

अपि च यद्यपि षड्जादिषु गवादिषु च प्राक्शब्दाज्ज्ञानमस्ति, तथापि न तादृक्, यादृक्शब्दनिवेशादुत्तरस्मिन् काले ।


अविविक्ता हि प्राक्प्रतिपत्तिः, स्फुटतरा विवेकवती पश्चात् ।

तथा च गोपालाविपालादयो विवेकज्ञानसिद्धये संज्ञां निवेशयन्ति ।

एवं च शब्दसंस्पर्शेऽर्थे बोधोत्कर्षदर्शनात्तत्प्रतिहारे च संचेतितानामप्यसंचेतितकल्पत्वात्पथि गच्छतस्तृणादीनामपकर्षाद्वाग्रूपाधीनमेव चितश्चितित्वम् ।

वाक्शक्तिरेव वा चितिः ।

तत्प्रतिसंहारेऽपि सूक्ष्मा वाक्शक्तिरित्येके ।

सर्वथा वाग्रूपाधीनो ज्ञेयबोध इति सर्वं ज्ञेयं वाग्रूपान्वितं गम्यत इति तद्विकारस्तद्विवर्तो वा ।

मृद इव घटादयः, चन्द्रमस इव जलतरङ्गचन्द्रमस इति ।

अन्ये तु

मृदादिदृष्टान्तदर्शनात्परिणामितां ब्रह्मणो मन्यन्ते ।

तदपाक्रियते

अक्षरमिति ।

कुतः? ’ध्रुवःऽ ’नित्यःऽइति तत्र तत्र श्रुतेः ।

अथ मतम्

परिणामित्वेऽपि तत्त्वाविघातान्न नित्यता व्याहन्यते ।

यथोक्तम्

’यस्मिन् विक्रियमाणेऽपि तत्त्वं न विहन्यते तदपि नित्यम्ऽ इति ।

सत्यम् ।

तथापि तु यद्विशुद्धमात्मरूपं तस्याभावात्सर्वात्मना परिणतावनित्यत्वम्, एकदेशपरिणतौ सावयवत्वान्नित्यत्वमेकत्वं च व्याहन्येते ।

तदेतद्विशुद्धत्वं नित्यत्वमेकत्वं चाकाशकल्पे ब्रह्मण्यवकल्पते ।

कल्पितावच्छेदेऽकल्पितावच्छेदमप्याकाशमनवच्छिन्नमस्त्येव ।

अथ कल्पितैकदेशपरिणामः स कल्पनयैवेति सुष्ठूक्तम्

अक्षरमिति ।


केचित्’सर्वगन्धः सर्वरसःऽइत्यादिश्रुतेः सर्वात्मतां ब्रह्मण उपागमन् ।

एवं च विषयोपभोगोपपत्तेः प्रकाशस्वभावस्यात्मनो विषयाः, युक्तम्, यत्प्रकाशेरन् ।

अन्यत्वे तु जडानां प्रकाशनमसम्भावनीयमिति ।


[कुप्पुस्वामी संस्करण २०] तान् प्रत्याह

असर्वमिति ।

कुतः? ’स्थूलमनण्वह्रस्वम्ऽ इति सर्वभेदोपरागप्रतिषेधात् ।

सर्वभेदावियोगाच्चानिर्मोक्षः ।

न हि स्वभावाद्वियोजयितुं वस्तु शक्यम्, वह्निरिवौष्ण्यात् ।

अथापि कथञ्चिद्वियोज्येत, तथापि भेदप्रपञ्चप्रबन्धस्यानुच्छेदाद्वियोगाभावान्नित्यसंसारिता स्यात् ।

सर्वथा अशनायापिपासादिप्रपञ्चोऽस्यात्मा ।

तत्प्रपञ्चस्य चोच्छेदो नेष्यते ।

तत्रैकात्म्यवादिनोऽनिर्मोक्षः ।

आत्मभेदवादिनस्तु कस्यचिदुच्छिन्नः कस्यचिन्नेति मुक्तसंसारिविभागः ।

तस्मान्न प्रपञ्चात्मकं ब्रह्म, अविद्याविक्रीडितमेव प्रपञ्च इति साम्प्रतम् ।


यदि तर्ह्यविद्याक्रीडितमेव प्रपञ्चः, प्रपञ्चशून्यता तर्हि परमार्थः ।

सैवास्तु ब्रह्म, परमार्थत्वात् ।

तथा च प्रपञ्चनिषेधेनैव तद्रूपं श्राव्यते

’स एष नेति नेतिऽ ’स्थूलमनण्वह्रस्वम्ऽ इति च ।

तत्राह

सर्वमिति ।

एतदुक्तं भवति

ब्रह्मणो न सर्वात्मता ।

सर्वं तु ब्रह्मात्मकम्, ब्रह्मरूपेण रूपवत्, न तु शून्यमेव, नित्यमुक्तिप्रसङ्गेन तदर्थोपदेशप्रवृत्तिवैयर्थ्यप्रसङ्गात् ।

नित्यमुक्तित्वेऽप्यविद्यानिबन्धनः संसारः इति चेत् ।

यदि ग्रहणाभावोऽविद्या, कथं तर्हि तन्निबन्धनः संसारः? मुक्तावपि तस्य तुल्यत्वात्, तद्वदेव न किञ्चित्प्रकाशेत ।

अथायथार्थग्रहणमविद्या, न तर्हि सर्वशून्यता ।

’तेनेदं पूर्णं पुरुषेण सर्वम्ऽ इति श्रुतेः, ’ात्मैवेदं सर्वम्ऽ इति च सर्वस्मिन्नात्मोपदेशात्, ’कथमसतः सज्जायेतऽ इति च स्वयं शून्यताया निषेधात् ।

भावो हि यथावदप्रकाशमानोऽध्यस्ताविद्यमानरूपः प्रकाशते ।

शून्ये तु क्वाध्यासः, किं प्रकाशतामिति निर्बीजतैव स्यात् ।

’विज्ञानमानन्दम्ऽ इति रूपोपदेशाच्च न सर्वाभावमात्रं ब्रह्म, अपि तु सर्वस्यात्मेति ।

केचित्तु केवलस्य सुखस्यादर्शनाद्दुःखाविनाभावान्नास्त्यवस्था दुःखसंस्पर्शविविक्तेति मन्यन्ते ।

न हि कश्चिज्जन्तुः सुख्येवोपलभ्यते, दुःख्येव वा ।

[कुप्पुस्वामी संस्करण २१] दुःखवत एव तु सुखं सुखत्वेऽवतिष्ठते ।

तापवत एव चन्दनसंस्पर्शः सुखम् ।

तत्राह

अभयमिति ।

सर्वभयविनिर्मुक्ता हि ब्रह्मावस्था ।

न चात्राल्पीयानपि क्लेशः, असकृदभयश्रुतेः ’भयं वै ब्रह्मऽ इत्यादि ।

तथा हि न स्वाभाविकं भयं ब्रह्मणि, आनन्दरूपेण विरोधात् ।

नागन्तुकं हेतुमत्, द्वितीयाभावात् ।

तदुक्तम् ’द्वितीयाद्वै भयं भवतिऽ इति ।

न च दुःखनिवृत्तिरूपं सुखम्, येन दुःखितस्यैव सुखं सुखत्वेऽवतिष्ठेत इति प्रपञ्चितमेतत्पुरस्तात् ।


अपरः प्रकारः

इह केचिन्मुक्ताभिमतानामपि पुनरावृत्तिभयं मन्यन्ते ।

इह हि विज्ञानात्मानो ब्रह्मणो विभक्ताः स्युः, अविभक्ता वा ।

स्वतो ब्रह्मणैव वा विभज्येरन् भोगार्थं क्रीडार्थं विभूतिख्यापनार्थं वा स्वभावाद्वा ।

अविद्यानिबन्धनो वा तद्विभागः ।

विज्ञानात्मान एव वा ब्रह्मशब्दाभिधेयाः, नान्यद्ब्रह्म ।

तेषां कर्माविद्यानिबन्धनः संसारः, द्रष्टृदृश्ययोः परस्परयोग्यतानिबन्धनो वा ।

तत्र योग्यतानिबन्धनत्वे योग्यताया अनपायात्पुनरावृत्तिभयमप्रच्युतम् ।

अथ कृतकार्यत्वान्न पुनरावृत्तिः, सकृच्छब्दाद्युपलब्धौ न पुनस्तदुपलब्धिः स्यात् ।

अथानन्तविकारा प्रकृतिः सर्वात्मनोपलब्धौ निवर्तते, अविकृतरूपान्तरोपलब्धये च प्रवर्तत एव ।

आनन्त्यादेव तर्हि न सर्वात्मनोपलब्धिः संभवतीति गुणपुरुषान्यताख्यातिमतोऽपि पुनरावृत्तिः संभाव्येत ।

अविद्यापूर्वकर्मनिबन्धनत्वेऽप्यनादौ संसारेऽनन्तत्वात्कर्मणामनियतविपाककालत्वाच्च प्रतिसर्गावस्थाया इव मुक्त्यवस्थाया अपि प्रत्युदावृत्तिभयं न व्यावर्तते ।

अविद्यानिबन्धनत्वेऽपि तस्या निर्हेतुत्वान्निष्प्रयोजनत्वाच्च प्रवृत्तेस्तथैव पुनः पुनः प्रवृत्तिः केन वार्यते ।

तथा च सुषुप्ते ब्रह्मप्राप्तेः प्रत्युदावृत्तिर्दृश्यते ।

स्वतन्त्रे तु ब्रह्मणि विभक्तानां जीवानां देहेन्द्रियोपभोगहेतावविभक्तानां वा विभज्य भोगादिभिर्हेतुभिर्न पुनर्देहादिभेदो न सम्भाव्यते ।

स्वतन्त्रो हि क्रीडया स्वातन्त्र्यख्यापनेन [कुप्पुस्वामी संस्करण २२] वा स्वभावेन वा पुनर्बध्नीयाल्लौकिक इवेश्वरः ।

अथैष कर्मापेक्षः, न कर्मस्वस्य स्वातन्त्र्यम् ।

तथापि कर्मणामानन्त्याद्विपाककालनियमाभावाच्च कल्पशतातिक्रमेऽपि प्राप्तविपाककालेभ्यः कर्मभ्यः पुनर्बन्धः सम्भाव्यते ।

यतो नैकभविकः कर्माशयः, न ह्यस्य प्रायणमेवाभिव्यञ्जकमपि तु देशकालादयोऽपि ।

तथा हि

एकस्मिन्नपि देहे क्रमेण कर्मफलभोगो दृश्यते, विरुद्धजातिभोगनिमित्तानां च कर्मणां युगपदावापगमनानुपपत्तेः, गर्भमृत्यूनां चाकर्मणां विमुक्तिप्रसङ्गात्(ंस्B॑ विमुक्तिप्रसङ्गः एदितिओन्) ।

तत्रोच्यते

अभयमिति ।

परा हीयं क्षेमप्राप्तिः श्रूयते ।

नास्यां पुनःसंसारभयमस्ति ।

न तावत्कर्मनिमित्तः पुनःसंसारः, विद्यया प्रायश्चित्तेनेवाकृतभोगानामनन्तानामपि कर्मणां प्रक्षयात् ।

उक्तं हि

’ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथाऽ इति ।

तथा ’क्षीयन्ते चास्य कर्माणिऽ इति ।

अथवा विद्ययाविद्यानिवृत्तौ प्रविलीन एव कर्तृकर्मफलप्रविभागः ।

तस्य कुतः सम्भवः ।

नाप्यविद्यानिमित्तः, तत्प्रवृत्तिहेतोरभावात् ।

अनादिर्ह्यविद्या, अनादित्वादेव न हेतुमपेक्षते ।

प्रागभावे हि हेतुव्यापारः, असति प्रागभावे कदा हेतुर्व्याप्रियेत ।

न हि सतो हेतुकृत्यमस्ति, विद्यया तूच्छिन्ना प्रागसती प्रवर्तमाना नाकस्मात्प्रवर्तितुमर्हति ।

सुषुप्ते तु विक्षेपमात्रं निवृत्तम्, तत्संस्कारोऽग्रहणं च नैव निवृत्ते ।

अन्यथा न तुरीयाद्भिद्येत ।

विक्षेपमात्राभावात्तु ब्रह्मप्राप्त्यभिधानम् ।

तस्मात्सुष्ठूक्तम्

अभयमिति ।


केन पुनः प्रमाणेनास्यार्थस्य समधिगमः ।

न तावत्प्रत्यक्षेण, तस्यैतद्विपरीतभेदविषयत्वात् ।

नाप्यनुमानेन, तत्पूर्वकत्वात् ।

नोपमानेन, सादृश्यविषयत्वात्, तस्य च भेदाधिष्ठानत्वात् ।

अर्थापत्तिस्तु विपर्यये, न भेदमन्तरेण कश्चिद्व्यवहार उपपद्यते यतः ।

अभेदोऽपि हि प्रमात्रादिविभागादृते दुरवगमः ।

अभावोऽपि न भावरूपतत्त्वावगमायालम् ।

नापि [कुप्पुस्वामी संस्करण २३] प्रपञ्चाभावावगमाय, प्रत्यक्षादिषु सत्सु तदसंभवात् ।

आगमोऽपि न तावदाप्तप्रणेतृकोऽत्र क्रमते, प्रमाणान्तराधिगतगोचरत्वात् ।

नापि स्वतन्त्रः, विधिनिषेधरूपत्वात्, तयोश्च स्थिते तत्त्वेऽसंभवात् ।

नापि तदनपेक्षं व्यवस्थितवस्तुविषयमेव प्रामाण्यम्, भूतानुवादत्वे प्रमाणान्तरापेक्षत्वात् ।

लोकाच्च शब्दसामर्थ्याधिगमः ।

तत्र कार्यपरतयैव कार्यान्वयिष्वर्थेषु पदानि प्रयुज्यन्ते, तथार्थवत्त्वात् ।

न हि प्रवृत्तिनिवृत्तिशून्यस्य वचसः कश्चिदर्थः ।

अपि च न भूतानुवादाद्वचसः सम्बन्धानुगमः, अपि तु प्रवर्तकात् ।

प्रवृत्त्या ह्यनुमायार्थप्रत्ययं तत्र शब्दस्य सामर्थ्यप्रतीतिः (॰प्रतीतेः एदितिओन्) तथा च न प्रवृत्तिसम्बन्धरहितेष्वर्थेषु शब्दानां शक्तिर्गम्यते ।

तथा सत्यनवगतसामर्थ्याः शब्दा भूतेऽर्थे कथं तदवगमयेयुः ।

अपि च प्रमाणान्तरावसितश्चेत्सोऽर्थः, न शब्दस्य तत्र प्रामाण्यम् ।

अथानवसितः, नतराम् ।

अपदार्थत्वे वाक्यविषयत्वासम्भवात् ।

पदार्थ एव हि विशिष्टतया वाक्यार्थीभवति ।

अत्यन्तापरिदृष्टस्तु पदादनवगम्यमानः पदार्थसंसर्गात्मके वाक्यार्थे न गुणत्वेन प्रधानत्वेन वानुप्रवेशमर्हति ।


अपि च प्रलीननिखिलावच्छेदं तत्त्वमगोचर एव प्रतिपत्तेः ।

सर्वा हि प्रतिपत्तिः

’ेवम्, नैवम्ऽ इति व्यवच्छेदेन प्रवर्तते ।

अन्यथा न कश्चित्प्रतिपन्नः स्यात् ।

सर्वविशेषप्रत्यस्तमये तु कथं प्रतिपत्तिः स्यादित्यत्राह


आम्नायतः प्रसिद्धिं च कवयोऽस्य प्रचक्षते ।

भेदप्रपञ्चविलयद्वारेण च निरूपणाम् ॥ १.२ ॥



भूतार्थवादित्वेऽप्यपौरुषेयस्य न सापेक्षत्वमिति वक्ष्यते ।

न च कार्यनिष्ठान्येव लोके वचांसि ।

तथा हि प्रियाख्यानानि ’दिष्ट्या वर्धसे, पुत्रस्ते जातःऽ इति न प्रवृत्तये निवृत्तये वा, दृश्यन्ते च सुखोत्पादनप्रयोजनानि ।

न च सुखी भव इति तत्र प्रवृत्तिरुपदिश्यते, वस्तुसामर्थ्यादेव तत्सिद्धेरुपदेशस्यानपेक्षणात् ।

अथ मतम्

अस्ति तावत्तत्र प्रवृत्तिविशेषः, वचसश्च तत्र तात्पर्यम् ।

सत्यम् ।

उत्पत्त्या तात्पर्यम्, न प्रतिपत्त्या ।

प्रतिपत्तिस्तु भूतार्थनिष्ठैव ।

न च भूतार्थपर्यवसितस्यैव शब्दस्य [कुप्पुस्वामी संस्करण २४] प्रयोजनवत्त्वे प्रवृत्त्यवधिर्व्यापारः कल्पयितुं शक्यते ।

अपि चोपाये वाप्रवृत्तः पुरुषः प्रवर्त्यते, अज्ञातोपायत्वाद्वा उपेये प्रागप्रवृत्त उपायप्रज्ञापनद्वारेण तत्र ।

इह न तावदुपाये पुत्रजन्मनि, तस्य निष्पन्नत्वात् ।

नोपेये सुखे, तदर्थव्यापारान्तराभावात् ।

तथा दुर्जनवचनान्यप्रियाख्यानानि विषादप्रयोजनानि न प्रवृत्तिं निवृत्तिं वोपदिशन्ति पूर्वेणैव न्यायेन ।

तथा रज्जुवेष्टितस्य सर्पवेष्टितमात्मानं मन्यमानस्य भयनिवृत्तये तत्त्वाख्यानं दृश्यते, न तु तत्र ’मा भैषीःऽ इति नियोगः ।

तत्र हि नियोगो भवति, यत्र नियोगार्थं प्रतिबुध्य पुरुषो बुद्धिपूर्वं नियोगसामर्थ्यादिच्छया वा पुनः प्रवर्तते निवर्तते वा ।

इह तु तत्त्वप्रतिपत्तिमात्रान्नियोगेच्छानपेक्षस्य हेत्वभावादेव तस्य भयनिवृत्तिः ।

न च भयनिवृत्तौ पुरुषार्थत्वात्स्वयंप्रवृत्तः पुरुषो नियोज्यः, नापि तदुपाये तत्त्वप्रतिपत्तौ, ’रज्जुः, न सर्पःऽ इति शब्दादेव तदुत्पत्तेः, शब्दार्थप्रतिपत्त्युत्तरकालस्य च व्यापारस्य विधिनिबन्धनत्वात् ।

तथा दूरदेशवृत्तान्ताख्यानानि पृष्टवतां कुतूहलिनामौत्सुक्यनिवृत्त्यर्थानि भूतार्थपर्यवसितानि न हानायोपादानाय वा ।


यत्रापि (अपि च यत्रापि एदितिओन्) भूतार्थप्रतिपत्तौ हानमुपादानं वा संभवति, ’ेष प्रतिरोधकवानध्वा, निधिमानेष भूभागःऽ इति ।

तत्रापि हानोपादानयोः शब्दो व्याप्रियते, भूतार्थोपक्षयात् ।

शब्दाद्भूतमर्थं प्रतिपद्य तस्य प्रमाणान्तरावगतामुपकारहेतुतामपकारहेतुतां वा संस्मृत्य इच्छया प्रवर्तते द्वेषेण निवर्तते वा ।

ननु प्रयोक्ता बुद्धिपूर्वकारी श्रोतुः प्रवृत्त्यर्थं निवृत्त्यर्थं वा वचनं प्रयुङ्क्ते ।

तथा च प्रवृत्तिनिवृत्तिपर्यवसितमेव ।

इदं हि तत्र प्रयोक्तव्यं न प्रयुज्यते ’न गन्तव्यमनेनाध्वनाऽ तथा ’गृहाणेतो निधिम्ऽ इति ।

नैतत्सारम् ।

भूतार्थपर्यवसितस्यापि वचसो भूतार्थावगममुखेन प्रवृत्तिनिवृत्त्यङ्गभावो यतो न व्याहन्यते प्रत्यक्षादीनामिव ।

भूतार्थप्रमापरिसमाप्तव्यापृतयः प्रत्यक्षादयो मात्रयाप्यगोचरीकृतप्रवृत्तिनिवृत्तयो न प्रवृत्तिनिवृत्त्यङ्गभावं [कुप्पुस्वामी संस्करण २५] जहति, तथा शब्दोऽपीति न किञ्चित्प्रदुष्यति ।

प्रयोक्त्रभिसंहिते प्रवृत्तिनिवृत्ती इति चेत्, न प्रयोक्त्रभिसंधानाच्छब्दार्थत्वमपि तु सामर्थ्यात् ।

अन्यथा निधिप्राप्तिद्वारिका नानाविधपुरुषार्थावाप्तिरपि तस्याभिसंहितेति शब्दार्थः स्यात् ।

यदा च प्रवृत्तिं निवृत्तिं वाभिसंधाय किञ्चित्प्रत्यक्षादिभिर्जिज्ञास्यते, तदाभिसंहिते अपि प्रवृत्तिनिवृत्ती न प्रत्यक्षादिप्रमेये ।

तदाभिसंहिते अपि प्रवृत्तिनिवृत्ती न शब्दार्थौ ।

इतश्चैतदेवम् (इतश्च तदेवम् एदितिओन्)

यत्कस्यचिदुपादानबुद्धिः, अन्यस्योपेक्षा ।

शब्दार्थत्वे हि सर्वेषामुपादानबुद्धिरेव स्यात् ।


न च प्रवर्तकवाक्यव्यवहारादेव सम्बन्धावगमः, येन प्रवृत्तिपरतैवावगम्येत ।

अन्यथापि दर्शनात् ।

’देवदत्तः काष्ठैः स्थाल्यामोदनं पचतिऽइत्यव्युत्पन्नकाष्ठशब्दार्थो व्युत्पन्नेतरपदार्थो व्युत्पन्नविभक्त्यर्थश्च यत्पचत्यर्थे करणं पश्यति तस्य काष्ठप्रातिपदिकार्थतां प्रतिपद्यते ।

तथा हर्षविषादाश्वासप्रयोजनेभ्यः तत्त्वाख्यानेभ्यो हर्षादिनिमित्तेषु भवति व्युत्पत्तिः ।

यथैव हि प्रवृत्तिविशेषदर्शनाद्विशिष्टप्रवृत्तिप्रत्ययस्तन्निमित्तप्रत्ययो वानुमीयते, हेत्वन्तराभावाच्छब्दानन्तर्याच्छब्दस्य तत्र सामर्थ्यं कल्प्यते, तथा हर्षाद्युपलब्धेः हर्षादिनिमित्तप्रत्ययानुमानम्, शब्दानन्तर्याच्च शब्दस्य तत्र सामर्थ्यकल्पना ।

प्रमाणान्तरेण च पुत्रजन्मनो हर्षनिमित्तस्य तस्यावगतत्वादन्यस्याभावात्’पुत्रस्ते जातःऽइतीदं वाक्यमाप्तेन तत्र पुत्रजन्मनि प्रयुक्तमिति प्रतिपद्यते ।

पुत्रजन्मैव चास्माद्वाक्यादनेन प्रतीतमित्यवधारयति ।

तदेवं प्रयोगप्रत्ययाभ्यामस्मिन्नर्थे वाक्यस्य सामर्थ्यं प्रतिपद्यते ।


भवतु वा लोके सर्ववचसां प्रवर्तकता, ततश्च सम्बन्धावगमः ।

तथापीदं विचार्यम्

किं विधायकपदव्यतिरेकिणां पदानां स्वार्थमात्रपरता, आहोस्वित्कार्यार्थसंसर्गपरता, उत पदार्थमात्रसंसर्गपरतेति ।

तत्र स्वार्थमात्रपर्यवसाने वाक्यार्थप्रत्ययाभावः प्रयोगवैयर्थ्यं च स्यात् ।

तस्मादन्यार्थव्यतिषङ्गपरता ।

[कुप्पुस्वामी संस्करण २६] तावता प्रयोगप्रत्यययोरुपपत्तौ न विशेषव्यतिषङ्गे प्रमाणमस्ति ।

यो हि विशेषव्यतिषङ्गं कल्पयति, कल्पयत्यसावर्थान्तरव्यतिषङ्गम् ।

तथा च विनापि कार्येण पदार्थानां परस्परसंसर्गाद्विशिष्टभूतार्थप्रत्ययसिद्धिः ।

अवश्यं चैतदेवं विज्ञेयम् ।

अन्यथा लोके विवक्षापरत्वात्पदार्थान्वयस्य, तदभावाद्वेदे वेदार्थप्रतीतिर्न स्यात् ।

अपि च सर्वेषां कार्यान्वयित्वे परस्परं पदार्थानामनभिसम्बन्धः ।

तत्र न विशिष्टपदार्थविषयो नियोगः प्रतीयेत ।

एकपदार्थसाध्य एव स्यात् ।

अथ न विनियोगप्रत्यर्थी नियोगः, विशिष्टविषयत्वात् ।

पूर्वस्तर्हि विनियोगः, पश्चान्नियोगः ।

किमतः? अस्ति नियोगातिरिक्तार्थान्वयेऽपि पदस्य सामर्थ्यं नियोगानपेक्षं च, परस्परान्वितानामियोगान्वयात् ।

न च नियोगाकाङ्क्षानिबन्धनः संसर्ग इति प्रतिपादयिष्यते ।

अनधिगतमपि रमाणान्तरेणानधिगतसम्बन्धं च स्वशब्देन शक्यं शब्देन निरूपयितुं विशेषप्रतिषेधमुखेन, विशेषशब्दानां नञश्च यथायथमर्थैर्विदितसङ्गतित्वात् ।

तथा चेत्थमेव तदुपदिश्यते ’स्थूलम्ऽइति सर्वविशेषातिगम् ।

एतत्कथयति

भेदप्रपञ्चविलयद्वारेणेति ।

एतच्च वक्ष्यत इति ।


अन्योऽर्थः ।

यदुक्तम्

प्रत्यस्तमितसकलविशेषं तत्त्वं प्रतिपत्तेरेवाविषय इति, तत्रोच्यते

विशेषनिवृत्त्यैव तच्छब्देन बुद्धौ निधीयते, सुवर्णतत्त्ववत् ।

न हि सुवर्णतत्त्वं पिण्डरुचकादिसंस्थानभेदोपप्लवरहितं दृश्यते ।

न च त एव सुवर्णतत्त्वम्, तत्परित्यागेऽपि भावात्संस्थानान्तरे ।

अथ चादृष्टसंस्थानभेदोपप्लवविवेकमपि बुद्ध्या भेदापोहद्वारेण स्वयं प्रतीयते, परस्मै च प्रतिपाद्यते ।

स एष प्रतिपत्तिक्रमः श्रुत्यैव दर्शितः

’स एष नेति नेतिऽ इति ।

तथान्यैः

’सत्यमाकृतिसंहारे यदन्ते व्यवतिष्ठतेऽ ।

तथापरैः

’ध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यतेऽ इति ।


इदमिदानीं विचार्यते

किं कृत्स्न आम्नायो भेदप्रपञ्चविलयमुखेन ब्रह्म निरूपयति, आहोस्वित्कश्चिदस्यैकदेशः? तत्र केचिदाहुः

सर्वत्रैवाम्नाये [कुप्पुस्वामी संस्करण २७] क्वचित्कस्यचिद्भेदस्य प्रविलयो गम्यते, यथा ’स्वर्गकामो यजेतऽ इति शरीरात्मभावस्य प्रविलयः ।

अत्र हि देहव्यतिरिक्तस्वर्गोपभोगसमर्थोऽधिकारी गम्यते, तेन देहात्मभावप्रविलयः ।

तथा ’गोदोहनेन पशुकामस्य प्रणयेत्ऽइत्यधिकृताधिकारादधिकारिभेदप्रविलयः ।

तथा विधिनिषेधचोदनास्वपि नैसर्गिकीणां रागादिनिबन्धनानां प्रवृत्तीनां प्रविलयः ।

निषेधेषु साक्षात्, विधिषु प्रवृत्त्यन्तर्नियोगेन ।

लोकेऽप्यनभिप्रेतात्पथः साक्षाद्वा निवारणम्, पथ्यन्तरोपदेशेन वा ।

एवं च रागादिनिबन्धननैसर्गिकप्रवृत्तिभेदविलयद्वारेण दृष्टेनैव कर्मविधय आत्मज्ञानाधिकारोपयोगिनः ।

तथा हि

शान्तस्य दान्तस्य समाहितस्य चात्मनि दर्शनमुपदिश्यते ।

शक्यं च ।

न हि विषयैराकृष्यमाणस्तदुपायप्रवृत्तिकृतचेताः शक्नोत्यात्मनि समाधातुम् ।

नैसर्गिकीभ्यस्तु प्रवृत्तिभ्य उपरतो नियतमानस आत्मदर्शनेनाधिक्रियते, सामर्थ्यात् ।


अन्ये (ंसा॑ अन्ये तु एदितिओन्) मन्यन्ते

अनवाप्तकामः कामोपहतमना न परमाद्वैतदर्शनयोग्यः ।

कर्मभिस्तु कृतकामनिबर्हणः सहस्रसंवत्सरपर्यन्तैः प्राजापत्यात्पदात्परमाद्वैतमात्मानं प्रतिपद्यत इति ।

उभयोरपि पक्षयोरनयोः कृत्स्न आम्नाय आत्मज्ञानैकपर्यवसायी ।

अन्येषां दर्शनम्

पृथक्कार्या एव सन्तः कर्मविधय आत्मज्ञानाधिकारमवतारयन्ति पुरुषम्, अनपाकृतर्णत्रयस्य तत्रानधिकारात्

’ृणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्ऽ इति ।

अन्ये तु संयोगपृथक्त्वेन सर्वकर्मणामेवात्मज्ञानाधिकारानुप्रवेशमाहुः ’विविदिषन्ति यज्ञेनऽइति श्रुतेः, ’येन केनचन यजेतापि दर्वीहोमेनानुपहतमना एव भवतिऽ इति च ।

[कुप्पुस्वामी संस्करण २८] अन्ये तु पुरुषसंस्कारतयात्मज्ञानाधिकारसंस्पर्शं कर्मणां वर्णयन्ति

’महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुःऽ, ’यस्यैते चत्वारिंशत्संस्कारा अष्टावात्मगुणाःऽ इति च ।

अन्ये त्वेतदेव विपरीतं वर्णयन्ति, आत्मज्ञानमेव कर्तृसंस्कारतया कर्माधिकारानुप्रवेशीति ।

अन्ये तु परस्परविरोधिनोः कर्मात्मज्ञानयोः द्वैताद्वैतविषयत्वेनासंबन्ध एवेति मन्यन्ते ।


तत्र न तावत्प्रथमः कल्पः ।

न हि कर्मादिविधयः स्ववाक्यसमधिगतस्वर्गादिकार्याः कार्यान्तरमपेक्षन्ते ।

नाप्यात्मज्ञानविधिर्यथोदितब्रह्मचर्यादिसाधननिराकाङ्क्षः कर्मविधीनपेक्षते ।

तत्र कुत एकाधिकारत्वम् ।

यदि मन्येतानवगतकार्या (अथ अनवगत॰ एदितिओन्) एव कर्मादिविधयः, स्वर्गादीनां गुणत्वेन संबन्धादिति, स्वर्गकामाधिकरणमस्मै व्याचक्षीत ।

अपि च सर्वविधिनिषेधानां नामरूपप्रविलयकार्यापवर्गित्वे जन्तूनामभ्युदयविनिपाता अकर्मनिमित्ता आकस्मिकाः स्युः ।

तथापवर्गोऽपि स्यादिति वैयर्थ्यं शास्त्रस्यापि ।

अथ स्वर्गादिकार्यद्वारेण कर्मविधीनां ज्ञानाधिकारानुप्रवेशिता मार्गग्रामगमनोपदेशानामिवाभिमतनगरगमनोपदेशानुप्रवेशित्वम् ।

तदसत् ।

युक्तं मार्गग्रामप्राप्तेरनभिमतदेशप्राप्त्युपदेशानुप्रवेशित्वम् ।

न हि मार्गग्रामोपदेशेषु पुरुषार्थप्राप्तिः ।

अतः साकाङ्क्षत्वाद्यत्र पुरुषार्थप्राप्तिः, तमनुप्रविशन्ति ।

न त्वेवं कर्मविधिषु पुरुषार्थस्यालाभः, स्वर्गादीनां पुरुषेणार्थ्यमानत्वात् ।

तत्र च नैराकाङ्क्ष्ये कथमन्यानुप्रवेशः? अथ मतम्

यदोपच्छन्द्य नीयत उत्तरोत्तरग्रामगुणोपदर्शनेनाभिप्रेतं देशम्, तदा पूर्वग्रामोपदेशाः प्राप्ताभिमतकार्या उपदेशान्तरानुप्रवेशिनश्चेति ।

युक्तं तत्रापि प्रमाणान्तरेण वक्तुरभिप्रायाधिगमात् ।

प्रमाणान्तरेण हि तत्रेदमधिगतम्

एतद्देशप्राप्ताविदमस्य समीहितं वक्तुः संपद्यते, तस्मादिदमस्य विवक्षितमिति ।

न तु शब्दवृत्तिमात्रानुसारेण (शब्दप्रवृत्तिमात्रा॰ ंसा॑ शब्दवृत्तमात्रा॰ एदितिओन्) ।

इतश्चैतदेवम्

[कुप्पुस्वामी संस्करण २९] यत्प्रतिग्रामं वक्तुः श्रोतुश्च सत्यामर्थप्राप्तौ प्रमाणान्तरेणानधिगते परदेशप्राप्त्यभिप्राये पूर्वोपदेशान् पूर्वार्थानेव पार्श्वस्थाः प्रतिपत्तारः प्रतिपद्यन्ते, परदेशोपदेशं च स्वार्थनिष्ठम् ।

यद्यपि वस्तुस्थित्या पूर्वोपदेशार्थाः परोपकारिणः, तथापि न शब्दस्य तात्पर्यम्, द्रव्यार्जनादिविधेरिव क्रतुविध्यर्थोपकारेऽपि ।

शब्दवृत्तानुसारेण चेह तात्पर्यम्, प्रमाणान्तराभावादिति ।


अपि चाध्वग्रामोपदेशानां तत्परत्वाध्यवसायेनैव तत्र गमनमर्थप्राप्तिश्च ।

तत्र परदेशप्राप्तिपरतायां तु न नियोगतस्तत्र गमनम् ।

मार्गान्तरेणापि तत्प्राप्तेर्विवक्षितत्वाद्गच्छेत् ।

न च नियोगतोऽर्थप्राप्तिः, अन्यपरेषु प्रयोजनश्रुतेरप्यर्थवादत्वात् ।

तदिह यदि विधिनिषेधाः कार्यान्तरपराः, न स्वर्गादिकार्याः ।

न खलु स्वर्गादिकार्यं प्रयाजादिकार्यतुल्यम्, येन कार्यान्तरमनुपतेत् ।

कथं च दृष्टेनैवात्मज्ञानाधिकारोपकारिण इति वक्तव्यम् ।

यदि तावद्रागाद्याक्षिप्तदृष्टार्थप्रवृत्तिनिरोधेन, भवतु प्रतिषेधानामेवंभावः ।

कर्मविधयस्तु कथं निरुन्धन्तीति वाच्यम् ।

नहि ते परिसंख्यायकाः, न च नियामकाः, अत्यन्तमप्राप्तार्थत्वात् ।

प्राप्तार्थो हि विधिरन्यनिवृत्तिफलो विज्ञायते ।

न च तुल्यकार्यत्वेन विरोधेन निवृत्तिः ।

अनियतकालफला हि नैयोगिक्यः प्रवृत्तयोऽदृष्टार्थाः ।

दृष्टार्थास्तु रागाद्याक्षिप्ताः स्वाभाविक्यः ।

न च साङ्ग्रहण्याः सेवायाश्च ग्रामोपायत्वे कश्चिद्विरोधः, एतावति प्रमाणत्वाच्छास्त्रस्य ।

तत्र युगपत्क्रमेण वा फलभूमार्थिनः सेवासाङ्ग्रहण्यावनुतिष्ठतः को विरोधः? अपि च सकलदृष्टार्थप्रवृत्तिनिरोधे नियोगनिष्ठा अपि प्रवृत्तयो निरुध्येरन्, अनार्जितधनस्य साधनविकलस्य तासामसम्भवात् ।

अपि च तुल्ये कामोपायत्वे दृष्टादृष्टार्थप्रवृत्त्योर्न न विशेषो रागाद्याक्षिप्तत्वे ।

तथा हि

’स्वर्गकामःऽइति रागाद्याक्षिप्तप्रवृत्त्यनुवादेन विशेषविधानम् ।

तथा च प्रपञ्चाभिनिवेशे तुल्ये केन विशेषेण एकात्मानुगुण्यं भजते, तद्विरोधिन्यपरा? कामाक्षेपो ह्यविशिष्टो मनसः ।

अथ कामोपायत्वमेव न मन्येत, वर्णितमाकस्मिकत्वम्, उक्तश्च न्यायः प्रत्युद्ध्रियेत ।

तुल्यकार्यनिबन्धनत्वाच्च विरोधाद्या [कुप्पुस्वामी संस्करण ३०] निरोधाशङ्का सा दूरतो निरस्तावकाशा स्यात् ।

अथ कामप्राप्त्या कर्मविधयः कामान् प्रविलापयन्तो ज्ञानाधिकारानुगुणाः ।

यथोक्तम्


ऽयदा सर्वे प्रमुच्यते कामा येऽस्य हृदि श्रिताः ।

अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुतेऽ ॥

इति ।


तदप्यसत् ।

यतो न कामप्राप्त्या कामप्रविलयः, अपि तु दोषपरिभावनाभुवा प्रसङ्ख्यानेन ।

कलयापि चेत्कामैर्मनः संस्पृश्यते ह्रियत एव हारिभिः ।

उक्तं हि

’न जातु कामः कामानामुपभोगेन शाम्यतिऽ, ’भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणाम्ऽ इति च ।

अनुपायत्वादपि तावदयं कामेभ्यो विनिवर्तेत ।

निखिलक्लेशोपशमरूपं चात्मज्ञानं संश्रयेत ।

कर्मविधिनिदर्शितविविधोपायस्तु तानेव प्रकृतहारिणो भोगानभिनिविशेत ।

तत्प्रविलयरूपाचात्मज्ञानादुद्विजेत ।

श्रुतोऽपि ह्यात्मन्यानन्दोऽननुभूतो नानुभूतविषयनिबन्धनानन्दाभिलाषं मन्दीकर्तुमप्युत्सहते, प्रागेवोच्छेत्तुम् ।

तस्मात्प्रसंख्यानमेवैकः कामनिबर्हणोपायः, कर्मविधयस्तु विपर्ययहेतवः ।

यदपि

सर्वत्रैवाम्नाये क्वचित्कस्यचिद्भेदस्य विलयः, यथा ’स्वर्गकामो यजेतऽ इति शरीरात्मत्वप्रविलय इति ।

तदप्यसत्, अनिदंपरत्वात् ।

न हीदं वचनं देहव्यतिरिक्तात्मतत्त्वावबोधपरम् ।

अथान्यपरादप्यर्थादेवमवसीयत इति, तदपि हस्तिनि दृष्टे तत्पदेन तस्यानुमानमिव ।

साक्षाद्धि ’स्थूलम्ऽइत्युपक्रम्य देहेन्द्रियविलयो दर्शितः, अर्थाच्च कामादिग्रन्थेः काठिन्यं वैदिकं स्यादिति ।


द्वितीयोऽपि कल्पो वर्णितादेव कामानां कामनिबर्हणसामर्थ्याभावात्स्वकार्यनिराकाङ्क्षाणां चान्यानुप्रवेशे प्रमाणभावादसमञ्जसः ।


एकाधिकारत्वे तु समुच्चयः सर्वकर्मणां स्यात् ।

स चाशक्य इति ।

[कुप्पुस्वामी संस्करण ३१] येऽपि विपर्ययेण ज्ञानकर्मणोरेकाधिकारत्वमाहुः, तैरपि ज्ञानस्य कर्मसम्बन्धे प्रमाणं वक्तव्यम् ।

न तावत्’ब्रीहीन् प्रोक्षतिऽ इति यथा ।

तत्र हि प्रकरणात्प्रकृतकर्मापूर्वलक्षणापरो ब्रीहिशब्दः स्वस्वरूप आनर्थक्यात्प्रकृतापूर्वसम्बन्धं बोधयति ।

नापि यथा ’यस्य पर्णमयी जुहूर्भवतिऽ इति ।

तत्र हि जुह्वाद्यव्यभिचरितकर्मसम्बन्धमसत्यपि प्रकरणे कर्मोपस्थापयति ।

तत्र वाक्येनैव सम्बन्धः ।

आत्मज्ञानं तु न प्रकरणे श्रुतम् ।

नाप्यात्माव्यभिचरितकर्मसम्बन्धः ।

तेनास्य कर्मसम्बन्धो दुर्वचः ।

तथा चाज्ञाते पारार्थ्ये या नाम फलश्रुतिर्न सार्थवादिनी भवतीति पृथगधिकारत्वम् ।

अथ मतम्

वर्तमानापदेशात्’न स (च एदितिओन्) पुनरावर्ततेऽइति कामोपबन्धाभावात्फलं विपरिणमय्य कल्पयितव्यम् ।

तच्च तदाकाङ्क्षायां सत्याम् ।

न तु दृष्टे सति तदाकाङ्क्षा ।

अस्ति चात्मज्ञानविधेर्दृष्टफलं देहान्तरोपभोग्यफलेषु कर्मसु प्रवृत्तिः ।

तस्मात्स्वाध्यायाध्ययनविधिवदात्मज्ञानविधिः ।

स्वाध्यायाध्ययनविधिर्हि दृष्टकर्मावबोधनिराकाङ्क्षो नार्थवादतः फलं प्रार्थयते, तथात्मज्ञानविधिरपीति नाधिकारान्तरम् ।

तदप्यसत् ।

यतोऽयमन्य एवौपनिषदः पुरुषो वेदान्तेषु जिज्ञास्यते ।

न च तज्ज्ञानं कर्मप्रवृत्तिहेतुः ।

न हि तस्य कर्तृत्वभोक्तृत्वे ।

एवं ह्याह

’न तदश्नाति किञ्चनऽ ’नश्नन्नन्योऽभिचाकशीतिऽ इति ।

यस्तु कर्मणां कर्ता भोक्ता च, स एव सर्वप्रत्यक्षसिद्धः ।

न शब्दप्रमेयः ।

ननु जीवपरमात्मनोरेकत्वमेव ।

एवं ह्याह

’नेन जीवेनात्मनाऽ इति ।

सत्यम् ।

तस्यैव तु जीवस्यैवमविद्यानुबन्धं प्रत्यक्षावसेयं रूपम्, तच्च कर्मप्रवृत्तिहेतुः ।

न च तच्छब्दमपेक्षते ।

यत्तु स्वयंप्रकाशं सर्वविभागशून्यं तच्छब्दाज्ज्ञातुमिष्यते ।

तच्च कर्मप्रवृत्तिविरोधि ।

तज्ज्ञानस्य कथं कर्मप्रवृत्तिर्दृष्टं प्रयोजनं स्यात्? तथा हि

ब्रह्मानन्दमेकमद्वयमात्मानं विजानतः किमर्थं कथं वा प्रवृत्तिः स्यात्, आप्तकामत्वात्साधनाद्युपायाभावाच्च? स्यादेतत्

औपनिषदपुरुषज्ञानमेव कर्माङ्गत्वेन चोदितम् ’यदेव विद्यया करोति श्रद्धयोपनिषदा [कुप्पुस्वामी संस्करण ३२] तदेव वीर्यवत्तरं भवतिऽ इति ।

तथा ’यो वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके जुहोतिऽइत्युपक्रम्य यागादिफलस्यान्तवत्तादर्शनेन ब्रह्मविद्यायास्तादर्थ्यं दर्शितम् ।

’तं विद्याकर्मणी समन्वारभेतेऽ इति च विद्याकर्मणोः साहित्यं दर्शितम् ।

पूर्वं तावत्प्रकृतोद्गीथविषयम्, ’ोमित्येतदक्षरमुद्गीथम्ऽ इत्युपक्रमात् ।

परेणापि कर्मनिन्दयाक्षरज्ञानस्तुतिः ।

विद्याकर्मणोश्च समन्वारम्भो भेदेन

विद्यावन्तं विद्यान्वारभते कर्मवन्तं कर्मेति ।

तस्मादेवमपि न कर्मज्ञानयोरेकाधिकारत्वमिति ।


येऽपि विरोधादसम्बन्ध एव कर्मज्ञानयोः ’द्वैतविषयं कर्म, अद्वैतविषयं ज्ञानम्ऽइति मन्यन्ते, तेषामनुत्पाद एवाद्वैतज्ञानस्य प्रसज्यते, प्रमाणादिविभागाद्वैतप्रतिपत्त्योर्विरोधात् ।

अथोपायोपेययोरयौगपद्यादविरोधः, प्रलीयत एवाद्वैतप्रतिपत्तौ सर्वो विभागः ।

न च विरोधोऽनुपायत्वं वा, उपायस्य पूर्वकालत्वात्, तदा च तस्याप्रलीनत्वात् ।

भेद एव चाभेदप्रतिपत्तावुपायः ।

न तर्हि कर्मभिरपि विरोधः, उपायत्वादेव ।

स्यादेतत्

असाध्यत्वाद्ब्रह्मणो न कर्मणामुपयोगो विद्यते ।

श्रूयते च

’नास्त्यकृतः कृतेनऽ इति ।

न च ज्ञानोत्पत्तावुपयोगः, ज्ञानस्य प्रमाणाधीनत्वात् ।

न च ज्ञानसहकारीणि कर्माणि, ज्ञानस्य साध्यान्तराभावात् ।

न तस्य मोक्षः साध्यः, अनित्यत्वप्रसङ्गात् ।

अथ बन्धहेतुविच्छेदः साध्य इति तस्मिन् विच्छिन्ने तदभावान्मुच्यते ।

कः पुनर्बन्धहेतुः? अनाद्यविद्या, न तर्हि पृथक्तद्विच्छेदः साध्यः, यतो विद्योदय एवाविद्याव्यावृत्तिः ।

स्यादेतत्

भवत्वग्रहणलक्षणाविद्याव्यावृत्तिर्विद्योत्पादः, यतो भाव एवाभावव्यावृत्तिः ।

न च विद्योत्पाद एव विपर्यासज्ञानव्यावृत्तिः ।

न खलु भावान्तरं भावान्तरव्यावृत्तिः ।

न च परस्पराभावात्मानो भावाः, अभावत्वप्रसङ्गात् ।

यदि मन्येत

तत्त्वाग्रहणनिमित्तो विपर्यासो निमित्तनिवृत्तौ स्वयमेव निवर्तिष्यते, तच्च न ।

न खल्वग्रहणमभावः कस्यचिन्निमित्तम्, मूर्च्छादिषु [कुप्पुस्वामी संस्करण ३३] प्रसङ्गात् ।

किं तर्हि निमित्तम्? ’नादिरप्रयोजना चाविद्याऽ इत्युक्तम् ।

तत्र च हेत्वनुयोगो निरवकाशः ।

विपर्यासतत्संस्कारयोश्च परस्परहेतुफलभावेन व्यवस्थानान्न दोषः ।

अतो विपर्ययज्ञानस्य निवृत्तिर्विद्यया साध्येति तत्र ज्ञानस्य सहकार्यपेक्षा स्यात् ।

एतच्च वार्तम् ।

न खलु शुक्तिकादिषु विपर्यासपुरस्सरं समुपजातसम्यग्ज्ञानास्तन्निवृत्तये पृथक्प्रयतन्ते, सहकारि वान्यदपेक्षन्ते ।

यतो विरोधिभावान्तरोत्पाद एव पूर्वप्रध्वंसः, न शून्यम् ।

अन्यथा न प्रध्वंसो हेतुमान् स्यात् ।

विरोधिनी च विद्या विपर्ययज्ञानस्य ।

तदुत्पत्तौ विपर्यासो नष्ट एव भवति ।

अथोच्येत

कर्माणि बन्धहेतवः ।

तत्क्षयो ज्ञानात्सहकारिसव्यपेक्षादिति ।

तच्च प्रमृष्टाशेषविशेषविशुद्धज्ञानोदये कुतः सम्भवः? तथा च विपर्याससंशयाभ्यां तुल्यवत्प्रसंख्यातानि कर्माणि


ऽभिद्यन्ते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।


क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरेऽ ॥

इति ।


अथ विज्ञानवैमल्यायान्यापेक्षा ।

सापि मुधा, संशयविपर्यासयोर्ज्ञानमलयोः प्रमाणोत्थविज्ञानेऽसंभवात् ।

अथ मतम्

शाब्दज्ञानादन्यदपि प्रत्यक्षं ज्ञानमिष्यते विगलितविभागोद्ग्राहं सर्वविकल्पातीतम् ।

तस्य हि ब्रह्म गोचरः, न शाब्दस्य विभक्तपदार्थसंसर्गोद्ग्राहिणः ।

तदुत्पत्तौ कर्मोपासनाद्यपेक्षेति ।

कः पुनरस्य विशेषः, येन तदर्थ्यते? स्पष्टाभत्वम्, न तस्योपयोगः ।

ज्ञानं हि ज्ञेयाभिव्याप्तये, शाब्दज्ञाने चोत्पन्न आप्तमेव ज्ञेयम् ।

प्रमितेः प्रत्यक्षपरत्वात्तत्र च नैराकाङ्क्ष्यात्तदर्थ्यत इति चेत्, एतदधिगते प्रमेये किमन्यदाकाङ्क्ष्येत? प्रमाणान्तरमिति चेन्न, प्रमेयसिद्ध्यर्थत्वात्तदाकाङ्क्षायाः ।

पुनः सिद्ध्यर्थमिति चेन्न, पूर्वस्मादप्यसकृत्तत्सिद्धेः ।

सिद्धस्य च सिद्ध्यपेक्षायां न हेतुरस्ति ।

उपायान्तरसद्भावश्चेत्, उपायान्तरं तर्ह्यपेक्षेत ।

प्रमेये तु नैराकाङ्क्ष्यमेव ।

प्रीतिविशेषश्चेत्, स पूर्वप्रमाणजादपि [कुप्पुस्वामी संस्करण ३४] दर्शनात्सिध्यति ।

न तत्सिद्ध्यर्थं प्रमाणान्तरम् ।

प्रत्यक्षदृष्टमपीतरैस्तत्सम्भवाज्जिज्ञास्येत, विशेषाभावात् ।

निश्चायकत्वमितरेषामपि, प्रमाणभावात् ।

हानादियोग्यविषयं प्रत्यक्षम्, सन्निकृष्टार्थत्वात्, नेतराणीति चेत् ।

सन्निकर्षहेतुस्तर्ह्यपेक्ष्यताम् ।

न प्रमाणम्, सिद्धत्वात्प्रमायाः ।

प्रकृते च प्रमेये नैष विशेषोऽस्ति ।

सामान्यविषयाः शब्दादयः, विशेषविषयं प्रत्यक्षमिति चेत् ।

अनधिगत एव तर्हि शब्देन प्रत्यक्षस्य विषयः ।

बाढम् ।

उक्तमेतत्

न शाब्दस्य ज्ञानस्य विषयो ब्रह्मेति ।

यदि तर्हि न शब्देनाधिगतं ब्रह्म, कथं तस्मिन्नुपासना प्रवर्तताम्? न चान्यस्मिन्नुपास्यमानेऽन्यत्साक्षाद्भवति ।

कस्य च रूपस्य साक्षात्करणाय यज्ञादिविधानम्? शब्दोपदर्शितनिरतिशयानन्दापहतपाप्मादिरूपब्रह्मस्वभावस्यात्मनः साक्षात्करणाय यज्ञादिविधिरुपपद्यते ।

अविदितपुरुषार्थरूपे तद्विपरीतरूपे निर्विचिकित्सात्प्रमाणात्प्रकटतां प्राप्ते नापरमपेक्ष्यमस्ति ।

नन्ववगतेऽपि ’तत्त्वमसिऽ इति शब्दाद्ब्रह्मात्मभावे प्रागिव सांसारिकधर्मदर्शात्तन्निवृत्तये भवत्यन्यापेक्षा ।

नैतत्सारम् ।

कथं खल्ववगतब्रह्मात्मभावो विदितात्मयाथातथ्यो मिथ्यादर्शननिमित्तैर्धर्मैर्युज्यते? श्रूयते च

’ब्रह्म वेद ब्रह्मैव भवतिऽ इति ।

न च ब्रह्मण्यपहतपाप्मनि तेषामवकाशः ।

तथा


’ात्मानं चेद्विजानीयादयमस्मीति पूरुषः ।


किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत्ऽ ॥



तथा ’शरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ इति ।


मिथ्याभिमाननिमित्तः शरीरसम्बन्धः ।

तस्मिन्याथातथ्यदर्शनान्निवृत्तेऽशरीरत्वम् ।

तत्र प्रियाप्रिययोरसम्बन्ध आख्यायते ।

तस्मान्नावगतब्रह्मात्मभावः प्रागिव सांसारिकधर्मभाक् ।

यस्तु तथा, नासाववगतब्रह्मात्मभाव इति ।

[कुप्पुस्वामी संस्करण ३५] अत्रोच्यते

निश्चितेऽपि प्रमाणात्तत्त्वे सर्वत्र मिथ्यावभासा निवर्तन्ते, हेतुविशेषादनुवर्तन्तेऽपि ।

यथा द्विचन्द्रदिग्विपर्यासादय आप्तवचनविनिश्चितदिक्चन्द्रतत्त्वानाम् ।

तथा निर्विचिकित्सादाम्नायादवगतात्मतत्त्वस्यानादिमिथ्यादर्शनाभ्यासोपचितबलवत्संस्कारसामर्थ्यान्मिथ्यावभासानुवृत्तिः ।

तन्निवृत्तयेऽस्त्यन्यदपेक्ष्यम् ।

तच्च तत्त्वदर्शनाभ्यासो लोकसिद्धः, यज्ञादयश्च शब्दप्रमाणकाः ।

अभ्यासो हि संस्कारं द्रढयन् पूर्वसंस्कारं प्रतिबध्य स्वकार्यं सन्तनोति ।

यज्ञादयश्च केनाप्यदृष्टेन प्रकारेण ।

श्रेयःपरिपन्थिकलुषनिबर्हणद्वारेणेत्यन्ये, नित्यानां कर्मणां दुरितक्षयार्थत्वात् ।

स्यादेतत्

अनुवर्तन्तां मिथ्यावभासाः ।

प्रमाणात्तु निश्चयः ।

यथातत्त्वं यथानिश्चयं च व्यवहारः ।

तस्मानावगतात्मतत्त्वस्य काचन शुभाशुभा वा प्रवृत्तिरुपपद्यते ।

उच्यते

जातेऽपि तत्त्वदर्शने, अनाहिते च पटौ संस्कारे, द्रढियसि च मिथ्यादर्शनजे संस्कारे निश्चया अपि मिथ्यार्था भवन्ति ।

यथा दिङ्मूढस्याननुसंहिताप्तवचसः, प्रागिव प्रवृत्तिदर्शनात् ।

तथा प्रमितरज्जुभावाया अपि रज्ज्वाः प्रमाणाननुसन्धाने सर्पभ्रान्त्या भयदर्शनम् ।

तस्माज्जातेऽपि प्रमाणात्तत्त्वदर्शने अनादिमिथ्यादर्शनाभ्यासपरिनिष्पन्नस्य द्रढीयसः संस्कारस्याभिभवायोच्छेदाय वा तत्त्वदर्शनाभ्यासं मन्यन्ते ।

तथा च ’मन्तव्यो निदिध्यासितव्यःऽ इत्युच्यते ।

शमदमब्रह्मचर्ययज्ञादिसाधनविधानं च ।

अन्यथा कस्तदुपदेशार्थः? स्यादेतत्

ब्रह्मचर्यादिसाधनकरणादेवाम्नायात्तत्त्वविज्ञानम् ।

तदसत् ।

शब्दमात्रात्प्रतिपत्तेरुत्पत्तेः ।

न हि प्राक्साधनविशेषेभ्यस्तत्त्वप्रतिपत्तिपर आम्नायोऽवाचकः, नाप्यनिश्चायकः, अशेषाशङ्कानिर्मोक्षात् ।

अन्यथा तदुपदिष्टेषु साधनेष्वपि दुर्लभा प्रतिपत्तिः ।

अपि चान्यथानिश्चयेऽपि रङ्गगता भरतादयो मिथ्यावभासेन शोकभयादिहेतवः ।

निश्चितेऽपि गुडस्य माधुर्ये तत्र मिथ्यातिक्तावभासोऽवितथ इव दुःखयति, अवितथस्येव तस्यापि धूत्कृत्य त्यागात् ।

तस्मात्तन्निवृत्तये विनिश्चितब्रह्मात्मभावेनापि साधनान्यपेक्ष्याणि ।

[कुप्पुस्वामी संस्करण ३६] यथैव प्रमाणात्तत्त्वाभिव्यक्तौ न मुक्तेः कार्यता, तथाभिव्यक्तिविशेषेऽपि साधनेभ्यः ।

श्रुतयस्त्वभ्यासपरिनिष्पत्त्यवस्थाविषयाः शब्दसाधनज्ञानापेक्षा वा भवन्तु, तद्धेतुत्वादुत्तरस्य

इत्यलमतिविस्तरेण ।


यदपि पृथक्कार्या एव कर्मविधयो ज्ञानाधिकारमवतारयन्ति, अपाकृतर्णत्रयस्य तत्राधिकारात्

तदपि न नियोगतः, आश्रमविकल्पस्य स्मरणात्

’तस्स्याश्रमविकल्पमेकेऽ ’यमिच्छेत्तमवसेद्ऽ इति, ’यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्ऽ इति श्रवणात् ।

’ेतद्ध स्म वै

तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रिरेऽ तथा ’किं प्रजया करिष्यामःऽ तथा ’किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहेऽ इति कर्मत्यागदर्शनात् ।

प्रतिपन्नगार्हस्थ्यस्यात्मविद्ययैव कृतकृत्यतां मन्वानस्य ऋणापाकरणं प्रत्यनादृतस्य विहिताकरणनिमित्तस्य पाप्मनो विद्योदयप्रतिबन्धृत्वं दर्शयति

’ृणानि त्रीण्यपाकृत्यऽ इति ।


इदं तु युक्तम्

कार्यान्तरनिराकाङ्क्षाणामपि कर्मणां संयोगपृथक्त्वात्’तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेनऽ इति विद्याङ्गभावः ।

सोऽप्युत्पत्त्यर्थतया, न प्रयाजादिवत्कायोपयोगेन ।

विद्यायाः कार्यान्तराभावात् ।

संस्कारपक्षो वा, स्मृतेः ।

संस्कृतस्य हि विद्योत्पत्तेः ।

तदुक्तम्

’विहितत्वाच्चाश्रमकर्मापिऽ इति ।


ननु दृष्टोत्पाय एव विद्योत्पादः ।

तत्र दृष्टैवेतिकर्तव्यतापेक्ष्यतां शमदमादिसाधनविशेषश्चित्तविक्षेपस्य विहन्त्री, समहितचित्तस्याभसतो ज्ञानप्रसादोत्पत्तेः ।

न तु यज्ञादयः, तैर्विनाप्यभ्यासेन तत्सम्भवात् ।

सत्यम् ।

तथा चोर्ध्वरेतसां चाश्रमिणां विनापि तैर्विशुद्धविद्योदय इष्यते ।

किं तु कालकृतो विशेषः ।

साधनविशेषाद्धि सा क्षिप्रं क्षिप्रतरं च व्यज्यते ।

तदभावे चिरेण चिरतरेण च ।

तदुक्तम्

’सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्ऽ ।

[कुप्पुस्वामी संस्करण ३७] एषोऽर्थः

’यज्ञेन दानेनऽइति श्रवणात्कर्माण्यपेक्ष्यन्ते विद्यायामभ्यासलभ्यायामपि, यथान्तरेणाप्यश्वं ग्रामप्राप्तौ सिद्द्यन्त्यां शैघ्र्यायाक्लेशाय वाश्वोऽपेक्ष्यते ।


ननु विद्यारूपं ब्रह्मैव ।

न विद्या ब्रह्मणोऽन्या ।

तच्च नित्यमकार्यम् ।

तत्र कथं किञ्चिदपेक्ष्येत? उच्यते

यथोपधानतिरोहितरूपस्फटिकमणिरुपधावकर्षणं स्वरूपाभिव्यक्तयेऽपेक्षते तथेहापि द्रष्टव्यम् ।

न हि स्फटिकमणेः पूर्वरूपं विनष्टमुपधानसन्निधेः, तदपगमे वान्यदुत्पन्नम् ।

न ह्यकस्मादनेकविसभागक्षणव्यवहितस्य पूर्वसभागक्षणस्योत्पत्तिः सम्भवति ।

न ह्यग्निविगमेऽङ्गारेभ्यः पुनः काष्ठसन्ततिप्रवृत्तिः ।

तस्माद्यथैवाकार्यं स्फटिकरूपमुपधानावकर्षणमपेक्षते तथात्मरूपमपि ।

स्यदेतत्

ज्ञानं तत्र सापेक्षम् ।

तच्च स्फटिकाद्भिन्नं कार्यम् ।

पुरुषप्रयत्नो हि तत्र ज्ञानार्थः ।

किं पुनर्ज्ञानं स्वरूपेणैवार्थितम्, आहोस्विदर्थस्वभावसिद्धये? न तावत्स्वरूपेण, अर्थेन व्यवहारत् ।

न विज्ञानमात्रनिबन्धनो व्यवहारः, मिथ्याज्ञानेनापि प्रसङ्गात् ।

अथार्थस्वभाय ज्ञानमर्थ्येत, तदर्थो व्यापारस्तेनार्थितो भवति ।

न च ज्ञानादर्थे कश्चिद्विकारः, तयोरसंबन्धात् ।

योग्यदेशतायाः सर्वत्र भावात् ।

सर्वप्रतिपत्तृणां च विदितत्वप्रसङ्गात् ।

ध्वस्तानागतेषु च तदसंभवात् ।

तस्माद्यथातिरोहितमपि तिरोहितमिवाभिव्यज्यत इव प्रयत्नापेक्षम्, तथात्मतत्त्वमप्यतिरोहितं तिरोहितमिव प्रयत्नादभिव्यज्यत इवेति पुष्कलम् ।


संहृताखिलभेदोऽतः सामान्यात्मा स वर्णितः ।

हेमेव पारिहार्यादिभेदसंहारसूचितम् ॥ १.३ ॥



यतश्च विशेषप्रत्यस्तमुखेन तन्निरूपणम्, अतोऽन्यैर्ब्रह्मविद्याभियुक्तैः सामान्यरूपं ब्रह्म निरूपितम्

’स एव महानज आत्मा सत्तालक्षणःऽ तथा ’सत्तैव सर्वभेदयोनिः प्रकृतिः पराऽ इति ।

यथा सुवर्णतत्त्वं कटकाङ्गुलीयादिविशेषोपसंहारेण निरूप्यमाणं तत्सामान्यमिति ।

ये वा [कुप्पुस्वामी संस्करण ३८]

’निर्विशेषं न सामान्यं भवेच्छशविषाणवत्ऽइत्यभावमाहुः, तान् प्रत्युच्यते

संहृताखिलभेद इति ।

यदि तावदसामान्यत्वं साध्यते सिद्धसाधनम् ।

विशेषाणामभावे केषां तत्सामन्यम्? सामन्यं तूक्तं ब्रह्मवादिभिर्विशेषप्रत्यस्तमुखेन निरूपणादुपचारतः ।

अथाभाव एव साध्यः, विशेषैरेवास्य निर्विशेषैर्व्यभिचार इति ।

 


इति श्रीमन्मण्डनमिश्रविरचितायां ब्रह्मसिद्धौ ब्रह्मकाण्डः समाप्तं||


तर्ककाण्डः (द्वितीयः)


ननु प्रत्यक्षादिभिर्व्यावृत्तानां भावस्वभावानामवगमान्नैकस्मिन्नद्वये शब्दः प्रमाणम्, प्रत्यक्षादिविरोधात्, ग्रावप्लवनाद्यर्थवचोवत् ।

उच्यते


आहुर्विधातृ प्रत्यक्षं न निषेद्धृ विपश्चितः ।

नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते ॥ १.४ ॥



ननु प्रमाणान्तरपरतन्त्राणां पुरुषवचसां तद्विरोधाद्युक्तमप्रमाणत्वम् ।

स्वतन्त्रस्य त्वाम्नायस्यानपेक्षितप्रमाणान्तरप्रवृत्तेस्तद्विरोधेऽपि कस्मादप्रमाणत्वम्? आम्नायविरोधादेव तु प्रत्यक्षादीनि प्रमाणतायाः किमिति न च्यवन्ते? तुल्येऽनपेक्षत्वे न विशेषहेतुरस्ति ।

तत्र वृथा प्रमाणान्तरविरोधपरिहारपरिश्रम इति ।


तत्र केचिदाहुः

प्रत्यक्षादिविरोधे आम्नायस्य दौर्बल्यम्, सापेक्षत्वत् ।

तथा हि स्वरूपसिद्ध्यर्थमेव तावत्प्रत्यक्षादीन्याम्नायोऽपेक्षते ।

तथा च तेषां प्रामाण्यमनुमन्तव्यम्, तदपबाधने स्वरूपस्यैव तावदसिद्धेः ।

न त्वेवमाम्नाये प्रत्यक्षादीनां काचिदपेक्षा ।

दृष्टव्यभिचारत्वाच्च शब्दस्य, प्रत्यक्षस्य चादृष्टव्यभिचारात् ।

अपि च सावकाशानवकाशयोरनवकाशं बलवत् ।

अनवकाशाश्च प्रत्यक्षादयः, सावकाशस्तु शब्दो गौणेनार्थेन ।

तथा हि

शक्यमेकत्वमभेदश्रुतीनामुपचरितमवकाशो वर्णयितुम् ।

अविवक्षितार्थानां वा वेदान्तानां जपोपयोगोऽवकाशः ।

उपनिषदो वेदान्ता इति वर्णितम् ।

किं च व्याकुलत्वादाम्नायस्याव्याकुलत्वात्प्रत्यक्षादीनाम् ।

कर्मविधयो हि भेदाश्रया अभेदाश्रयाश्च वेदान्ताः परस्परपराहता असत्यपि प्रमाणान्तरविरोधे दुर्लभप्रामाण्याः ।

किं पुनरव्याहतप्रतिष्ठितप्रामाण्यादिविरोधे ।

तस्मादिदमविरोधाय प्रयत्यत इति ।

मुख्यत्वाच्च ।

मुख्या हि प्रत्यक्षादयः ।

जातस्य जन्तोरपरकाल आम्नायः ।

स तैः प्रतिष्ठितार्थैरपहृतविषयः कल्पनीयार्थो बाध्यते, तदनुसारेण वार्थकल्पनामर्हति ।

अर्थतोऽपि च मुख्यता प्रत्यक्षादीनाम् ।

पदपदार्थविभागाधीन आम्नायार्थपरिच्छेदः, स च प्रत्यक्षादिष्वापतते ।

अतोऽविरोधाय प्रयत्यत इति ।


[कुप्पुस्वामी संस्करण ४०] अन्ये मन्यन्ते

तुल्यबलत्वेऽपि प्रत्यक्षादीनामाम्नायस्य च वस्तुनि विकल्पानुपपत्तेर्विरोधे संशयः स्यात् ।

तेनाविरोध उपपाद्यत इति ।


अन्यद्दर्शनम्

आम्नाय एव बलवांस्तद्विरोधे ।

’पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्ऽ ।

’पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिध्यतिऽ इति ।

तथा हि

सर्वस्य निसर्गजः प्रत्यक्षादिनिबन्धनः किल विभक्तवस्तुपरिच्छेदः ।

तदपेक्षस्तु तत्पूर्वकोऽनिसर्गजः कस्यचिदेवागन्तुरद्वैतावगमः ।

स पूर्वमनुपमृद्योदेतुमशक्नुवंस्तदपबाधात्मोदीयते ।

इतश्च

संभवद्विचित्रविभ्रमहेतुत्वात्प्रत्यक्षादीनाम्, विगलितनिखिलदोषाशङ्कत्वाच्चाम्नायस्य ।

पुरुषाश्रयाणां हि दोषाणां शब्दे पुरुषाभावेऽसंभवात् ।

शक्यो ह्याम्नायादेवानादिरविद्यासंस्कारो विभ्रमहेतुः प्रत्यक्षादिषु संभावयितुं निश्चेतुं च देहात्माभिमान इव ।

न त्वेवमपौरुषेये शब्दे काचिद्दोषाशङ्का ।

सत्यां वा प्रमाणमेव न स्यात् ।

प्रत्यक्षादीनां तु व्यावहारिकं प्रामाण्यम्, अविद्यासंस्कार्स्य स्थेम्ना व्यवहारविपर्ययाभावात् ।

यत्र च व्यवहारविपर्ययो न तत्र प्रामाण्यम् ।

शब्दे तु संभावितदोषे न तत्त्वावेदनेन प्रामाण्यम् ।

न व्यवहाराविपर्ययेण ।

अदृष्टार्थत्वाद्दोषेभ्यो व्यवहारविसंवादिज्ञानदर्शनाच्च ।

प्रत्यक्षादीनां तु व्यवहारे संवादान्न शक्यते व्यवहारविसंवादिज्ञानहेतुर्दोषः कल्पयितुम् ।

व्यवहारविपर्ययाद्धि स कल्प्येत ।

तत्त्वदर्शनस्य तु वेदान्तजन्मनः प्रतिपक्षत्वात्तत्त्वप्रतिहतिमात्रहेतुरेवानादिरविद्यानुबन्धः कल्प्यते ।

ततो दोषानुबन्धः प्रामाण्यं चेति न विरोधः ।

शब्दस्तु संभावितदोषो दुर्लभप्रामाण्य एव स्यात् ।

दृश्यते हि दोषेभ्यो व्यवहारविसंवादिज्ञानोत्पत्तिः ।

तत्र दोषाशङ्कया व्यवहारविसंवादस्य शङ्कितत्वात्तत्त्वप्रतिघातस्य च, न तत्त्वावेदनलक्षणं प्रामाण्यम्, न व्यवहाराविसंवादलक्षणमिति ।

तस्माच्छब्दस्य प्रामाण्याभ्युपगमे प्रमाणान्तरविरोधेऽपि तस्यैव बलवत्त्वमिति सांप्रतम् ।

यत्तु प्रत्यक्षाद्यपेक्षणादिति, तत्रोच्यते

न प्रमितावपेक्षावत्ता शब्दस्य प्रत्यक्षादिषु, किं तु स्वरूपसिद्धौ ।

अन्यथा प्रमाणमेव न स्यात् ।

तथा च स्वकार्येऽपेक्षत्वान्न प्रत्यक्षादिभ्यो हीयते ।

प्रत्यक्षादयो पि स्वरूपसिद्धौ नान्यानपेक्षाः ।

कार्ये हि सापेक्षत्वं [कुप्पुस्वामी संस्करण ४१] सामर्थ्यमपकर्षतीति ।

यत्त्वेतेषां प्रामाण्यमनुमातव्यमिति, को वान्यथाह? व्यवहाराविसंवादिलक्षणं तु तत्, न तत्त्वावेदनलक्षणम् ।

व्यावहारिकप्रामाण्योपेतेभ्यः प्रत्यक्षादिभ्यः सिद्धादाम्नायात्तत्त्वदर्शनम्, तद्विरोधात्तेषु तत्त्वदर्शनांशमेवापबाधते, न व्यवहाराविसंवादांशम् ।

दृष्टं च हेतुत्वेनापेक्षिताया अपि पूर्वस्याः प्रतिपत्तेः परस्याः प्रतिपत्तेर्बलीयस्त्वम् ।

यथा दूरस्थेषु वनस्पतिषु हस्तिप्रतिपत्तिभ्यो वनस्पतिप्रतिपत्तेः ।

अपेक्षिता हि हस्तिप्रतिपत्तयो व्यक्तवनस्पतिप्रतिपत्त्या हेतुत्वेन ।

न तस्या इन्द्रियार्थसंनिकर्षमात्राज्जन्म, आपातेऽभावात् ।

न च देशविशेषात्, तद्देशस्थस्यैवोत्पत्तेः ।

तस्मात्पुरोवर्तिषु वनस्पतिषु प्रणिहितमनसः प्राच्यविपर्यासानुगतमतिसंस्कारसचिवेन्द्रियादिसंयोगकारिता सेति मन्तव्यम् ।

एवमेकादिसंख्याबुद्ध्यपाया विंशत्यादिबुद्धयोऽप्युदाहार्याः ।

एवं च यदेके वर्णयन्ति

स्वयमेव व्याहता वेदान्तार्थप्रतिपत्तिः ।

नाभेदो भेदमन्तरेण शक्योऽवसातुम् ।

भेदोपाया हि तस्य प्रतिपत्तिः ।

तत्राभेदः समाक्षिप्तभेद एव प्रतायत इति व्याघातः

तदपास्तम् ।

यत उपायमाक्षिपति प्रतिपत्तिः ।

नोपायस्य परमार्थताम्, मिथ्याज्ञानादपि तत्त्वप्रतिपत्तेः ।

व्यावहारिकं च भेदस्य सत्यत्वमिष्टमेवेति ।

व्यभिचारदर्शनं च दुष्टहेतुजन्मनोः शब्दप्रत्यक्षयोः समानम् ।

इतरयोरपि तुल्यमव्यभिचारित्वम् ।

तथानवकाशत्वमपि ।

यदि खल्वेकमद्वयं वेदान्तार्थः, कस्तेषामन्योऽवकाशः? अथौपचारिकत्वमेकत्वं तदर्थोऽविवक्षितार्थता वा जपोपयोगिनाम्, तत्र विरोध एव नास्तीति बलाबलचिन्ता नावतरति ।

तत्कुतः सावकाशत्वेन दौर्बल्यम्? कथं च मुख्यमर्थमतिलङ्घ्योपचरितोऽवकाशः? कथं वौत्पत्तिके शब्दस्यार्थं प्रति शेषभावे

’दृष्टो हि तस्यार्थः कर्मावबोधनम्ऽ ’विशिष्टस्तु वाक्यार्थःऽइति च अविवक्षितार्थता? प्रमाणान्तरविरोधादिति चेत्, वार्तमेतत् ।

न प्रमाणस्य प्रमाणान्तरापेक्षं प्रामाण्यम्, येन तद्विरोधे स्वरसं जह्यात् ।

तदपेक्षत्वे हि तदनुगुणतया वर्तेत ।

निरपेक्षस्य कः प्रमाणान्तरानुसरणे [कुप्पुस्वामी संस्करण ४२] हेतुः? लौकिकास्तु शब्दाः प्रमाणान्तरापेक्षं स्वार्थमभिदधतीति युक्ता तेषां तदनुसारिणी वृत्तिः ।

तुल्ये त्वनपेक्षत्वे किमिति न विपर्ययः, उभयोर्वा व्याघातादप्रामाण्यम्, ’पौर्वापर्ये पूर्वदौर्बल्यम्ऽइति वा रजतज्ञानस्येव पूर्वस्य बाधः? न खलु रजतज्ञानविरोधाच्छुक्तिज्ञानमन्यविषयमविषयं वा ।

कथं तर्हि वेदे गुणवादः ।

यत्र श्रौतैरर्थैः प्रमाणार्थनिष्पत्तेरसम्भवः, तत्र द्वितीयस्या अपि वृत्तेः शब्दानां प्रवृत्तिदर्शनात्तया प्रमाणविषयलाभः ।

यत्र तु शब्दाः स्वरसेन लभन्ते विषयम्, तत्र न प्रमाणान्तरविरोधादपावर्तन्ते ।

न ह्येषां प्रमाणान्तरनिबन्धनोऽर्थो येन तद्वशादपावर्तेरन् ।


अथ मतम्

उभयानुग्रहादेवं कल्प्यते ।

एवं हि शब्दः प्रत्यक्षादयश्चानुगृहीता भवन्ति ।

अन्यथा प्रत्यक्षादयोऽत्यन्तमपबाधिताः (ंसा॑ ॰मेव बाधिताः एदितिओन्) स्युः ।

नैतत्सारम् ।

प्रमाणसामर्थ्यानुसारेण प्रमेये काचित्कल्पना स्यात् ।

प्रमाणे तु स्वरससिद्धं परित्यज्य कल्पनायां न निबन्धनमस्ति ।

तस्मात्प्रमाणानुसारेण विकल्पसमुच्चयव्यवस्थाः कल्प्यन्ते, नोभयानुग्रहात् ।

नोभयमनुगृहीतव्यमिति प्रमाणमस्ति ।

ते एव प्रमाणे इति चेत्

यदि मतम्, न प्रमाणस्य प्रमाणान्तरादनुग्राह्यत्वम्, अपि तु स्वत एव ।

प्रमाणत्वादेव हि तस्य तेनार्थव्यवस्थापना

यथा तर्हि ततोऽर्थोऽवगम्यते तथा व्यवस्थापनीयः ।

एवं तदनुगृहीतं भवति ।

अन्यथा बाधितं स्यात् ।

अप्रमाणिका चार्थव्यवस्था, ततः स्वरसेनाप्रतीतेः, अन्यस्य चाभावात्, इतरेतराश्रयप्रसङ्गाच्च ।

प्रामाण्यात्सिद्धादर्थान्तरे प्रतीतिः प्रामाण्यान्यथानुपपत्त्या कल्पनीया, तत्प्रतीतेश्च प्रामाण्यम् ।

स्वरसलभ्ये त्वर्थे प्रतीतित एव प्रामाण्यमिति नेतरेतराश्रयता ।

तस्माद्विरोधे बाध एव पूर्वस्य प्रमाणानुसारी, तथा प्रतीतेः ।

नोत्तरस्य विषयान्तरकल्पना ।

न खलु रजतज्ञानानुग्रहाय शुक्तिशकलज्ञानस्य गोचरोऽपरः कल्प्यते ।

न च प्रत्यक्षादीनामनन्यगतित्वादनवकाशत्वम् ।

या खलु रजतादिविभ्रमाणां गतिः, सा तेषामपि ।

यदि तेषामुपचरितः कल्पितो वा विषयः, प्रत्यक्षादीनामपि तथा ।

अथासत्त्वात्तस्याविषया अविद्यमानार्थाः प्रत्यक्षादयोऽप्येवम् ।

तस्मादविवक्षितार्थत्वमुपचरितार्थत्वं [कुप्पुस्वामी संस्करण ४३] वा गतिरुभयोरविशिष्टा ।

एतेनेदमपि पराकृतम्, यदाहुः

शब्दस्य प्रमाणान्तरविरोधे दृष्टमुपचरितार्थत्वमविवक्षितार्थत्वं वा लोके ।

तस्मात्प्रत्यक्षादिविरोधे वेदान्तानां तथाभाव इति, प्रत्यक्षादिष्वपि तथा दर्शनादिति ।


यत्तु मुख्यत्वात्प्रतिष्ठितार्थैरपहतविषय आम्नाय इति ।

अत एव बाधकः, शुक्तिज्ञानवत् ।

न च तदनुसारेणार्थकल्पनामर्हति, अनपेक्षत्वात् ।

न, तदधीनमस्य प्रमाणत्वम् ।

न तैः संभूयकारित्वम्, नाम्नायस्य प्रत्यक्षादीनां चैकवाक्यभावः ।

परस्परानपेक्षो ह्युभयत्र बुद्ध्युत्पादः ।

तत्र परबलीयस्त्वं न्याय्यम् ।

यथोक्तम्


’पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् ।

अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्ऽ ॥



यत्र त्वेकवाक्यतया संभूयकारित्वं तत्रानुपजातविरोधितया स्वरसवृत्त्या मुख्ये स्थिते, प्रथमया वृत्त्या तदेकवाक्यत्वं प्रतिपत्तुमशक्नुवन्ति तदपेक्षितार्थसमर्पणानुपपत्तेः परपदानि द्वितीयया वृत्त्या पूर्वापेक्षितमर्थं समर्पयन्त्येकवाक्यतासामर्थ्यादिति मुख्यबलीयस्त्वम् ।

यत्तु व्याकुलत्वादिति, तत्रोच्यते

स्याद्व्याकुलत्वम्, यदि कर्मविधयो भेदप्रतिपादनपराः स्युः ।

ते तु सिद्धं भेदमुपाश्रित्य ’िदमनेनेत्थं साधयेत्ऽ इति पुरुषहितानुशासनप्रधानाः ।

स्यादेतत् ।

असति भेदेऽंशत्रयप्रत्यस्तमयात्कुतो हितानुशासनम्? उच्यते

यथा खलु श्येनादिषु ’न हिंस्यात्सर्वा भूतानिऽ इति प्रतिषेधात्साध्यांशप्रत्यस्तमयेऽप्यनुशासनम्, एवं सर्वत्र सर्वांशप्रत्यस्तमयेऽपि ।

तथा हि

निषिद्धानर्थोदया कथं हिंसा साध्या स्यात्? अथ भवति कस्य चित्तीव्रक्रोधाक्रान्तस्वान्ततया समुद्धतध्वान्ततिरस्कृतविवेकविज्ञानस्यानर्थमप्यर्थत्वेन पश्यतः शास्त्रोपदेशमतिक्रामतः, तथा ज्योतिष्टोमादिषु निसर्गजाविद्योपदर्शिता अप्रतिबुद्धानां त्रयोऽप्यंशाः, तानुपाश्रित्य तेषामनुशासनम् ।

प्रतिबुद्धास्तु कर्मविधिभिर्नानुशिष्यन्ते ।

यथा श्येनादिविधिभिरपजितक्रोधारातयः ।

तदेवं व्यवहारसिद्धभेदाश्रयेषु कर्मविधिषु यद्यपि भेदप्रतीतिरस्ति [कुप्पुस्वामी संस्करण ४४], तथापि तेषामतत्परत्वान्न तत्र प्रामाण्यं वृत्तान्तेष्विवार्थवादपदानाम् ।

तथा च कुतस्तैर्वेदान्तानां पराहतिः, वेदान्तैर्वा तेषाम्? अपि च प्रत्यक्षादिष्वेव पराहतिरुपलभ्यते, बाध्यबाधकभावदर्शनाद्रजतशुक्तिशकलादिज्ञानेषु, भेदाभेदप्रतीतेश्च सर्वत्र ।

तदेवं बलवत्त्वेऽप्याम्नायस्य यो नाम मन्दधीर्लौकिकवचसां प्रत्यक्षादिविरोध उपचरितार्थत्वदर्शनाल्लोकवद्वेदेऽपि शब्दवृत्तमिति मन्यते, यो वा निरूढनिबिडतया भेददर्शनान्धकारस्य प्रत्यक्षादीनामेव बलवत्त्वं मन्यते, लोकवचसां च तैर्बाधदर्शनात्, तत्प्रतिबोधनाय विरोधो निरस्यते, न हि यो नाम मन्दविषेण वृश्चिकेन दष्टो म्रियते, नासौ न चिकित्स्यत इति ।


तत्र प्रत्यक्षे त्रयः कल्पाः

वस्तुस्वरूपविधिः वस्त्वन्तरस्य व्यवच्छेदः, उभयं वेत्ति, उभयस्मिन्नपि त्रैविध्यम्

यौगपद्यम्, व्यवच्छेदपूर्वको विधिः, विधिपूर्वको व्यवच्छेद इति ।

तत्र वस्त्वन्तरव्यवच्छेदे उभयस्मिन् वा भेदः प्रत्यक्षगोचर इति भवति विरोधः ।

स्वरूपविधिमात्रे तु कस्यचिद्व्यवच्छेदेन शून्ये न भेदः प्रमाणार्थः, न हि व्यवच्छेदादृते भेदसिद्धिः ।

विधिमात्रव्यापारं च प्रत्यक्षम्, अतो न विरोधः कथमित्युच्यते


लब्धरूपे क्वचित्किञ्चित्तादृगेव निषिध्यते ।

विधानमन्तरेणातो न विषेधस्य संभवः ॥ १.५ ॥



न तावद्व्यवच्छेदमात्रं प्रत्यक्षव्यापारः, न युगपदुभयम्, न व्यवच्छेदपूर्वकं विधानम्, यतः सिद्धे विषये सिद्धरूपमेव निषिध्यते

’नेदमिहऽ ’नायमयम्ऽइति सिद्धे भूतले सिद्धो घटः, गवि वा अश्वः ।

न प्रतिषेध्यात्प्रतिषेधविषयाच्च विना प्रतिषेधोऽवकल्पते ।

कथं तर्ह्यत्यन्तासतां प्रधानखपुष्पादीनां प्रतिषेधः? न हि तत्र क्वचिद्देशे काले वा निषेधः, आत्यन्तिकत्वात्, नापि कुतश्चित्सिद्धि, अत्यन्तासत्त्वात् ।

तत्र केचिदाहुः

खपुष्पादिषु तावत्सिद्धेषु खादिषु तद्विधाः पुष्पादयो निषिध्यन्ते, ’प्रधानं नास्तिऽइति जगत्कारणे सुखदुःखमोहात्मताविभक्तकार्यत्वादीनि निवार्यन्ते ।

[कुप्पुस्वामी संस्करण ४५] अन्ये तु

कुतश्चिन्निमित्ताद्बुद्धौ लब्धरूपाणां बहिर्निषेधः क्रियत इति वर्णयन्ति, अन्यथा दैवनिषिद्धे कः प्रतिषेधोऽप्राप्तरूपे? प्राप्तरूपे वा कथमत्यन्ताय प्रतिषेधः? अपि चानपेक्षितविषयनिषेध्ये व्यवच्छेदे शून्यता प्रमाणार्थः स्यात्, न भेदः, सर्वस्य सर्वत्राविशेषेण निषेधात् ।

यस्तु भेदाय व्यवच्छेदः स भेद्ययोः सिद्धिमपेक्षते, न च सा विधानादृत इति प्राग्विधानमेषितव्यम्, विधिपूर्वक एव च निषेधोऽङ्गीक्रियत इति ।


नापि विधिपूवको व्यवच्छेदः यतः


क्रमः संगच्छते युक्त्या नैकविज्ञानकर्मणोः ।

न संनिहितजं तच्च तदन्यामर्शि जायते ॥ १.६ ॥



न खल्वेकप्रमाणज्ञानव्यापारौ सन्तौ विधिव्यवच्छेदौ क्रमवन्तौ युज्येते, क्षणिकत्वात्, क्रमवतोर्हि व्यापारयोः पश्चात्तनो न तद्व्यापारः स्यात्, व्यवधानात् ।

अपि च जन्मैव बुद्धेर्व्यापारोऽर्थावग्रहरूपायाः, सा चेदर्हविधानरूपोदया, विधेरेवास्या व्यापारः, यौगपद्यस्य निषेधात्, उत्पन्नायाश्च पुनरनुत्पत्तेः ।

अपि च संनिहितार्थालम्बनं प्रत्यक्षं नासंनिहितमर्थमवभासयितुमर्हति, न चानवभासमानरूपं व्यवच्छेत्तुं पर्याप्नोति, अनवभासमाने हि तत्र व्यवच्छेद्ये व्यवच्छेदमात्रं स्यात्, न व्यवच्छेदः कस्यचित्, सर्वस्य वा स्यात् ।

तस्मान्नानवभासमाने व्यवच्छेद्ये व्यवच्छेदः, न च संनिहितार्थावलम्बने प्रत्यक्षेऽसंनिहितावभासो युक्तः ।

कथमिदानीं बाधकं प्रत्यक्षम्? तत्र हि पूर्वार्थनिषेधपुरःसरोऽन्यविधिरेकज्ञानेऽभ्युपेयते, असंनिहितनिषेध्यावभासश्च, तस्मान्नैष नियमः, यतः पूर्वो निषेधः, एकज्ञानव्यापारे च क्रमः, प्रत्यक्षेण चासंनिहितार्थावभासः ।

नैतत्सारम्, तत्रापि पूर्वविज्ञानविहिते रजतादौ ’िदम्ऽ इति च संनिहितार्थसामान्ये निषेधो विधिपूर्व एव, शुक्तिकाविधिस्तु विरोधिनिषेधपूर्व उच्यते, विधिपूर्वता च नियमेन निषेधस्योच्यते, न विधेर्निषेधपूर्वकता निषिध्यते, न च तत्रैकज्ञानस्य [कुप्पुस्वामी संस्करण ४६] क्रमवद्व्यापारता, उभयरूपस्योत्पत्तेः ।

पूर्वज्ञानप्रापितत्वाच्च विषयव्यवच्छेद्ययोर्नासंभवः, पूर्वज्ञानावभासिते च व्यवच्छेद्ये व्यवच्छेदस्य वृत्तेर्नासंनिहितार्थावभासप्रसङ्गः, पूर्वापेक्षस्य तस्योत्पत्तेः ।

पूर्वापेक्षयैव च तद्द्विरूपमुदेति, अन्यथा एकरूपमेवोदीयात् ।

अपि च सर्वव्यवच्छेदानपाकुर्वतः को व्यवच्छेदोऽभिमतः, येन प्रत्यवस्थीयेत? सिद्धः स लोक इति चेत्, अयं वा किं न लोकसिद्धः

नाश्वो गौः, न गौरश्व इति?


यत्तु मतम्

एकविधिरेवान्यव्यवच्छेदः ।

तथा हि

दर्शनं यथैव तदाकारतया तद्रूपं विदधाति, तथा तदेकाकारप्रतिनियमात्, ’तदेव, नान्यत्ऽ इत्यन्यद्व्यवच्छिनत्ति, तत्सामर्थ्यप्रभावितौ च ’िदम्, नेदम्ऽइति विकल्पौ भावाभावव्यवहारं प्रवर्तयतः ।

न ह्येकाकारप्रतिनियतादनन्यसंसर्गिणो ज्ञानादन्योऽन्यव्यवच्छेदः ।

तत्रोच्यते


विधानमेव नैकस्य व्यवच्छेदोऽन्यगोचरः ।

मा स्म भूदविशेषेण मा न भूदेकधीजुषाम् ॥ १.७ ॥



नैकप्रतिनियमोऽन्याभावनिश्चयनिमित्तम्, उपलब्धिलक्षणप्राप्त्यस्येतरस्य चाविशेषेण व्यवच्छेदप्रसङ्गात्, तत्प्रतिनियमो हि ततोऽन्यस्यासंसर्गः ।

तथा चासंसर्गाद्व्यवच्छेदे तस्य दृश्यादृश्ययोरविशेषादुभयोर्व्यवच्छेदः स्यात् ।

अथ मतम्

भवत्येव, तथा हि

यावन्तोऽस्यानात्मानस्तानविशेषेण तदात्मनियमाद्दर्शनमपाकरोति, तथा च नास्यान्य आत्मानः, तद्देशकालास्तु भवेयुः, रूपादिवदविरोधात्, तत्रोपलब्धिलक्षणप्राप्तिर्विशेषस्तद्देशकालव्यवच्छेदावधारणाय, संभवति ह्यनुपलभ्यस्तद्देशकालोऽनात्मानुपलभ्यमानोऽप्यन्योपलब्धौ, इतरवत्, अन्यथा न तुल्योपलम्भयोग्यतः स्यात् ।

सत्यमस्त्ययं विभागः, न त्विदानीं दर्शनप्रतिनियमस्य सामर्थ्यम्, तथा हि

प्रतिनियतमपि तत्र देशे काले च रूपे दर्शनं तयोर्यथा रूपविधिमात्रोपक्षयान्न [कुप्पुस्वामी संस्करण ४७] रसं व्यवच्छिनत्ति, तथा भूभागदर्शननियमोऽपि भूभागविधिमात्रव्यापारत्वान्न घटदृश्यमपि व्यवच्छिन्द्यात्, व्यवच्छेदे वा सर्वस्य व्यवच्छेदः ।

तस्माद्दृश्यव्यवच्छेदेऽपि हेत्वन्तरमुपास्यम्, न दर्शनप्रतिनियममात्रम् ।

तथा चात्मान्तरव्यवच्छेदोऽपि न ततः सिद्धिमुपाश्नुते ।

कामं विधेर्विधेयासत्त्वव्यवच्छेदरूपत्वात्तदभावो व्यवच्छिद्येत, नात्मान्तरसत्ता, तद्देशकालयोरिवानुपलभ्यसत्ता ।

नैकस्य बहव आत्मान इति चेत्, अन्यतस्तर्हि विरोधाद्व्यवच्छेदः ।

न दर्शननियमात् ।

असति च व्यवच्छेदे कुतो बहुत्वम्, कुतो वा विरोध इतरेतराश्रयं वा? तस्मान्नैकविधिरन्यव्यवच्छेदः ।

अपि च एकनियमादन्यव्यवच्छेदे चित्रादिषु नीलादीनामेकदर्शनभाजां भेदो न सिध्येत्, एकज्ञानसंसर्गादेकत्र ज्ञानस्यानियमात् ।


ननु प्रकृत्यैव भिन्ना भावाः, तांस्तद्विधान् विदधदेव दर्शनं परस्परतो व्यावर्तयति, न हि व्यावृत्तिरन्या व्यावृत्तिमतः ।

तत्र व्यावृत्तिमद्विधौ सापि विधीयत एव, यत्प्रकृतिः खलु यः पदार्थः स तयैव प्रकृत्या विधेयः, अन्यथा न तस्य विधिः स्यात्, व्यावृत्तस्वभावाश्च भावा यथायथं दर्शनेषु निर्भासन्ते, तस्मात्तथैव विधीयन्त इति ।

अत्राप्यसंस्पृष्टनिर्भासनादसंस्पृष्टस्वभावत्वे दृश्ययोरविशेषेण व्यवच्छेदस्तदवस्थः ।

अपि च


न भेदो वस्तुनो रूपं तदभावप्रसङ्गतः ।

अरूपेण च भिन्नत्वं वस्तुनो नावकल्पते ॥ १.८ ॥



न व्यावृत्तिर्वस्तुस्वभावः, सा खल्वेकानेकाधिष्ठाना प्रतिज्ञायते प्रज्ञायते च ।

तथा च तस्या एकस्या अनेकवृत्तेर्वस्तुस्वभावत्वे वस्तूनामपि भेदो न स्यात्, नैकस्मादभिन्नस्वभावं भिन्नं युज्यते तद्वदेव ।

अथ मा भूदेष दोष इत्यर्थान्तरमेव व्यावृत्तिरास्थीयते, तथापि व्यावृत्तेररूपत्वात्स्वरूपेण न भावा व्यावृत्ताः स्युः ।

अपरः कल्पः

भेदः परस्परानात्मस्वभावः, स चेद्वस्तुनः स्वभावः, वस्तूनामभावप्रसङ्गः, अभावात्मकत्वप्रतिज्ञानात् ।

अपरः [कुप्पुस्वामी संस्करण ४८] प्रकारः

भेदश्चेद्वस्तुनः स्वभावः, नैकं किञ्चन वस्तु स्यात्, भेदेनैकत्वस्य विरोधात् ।

परमाणुरपि भेदादनेकात्मक इति नैकः ।

तथा च तत्समुच्चयरूपोऽनेकोऽप्यस्यात्मा नावकल्पते, तत्रैकत्वानेकत्वयोरनुपपत्तेस्तृतीयप्रकारासंभवाच्च वस्तुनो निःस्वभावत्वप्रसङ्गः ।

अन्या व्याख्या द्वितीयार्धस्य

व्यतिरेकाव्यतिरेकविकल्पे प्रत्यवतिष्ठते, वस्तुगत एष विभागः

तत्स्वभावत्वमन्यत्वं चेति, नावस्तुनि विकल्पविरचितशरीरे भेदेऽवतारमर्हति ।

तथा हि

तत्त्वान्यत्वाभ्यामनिर्वचनीयोऽनादिविकल्पवासनोपादानविकल्पपरिदर्शितशरीरः ’यमस्माद्भिन्नः, अयमनयोर्भेदःऽ इति व्यवहारं प्रवर्तयति, न भेदो नाम किञ्चिद्वस्तु, यस्य तत्त्वमन्यत्वं वा किञ्चिद्विचार्येत ।

तत्रेदं पुनरुपतिष्ठते

अरूपेण च भिन्नत्वं वस्तुनो नावकल्पते ।

यदि तर्ह्यरूपो निःस्वभावो भेदः

न हि वस्तुस्थित्यास्ति, विकल्पैरेव केवलमुपदर्श्यते

न तर्हि वस्तुनो भिन्नत्वम्, परमार्थतो भेदाभावात्, न हि कल्पितेन स्वभावेन पारमार्थिकी तद्वत्ता युज्यते, कल्पितैव स्यात् ।

तदेतदस्माभिरुच्यमानं किमिति भवान्नानुमन्यते? वयमप्येतदेव ब्रूमः

न भेदो भावतोऽस्ति, अनाद्यविद्याविलसितमेतदिति ।


यदुक्तम्

भेदात्मत्वे वस्तुन एकवस्त्वभावः, तद्भावादितरस्यापीति वस्त्वभावः, तत्राहुः

परापेक्षं वस्तुनो भेदस्वभावं ब्रूमः, नात्मापेक्षम्, येन विरोधादेकवस्त्वभावः स्यात्, स्वरूपेण त्वेकं वस्तु परापेक्षया भिन्नमिति ।

तत्रोच्यते


पौरुषेयीमपेक्षां च न हि वस्त्वनुवर्तते ।


नापेक्षा नाम कश्चिद्वस्तुधर्मः, येन वस्तूनि व्यवस्थाप्येरन्, न खलु स्वहेतुप्रापितोदयेषु स्वभावव्यवस्थितेषु वस्तुषु स्वभावस्थितये वस्त्वन्तरापेक्षा युज्यते ।

तत्र पुरुषप्रत्ययधर्मोऽयम् ।

न च पुरुषप्रत्ययानुविधायीनि वस्तूनि, स्वहेतुभ्यः स्वस्वभावव्यवस्थितेः ।

अतो न तदनुसारेण वस्तुरूपं व्यवतिष्ठते ।

व्यवस्थितवस्तुस्वरूपानुसारेणैव तस्य व्यवस्था न्याय्या, तत्पूर्वकत्वात् ।

परस्परापेक्षायां च [कुप्पुस्वामी संस्करण ४९] वस्तुस्वभावस्थितावितरेतराश्रयप्रसङ्गात् ।

अथवा यदुक्तम्

एकस्माद्भेदादव्यतिरेदाद्वस्तुनो भेदाभावप्रसङ्ग इति, तत्राहुः

न भेद एकः, रूपविरोधात्, एकत्वे च तन्निमित्तं वस्तूनामेकत्वं स्यात्, तस्मात्प्रतिभावं भेदो भिद्यते, कथं तर्ह्यनेकाश्रयत्वम्? अपेक्षातः, तथा हि प्रतियोग्यपेक्षं तस्य स्वरूपं व्यवस्थितम्, तथा च यथायथं भेदैः प्रतियोग्यपेक्षैरात्मभूतैर्भिन्नाः सर्वे भावा इति ।

तत्रोच्यते

पौरुषेयीमिति ।

पुरुषो ह्येकमर्थं गृहीत्वा परमपेक्षते कार्यार्थम्, स्वहेतुभ्यस्तु प्रतिलब्धाविकलस्वभावानां भावानां भावान्तरेषु किमर्थापेक्षा? ननु स्वभावस्थितये, नानाविधा हि भावस्वभावाः, तत्र कश्चित्प्रतियोग्यपेक्षयैव व्यवतिष्ठते वस्तुतत्त्वे, यथायमेव भेदः ।

न तर्हि हेतुभ्यो भावस्याविकलात्मलाभः, भेदाख्यस्य रूपस्य प्रतियोग्यपेक्षत्वात् ।

हेत्वन्तराच्च प्रतियोगिनः संपद्यमानः पश्चाद्भेदो न स्वभावः स्यात् ।


स्यादेतत्

अविकलरूप एव भावो हेतुभ्यो जायते ।

तत्र भेदाख्यं रूपं प्रतियोग्यपेक्षम्, नानपेक्षं कदाचिदित्तस्य तद्विधत्वात्तेन तद्विधेनैव सह जायत इति न विकलरूपप्रादुर्भावः ।

तत्रोच्यते

भवतु तद्विधस्य प्रादुर्भावः, अपेक्षार्थस्तु वक्तव्यः, यस्य हि यत्र किञ्चिदायतते, तत्तदपेक्षत इत्युच्यते, नान्यो विशेषः सापेक्षनिरपेक्षयोर्व्यपस्थापको निरूप्यते ।

तत्र न तावदुत्पत्तिः प्रतियोगिन्यायतते, स्वहेतुभ्योऽविकलस्योत्पत्तेः ।

नार्थक्रिया, तदसंनिधानेऽपि तस्यार्थक्रियादर्शनात् ।

प्रतीतिश्चेत्

तथा हि, नानपेक्ष्य प्रतियोगिनं भेदः प्रतीयत इति

न तर्हि भेदस्वभावः सापेक्षः, तस्मिन्नवस्थिते वस्तुस्थित्युत्तरकाला प्रतीतिरर्थान्तरमेव प्रतियोगिनमपेक्षते, यथा व्यवस्थितानपेक्षस्वभावा रूपादयश्चक्षुराद्यपेक्षायां प्रतीतौ न सापेक्षस्वभावाः कथ्यते ।

इतरेतराश्रयाच्च न प्रतीतिरपि परस्परायत्तावकल्पते ।

न च वस्तुमात्रादनवगृहीतभेदाद्भेदसिद्धिः, एकस्मिन्नपि तत्प्रसङ्गात् ।

तस्मात्पौरुषेयीमपेक्षायां न वस्त्वनुवर्त्तते, अतो न वस्तुस्वभाव इत्यर्थः ।

[कुप्पुस्वामी संस्करण ५०] अन्या व्याख्या

न भेदो वस्तुनो रूपम्, आपेक्षिको हि प्रतीयते ।

न चापेक्षायां पुरुषप्रत्ययं वस्त्वनुवर्तते, व्यवस्थितवस्तुपूर्वकत्वादिति ।


कथं तर्थि पित्रादयः? न हि तेऽपेक्षया विना, न च खपुष्पगन्धर्वनगरादितुल्याः, अविसंवादिव्यवहाराङ्गतया लोकसिद्धत्वात् ।

उच्यते

भेदोऽप्येवं किं न लोकसिद्धः? अपि च


पित्रादिविषयेऽपेक्षा जननादिप्रभाविता ॥ १.९ ॥


एकक्रियाविशेषेण व्यपेक्षा ह्रस्वदीर्घयोः ।


व्यवस्थिते एव जन्यजनकशक्ती पितृपुत्रशब्दयोरभिधेये, ते तु समानजननव्यापारविषये तावास्कन्दतः, स्वभावभेदात् ।

अतो येन समानत्वम्, तत्रापेक्षा ।

एतदुक्तं भवति

शब्दार्थस्तत्र सापेक्षः, न वस्तु ।

अपेक्षाहेतुश्च तत्र साधारणी क्रिया विद्यते व्यवस्थितयोरपि वस्तुनोः ।

भावभेदे त्वयं वस्तुतत्त्वगतो विचारः, न चापेक्षाहेतुः कश्चिदुपलभ्यते ।

ह्रस्वदीर्घयोरप्येकजातीयायां क्रियायां देशव्याप्तौ न्यूनाधिकभावादेवं द्रष्टव्यम् ।


यदि तर्हि कार्यभेदादप्यपेक्षा, हन्त! अर्थक्रियाभेदादेव भावानां परस्परापेक्षो भेदः सेत्स्यति ।

किं चासत्यामपि दर्शनाद्भेदसिद्धौ विधिमात्रव्यापारत्वात्कार्यभेदादेव कारणभेदमनुमिमीमहे ।

नैकत्वे कार्यभेदः कल्पते, कारणस्वभावापेक्षत्वात्कार्यभेदस्य ।

तज्जननश्चेदस्य (तज्जननं चेदस्य एदितिओन्) स्वभावः, नान्यजननः ।

तस्मात्कार्यान्तरस्यान्यतो जन्मेति ।

तदिदं भेदेनैव भेदप्रसाधनं नातिचतुरश्रम् ।


अपि च


अर्थक्रियाकृते भेदे रूपभेदो न लभ्यते ॥ १.१० ॥


दाहपाकविभागेन कृशानुर्न हि भेदवान् ।


नार्थक्रियाभेदाद्भावानां परस्परापेक्षो रूपभेदः प्रतीयते, नाप्यनुमातुं शक्यते ।

व्यपदेशभेदमात्रं तु स्यात्, एकस्मिन्नपि वह्नौ दाहपाकादिकार्यभेददृष्टेः ।

अथ मतम्

रूपादिसमूहो वह्निः ।

तत्र रूपात्प्रकाशः, स्पर्शाद्दाह इति ।

[कुप्पुस्वामी संस्करण ५१] कामम्, दाहपाकौ तु स्पर्शादेव ।

तौ च लोके प्रतीतिभेदौ सत्यपि संयोगिद्रव्यविक्रियासामान्ये ।

कर्म चैकं संयोगविभागसंस्काराणां हेतुः, आत्मा चेच्छादीनाम्, सत्त्वादयश्च प्रत्येकमभेदाल्लाघवप्रकाशादीनाम्, रूपादयो ज्ञानविशेषाणां सजातीयक्षणानां चेत्युत्प्रेक्षितव्यम् ।

ननु नार्थक्रियाभेदमात्राद्भेदं ब्रूमः, अपि तु तत्रासंभाविन्या अदृष्टायाः ।

यथा चक्षुषि सत्यप्यदृष्टायाश्च बधिरे तत्रासंभाविन्याः शब्दबुद्धेरिन्द्रियभेदः ।

परस्परासंभविकार्याश्च प्रायेण भावाः, अन्यकार्यस्यान्यत्रादर्शनात् ।

अथ कार्यासंभवः कथं प्रत्येतव्यः? ननूक्तं तत्रादर्शनात् ।

न तर्ह्यसंभवः ।

यस्य खल्वद्वयं जगत्तस्य कार्यजातमेकत्रैव दृश्यत इति कथमदर्शनम्? तत्र सिद्धे भेदे तत्रादर्शनम्, तत्रादर्शनाच्च भेदसिद्धिरितीतरेतराश्रयान्न भेदानुमानम् ।

अथ मतम्

अदृष्टस्य दर्शनादिति ।

तदसत्, एकस्मादपि क्रमवतां कार्याणां दर्शनात् ।

स्यादेतत्

एकान्ततोऽभेदे कार्यदर्शनादर्शने न युक्ते, विशेषाभावात् ।

न तर्हि कार्यभेदोऽभेदमपबाधते ।

तदनुपमर्देन विशेषमात्रानुमानं स्यात् ।

तच्च कल्पनाविषयं नैवावजानीमहे, वस्तुसतस्तस्यायोगात्, तत्त्वान्यत्वयोरसंभवात् ।

यस्तु क्षणिकवादी तत्त्वमेव विशेषस्य न मन्यते, तस्यासति कारणस्वभावाभेदे कथं तुल्यस्वभावकार्योत्पादः ।

अथ निरन्वयविनाशानामपि कल्पनाविषयादभेदात्कार्यस्य तुल्यता ।

हन्त! तर्हि भेदादेव कल्पनाविषयात्कार्यभेदसिद्धेर्मुधा कारणभेदकल्पना ।

अथ कार्याभेदे न (अथ न कार्याभेदेन एदितिओन्) कारणस्वभावाभेदोऽपेक्ष्येत, भिन्नस्वभावेभ्यः सहकारिभ्य एककार्योत्पत्तेः, यथा चक्षुरादिभ्यो रूपविज्ञानस्य (रूपादिज्ञानस्य ंसा, ंस्C॑ रूपादिज्ञानस्य एदितिओन्) ।

यथा तर्हि कार्यस्वभावाभेदाय न कारणस्वभावाभेदोऽपेक्ष्यते, तथा

तद्भेदाय कारणभेदोऽपि नापेक्षितव्यः ।

अपि चानेककारणजन्येऽप्येकस्मिन् कार्ये कारणव्यापारविषयभेदस्तेनैव वर्णितः, यथा रूपज्ञानस्य

चक्षुषो रूपग्रहणनियमः, समनन्तरज्ञानादुपलम्भात्मता, विषयात्तदाकारतेति ।

यदि च कार्यतुल्यत्वं न हेतुसाम्यकृतम्, न कार्याद्धेत्वनुमानं स्यात्, भिन्नजातीयादपि तुल्यजातीयोत्पत्तिसंभवात् ।

हेत्वभेदश्चेन्न [कुप्पुस्वामी संस्करण ५२] कार्याभेद उपयुज्यते, कस्तुल्यजातीयाद्विजातीयस्य जन्म निवारयेत्? तत्र यथा व्यावहारिकादभेदात्कार्याभेदस्तथा व्यावहारिकाद्भेदात्कार्यभेद इति न विशेषः ।

स्यादेतत्

कल्पितश्चेद्भेदः कार्यभेदाय प्रभुः, न तर्हि कल्पितः ।

न ह्यन्यत्परमार्थसतो लक्षणमर्थक्रियासामर्थ्यात् ।

तुल्यमिदमभेदेऽपि ।


योऽपि मन्यते

युगपद्विरुद्धार्थक्रियादर्शनाद्भेदावगतिः ।

तथा हि

जननमरणवृद्धिक्षयस्थानगमनशोकहर्षादिविविधविरुद्धधर्मसमुपेतमेकदा विश्वमुपलभ्यते ।

तद्भेदवदिति गम्यते ।

तस्यापीदमेवोत्तरमावृत्त्या

दाहपाकविभागेनेति ।

कथम्? इदं तावदयं प्रष्टव्यः

को विरुद्धार्थः? यद्येकत्रासंभवः, सोऽसिद्धः ।

अथ परस्परव्यवच्छिन्नात्मता, जननादयश्च परस्पररूपनिवृत्त्यात्मान इति ।

न तर्ह्यतो भेदसिद्धिः ।

एकस्मिन्नपि वह्नौ दग्धृत्वपक्तृत्वदर्शनात् ।

न हि परस्परव्यवच्छेदमन्तरेण नानात्वं धर्माणाम् ।

ततश्चेद्भेदः, नानेकधर्मकमेकं किञ्चित्स्यात् ।

अथ परस्पराभावात्मतैव विरोधः

नैकस्मिन् स एव भवति, न च भवतीति ।

ततो भेदावसायः ।

तदसत् ।

न ह्येवं धर्मावेव, कुतस्तयोर्विरोधाद्भेदावगतिः ।

खपुष्पादिषु चोभयाभावादुभयप्रसङ्गः ।

अथ वध्यघातकभावो (वध्यघातुक॰ एदितिओन्) विरोधः

हर्षः शोकं हन्ति शोकश्च तम्, एवमितरेष्वपि ।

तत्रापि नाजात एकोऽन्यं नाशयति, नान्याधिकरणम् ।

तस्मादेकाधिकरणो भूत्वा नाशयतीति वाच्यम् ।

एवं च तयोरेकाधिकरणत्वदर्शनान्न तद्दर्शनेनाधिकरणभेदानुमानमव्यभिचारम् ।

अथ भावरूपतद्व्यवच्छेदात्मानो धर्मा विरोधिनः

नित्यत्वानित्यत्वमूर्तत्वामूर्तत्वादयः ।

तत्संबन्धाद्भेदगतिः ।

तदपि न ।

यतो नावश्यम्, यो यत्र भवति, स तं व्याप्नोति ।

न हि रथादयस्तत्संयोगादयो वा नभो व्यश्नुवते, अन्यान् वा संयोगिनः पृथिव्यादीन्, अवच्छिन्नत्वात् ।

एवमवच्छिन्ना [कुप्पुस्वामी संस्करण ५३] धर्मा अनवच्छिन्नमनन्तमर्थमाश्रयन्तोऽपि न व्यश्नुवते ।

अतो नैकस्मिन्नपि भावाभावविरोधः ।

यस्तु मन्येत

अर्थक्रियाभेदोऽर्थक्रियाव्यवस्था ।

ततो भेदाधिगमः ।

एकत्वे हि न व्यवस्था युज्यते ।

तथा च पयसोऽपि तैलं तिलेभ्यश्च दधि स्यात् ।

तथैकस्मिञ्जायमाने सर्वं जायेत, नश्यति च नश्येत् ।

अन्यथा भेद एव शब्दान्तरेणोक्तः स्यात् ।

तदुक्तम्

सहोत्पत्तिविनाशौ सर्वं च सर्वत्रोपयुज्येत इति ।

तस्यापीदमेवोत्तरम्

दाहपाकविभागेनेति ।

यदि कार्यनानात्वं व्यवस्था, न तया तिलानां पयसश्च भेदं प्रतिपद्यते ।

अथ पयसो दध्नो जन्म, नान्यत इति व्यवस्था ।

नान्यत्वं सिद्धया व्यवस्थया प्रमित्सितं तल्लक्षणमनुप्रवेष्टुमर्हति, तस्या असिद्धिप्रसङ्गात् ।

तस्माद्दधिजननशक्तिस्तदभावश्च व्यवस्था ।

ततो भेदः ।

न ह्येकविषय एकस्य शक्त्यशक्ती युज्येते इति

स चायं विरोधिधर्मयोगो भेदहेतुरनन्तरमेव निरासि ।

यथा खलु दीर्घकालाः पदार्था मितकालैर्धर्मैः संबध्यमानास्तद्धर्माणोऽतद्धर्माणश्च न विरोधपदभाजः, तथा परिमितदेशैर्विपुलदेशा अनन्ताश्च ।

कथमनन्तस्यान्तवान् धर्म इति चेत्, व्यतिरेकेऽनिवर्चनीयत्वे वा नास्त्यसंभावनावकाशः ।

अव्यतिरेकेऽपि दीर्घकालस्येव मितकालः ।

योऽपि दीर्घकालमर्थं न प्रतिपद्यते तं प्रतीदं पुनः पठितव्यम्

दाहपाकविभागेनेति ।

एकोऽपि वह्निः किञ्चिदेव दहति पचति च ।

तथा च दाहकश्चादाहकश्च न भिद्यते ।

तथा न दाहान्तराणि पाकान्तराणि वा करोति तस्मिन्नेव दाह्ये पाक्ये च ।

तथा बीजादयः प्रत्येकं समर्था अपि नाङ्कुरान्तराणि जनयन्ति, नापि सामग्री ।

तथा च जनकत्वमजनकत्वमिति ।

अथैकस्मिन्नेव जनकशक्तिः, अन्यं प्रध्वस्तमागामिनं वैकं किं न जनयति ।

अथ तत्रैवैषां सामर्थ्यम्, नान्यत्र तुल्यजातीयेऽपि ।

कुतः? तस्यैवोत्पत्तेः, कार्यगम्यत्वाच्च सामर्थ्यस्य ।

तथा च न शक्तिरशक्तिश्चेति विरोधः ।

अभेदेऽपि तर्हि पयसस्तिलानां दध्नोऽनुत्पत्तौ न विरोधः ।

तथा हि

यस्य तावद्दध्नः पयसो जन्म न तस्य तिलेभ्योऽनुत्पत्तिः, येन शक्त्यशक्तिविरोधाद्[कुप्पुस्वामी संस्करण ५४] भेदः स्यात् ।

कुतः? तिलानां पयसोऽभेदात् ।

अथ दध्यन्तरस्यानुत्पत्तेर्विरोधः ।

तच्च न, अन्यत्राशक्तेस्तत्रैव शक्तेर्बीजादीनामिव ।

न हि समर्थमित्येव कारणं सर्वं तुल्यजातीयं जनयति, एकस्मादेव सर्वतुल्यजातीयकार्योत्पत्तिप्रसङ्गात् ।

अथ मतम्

अर्थक्रियासु भेदेन विनियोगाद्भेदमध्यवस्यामः ।

दध्ने हि पयो विनियुज्यते, न सिकतेति ।

तदप्यनैकान्तिकम्, एकत्वेऽपि भेदेन विनियोगदर्शनात् ।

तदेवार्थवस्तु सहकारिसमेतं विनियुज्यते, न केवलम् ।

अथ मतम्

भिन्नमेव तत्, सहकारिसन्निधानोपाधिभेदात् ।

औपाधिकस्तर्हि प्रत्ययमात्रनिवेशी भेदः, न परमार्थतः ।

तथाभूतश्च भावभेदो ह्यनुज्ञायत एव ।

योऽपि क्षणिकत्वेन भेदमाह, तस्यापि भेदस्य तुल्यत्वात्सर्वं सर्वत्र विनियुज्यते, न वा किञ्चित्क्वचित्, अदृष्टसामर्थ्यत्वात् ।

अथ कल्पनाविषयादभेदात्तत्सिद्धिः, परस्यापि तादृशाद्भेदादिति न विशेष इत्युक्तम् ।

योऽप्येकस्योभयं प्रतिजानीते

भेदमभेदं च, तेनैकत्रापि विरुद्धधर्मावेशमभ्युपयता दुर्लभ एव दध्नो जनकत्वाजनकत्वाभ्यां तिलपयसोर्विभाग इति ।


तदेवम्


एकस्यैवैष महिमा भेदसंपादनासहः ॥ १.११ ॥


वह्नेरिव यदा भावभेदकल्पस्तदा मुधा ।


एकत्र क्रियाभेदोपलब्धेः, असंभवस्य चासिद्धेः, अदृष्टदर्शनस्य चाभेदबाधने सामर्थ्याभावात्, विशेषमात्रहेतुत्वात्तस्य च तत्त्वान्यत्वाभ्यामनिर्वाच्यस्य कल्पनास्पदत्वात्, अभेदादिव च तादृशात्कार्याभेदस्य भेदादपि तद्विधाद्भेदस्योपपत्तेः, विरोधस्य चानैकान्तिकत्वादसिद्धत्वाद्वा व्यवस्थायाश्च, विनियोगभेदस्य चानैकान्तिकत्वात्, अभेदादिव च कल्पिताद्भेदात्तत्सिद्धेः, भेदाभेदयोश्चैकत्र समवाये शक्त्यशक्त्योर्विनियोगाविनियोगयोश्चैकसमवायसंभवादेकस्यैवैष कोऽप्यचिन्त्यः सामर्थ्यातिशयो निखिलभेदप्रपञ्चसंपादनायै प्रभुः पावकस्येव पाकप्लोषादिप्रविभागनिमित्तं यदोपपद्यते [कुप्पुस्वामी संस्करण ५५] तदा भेदकल्पनमकारणम्, एकस्मादपि तत्सिद्धेः

इति पूर्वोपसंहारः ।

तदेतदृचाभ्यनूक्तम्

’ेतावानस्य महिमाऽ इति ।

एतत्परिमाणमस्य सामर्थ्यम्

यदेकोऽपि ’सहस्रशीर्षाऽ इति ’यद्भूतं यच्च भव्यम्ऽ इति ।

पूर्वर्ग्द्वयनिर्दिष्टविविधविरुद्धाभिमतधर्मकार्यव्यवहाराश्रयः कथमिति ।

’तःऽप्रत्यक्षाभिमतात्, ’पुरुष एवेदं सर्वम्ऽइति वादृष्टनिर्दिष्टात् ।

’ुतामृतत्वस्यऽइति वा देवमनुष्यलोकभेदेन प्रपञ्चादेकैकस्मात्समस्ताच्च वृद्धतरः पुरुषः ।

तेनास्मिन् परिमितानां विरुद्धाभिमतानामप्यनन्ते न समावेशो न युज्यते ।

तदेव ज्यायस्त्वं दर्शयति

’पादोऽस्य विश्वाऽ इति ।

कृत्स्नोऽपि तावद्भूतप्रपञ्चोऽस्य कनीयान् भाग इति, किं पुनः प्रत्येकम् ।

तथा हि

’त्रिपात्ऽइवापरिमितमनन्तं मरणादिभूतप्रपञ्चधर्मशून्यं रूपं ’दिविऽप्रद्योतावस्थायां वर्तते, प्रमोदावस्थायां वा, सूर्यमण्डले, द्युस्थाने वा ।

तत्र हि तदुपास्यम् ।

तद्धि तस्योपलब्धिस्थानमिति तत्रेत्युच्यते ।

अपरः कल्पः

कल्पितेऽपि कार्यभेदाद्यवस्थाया वा कारणभेदे किमिति न कार्यान्तरम्? किमिति वा न संकरः, विपरीता वा व्यवस्था? भेदेऽपि पयसः, तिलेभ्य एव तैलं न सिकताभ्यः? भिना अपि चैककार्याश्चक्षुरालोकादयः, शरशृङ्गादयश्च ।

भेदेऽपि च तिलेभ्यस्तैलं पयसो दधि, न तु पयसस्तैलं तिलेभ्यो दधि? यदि मतम्

अचिन्त्येभ्यो भावसामर्थ्येभ्यः

अचिन्त्यानुपपत्तितो भावसामर्थ्यानि ’कस्मात्? कथम्?ऽ इति, कार्यदर्शनोन्नेयव्यवस्थानि

तेभ्यः कार्यस्य भेदः, व्यवस्था, न विपर्ययश्चेति ।

यद्येवम्, एकस्यैव सोऽस्तु सामर्थ्यातिशयः

यदनेकं व्यवस्थितमविपरीतं च कार्यम् ।

तन्मात्रेण तत्सिद्धेरप्रामाणिका भावानां भावकल्पनेति ।


स्यादेतत्

वह्नेरपि शक्तिभेदनिबन्धनः कार्यभेदः ।

तन्नैकस्मादनेकं [कुप्पुस्वामी संस्करण ५६] कार्यम् ।

तत्र यदि वह्निरपि कारणम्, कथं नैकस्मादनेकं कार्यम्? अथ शक्तीनामेव कारणत्वमभिप्रैति ।

तत्रोच्यते


यथैव भिन्नशक्तीनामभिन्नं रूपमाश्रयः ॥ १.१२ ॥


तथा नानाक्रियाहेतुरूपं किं नाभ्युपेयते ।


एकस्यानेककार्ययोगविरोधाच्छक्तिभेदः कल्प्यते ।

यदि चैकस्यानेकसंबन्धविरोधः, कथं नानाभूताभिः शक्तिभिरेकः संबध्यते? तत्र यथैकस्यार्थस्वभावस्य नानाशक्तियोगः, तथा नानाकार्ययोगोऽपि किं नानुज्ञायते? अथ नानाकार्ययोगे विरोधः, न नानाशक्तियोगे ।

विशेषहेतुर्वाच्यः ।

अपि च शक्तीनामव्यतिरेकादेकमनेकात्मकमिष्टम् ।

तत्रैकत्वं स्वाश्रयसमवायिनानेकत्वेन च विरुध्यते ।

कार्यगतेन त्वाश्रयान्तरसमवायिना विरुध्यत इति सुभाषितम्! अथार्थान्तरत्वमेव शक्तीनाम्, आश्रयार्थो वाच्यः ।

संश्लेषश्चेत्, न भिन्नत्वे रूपाविभागलक्षणः संश्लेषः, भेद एव न स्यात् ।

न नैरन्तर्यम्, तच्छक्तिद्रव्यसंयुक्तस्य द्रव्यान्तरस्यापि तच्छक्तित्वप्रसङ्गात् ।

न हि द्रव्यस्यानन्तरं तच्छक्तेर्व्यवहितं भवति ।

न हि चक्षुर्द्रव्यस्यानन्तरं रूपस्य नानन्तरम् ।

विभुत्वाच्चाकाशादीनां सर्वार्थशक्तिव्यवधानाभावात्सर्वशक्तिप्रसङ्गः ।

तस्मादुपकारविशेषात्कुतश्चिदाश्रयः ।

तत्र यथा भिन्नासु शक्तिषु तद्भेदादुपकारान् भिन्नानेकोऽर्थस्वभावः करोति, तथा कार्याण्यपीति कस्मान्नेष्यते? एवं तावन्नानुमानेऽपि भेदाधिगमः, नार्थापत्त्या च ।


ये तु मन्यन्ते

सत्यमेतत्, न प्रत्यक्षं भेदाधिगमायालम् ।

इतरेतराभावांशो हि भावानां भेदः, न सोऽक्षगोचरः ।

’भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हिऽ ।

तथा च न लिङ्गगम्योऽपि, अदृष्टसंगतित्वात् ।

अर्थापत्तिरपि कार्यव्यवस्थाहेतुका स्यात् ।

सा असिद्धे भेदे व्यवस्थाया (ंस्C॑ कार्यव्यवस्थाया एदितिओन्) एवानुपपत्तेस्तत्रायुक्ता ।

तस्मात्सदुपलम्भहेतुभ्यः प्रमाणान्तरमेवाभावायोपासनीयम् ।

विधायकाद्वा प्रमाणान्तरमेव व्यवच्छेदकमभावाख्यम् ।

तन्निबन्धना [कुप्पुस्वामी संस्करण ५७] हि भावानामसंकीर्णता (॰मसंकीर्णस्वभावता एदितिओन्) ।

यदवोचन्


’वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रयाऽ ।

इति ।

तान् प्रत्युच्यते


अन्योन्यसंश्रयाद्भेदो न प्रमान्तरसाधनः ॥ १.१३ ॥


नास्मिन्नयं नायमयमिति भेदाद्विना न धीः ।


न खलु यद्व्यवच्छिद्यते, यतश्च व्यवच्छिद्यते, तयोरप्रतिपत्तौ व्यवच्छेदगतिः ।

नानपेक्षितविषयनिषेध्यो निषेधोऽस्ति ।

सन् वा शून्यतामापादयेत्, न भेदमित्युक्तम् ।

तेषामपि वचः


’गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ।

मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षयाऽ ॥



तयोश्च प्रतिपत्तिर्यदि नासंकीर्णस्वभावयोः, अपि तु वस्तुमात्रत्वेन व्यवच्छेद्यव्यवच्छेदावधिविभागाभावात् ।

न निषेधसंभवोऽर्थमात्रे ह्यविभागे ।

विषयत्वेनापेक्षिते न निषेध्यम् ।

निषेध्यत्वेनापेक्षिते न विषयविशेषः ।

तत्रात्यन्ताय निषेधः स्यात् ।

स च न सिद्धत्वेनासिद्धत्वेन वा युज्यत इत्युक्तम् ।

कस्यचित्तावत्कुतश्चिद्(कस्यचित्कुतश्चिद्ंस्C॑ कस्यचित्कुतश्चिच्च एदितिओन्) भेदप्रतिपत्तौ सर्वस्य सर्वतो भेदगतिः स्यात्, अविशेषात् ।

तस्मादनेनासंकीर्णस्वभावेन भिन्नावेव प्रतिपद्य विषयनिषेध्यौ ’नेदमिहऽ ’नायमयम्ऽ इति व्यवच्छेदः प्रतिपत्तव्यः, संभवान्नियमाच्च ।

न चान्यथा प्रतियोगित्वम्, सामान्योपलब्धौ च स्थाणौ


पुरुषस्याभाव(ंसा॑ पुरुषाभाव॰ एदितिओन्)प्रतिपत्त्यभावात् ।

तथा च सिद्धविषयनिषेध्याङ्गीकरणेन व्यवच्छेदमात्रविधायिन्यभावप्रतिपत्तिः प्रत्यात्ममुपलक्ष्यते ।

तथा च इतरेतराश्रयत्वम्

असंकरपूर्वमभावज्ञानम्, ततश्चासंकरसिद्धिरिति ।

अपि च न प्रमाणानुत्पादमात्रादभावज्ञानम्, सुषुप्तादावनुत्पत्तेः ।

तस्मात्सत्सु प्रमाणकारणेषु प्रमाणानुत्पादोऽभावज्ञानहेतुरिष्टः ।

न च तस्य स्वरूपभेदः कश्चित्, येन सामर्थ्यातिशयाच्चक्षुरादिवद्बोधकः, किं तु नान्तरीयकत्वात् ।

नान्तरेण प्रमेयाभावं सत्सु प्रमाणहेतुषु प्रमाणानुत्पादः ।

असत्सु तु सत्यपि प्रमेये तदभावात्स्यादिति ।

तथा च लिङ्गवज्ज्ञानापेक्षः प्रतिपत्तेर्जनकः, स च यदि वस्त्वन्तरज्ञानम्, [कुप्पुस्वामी संस्करण ५८] नासिद्धे वस्तुभेदे सिध्यति ।

ज्ञेयभेदानुमेयो हि ज्ञेयानुमेयानां ज्ञानानां भेदः ।

तथा च वस्तुभेदसिद्धिपूर्विकैवाभावाद्भेदावगतिरितीतरेतराश्रयत्वम् ।

अथात्मनोऽपरिणामः ।

न स स्तिमितावस्था, सर्वाप्रतिपत्तौ कस्यचिदभावस्यानवगतेः ।

तस्मात्सत्यपि वस्त्वन्तरज्ञानरूपपरिणामे तज्ज्ञानरूपपरिणामाभावोऽभावज्ञानहेतुः ।

न चैष विशेषः प्राग्वस्तुभेदसिद्धेः सिध्यतीति तदेवेतरेतराश्रयत्वम् ।


ये त्वाहुः

दर्शनादेव भावानां भेदः सिध्यति ।

तथा हि

निर्विकल्पस्य प्रत्यक्षस्य सामान्यविषयत्वमपाकुर्वतोक्तम्

’तदयुक्तं प्रतिद्रव्यं भिन्नरूपोपलम्भनाद्ऽ इति ।

यस्तु संयोगात्समवायाद्वा संकरः, सोऽभावाख्येन प्रमाणेनापनीयत इति ।

ते प्रागेव प्रत्युक्ताः ।


येऽपि

विधायकप्रत्यक्षपुरःसरं प्रत्यक्षान्तरमेव वस्तुग्रहणप्रतियोगिस्मरणेतिकर्तव्यतानुगृहीताक्षप्रतिलब्धजन्म व्यवच्छेदकं मन्यन्ते ।

यथैव सविकल्पस्य वस्तुग्रहणस्य पश्चाज्जन्म, शब्दस्मरणव्यवधिश्च

न चानैन्द्रियकत्वम्, इतिकर्तव्यताविशेषानुगृहीतादिन्द्रियात्तदुत्पत्तेः

एवं नास्तीत्यपि ज्ञानस्येति ब्रुवन्तः ।

तान् प्रतीदमेव वक्तव्यम्

अन्योन्यसंश्रयाद्भेदो न प्रमान्तरसाधनः ।


प्रत्यक्षान्तरसाधन इत्यर्थः ।

’यमसौ न भवतिऽ इति ज्ञानं प्रत्यक्षं वा प्रमाणान्तरं वा ।

सर्वथा विषयनिषेध्यविभागादृते न निषेधसंभव इति ।


किं च


मीयमानैकरूपेषु न निषेधोऽवकाशवान् ॥ १.१४ ॥



अपि च सन्मात्ररूपे सर्वत्र प्रतीयमाने तत्स्वभावेषु वस्तुषु नेतराभिमत इतराभिमतप्रमाणानुत्पादः, सत्स्वभावत्वात्तयोः ।

’सत्ऽइति च सर्वत्र प्रमाणसद्भावात् ।

प्रमाणाभावाच्चेतरेतराभावज्ञानमिति ।

ननु नार्थानां किञ्चिदभिन्नं रूपम् ।

प्रत्यभिज्ञानाद्धि तदवगम्यते (तदवगम्येत ंसा॑ तद्गम्येत एदितिओन्) ।

न चार्थमात्रं दृष्टवतोऽर्थान्तरे स एवायमिति प्रत्यभिज्ञास्ति यथैकां गां दृष्टवतो गवान्तरे ।

सच्छब्दप्रत्ययानुवृत्तिस्तु पाचकादिवद्योगनिबन्धना ।

प्रमाणविषयो हि ’सन्ऽ [कुप्पुस्वामी संस्करण ५९] इत्युच्यते ।

नैतत्सारम् ।

न चेदभिन्नरूपप्रतिपत्तिः, निर्विषयत्वमेव प्रमाणस्यापद्येत ।

यतो न व्यवच्छेदमन्तरेण भेदप्रतीतिः ।

न व्यवच्छेदः केवलः, न विधिसहितः, न विधेः पश्चात्प्रमाणस्य व्यापारः ।

न विधिरेव व्यवच्छेद इति वर्णितम् ।

तत्र यद्येकमपि न गम्यते निर्विषयतैव स्यात् ।

अप्रत्यभिज्ञानं च यदि गोवैलक्षण्यादुच्येत सत्यपि सन्मात्ररूपानुगमे, गवान्तरेऽपि तन्न स्यात्, देवदत्तवैलक्षण्यात् ।

न हि यादृशो देवदत्तस्य पुनर्दर्शने एकत्वप्रत्ययस्तादृशो गवान्तरे ।


अथास्ति तत्र तावत्पूर्वापरानुसन्धानम्, न तु सतः सदन्तरे ।

किं च भोः अनुसन्धानादेकत्वम्, नाभिन्नरूपसंविदः ।

नेदानीमभिन्नदेशकालोऽर्थ एकः स्यात् ।

देशकालभेदे हि सोऽयमिति पूर्वापरानुसंधानम् ।

गोमण्डले च महिषमण्डलविलक्षणे देशभेदेऽप्यभिन्नरूपानुगतात्प्रथमादेव निर्विकल्पकात्प्रत्ययादेकार्थप्रतिपत्तिरिष्यते ।

न च तत्र कालभेदाभावात्सोऽयमित्यवमर्शः ।

यथोक्तम्


निर्विकल्पकबोधेऽपि द्व्यात्मकस्यापि वस्तुनः ।

ग्रहणं लक्षणाख्येयं ज्ञात्रा शुद्धं तु गृह्यते ॥


न च यथा मणिकं दृष्टवतो मणिकान्तरेऽनुसन्धिः तथा शरावं दृष्ट्वा तत्र मृज्जातिरप्यपह्नूयेत ।

अथास्ति तत्रापि, न तु यथा मणिकान्तरे सामान्यरूपाणां भूयस्त्वादुत्कटः, अल्पसामान्यानुगमात् ।

सदन्तरेऽपि तथैव स्यात् ।

विस्तरेण चैतदुपरिष्टादभिधास्यत इत्यलमतिप्रसङ्गेन ।


भेदाभेदावभासे द्वे विज्ञाने चेत्परीक्ष्यताम् ।


यदि मतम्

विद्येते तावदनुवृत्तव्यावृत्ताभे द्वे विज्ञाने ।

न हि तयोरभावेऽनुवृत्तव्यावृत्तव्यवहार संभवः ।

न च विज्ञानरूपादन्योऽर्थव्यवस्थाहेतुः ।

तस्याहेतुत्वेऽभेदोऽपि न सिध्येत् ।

नैतत्सारम् ।

न हि विज्ञानमित्येवार्थं (॰मित्येवार्थतत्त्वं एदितिओन्) व्यवस्थापयति ।

तदपि हि परीक्ष्यम्

युक्त्या विरुध्यते नेति, प्रमाणोत्थं नेति ।

न खल्वलातचक्रादिविज्ञानेभ्योऽर्थतत्त्वव्यवस्था ।

स्यादेतत् ।

[कुप्पुस्वामी संस्करण ६०] न प्रत्यक्षं युक्त्यापबाध्यते ।

सत्यम् ।

प्रत्यक्षतैव भेदज्ञानस्य नेत्यावेदितम्, यथा क्षेपीयस्सर्वतोदिक्संयोगकारितस्यालातचक्रज्ञानस्य ।

तत्सदप्यप्रमाणोत्थं प्रत्यक्षसरूपं स्वप्नदृश्यालातचक्रादिज्ञानवन्न तत्त्वावगमनिमित्तम् ।

ननूक्तेन प्रकारेण प्रमाणादन्यतोऽपि भेदज्ञानस्योदयो न संभवति ।

को वान्यथाह? न हि परमार्थतो भेदावगमोऽस्ति ।

यदि स्यात्, कथं भेदोऽपह्नूयेत? अपह्नवे वा कथं तदवगमः ।

नावगम्यमस्ति, अवगम्यते चेति दुर्घटम् ।

किं तर्हीदम्? अविद्या विभ्रमः ।

यथावभासं वेद्यसद्भावे च न विभ्रमः, किं तु सम्यग्ज्ञानम् ।

असतो चावगमोऽनुपपन्नः ।

तस्मान्न परमार्थतः सत्त्वेन निरुच्यते, नाप्यसत्त्वेन, लोके सिद्धत्वात्सर्वप्रवादेष्वित्युक्तम् ।


अपि च ज्ञानद्वयेऽस्मिंश्चतस्रः कल्पनाः संभवन्ति

ज्ञानभेदात्सामान्यव्यक्तिविभागेन वस्तुद्वयम्, यथाहुः संसर्गवादिनः ।

एकं वा सामान्यविशेषात्मकं वस्तु, यथाहुरनेकान्तवादिनः ।

विशेषा एव वा वस्तूनि ।

तेषामात्यन्तिकभेदनिश्चयासामर्थ्यात्तदुपादानस्तद्विषय एवाभेदः कल्पनाज्ञानगोचरः ।

दृष्टा हि भिन्नेष्वभेदकल्पना ’वनम्ऽ इति

यथाहुरात्यन्तिकभेदवादिनः ।

अभेदो वा परमार्थः ।

तस्यानवच्छिन्नस्यानन्तस्य तथा निश्चेतुमशक्तेरनादित्वाच्चाविद्यायास्तदुपादानास्तद्विषया भेदपरिकल्पनाः ।

दृष्टा हि तरङ्गभेदादभिन्ने चन्द्रमसि भेदकल्पना ।

तन्नापरीक्ष्य तत्त्वनिश्चयः ।

तत्र परीक्षायाम्


न तावद्द्वयमैकात्म्यप्रख्यानानवकल्पनात् ॥ १.१५ ॥


समवायकृतं तच्चेन्न भेदस्यापरिच्युतेः ।

न तावद्द्वे वस्तुनी सामान्यविशेषौ, प्रख्याभेदात् ।

समानाधिकरणत्वेन हीमे प्रख्ये जायेते ’सन् घटः, गौः स्वस्तिमतीऽ इति ।

न व्यधिकरणत्वेन यथा नीलपीतप्रख्ये, यथा वा ’दण्डो देवदत्तःऽ इति ।

नापि विशेषणविशेष्यभावेन यथा ’दण्डीऽइति, संबन्धस्याप्रतिभासनात् ।

न च वस्तुभेदविषयत्वे सामानाधिकरण्यमवकल्पते सत्यपि संबन्धे ।

संबन्धिद्वयं विशेषणविशेष्यत्वेन द्वाभ्यामेकया वा बुद्ध्या गृह्यते, न तु परस्परात्मत्वेन ।

परस्परात्मत्वेन चेह प्रतिपत्तिः प्रत्यात्मवेदनीया ।

विप्रतिपत्तेश्च सामान्यविशेषयोर्[कुप्पुस्वामी संस्करण ६१] भेदे ।

नान्यथा विप्रतिपद्येरन् ।

सामान्यप्रत्यक्षे च विशेषप्रत्यक्षाभिमानात् ।

अन्यथा धूमदृष्टाविवाग्नौ परोक्षाभिमानः स्यात् ।

स्यादेतत्

न संबन्धमात्राद्भेदप्रतिपत्तिः, अपि तु संबन्धविशेषात्समवायात् ।

स हि वस्तुसंश्लेषात्मकः ।

तन्न, समवायेऽपि ताभ्यां रूपभेदस्यानपायात्, अन्यथा भेदाभावादसंबन्धात् ।

तथा च नैकात्म्येन प्रख्या युज्यते ।

अस्ति चेयम् ।

अतस्तया विरुद्धः प्रख्याभेदो न वस्तुभेदव्यवस्थायै प्रभवति ।

स्वयं वा व्याहतत्वात्, एकाधिकरणत्वेनोत्पत्तेः (एकाधिकरणत्वेनोपपत्तेः एदितिओन्) ।


ननु भेदेऽपि परस्परात्मत्वेन प्रतिपत्तेर्निमित्तं समवायः ।

तस्य खल्वेष सामर्थ्यातिशयः, येन भेदवतामर्थानां भेदं तिरोदधाति ।

तथा च तेऽभेदेन प्रकाशन्ते ।

अत्रोच्यते


भेदान्तर्धानसामर्थ्यं तस्य भेदेऽपि चेन्मतम् ॥ १.१६ ॥


हन्तैकस्यैव तत्किं न यदेवमवभासते ।


समवायसामर्थ्याच्चेद्भेदवतोरभेदवतोरभेदावभासः, हन्तैकस्यैव वस्तुनः सामर्थ्यविशेषान्नानावभासोऽभ्युपेयताम् ।

व्यर्था वस्तुभेदकल्पना ।

न ह्यस्ति विशेषः

यतो भिन्नयोरभेदप्रकाशसंभवः, नैकस्य नानावभाससंभव इति ।


ननु ज्वलनायोगुडादिषु दृष्टमेवंविधं संसर्गस्य सामर्थ्यम् ।

तत्र दर्शनात्संभवी संसर्गाद्भेदवत्स्वभेदावभासः ।

नैकस्मिन्नानावभासः, अदर्शनात् ।

उच्यते


दृष्टः संसर्गधर्मोऽयं यद्येकमपि वै तथा ॥ १.१७ ॥


नानावभासते चित्रं रूपमेकं तथा मतिः ।


दृष्टं खल्वेकमपि विविधावभासम्, यथा चित्रं रूपम् ।

तद्धि खलु न नीलादिसमाहारमात्रम् ।

तेषामवयवसमवाये रूपान्तरानभ्युपगमे चावयविनो नीरूपत्वप्रसङ्गात् ।

न च नीरूपत्वमेवावयविनः ।

रूपसंस्काराभावे हि न स चाक्षुषः स्यात् ।

न च रूपिसमवायात्संख्याकर्मादिवच्चाक्षुषत्वम् ।

एवं ह्युक्तम्

’महत्यनेकद्रव्यसमवायाद्रूपाच्चोपलब्धिःऽ इति ।

सर्वश्चेत्थमवयवी नीरूपः स्यात् ।

अथ नारूपः प्रतीयत इति नायं प्रसङ्गः, [कुप्पुस्वामी संस्करण ६२] चित्रोऽपि तथेति नारूपः ।

तच्चास्य रूपं नीलपीतादिनिर्भासः ।


तथा नगरत्रैलोक्यादिबुद्धयो विविधविषयाकारा निर्भासन्ते भेदाभावेऽपीति विषयाकारज्ञानवादिनो मन्यन्ते ।

न चैकबुद्धितत्त्वाव्यतिरेकाद्विषयाकाराः परस्परतोऽपि व्यावर्तन्ते, प्रागेव बुद्धेः ।

स्यादेतत्

चित्रमपि रूपं संसर्गादेवैकार्थसमवेतसमवायलक्षणात्तथावभासते ।

तदसत् ।

यतः


न च संबन्धिसंबन्धः संसर्गो व्यवधानतः ॥ १.१८ ॥



संश्लेषो हि संसर्गः ।

ततश्च परस्पररूपावभासः ।

स चाव्यवधाने युज्यते ।

न तु स्वाश्रयाभ्यां व्यवधाने ।

अवयवावयविरूपयोरेकव्यवधानेऽप्यसंश्लेषः, किमु द्वयव्यवधाने ।


किं च


व्यवहारे परोपाधौ सर्वा धीर्व्यावहारिकी ।

अयथार्था यदा भावभेदकल्पस्तदा मुधा ॥ १.१९ ॥



यस्य खलु ’शुक्लो गौःऽ इत्यादिबुद्धयो व्यवहाराङ्गभूता द्रव्येषु गुणजात्युपाधिनिबन्धनाः तस्यैता न यथावस्तु, जातिगुणद्रव्याणामन्योन्यमर्थान्तरत्वात् ।

तथा च न वस्तुनिबन्धनो व्यवहारः, बुद्ध्यानुपदर्शितस्याव्यवहाराङ्गवाद्बुद्ध्युपदर्शितस्य च तथाभावात् ।

एवं च प्रत्ययविरचितेनैवायमर्थेन व्यावृत्तो व्यवहारोऽनुवृत्तश्चेति व्यर्था वस्तुभेदकल्पना, कल्पितस्यापि तस्य व्यवहारेऽनुपयोगादितरस्य चोपयोगात् ।

यथार्थत्वाय हि व्यावहारिकीणां बुद्धीनां वस्तुभेदः कल्प्यते ।

कल्पिते च तस्मिन् परोपाधित्वात्तासां नायथार्थत्वपरिहारः ।


स्यादेतत्

असति वस्तुभेदेऽयथार्थमप्यनुवृत्तव्यावृत्तावग्रहं व्यावहारिकं विज्ञानं नोदेतुमर्हति, बीजाभावात् ।

न खलु स्थाणुशकलादिषु पुरुषरजतादिविभ्रान्तयो निर्बीजाः, सामान्यनिबन्धनत्वात् ।

उच्यते


अयथार्थधियो बीजमवश्यं बाह्यमेव न ।

दृष्टस्तिमिरकामादिरान्तरोऽपि ह्युपप्लवः ॥ १.२० ॥


[कुप्पुस्वामी संस्करण ६३] न विषयदोषादेव सादृश्यादेरयथार्थज्ञानम्, आध्यात्मिकेभ्योऽपि तु दोषेभ्यस्तिमिरकामशोकादिभ्यः ।

तत्रासति वस्तुभेद आध्यात्मिको दोषोऽविद्यालक्षणो व्यावहारिकज्ञानबीजमिति नार्थो वस्तुभेदेन ।


अस्तु तर्ह्येकं द्व्यात्मकम् ।

एवं हि परस्परात्मप्रतिपत्तिश्च सामान्यविशेषयोः कल्पते ।

वस्तुविपरीतश्च नार्थसामर्थ्यातिशयः कल्पयितव्यः ।

वस्तुनिबन्धनो व्यवहारः, न व्यावहारिकज्ञानानामयथार्था वृत्तिः ।

स्यादेतत्

एकस्य द्व्यात्मकता विरोधवती ।

एकं च द्व्यात्मकं चेति विप्रतिषिद्धम् ।

अपि च सामान्यं भेदान्तरानुयायि ।

ततो व्यावृत्तस्वभावो भेदः ।

तयोरेकत्वं हि विरोधादशक्यावहम् ।

नैतत्सारम् ।

विरुद्धमिति नः क्व संप्रत्ययः? यत्प्रमाणविपर्ययेण वर्तते ।

यत्तु यथा प्रमाणेनावगम्यते तस्य तथाभावे विरुद्धत्वाभिधाने कं बतायमाश्रित्य हेतुं विरुद्धत्वाविरुद्धत्वे व्यवस्थापयेत्? प्रमाणं चैकस्य सामान्यविशेषात्मकतामवगमयति, व्यावृत्त्यनुवृत्तिभ्यां प्रख्यारूपभेदात्सामानाधिकरण्यावगमाच्च (ऐकाधिकरण्यावगमाच्च एदितिओन्) ।

तदिदमसांप्रतम्, यतो नेदृशां विप्रतिषिद्धार्थज्ञानानां प्रामाण्यमेव युज्यते संशयज्ञानवत् ।

अन्यथा संशयविषयोऽपि द्व्यात्मा स्यात्, द्व्याभासत्वात्तस्य सामानाधिकरण्याच्च तदवभासयोः ।


अथ मतम्

न संशयिते रूपसमुच्चयावगमः, यथा सामान्यविशेषवति, ’यं वा, अयं वाऽइति प्रतीतेः ।

मा भूत्समुच्चयः, विकल्पः स्यात् ।

सोऽपि न, वस्तुनो विकल्पानुपपत्तेः ।

एकमपि तर्हि न द्व्यात्मकम्, एकस्य द्व्यात्मकताविरोधात् ।

तत्र यथा संशयज्ञानं विप्रतिषेधादप्रमाणं तथा सामान्यविशेषप्रतिपत्तिरपि, ऐकाधिकरण्यात् ।


स्यादेतत्

न संशयज्ञानं विप्रतिषेधादप्रमाणम्, निर्णयज्ञानेन तु बाधनात् ।

यत्र तर्हि न निर्णयस्तत्र विकल्पात्मता स्यात् ।

अपि च यथा बाधायामेकस्याप्रामाण्यं निराकरणात्, एवं विरोधेऽपि द्वयोरेकस्य वा ज्ञानस्य विरुद्धरूपोपग्रहे तद्रूपाधिगत्योरन्योन्यनिराकरणात् ।

तत्रैकनिराकरणे [कुप्पुस्वामी संस्करण ६४] इतरस्मान्निश्चयः ।

परस्परनिराकृतौ तुल्यबलत्वे सन्देह इति न संशयज्ञानादेकस्य सामान्यविशेषप्रतिपत्तिर्विशिष्यते ।

तस्मादिहानैकान्तिकं वस्त्वित्येवं ज्ञानं सुनिश्चितमिति स्वपक्षोपवर्णनम् ।


अपि च


एकत्वमविरोधेन भेदसामान्ययोर्यदि ।

न द्व्यात्मता भवेदेकतरनिर्भक्तभागवत् ॥ १.२१ ॥



अवश्यमनेन पदार्थानां भेदाभेदौ व्यवस्थापयता

यथा तावत्सामान्यमभिन्नं विशेषा भिद्यन्त इति

भेदाभेदयोर्लक्षणं वाच्यम् ।

तत्र रूपविरोधोऽन्योन्याभावो भेदलक्षणम् ।

विपर्ययोऽभेदलक्षणम् ।

रूपविरोधाद्ध्यन्योन्याभावपर्यायाद्विशेषा भिद्यन्ते ।

भिद्यमानेष्वपि तेषु सामान्यमभिन्नम्, विपर्ययात् ।

तत्र सामान्यविशेषयोर्यदि स्वरूपविरोधोऽन्योन्याभावः, नैकत्वं भेदानामिव परस्परम् ।

अथ सामान्यविशेषबुद्ध्येरैकाधिकरण्येनोत्पत्तेः स्वरूपविरोधोऽभ्युपेयते, न तर्ह्येकं द्व्यात्मकम् ।

सामान्यविशेषयोः स्वरूपविरोधाभावादसति भेदे द्वित्वानुपपत्तेः ।

यथा न सामान्यांशो द्विरूपो विशेषांशो वा रूपविरोधाभावात्

तत्रैकस्मिन्निर्भक्ते द्वित्वाभावात्

तथा सामान्यविशेषयोरपि सामानाधिकरण्यबुद्धेर्यदि न रूपविरोधः, न परस्परात्माभावः (ंस्B॑ परस्पराभावः एदितिओन्) ।

द्वित्वं न युज्यते ।

अथ रूपविरोधः, नैकत्वमिति ।


यदि मतम्

न स्वरूपविरोधान्नानात्वम्, तदभावाच्चैकत्वम्, येन सामान्यविशेषयोः स्वरूपविरोधाभावाद्द्वित्वं न स्यादन्यतरस्येव भागस्य ।

किं तु बुद्धे रूपभेदाभेदाभ्याम् ।

सामान्यविशेषयोश्च परस्परात्मत्वेन प्रतिपत्तेरसत्यप्यन्योन्याभावलक्षणे स्वरूपविरोधे बुद्धे रूपभेदाद्द्वित्वम् ।

अंशे तु रूपाभेदादेकत्वम् ।

अतो वस्तुनो द्विरूपबुद्धिग्राह्यत्वाद्द्व्यात्मतेति ।

तत्रोच्यते


ऐकात्म्यबुद्धेर्भागे चेदेवं वस्तुनि तर्ह्यसौ ।

न चेत्कुतस्त्यमेकत्वमस्ति चेद्द्व्यात्मता कथम् ॥ १.२२ ॥



यदि तर्हि बुद्धेरेकरूपोपग्राहित्वादभेदोंऽशस्य, वस्तु विचार्यम्

[कुप्पुस्वामी संस्करण ६५] तत्रापि बुद्धिः किमेकरूपोपग्राहिणी न वेति ।

तत्र यदि नैकरूपोपग्राहिणी वस्तुनि बुद्धिः

सामान्यविशेषात्मकं हि वस्तु

तद्द्विरूपबुद्ध्युपग्राह्यम्, कथमेकत्वं वस्तुनः? बुद्धिरूपाभेदस्याभेदलक्षणस्याभावात्, रूपभेदस्य च भेदलक्षणस्य भावात् ।

अथैकरूपोपग्राहिण्येव वस्तुनि बुद्धिः, न द्व्यात्मकत्वमंशवदेव ।

अथ मतम्

बुद्धिरूपभेदः परस्परात्माभावश्च (ंस्साB॑ परस्परात्मताभावश्च एदितिओन्) भेदलक्षणम् ।

तत्र गवादयो भेदा भिन्नरूपबुद्ध्युपग्राह्याः परस्परानात्मानश्च, न तु सामान्यविशेषौ, बुद्धिरूपभेदेऽपि परस्परात्मत्वेन प्रतिपत्तेः ।

एवमपि सामान्यविशेषयोर्भेदलक्षणेन विरहान्न द्व्यात्मता, अंशवदित्युक्तम् ।


यदि मन्येत

बुद्धिरूपाभेदः (ंस्B॑ बुद्धेः रूपाभेदः एदितिओन्) परस्परात्मप्रतिपत्तिश्च द्वे अभेदलक्षणे ।

तत्रांशस्य रूपाभेदादेकत्वम्, उभयोस्तु परस्परात्मत्वप्रतीतेः ।

विशेषाणां तु न बुद्धे रूपाविभागः, न परस्परात्मप्रतिपत्तिरिति भिन्ना इति ।

एवमप्यभेदलक्षणे सति परस्परात्मप्रतिपत्तौ, उभयाभावे च भेदलक्षणेऽविद्यमाने, न द्व्यात्मता ।

न चैकस्याभेदस्य द्वे लक्षणे युज्येते ।

लक्षणाभेदो ह्यभेदं व्यवस्थापयति, तद्भेदश्च भेदम् ।

लक्षणभेदेऽपि चेत्तत्त्वम्, अन्यत्वं च लक्षणाभेदेऽपि यदि, व्यर्थतैव लक्षणस्य स्यादिति ।


अपि च सामान्यविशेषयोरभेदे,


बुद्ध्यन्तरस्य वैयर्थ्यमेकांश इव चापतेत् ।

नानात्वादर्थवत्ता चेदेकत्वाद्व्यर्थता न किम् ॥ १.२३ ॥



बुद्ध्यन्तरप्रवृत्तिरेव सामान्यविशेषयोरेकवस्त्वात्मतामपाकरोति ।

सा हि नानात्मत्वे भेदेष्विवार्थवती, अनधिगताधिगमात् ।

एकत्वे तु यथा सामान्यविशेषविभागयोः स्वबुद्धिसमधिगतयोर्न विलक्षणं बुद्ध्यन्तरमर्थ्यते, तथा सामान्यबुद्धेर्न बुद्ध्यन्तरं विलक्षणं विशेषाधिगमाय प्रार्थ्येत ।

तथा विशेषबुद्धेर्न सामान्याधिगमाय ।

अथ नात्यन्तमव्यतिरेकः सामान्यविशेषयोः, व्यतिरेकोऽपि तु ।

तत्र व्यतिरेकादर्थवत्तेति ।

तदसत् ।

एवमपि कुत एतत्

व्यतिरेकादर्थवत्त्वं भेदवत्, न पुनरव्यतिरेकादेकांशवद्वैयर्थ्यम्? [कुप्पुस्वामी संस्करण ६६] तुल्ययोर्हि भेदाभेदयोः कुत एतत्

भेदादेकया बुद्ध्या न ग्रहणम्, न पुनरभेदाद्ग्रहणमिति बुद्ध्यन्तरवैयर्थ्यम्? औत्सर्गिकश्च हेत्वभावे फलाभावः स्वभावसिद्धः ।

तस्य हेतुभावे फलभावोऽपवादः ।

तत्राभेदे हेतुभावादेकयैव बुद्ध्योभयाधिगमो युक्तः ।

नैकत्वेऽन्यतराधिगमहेतुर्नास्तीति शक्यं वक्तुम् ।

अथापि कथञ्चिन्नास्तीत्युच्येत ।

तथाप्यस्ति तावत्, एकत्वात् ।

तत्र हेतुभावात्फलभावः स्यात्, तस्य कारणत्वात् ।

न त्वभावोऽभावस्य कारणम् ।

स्वभावसिद्धस्त्वभावः फलस्य ।

तस्य हेतुनिबन्धनः फलभावो निवर्तकः ।

स च हेतुरुभयत्रास्ति तावत् ।

असत्त्वं त्वनुपयोगम्, अकारणत्वादिति ।


अपि च


सामान्यं न हि वस्त्वात्मा न भेदश्चित्र एव सः ।

तस्यानन्वयतो भेदवादः शब्दान्तरादयम् ॥ १.२४ ॥


यस्यैकमुभयात्मकं वस्तु न तस्य सामान्यमात्रं वस्तुन आत्मा न विशेषमात्रम् ।

तन्मात्रत्वे वस्तुभेदप्रसङ्गात् ।

तस्मात्संभिन्नोभयरूपः शबलो वस्त्वात्मा ।

न च शबलस्यान्यत्रानुगमः ।

यस्य त्वनुगमः स वस्तुरूपं न भवति ।

तथा च शब्दान्तरमवलम्ब्य भेदा एव सत्या इत्येतत्प्रतिपाद्यते शब्दान्तरेण वा हेतुना द्व्यात्मकमेकमिति ।

अनुगन्तुरवस्तुस्वभावत्वे कल्पनाविषयत्वात् ।


स्यादेतत्

मा भूद्वस्तु तदंशत्वं तु न वार्यते ।

अन्यथा निर्बीजा कल्पनापि न भवेत् ।

कः पुनरयमंशो नाम ।

न तावद्वस्त्वेव ।

तन्मात्ररूपत्वे वस्तुनो भेदप्रसङ्ग इत्युक्तम् ।


नापि वस्तुनोऽन्यत्स्वयं वस्तु, सामान्यविशेषतद्वतां त्रयाणां वस्तूनां प्रसङ्गात् ।

अथ न वस्त्वेव नान्यत्स्वयं वस्तु ।

परिशेषात्कल्पनाविषयस्तत्त्वान्यत्वाभ्यामनिर्वचनीयः ।

ननु नांशोंऽशिनोऽर्थान्तरं नापि स एव, उभयथानंशत्वात् ।

नाप्यवस्तु, अत एव ।

न हि खपुष्पं कस्यचिदंशो भवति ।

तत्रांशानुगमे वस्त्वेवानुगतं भवति तस्य तदव्यतिरेकात् ।

नैतत्सारम् ।

[कुप्पुस्वामी संस्करण ६७] अननुगमादंशान्तरस्य किं न वस्तुनोऽननुगमः ।

अपि त्वननुगम (अपि त्वननुगम एदितिओन्) एव तस्य समुदायात्मकत्वादेकाभावेऽप्यभावात् ।

तथा हि

इतरेतरापेक्षौ वा सामान्यविशेषौ वस्तु, तत्समाहारो वा ।

उभयथार्थान्तरे विशेषस्याभावान्न वस्त्वन्वयः ।

प्रत्येकमनपेक्षयोर्वस्तुत्वे नोभयात्मकमेकं वस्तु स्यादिति सुष्ठूच्यते


तस्यानन्वयतो भेदवादः शब्दान्तरादयमिति ।


यदि वाखिलभावानामभेदात्तदतत्त्वतः ।

अभेदवादाश्रयणं स्यादन्यविधया गिरा ॥ १.२५ ॥



अंशानुवृत्त्या वा वस्त्वनुगमेऽद्वैतवादः ।

तथा हि

गौः स्वतस्तावद्गौः, सद्द्रव्यादिरूपानुगमादश्ववस्तुनोऽनुगमादश्वः ।

तदेवं गौर्गौश्चाश्वश्च ।

अश्वोऽपि तावदश्वः सद्द्रव्यादिरूपानुगमेन गोवस्तुनोऽन्वयाद्गौः ।

तदेवमश्वोऽप्यश्वो गौश्च ।

तदेवं सर्वभावानां तद्भावान्यभावाभ्यामभेद इत्यद्वैतं जगदित्युक्तमन्यप्रकारया वाचा ।

सत्यम्, द्वैतमप्यस्ति ।

यतस्तद्भावान्यभावाभ्यामभेदः ।

नैतत्सारम् ।

गौरपि चेदश्वो गौश्चाश्वश्च ।

तत्कुतोऽन्यत्वम्? गौरश्व इत्यपि (गौश्चाश्वश्चेत्यपि एदितिओन्) भेदाभिधानमनिबन्धनमेव ।

सिद्धे हि गवाश्वभेदे एतदुपपद्यते ।

गवाश्वस्य तु प्रत्येकं गवाश्वत्वे भेदाभावादनिबन्धनमेव तत् ।

ननु विशेषांशानां व्यावृत्तेरन्यत्वसिद्धिः ।

तथा च द्वैताद्वैतात्मकं जगदिति ।

अथ विशेषव्यावृत्तेरन्यत्वसिद्धिः ।

किमुभयरूपत्वाद्वस्तुनो वस्त्वन्तरेऽनुगमो नास्ति? अश्ववस्तु गोवस्तु न भवति ।

अथास्त्यनुगमः, अश्वोऽपि गौर्भवति? तत्र पूर्वस्मिन्कल्पे वस्तुनोऽनन्वयादनुयतश्चावस्तुत्वाद्भेदवाद इत्युक्तम् ।

अथ विशेषव्यावृत्तावपि तद्वस्त्वनुगतम्, भवत्यश्वो गौः (भवत्यश्वोऽपि एदितिओन्) ।

कुतोऽन्यत्वसिद्धिः? यदि मतम्

अनुगतं चाननुगतं चाश्वे गोवस्तु ।

भवति चाश्वो गौः ।

गौस्तु गौरेव ।

भवत्येव हि तत्र गोवस्तु ।

ततोऽन्यत्वसिद्धिरिति ।

अथ गोवस्तु कथं वक्तव्यम्? किं यद्गौर्भवत्येव, अथ यन्न भवत्यपि? तत्र पूर्वस्यां कल्पनायां न वस्तुनोऽनुगम इत्यनन्वितानि वस्तूनि ।

द्वितीयस्यां [कुप्पुस्वामी संस्करण ६८] वस्तुनो वस्त्वन्तरेऽन्वयादद्वैतम् ।

सर्वथा येन विशेषेणायमश्वाद्गोवस्तु व्यवस्थापयत्यन्यत्तद्विशेषयुजस्तु तस्यानन्वयाद्भेदवादः ।

अथानन्वयदोषान्न विशेषमाश्रयति अभेदवाद इति न द्वैताद्वैतकल्पनोपपद्यत इति ।


द्रव्यपर्यायार्थकानां नय एतेन वारितः ।

तेषामपि द्रव्यनयः पर्यायनय एव वा ॥ १.२६ ॥


ये च

द्रव्यं नित्यं मृत्सुवर्णादि ।

तस्य (तस्य तु ंसा॑ तस्य च एदितिओन्) घटरुचकादयः पर्याया विशेषाख्या अपायिन उपायिनश्चाव्यतिरेकाः ।

न च ते द्रव्यमेव, तस्य स्थितिमत्त्वात् ।

न च ततोऽत्यन्तं व्यावर्तन्ते, भेदेनानुपलब्धेः ।

द्रव्यस्यैव रुचकादिरूपेण प्रत्ययात् ।

एवं द्रव्यपर्यायरूपं वस्तु ।

अथ (ंस्B॑ अथ एदितिओन्) तु द्रव्यमेव स्यात्, वर्धमानकभङ्गेन रुचकक्रियायां न किञ्चिदुत्पन्नं नष्टं वेति प्रीतिशोकौ तदर्थिनोर्न स्याताम् ।

अथ तु पर्यायमात्रम्, हेमार्थिनो मध्यस्थता न स्यात् ।

पर्यायमात्रे हि हेम्नि हेम्नो विनाशात्पर्यायविनाशे कथं मध्यस्थता? उत्पादे वा? तस्माद्द्रव्यपर्यायरूपत्वाद्वस्तुन उत्पत्तिस्थितिभङ्गानामेकत्र संभवाद्द्रव्यरूपस्थितेर्माध्यस्थ्यम्, पर्याययोरुत्पत्तिविनाशाभ्यां प्रीतिशोकाववकल्पेते इति

मन्यन्ते ।

तन्नीतिरप्यनेनैव निराकृता प्रकारेण ।

तथा हि

तेषामपि वस्तुनो वस्त्वन्तरान्वयेऽपि भागाभावाद्द्रव्यमात्रं स्यात् ।

अथ न वस्त्वन्वेति द्रव्यपर्यायरूपत्वाद्वस्तुनः, पर्यायान्तरे च पर्यायान्तरस्याननुगमादनन्वितानि तर्हि व्यावृत्तस्वभावानि वस्तूनि ।

यस्यानुगमः कल्प्यते तन्मात्ररूपस्यावस्तुत्वात्पर्यायमात्रम् ।

अवस्थितं हि द्रव्यमुच्यते ।

न चैवमवस्थितं किञ्चिदेकं वस्त्वस्ति ।

वस्तुनस्त्वपोद्धृतस्यांशस्यावस्थानकल्पना कल्पनैव ।

वस्तुनश्चित्रत्वात्, तस्य चातथाभावादिति ।


अपि च


उत्पादस्थितिभङ्गानामेकत्र समवायतः ।

प्रीतिमध्यस्थताशोकाः स्युर्न स्युरिति दुर्घटम् ॥ १.२७ ॥


[कुप्पुस्वामी संस्करण ६९] यस्य खलु द्रव्यात्पर्याया भिद्यन्ते तस्य

द्रव्यमात्रार्थिनो द्रव्यस्य स्थितेर्विनाशाभावादपूर्वस्यानुत्पादान्मध्यस्थता, रुचकार्थिनस्तस्यापूर्वस्योत्पत्तेः प्रीतिः, वर्धमानकार्थिनस्तस्य विनाशाच्छोकः

इति व्यवस्था कल्पते ।

यस्य तु न पर्यायेभ्योऽन्यद्द्रव्यं

(ंसा॑ यस्य तु पर्यायेभ्योऽनन्यद्द्रव्यं एदितिओन्) न द्रव्यादन्ये पर्यायाः, तस्य उत्पत्तिस्थितिभङ्गानामेकत्र समवाये द्रव्यार्थिनो मध्यस्थता भवेत्, न भवेच्च ।

प्रीतिशोकौ स्याताम्, न स्याताम् ।

न हि तद्द्रव्यमवतिष्ठत एव, विनश्यत्यपूर्वं चोत्पद्यते ।

तत्र विनाशादपूर्वोत्पत्तेश्च प्रीतिशोकौ स्याताम्, न मध्यस्थता ।

मध्यस्थता च स्थितेः स्यात्

इति दुर्घटमापद्येत ।

तथा वर्धमानकार्थिनस्तन्नाशाच्छोकः स्यात् ।

न च स्यात्, स्थितेः ।

प्रीतिश्च तस्यापूर्वस्योत्पादात्स्यात् ।

न च भवेत्, पूर्वस्यैव स्थितेः ।

विनाशाच्च शोकः स्यादिति ।

अथ भेदोऽप्यस्तीति नायं दोषः ।

अभेदोऽप्यस्तीति किं न भवति? अथ नात्यन्तमभेदः, तेन न संकरः ।

नात्यन्तमभेद इति व्यवस्थापि न युज्यते ।

न चास्य किञ्चित्क्वचिदेकान्ततः सर्वत्रानेकान्तमभ्युपयतः, येनायं विशेष उच्यते

नात्यन्तमभेद इत्यसंकर इति ।

तथा च


नैकान्तः सर्वभावानां यदि सर्वविधानतः ।

अप्रवृत्तिनिवृत्तीदं प्राप्तं सर्वत्र ही जगत् ॥ १.२८ ॥


यदा हि सर्वप्रकारेष्वनैकान्तिकत्वं भावानाम्, तथा सति

नायं लोकः क्वचिदभिमतसाधनताप्रकारमवधार्य प्रवर्तेत, यतो नासौ तथैव ।

नापि निवर्तेत, यतो नासावतथैव ।

तथा दुःखहेतोर्न निवर्तेत, नासौ तथैव ।

नापि न निवर्तेत, यतो नासावतथैव

इति कष्टां बत दशामापद्येत ।


अथ वा यदुक्तम्

प्रीतिमध्यस्थताशोकाः स्युर्न स्युरिति दुर्घटमिति, तत्र ब्रूयुः

सर्ववस्तुषु सर्वप्रकाराणामनैकान्तिकत्वात्का दुर्घटता? तथा हि

प्रीतिमध्यस्थताशोका नैकान्ततः सन्ति, नैकान्ततो न सन्तीति ।

अत्रोच्यते

नैकान्तः सर्वभावानामिति ।

यदि खलु प्रीत्यादीनां सदसत्त्वे [कुप्पुस्वामी संस्करण ७०] नैकान्तिके (ऽनैकान्तिके एदितिओन्)

न प्रीत्यर्थी प्रीतिसाधनेषु प्रवर्तेत, प्रीतेर्विद्यमानत्वात् ।

नापि न प्रवर्तेत, तस्या अभावात् ।

तथा दुःखनिवृत्त्यर्थी न दुःखसाधनसंपर्कं परिहरेत्, तस्यासत्त्वात् ।

नापि न परिहरेत्, तस्य सत्त्वात्

इत्यप्रवृत्तिनिवृत्तिकं बत विश्वमापन्नमिति ।


एवं तावन्न द्वे वस्तुनी, नैकं द्व्यात्मकम् ।

तत्र द्वयमवशिष्यते

भेदः सत्यः, तदुपादानाभेदकल्पना ।

अभेदो वा सत्यः, तदुपादाना भेदकल्पनेति ।

तत्र


आपेक्षिकत्वाद्भेदो हि भेदग्रहपुरस्सरः ।

नैकज्ञानं समीक्ष्यैकं न भेदं तत्त्वहानतः ॥ १.२९ ॥

न भेदमुपादायाभेदकल्पना ।

कुतः? आपेक्षिको हि भेदो नान्यमनपेक्ष्य शक्यते ग्रहीतुम् ।

न चागृहीतो भेदोऽभेदकल्पनाया उपादानं भवति ।

परापेक्षत्वे चास्य ग्रहणमनुपपन्नम् ।

यतो नागृहीते भेदे परात्मानौ व्यवतिष्ठेते ।

न च परात्मव्यवस्थामन्तरेण भेदग्रहोऽस्तीति प्राक्प्रपञ्चितम् ।

न त्वेवम् (ंसा॑ न चैवम् एदितिओन्) अभेदग्रहणमभेदग्रहणापेक्षम् ।

नापि भेदग्रहणापेक्षम्, अभेदहानप्रसङ्गात् ।

न हि भेदे गृहीतेऽभेदस्यावकाशोऽस्ति ।

तत्राभेदं गृहीत्वा तमुपादाय तस्य यथावन्निश्चयाशक्तौ व्यवच्छेदकल्पनोपपद्यते, यथैकबुद्धिनिर्ग्राह्येषु घटादिष्ववयवविभागकल्पना ।

न तत्र भेदोपादानाभेदकल्पना ।

भेदो हि परमाणुषु व्यवतिष्ठते ।

ते चातीन्द्रियाः ।

ननु चैकत्वमप्यनुसन्धानप्रत्ययावसेयम् ।

स च न भेदमन्तरेण ।

भेदास्पर्शे (भेदासंस्पर्शे एदितिओन्) हि किं केनानुसन्धीयतामिति ।

प्रत्युक्तमेतत्

नेदानीमभिन्नदेशकालोऽर्थ एकः स्यात् ।

असति चैकस्मिन् किमाश्रया भेदाशङ्का स्यात्, यस्यानुसंधानादेकत्वमुच्यत इति ।


अपि च सर्वप्रत्यात्मवेदनीयमेतदभेदोपादानो भेद इति ।

तथा हि


आलोच्यते वस्तुमात्रं ज्ञानेनापातजन्मना ।

अचेत्यमानो भेदोऽपि चकास्तीत्यतिसाहसम् ॥ १.३० ॥

[कुप्पुस्वामी संस्करण ७१] वस्तुमात्रविषयं प्रथममविकल्पकं प्रत्यक्षम् ।

तत्पूर्वास्तु विकल्पबुद्धयो विशेषानवगाहन्त इति सर्वप्रत्यात्मवेदनीयम् ।

स्यादेतत्

विशिष्टरूपोपग्राह्येव प्रत्यक्षम् ।

स तु भेदः शब्देनासंस्पर्शान्न तथोपलक्ष्यते, यथा विकल्पबुद्धौ ।

तदयुक्तम्, विप्रतिषेधात् ।

न चोपलक्ष्यते प्रत्यक्षबुद्धौ विशेषः प्रकाशते चेति विप्रतिषिद्धम् ।

अतोऽतिसाहसमुच्यते ।

यस्तु संवित्तावेव विप्रतिपद्यते सर्वानात्मव्यावृत्तस्पष्टप्रतिभासं प्रत्यक्षमिति वदन्, तस्योत्तरम्

’ाहुर्विधातृप्रत्यक्षम्ऽ इत्याद्युक्तमेवेति ।


किं च


प्रतिष्ठितं च विज्ञानमर्थमात्रावलम्बनम् ।

भेदेषु त्वप्रतिष्ठत्वमस्तीन्द्रियधियामपि ॥ १.३१ ॥

वस्तुद्वयानुपपत्तेरेकस्य च द्व्यात्मतायोगादवश्यकल्पनीयेऽन्यतरस्य मिथ्यात्वे युक्तं विशेषावभासस्य मिथ्यात्वम्, रजतादिविभ्रान्तिषु दर्शनात् ।

न च वस्तुमात्रावभासस्य ।

न हि वस्तुमात्रव्यभिचारः क्वचिज्ज्ञाने दृष्टोऽस्ति, अन्ततस्तस्यैव वस्तुनः प्रतिभासनात् ।

दृष्टतद्भावस्यैव तत्कल्पना लघ्वी, कॢप्तत्वाद्योग्यतायाः, इतरत्र तु कल्प्यत्वात् ।


स्यादेतत्

मानस्य एव बुद्धयः कॢप्तयोग्यभावा मिथ्यात्वं प्रति, नेन्द्रियजन्मानः ।

इन्द्रियबुद्धिसमधिगम्याश्च भेदा इति ।

एतच्च वार्तम् ।

इन्द्रियदोषानुविधायित्वाद्भ्रान्तीनामिति (॰दोषविशेषानुविधायि॰ एदितिओन्) ।


अपि च यस्य मतम्

व्यावृत्तस्वलक्षणा भावाः ।

तेन तेऽन्योन्याभावस्वभावा व्याकर्तव्याः, तद्विशेषणा वा ।

नान्यथा व्यावृत्तशब्दोऽर्थवान् भवति, तस्येतरेतराभावनिमित्तत्वात् ।

तत्र


अन्योन्याभावरूपत्वं सर्वेषां न प्रकल्पते ।

तत्रोपाधौ प्रतीयन्तां तथा भिन्ना न रूपतः ॥ १.३२ ॥



एकस्मिन्ननपेक्षे स्थिते तदभावरूपोऽन्यो व्यवतिष्ठते ।

सर्वे तु नान्योन्याभावरूपाः कल्पन्ते, परस्पराश्रयस्थितित्वात् ।

अथ विशेषणमन्योन्याभावः ।

कामम्, अतदात्मानोऽपि विशेषणानुरागात्तथावगम्यन्ताम् ।

न तु स्वभावभेदः [कुप्पुस्वामी संस्करण ७२] स्यात् ।

ननु नान्योन्याभावो नाम कश्चित्, यो भावानां तत्त्वं विशेषणं वा स्यातर्थसिद्धिरेवैषा ।

न चेदन्योन्याभावो कश्चित्, सिद्धस्तर्ह्यभेद इति ।


अपि च भेदत्वादेव विश्वस्य भेदोऽभेदोपादान इति शक्यतेऽनुमातुम् ।

दृष्टो हि मणिकृपाणदर्पणादिष्वभिन्नमुखोपादानस्तद्भेदः ।

न च तत्र भावान्तरोत्पत्तिः, विरुद्धपरिणामत्वात् ।

स्यादेतत्

अभेदोऽपि शक्यो भेदोपादानोऽनुमातुम्, वनाभेदस्य तरुभेदोपादानत्वात् ।

न, भेदाभावप्रसङ्गात् ।

एवं हि न कश्चिदेकोऽभिन्नः परमाणुरपि ।

तदभेदोऽपि हि भेदोपादानः स्याद्वनादिवत् ।

तथा तदंशाभेदोऽपीत्यनवस्थायामेकस्याभावात्तत्समुच्चयरूपोऽभेदो न स्यात् ।

अथ क्वचिदवतिष्ठते स एकः ।

तदभेदो न भेदोपादान इति व्यभिचारः ।

तदिदमुच्यते

दपर्णादौ मुखस्येव भेदोऽभेदावलम्बनः ।

भेदावलम्बनोऽभेदो न तथा तदभावतः ॥ १.३३ ॥

अपि च

प्रत्येकमनुविद्धत्वादभेदेन मृषा मतः ।

भेदो यथा तरङ्गाणां भेदाद्भेदः कलावतः ॥ १.३४ ॥

अभेदानुविद्धत्वात्प्रत्येकं विश्वस्य भेदो मृषा ।

यथा जलतरङ्गेषु चन्द्रमसः ।

तत्र हि प्रत्येकं चन्द्रमा इत्यभेदान्वयः, तथा विश्वस्य भेदेऽपि प्रत्येकम् ’िदम्ऽ ’तत्ऽ ’र्थःऽ ’वस्तुऽइत्यभेदान्वयः ।

तरुभेदस्तु यद्यपि न मृषा, वनमित्यभेदानुगमश्च न प्रत्येकम् ।

न हि प्रत्येकं तरुषु वनमिति बुद्धिः ।

अतो न तेन व्यभिचारः ।

एतदर्थं च प्रत्येकमित्युक्तम् ।


अपि च


एकस्यैवास्तु महिमा यन्नानेव प्रकाशते ।

लाघवान्न तु भिन्नानां यच्चकासत्यभिन्नवत् ॥ १.३५ ॥

इदं तावदयं भेदवादी प्रष्टव्यः

कथमयं व्यावृत्तस्वलक्षणेष्वभेदावभासोऽनुवृत्तव्यवहारश्च? यदि सादृश्यात्, तदत्यन्तमनन्वितेष्वनुपपन्नम् ।

अथ व्यावृत्तेरग्रहात्

को हि गुञ्जाप्रवालादीनां रागव्यावृत्तिमवग्रहीतुं क्षमते

[कुप्पुस्वामी संस्करण ७३] इति ।

तदसत् ।

व्यावृत्तस्वभावस्य तदग्रहे ग्रहणमेव हि न स्यात् ।

अथ निश्चयप्रत्यक्षयोरात्मभेदादनिश्चयात् ।

तदसत्, उभयरूपव्यवहारदर्शनात् ।

तथा हि

कालाक्ष्यां गोसामान्यनिबन्धनश्च व्यवहारो गवान्तरव्यावृत्तिश्च दृश्यते ।

न च गवान्तरव्यावृत्तेरनिश्चये स युज्यते ।

अथैकार्थक्रियाकारित्वादतत्क्रियाव्यावृत्तेस्तुल्यत्वात् ।

तदप्यसांप्रतम्, अर्थक्रियाणामपि भेदादतत्क्रियाव्यावृत्तेस्तुल्यत्वायोगात् ।

नैकसाध्यान्यस्यार्थक्रिया येनातत्कारिव्यावृत्तिस्तुल्या स्यात् ।

वस्तुस्वभावश्च व्यावृत्तिः प्रतिवस्तुभेदान्न तुल्या ।

अथास्वभावाः, तेषां कथं तुल्या? अथानादिवासनोपादानो न वस्तुगतविशेषापेक्षः ।

तदप्ययुक्तम्, नियमात् ।

कासुचिदेव हि व्यक्तिषु कश्चिदेवावभासः (ंस्B॑ कश्चिदेवाभेदावभासः एदितिओन्), स वासनामात्रोपादानत्वे न युज्यते ।

तस्मात्प्रकृत्यैव केचित्कस्यचिदभेदावमर्शस्य योग्याः केचिन्नेति स्वभावविपरीता भावानां सामर्थ्यातिशया कल्पयितव्याः ।

तथा सत्येवं गौरवात्कल्पनायाः ।

एकस्यैवास्तु माहात्म्यं यदेकोऽपि नानेवावभासते (नानेव भासते एदितिओन्), लघुत्वात्कल्पनायाः ।

न तु भिन्नानां ते सामर्थ्यातिशयाः, यदमी अभिन्ना इव भासन्ते (इवावभासन्ते एदितिओन्) ।

भेदव्यवहारश्च (भेदव्यवहाराश्च एदितिओन्) यथावभासं भेदवादिनामिवाभेदव्यवहार उपपद्यते (॰व्यवहारा उपपद्यन्ते एदितिओन्) ।

तथा हि

आत्यन्तिकभेदवादिनां यथावभासमभेदव्यवहारः, न यथावस्तु ।

संसर्गवादिनामपि सामान्यस्यार्थस्यार्थान्तरत्वाद्यथावभासमेव भेदेष्वभेदव्यवहारः ।

येऽप्यनर्थान्तरवादिनः, तेषामपि शबलत्वाद्वस्तुनस्तस्य चानन्वयाद्यथावभासमेवोभयव्यवहारः ।

न वस्त्वनुपातीति दर्शितमिति ।

यथानुवृत्तव्यवहारसिद्धिं यथावभासं कथयन्ति बाह्याः ।

तथैव भेदव्यवहारयोगं वदन्ति वेदान्तविवेकभाजः ॥ १.३६ ॥

इति श्रीमण्डनमिश्रविरचितायां ब्रह्मसिद्धौ तर्ककाण्डः समाप्तः ॥

 



ब्रह्मसिद्धिः/नियोगकाण्डः (तृतीयः)

॥नियोगकाण्डः॥

 [कुप्पुस्वामी संस्करण ७४] एवं प्रत्यक्षादिविरोधात्कर्मविधिविरोधाच्च श्रुतार्थपरिग्रहे ये मन्यन्ते वेदान्तानामुपचरितार्थत्वं तत्प्रतिबोधनाय विहितः प्रयत्नः ।

संप्रति तु

कार्य एवार्थे वेदस्य प्रामाण्यम्, न भूतरूपे ।

एवं ह्युक्तम्

’चोदनालक्षणोऽर्थो धर्मःऽ ।

चोदनाप्रमाणको वेदार्थ इति यावत् ।

चोदना च प्रवर्तकं वचनम्, तस्मात्कार्येऽर्थे वेदः प्रमाणम् ।

वेदान्तानामपि तु प्रतिपत्तिकर्तव्यताप्रमाणभाजां तन्मुखेन तदनुगतभूतात्मतत्त्वविषयबोधकत्वम् ।

अतस्तेऽपि कार्यनिष्ठतां नातिवर्तन्ते ।

तथा च कथं तर्हि मन्त्रार्थवादाः सोपनिषत्का इत्याशङ्क्य ’चोदना हि भूतं भवन्तम्ऽ इत्याद्युक्तम् ।

एतदुक्तं भवति

कार्यमर्थमवगमयन्ती चोदनैव भूतादिकमप्यर्थमवगमयतीति

ये मन्यन्ते तत्प्रतिबोधनाय प्रयत्यते ।

तिस्रश्च प्रतिपत्तयो ब्रह्मणि ।

प्रथमा तावच्छब्दात्, अन्या शब्दात्प्रतिपद्य तत्सन्तानवती ध्यानभावनोपासनादिशब्दवाच्या, अन्या ततो लब्धनिष्पत्तिर्विगलितनिखिलविकल्पा साक्षात्करणरूपा ।

तत्र प्रथमामधिकृत्योच्यते


शब्दाद्यदात्मविज्ञानं तन्न तावद्विधीयते ।

भवत्यधीतवेदस्य तद्धि कर्मावबोधवत् ॥ २.१ ॥


ब्रह्मणो हि प्रमाणान्तरानधिगमनीयरूपत्वाच्छब्दाधिगम्यस्वभावविषयं ज्ञानं विधेयम् ।

तत्र यच्छब्दादेव ज्ञानं तदविधेयम्, विधिमन्तरेण भावात्कर्मावबोधवत् ।

यथैव ’स्वर्गकामो यजेतऽ इति श्रुतवाक्यस्य वाक्यार्थावबोधस्तद्वाक्यप्रामाण्यादेव भवति, न विध्यन्तरमपेक्षते, तथात्मस्वरूपाभिधायिवाक्यप्रामाण्यादात्मावबोधो विध्यनपेक्षः [कुप्पुस्वामी संस्करण ७५] संजायते, सति प्रमाणे तत्सामर्थ्येनैव प्रमेयबोधोत्पत्तेः ।

न खलु सोपकरणे समग्रे प्रमाणे सतीच्छापि पुरुषस्यापेक्ष्यते ज्ञानं प्रति, अनिष्टानामप्यवबोधात्, प्रागेव विधिः ।


तामेव विधेरनपेक्षतां कर्मावबोधे दर्शयति


स्वर्गकामो यजेतेति बोधेऽस्मिन्न व्यपेक्ष्यते ।

विधिरन्योऽनवस्थानान्नायं कर्मव्यवस्थितेः ॥ २.२ ॥


न कर्मविधिवाक्यार्थज्ञानप्रवृत्तौ विधिरपेक्ष्यतेऽन्यः, न तद्गत एव वा ।

अन्यस्मिन्ननवस्थादोषात्, तदर्थज्ञानेऽपि विध्यन्तरस्यापेक्षणीयत्वात्, तद्गतस्य च कर्मविषयत्वेन तद्बोधं विधातुमसामर्थ्यात् ।


ननु यथैषां ग्रहणे विध्यन्तरमपेक्ष्यते ’स्वाध्यायोऽध्येतव्यःऽ इति, न चानवस्था, तद्वत्तदर्थबोधेऽपि स्यात् ।

अस्ति च विधिः

’वेदः कृत्स्नोऽधिगन्तव्यःऽ इति ।


विषम उपन्यासः

अप्रवृत्तोऽपि हि स्वाध्यायाध्ययनविधिवाक्याध्ययने पुरुषान्तराधीतात्ततस्तस्य चान्येषां च वाक्यानामध्ययने प्रवर्तते, शाखान्तरीयाङ्गोपसंहार इव श्रवणमात्रात् ।

न खलु स्वाधीतमेव वाक्यं प्रवर्तयति ।

यथैकस्तथा पुरुषान्तराण्यपि, अनादित्वाद्वेदवत्तदध्ययनस्यापि ।

अनवबुद्धार्थस्त्ववबोधविधिर्नावबोधे प्रवर्तयति ।

तदर्थबोधश्चेद्विध्यपेक्षः, न तत्र स एव प्रवर्तयति, अनवबुद्धार्थत्वात् ।

इतरेतराश्रयं स्यात्

तदर्थबोधात्प्रवृत्तिः, प्रवृत्तस्य च तदर्थबोध इति ।

तस्माद्विध्यन्तरमपेक्षितव्यमित्यनवस्था ।

न च ’वेदः कृत्स्नोऽधिगन्तव्यःऽइत्यपूर्वार्थविधिः ।

’दृष्टो हि तस्यार्थः कर्मावबोधनम्ऽ इति न्यायप्राप्तोऽर्थः प्रदर्श्यते ।

अथाप्येष विधिः, स्वाध्यायाध्ययनविधिनार्थाक्षिप्तमर्थज्ञानं नोच्येत (॰ज्ञानमुच्येत एदितिओन्, अल्तेर्नतिवे रेअदिन्गिन् टत्त्वसमीक्षा), तथापि ब्रह्मस्वरूपाभिधायिवेदवाक्यप्रभवे बोधे न पृथग्विधिरपेक्षितव्यः, कर्मविधिवाक्यवत् ।

यथैव ’स्वर्गकामो यजेतऽ इति सामान्यविधिना सिद्धे नान्योऽपेक्ष्यते, अनवस्थानात्, सत्यपि विधावन्यस्यापेक्षणात्, [कुप्पुस्वामी संस्करण ७६] न चैतद्गत एव, कर्मविषयत्वात् ।

एवं तत्त्वप्रतिपत्तिपरेष्वपि वाक्येषु न विधिरपेक्षितव्यः, वाक्यसामर्थ्यादेव तत्त्वबोधोत्पादादिति ।



इतश्च


फलं विधेयावगमात्प्रवृत्तिश्चोत्तरा विधेः ।

अन्योन्यसंश्रयान्नैष शाब्दो बोधः स नो परः ॥ २.३ ॥


शब्दादवगम्य विधेयं या प्रवृत्तिः सा विधेः प्रयोजनम्, न तु शब्दप्रभवो विधेयावगम एव, अन्योन्यसंश्रयात्

अवगते शब्दार्थे प्रवृत्तेः, प्रवृत्तस्य चावगमात् ।

शब्दार्थबोधादेव वा शब्दार्थबोध इत्यात्माश्रयः ।

अन्योन्यसंश्रयस्तु तुल्यानुपपत्तित्वादुक्तः ।

यस्तु तत्त्वावबोधपराद्वाक्यात्तत्त्वावबोधः, नासौ शब्दार्थबोधात्पराचीनः, किन्तु स एवेति ।


अपि च


जाते बोधे न प्रवर्त्यो नतरां खल्वबोधके ।

शब्दे न (शब्देन एदितिओन्) निश्चये तस्मादन्यस्मादन्यवाञ्छनम् ॥ २.४ ॥


उदपादि चेत्’सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ इत्युपक्रमात्’तत्त्वमसिऽइत्यन्ताद्वाक्यादात्मतत्त्वावबोधः, पदानां परस्परान्वितार्थत्वात्, किमन्यद्विधिः करिष्यति? न प्रवृत्त एव प्रवर्त्यः ।

अथ पदार्थसमन्वयमात्रान्न तत्त्वबोधोत्पादः, सुतरामप्रवर्त्यः ।

शाब्दस्य तत्त्वावबोधस्यासंभवात् ।

स्यादेतत्

उत्पन्नेऽपि तत्त्वावभासे शब्दात्, निश्चये प्रवर्त्यः ’ेवमिदम्ऽ इति ।

तन्न ।

यदि तस्माच्छब्दान्निश्चयः, स जात एव ।

अथान्यतो निश्चयः, अन्यवाञ्छनं प्रमाणान्तरापेक्षा, न तत्र तत्त्वनिश्चयनिबन्धनं शब्दः स्यात् ।

एवं तावन्न तत्त्वनिश्चयाय विधिरर्थ्यते ।


अथाविवक्षितार्थत्वनिवृत्त्यै प्रार्थ्यते विधिः ।

अर्थो ज्ञातव्य इत्युक्ते ज्ञेयः स्यान्नाविवक्षितः ॥ २.५ ॥


[कुप्पुस्वामी संस्करण ७७] यदपि मतम्

सत्यपि वाक्यादर्थोपप्लवे तात्पर्यं दुर्लभम्, भूतार्थपरस्य वैयर्थ्यात् ।

सांशयिकत्वं वा, अतात्पर्यस्यापि दर्शनाज्जपमन्त्रेषु ।

विधौ तु सत्यर्थज्ञानस्य चोदितत्वान्नार्थोऽविवक्षितो भवितुमर्हति ।

तस्माद्विवक्षितार्थत्वाय विधिः प्रार्थ्यः ।


तद्वार्तमर्थपरता शब्दानां लोकवेदयोः ।

’विशिष्टस्तु वाक्यार्थऽ इत्युत्सर्गवती यतः ॥ २.६ ॥


औत्सर्गिकः शब्दानामर्थं प्रति शेषभावः ।

निमित्तान्तरात्तु स्वरूपप्रधानत्वमविवक्षितार्थत्वमपवादो लोके ।

तथा वेदेऽपि, लोकावगम्यत्वाच्छब्दसामर्थ्यस्य ।

तदुक्तम्

’विशिष्टस्तु वाक्यार्थःऽ इति ।


अपि च


दृष्टार्थता च स्वाध्यायविधेरत्र न भिद्यते ।

भवेदितरथा कृत्स्नः स विध्यर्थोऽविवक्षितः ॥ २.७ ॥


यथैव कर्मविधीनां ’दृष्टो हि तस्यार्थः कर्मावबोधनम्ऽ इति नाविवक्षितार्थानामध्ययनात्फलान्तरकल्पना तथा दृष्टत्वादात्मतत्त्वावबोधस्य वेदान्तानाम् ।

न च भूतार्थप्रतिपत्तौ वैयर्थ्यमिति वक्ष्यते ।

प्रतिपत्तिविधौ च तुल्यम् ।

अवश्यं चैतदेवं विज्ञेयम् ।

अन्यथा सह विधायकेन कृत्स्नस्याविवक्षितार्थता स्यात् ।

यतो विधायकशब्दनिबन्धनमन्येषां विवक्षितार्थत्वम्, विधायकस्य तु न तन्निबन्धनमस्ति ।

एवं च तस्याविवक्षितार्थत्वे इतरेऽपि तथा स्युः ।

अथ विधायकः प्रकृत्या दृष्टार्थत्वेन चार्थपरः, इतरेऽपि तथेति व्यर्थोऽसौ विधिः ।


ज्ञानस्य पुरुषार्थत्वसिद्धये विधिरिष्यते ।

सर्वत्र पुरुषार्थत्वं विधेरित्यप्यपेशलम् ॥ २.८ ॥


विध्यधीनः पुरुषार्थसाधनतावबोधः, तच्छब्दतो लब्धजन्मनोऽप्यात्मतत्त्वावबोधस्य पुरुषार्थसाधनत्वावगमो विधेरित्येतदपि न शोभनम् ।


ज्ञेयाभिव्याप्तितो यस्मान्न विज्ञानात्फलान्तरम् ।

इष्यते मोक्ष इति चेत्साध्यस्तत्त्वच्युतेर्न सः ॥ २.९ ॥


[कुप्पुस्वामी संस्करण ७८] ज्ञानस्य हि दृष्टमेव फलम्

ज्ञात्रा ज्ञेयाभिव्याप्तिः, ज्ञातारं प्रति तस्य प्रकाशनम् (प्रकाशता एदितिओन्)

न त्वदृष्टं कालान्तरभावि, यदर्थो विधिः स्यात् ।

स्यादेतत्

आत्मज्ञानस्य फलान्तरमपीष्यते मोक्षः ।

तन्न, असाध्यत्वात् ।

न हेतुजन्योऽसौ मोक्षः, तत्त्वच्युतेः ।

कार्यत्वे विनाशात्तस्य पुनःसंसारात् ।

आत्यन्तिकी च संसारनिवृत्तिर्मोक्ष इत्युच्यते ।

ननु कार्योऽपि नाशो न नश्यति ।

सत्यम्, भावरूपं तु मोक्षं निरतिशयानन्दलक्षणं निरतिशयैश्वर्यलक्षणं चाभिप्रेत्यैतदुच्यते, भावस्य कार्यस्य विनाशेनाविनाभावात् ।

आगामिशरीरेन्द्रियबुद्धिसंयोगाभावस्य प्रागभावस्य कार्यत्वमनुपपन्नमेव ।

बन्धहेतुनिवृत्तिस्तु यद्यपि कार्या, कार्यत्वेऽपि च नास्या अनित्यत्वप्रसङ्गः, तथापि नासौ तत्त्वज्ञानात्पृथगिति न तेन साध्या ।

अविद्या हि बन्धहेतुः, तत्त्वज्ञानोदय एव च तन्निवृत्तिः ।


अथवा ’परं ज्योतिरुपसंपद्य स्वेन रूपेणावतिष्ठतेऽ इति स्वरूपस्थितिर्मुक्तिरुक्ता ।

साध्यत्वे च न स्वरूपस्थितिः स्यात् ।

अतो मोक्षत्वाच्च्यवेत ।

यत्तु

’न स (न च एदितिओन्) पुनरावर्ततेऽ इति श्रुतेः प्रामाण्यात्कार्यस्यापि मोक्षस्य नित्यत्वमिति, दृष्टविपरीतमपि तदाश्रीयेत, अनन्यगतित्वे श्रुतेः ।

यदा तु विदितात्मतत्त्वस्याद्वयं विशुद्धप्रकाशमात्मानं पश्यतः समुत्खातायामनवयवेनाविद्यायां हेत्वभावात्पुनर्बन्धस्यासंभाव्यत्वात्प्राप्तमेवार्थं वर्तमानापदेशादनुवदति श्रुतिरर्थवादत्वेन, तदा कुतस्तत्प्रामाण्यादनन्तफलत्वम्? तथा हि

वर्तमानापदेशादेव नापुनरावृत्तिः साध्यत्वेनावगम्यते ।

न च कामोपबन्धोऽस्ति, यतः साध्यता गम्येत ।

तस्मादर्थवादः ।

अर्थवादादपि च या फलकल्पना, सापि ज्ञाने ज्ञेयतत्त्वावभासदृष्टफलनिराकाङ्क्षेऽनुपपन्ना ।

पुरुषार्थता चास्य वक्ष्यत इति ।



अन्ये पुनराहुः


विधेर्विना कार्यशून्यं भूतार्थमनुवादकम् ।

वचः स्यादनुवादश्च प्रमाणान्तरगोचरे ॥ २.१० ॥


[कुप्पुस्वामी संस्करण ७९] तत्प्रमाणान्तरापेक्षं प्रामाण्यमतिवर्तते ।

मानान्तरस्याविषये विध्यर्थे तु प्रतिष्ठितम् ॥ २.११ ॥


अनपेक्षं प्रमाणत्वमश्नुते कर्मवाक्यवत् ।

परप्रवृत्त्यभावेऽपि प्रामाण्यायैव तद्विधिः ॥ २.१२ ॥


विधिमन्तरेण न कार्योपदेशप्रतीतिः ।

यथावस्थितं वस्तु तद्विधस्यानुवादमात्रत्वं गम्यते ।

अनुवादश्च प्रमाणान्तरविषय इति तदपेक्षो भूतार्थो नार्थ उच्यत इति सापेक्षत्वादप्रामाण्यम् ।

विध्यर्थस्य तु प्रमाणान्तराविषयत्वात्तन्निष्ठमनपेक्षं प्रमाणं कर्मविधिवाक्यवत् ।

प्रमाणान्तराविषयश्च विध्यर्थः ।

न हि ’कुरुऽइति शब्दज्ञानादन्यतः प्रतीतिः ।

एवं च सति तत्त्वप्रतिपत्तिपरे वाक्ये यद्यपि वाक्यार्थबोधात्पराचीना प्रवृत्तिः, विधिफलं नास्ति ।

प्रामाण्यायैव तु विधिनिष्ठत्वमेषितव्यमिति ।

अत्रोच्यते


प्रमाणान्तरयातार्थभावः किमनुवादता ।

उत भूतार्थता तत्र सिद्धार्थमपि यद्वचः ॥ २.१३ ॥


न मानान्तरलब्धार्थतया तस्यावबोधकम् ।

न तत्सापेक्षमेषा चेदभिप्रेतानुवादता ॥ २.१४ ॥


कः पुनरनुवादः

अधिगमान्तरसंभिन्नार्थत्वम्, मानान्तरेणाधिगत इति प्रतिपादनम्, आहोस्विद्भूतार्थतामात्रम्? तत्र पूर्वस्मिन् कल्पे भवत्वधिगमान्तरसंभिन्नार्थं सापेक्षम् ।

यत्तु भूतार्थमपि न मानान्तराधिगत इति बोधयति न तदनुवादकम्, न सापेक्षम्, पूर्वाधिगमसंस्पर्शेन प्रतिपत्तेरभावात् ।


अथापरः कल्पः


सापेक्षतायाः को हेतुः शुद्धा सिद्धार्थता यदि ।

प्रमाणान्तरसंभेदस्तद्व्यपेक्षणकारणम् ॥ २.१५ ॥


अनृधीप्रभवे नास्ति भूतार्थेऽपि स वैदिके ।


भूतार्थमात्रं चेदनुवादता न सापेक्षत्वहेतुरस्ति ।

न भूतार्थतैव सापेक्षत्वहेतुः, भूतार्थयोरपि प्रत्यक्षानुमानयोरनपेक्षत्वात् ।

तस्माद्भूतार्थेऽभूतार्थे वाधिगमान्तरसंस्पर्शः प्रमाणान्तरापेक्षाहेतुः, स्मृतौ दर्शनात् ।

सा ह्यधिगमान्तरसंभिन्नार्थेति [कुप्पुस्वामी संस्करण ८०] तत्साधनमपेक्षते ।

एवं च पुरुषबुद्धिप्रभवं भूतार्थमभूतार्थं वा वचो भवति सापेक्षम् ।

ततो हि तत्संभिन्न एवार्थे प्रत्ययः, न त्वनपेक्षितपूर्वाधिगमः स्वातन्त्र्येणार्थे ।

यथोक्तम्

’पि च पौरुषेयाद्वचनाद्’ेवमयं पुरुषो वेदऽइति भवति प्रत्ययः, न ’ेवमर्थःऽ इतिऽ ।

अपुरुषबुद्धिप्रभवत्वाद्वेदवचसि भूतार्थेऽपि न सापेक्षत्वहेतुः, पुरुषसंबन्धकृतत्वात्पूर्वाधिगमसंभेदस्य ।


स्यादेतत्

अपौरुषेयेऽपि भूतार्थे तद्विषये प्रमाणान्तरस्य संभवात्तदपेक्षा ।

तथा हि

संभवति प्रमाणान्तरे तद्विषये तद्विसंवादोऽपि शङ्क्येत ।

तस्मात्तदभावाय तत्संवादोऽपेक्षणीयः ।

असंभवति तु कार्येऽर्थे न कुतश्चिद्विसंवादाशङ्केति नापेक्ष्यमस्ति ।

अत्रोच्यते


न च संभवमात्रेण तदपेक्षावकल्पते ॥ २.१६ ॥


विशेषो न हि गम्येत सापेक्षत्वे तदा तयोः ।


द्वयोरेकविषयसंभवे कुत एतत्

शब्दस्तदपेक्षः, न पुनस्तत्प्रमाणान्तरं शब्दापेक्षं स्यादिति? यदि शब्दः प्रमाणान्तराधिगतविषयो लोके दृष्ट इति, प्रमाणान्तरस्याविषये तर्हि नतरां प्रामाण्यं तस्य भवति ।

प्रमाणान्तरविषये हि प्रमाणान्तरसंभवादपि तावत्स्यात्, अन्यत्र तदभावाद्दुर्लभं तत् ।

अथ पौरुषेयत्वकारिता लोकवचसां प्रमाणान्तराधिगतार्थता, न शब्दसामर्थ्यकारिता ।

शब्दस्य प्रमाणान्तरासंभिन्न एवार्थे सामर्थ्यम् ।

न तर्हि प्रमाणान्तरसंभवाच्छब्द एव सापेक्षः, तदपि शब्दसंभवाच्छब्दापेक्षं स्यात् ।

किमतस्तस्य सापेक्षत्वेन? अप्रमाणं स्यात् ।

न शब्दस्य तत्रापेक्षा युज्यते ।

सति हि तस्य प्रामाण्ये तत्संवादविसंवादावपेक्ष्येयाताम् ।

अथ शब्दस्याप्रामाण्यान्न तत्शब्दापेक्षया प्रमाणम् ।

प्रमाणमेव, अनपेक्षत्वात् ।

शब्दस्याप्रामाण्यं कुतः? प्रमाणान्तरापेक्षत्वात् ।

तस्य च प्रामाण्यमनपेक्षत्वात्, अनपेक्षत्वं च शब्दस्याप्रामाण्यादितरेतराश्रयम् ।

प्रमाणे हि शब्दे तद्विषये संभवति तदपि सापेक्षं स्यात्तत्संभव इव शब्दः, विशेषाभावात् ।

[कुप्पुस्वामी संस्करण ८१] अथ शब्दसंभवेऽपि न तत्सापेक्षम् ।

तत्संभवेऽपि न शब्दस्य सापेक्षता, विशेषाभावात् ।


अपि च


प्रत्यक्षानुमयोरेवं वृत्तेरन्योन्यगोचरे ॥ २.१७ ॥


परस्परव्यपेक्षत्वमविशेषं प्रसज्यते ।

स्यादक्षमपि सापेक्षं यदक्षान्तरगोचरे ॥ २.१८ ॥


संभवमात्रेण सापेक्षत्वे प्रत्यक्षानुमयोरेकस्मिन् विषये संभवादन्योन्यापेक्षत्वादप्रामाण्यप्रसङ्गः ।

तथा सत्तागुणत्वद्रव्येष्वनेकेन्द्रियग्राह्येष्विन्द्रियान्तराणामिन्द्रियान्तरसापेक्षत्वप्रसङ्गः ।

अथ शब्दस्यैव प्रमाणान्तरसंभवे सापेक्षत्वम्, विशेषहेतुर्वाच्यः ।

प्रमाणान्तराधिगतार्थत्वदर्शनादिति चेत्, उक्तमत्र

यदि शब्दमात्रधर्मोऽयमसंभवादेव तद्विषये प्रत्यक्षादेर्बुद्धादिवाक्यवदप्रामाण्यं प्राप्नोति, संभवे त्विन्द्रियविषये प्रत्ययितपुरुषवचोवद्युज्यते प्रामाण्यम् ।

यथोक्तम्

’तच्चेत्प्रत्ययितात्पुरुषादिन्द्रियविषयं वा, अवितथमेव तत्ऽ इति ।

अथ पौरुषेयधर्मोऽयम्, न संभवत्प्रमाणान्तरविषयस्याप्यपौरुषेयस्य शब्दस्य सापेक्षत्वम् ।

अपि च प्रत्यक्षाधिगतविषयं किञ्चिदनुमानमिति न सामान्यतोदृष्टस्य तथा प्रत्यक्षसापेक्षता, यथा चागमपूर्वकं षड्जादिविवेकविषयं प्रत्यक्षमिति न सर्वं प्रत्यक्षं तथा, एवं पुरुषवचसां प्रमाणान्तराधिगतविषयत्वदर्शनेऽपि नापौरुषेयस्य तथाभावो भूतार्थस्यापि ।

अन्यथा सुतरां प्रमाणान्तरासंभवादप्रामाण्यं स्यादित्युक्तम् ।


अपि च


असंभवादौषधादिनियोगस्यानपेक्षता ।

लौकिकस्य प्रसज्येत नरप्रत्ययपूर्वकः ॥ २.१९ ॥


विनियोगस्तत्र तेन व्यपेक्षा वैदिके पुनः ।

अबुद्धिपूर्वकः सोऽपीत्यनपेक्षत्वमुच्यते ॥ २.२० ॥


यदि कार्ये नियोगार्थे प्रमाणान्तरस्यासंभवाद्वेदवचसां तन्निष्ठानामनपेक्षत्वम्, ’ज्वरवियोगकाम इदमौषधं पिबेत्ऽ, ’स्वर्गकामः सिकता भक्षयेत्ऽ इति [कुप्पुस्वामी संस्करण ८२] लोकवचांस्यपि कार्यनिष्ठान्यनपेक्षाणि प्रामाण्यमश्नुवीरन् ।

अथ यस्तत्र साध्यसाधनभावः स पुरुषविवक्षापूर्वकः, तेन तत्र सापेक्षता, वेदे तु साध्यसाधनभावोऽपि न पुरुषविवक्षापूर्वकः इत्यनपेक्षत्वम् ।

यो वा विषयनियोज्यनियोगानां संबन्धः, स पुरुषबुद्धिविरचितो लोकवाक्ये ।

वेदे तु केवलं नियोगोऽपुरुषबुद्धिपूर्वकः ।

सोऽपीत्यनपेक्षत्वम् ।

उच्यते


नृबुद्धिपूर्वतैवेत्थं हन्तापेक्षानिबन्धनम् ।

मानान्तरासंभवेऽपि तत्र सापेक्षता यतः ॥ २.२१ ॥


असंभवत्प्रमाणान्तरकार्यनिष्ठेऽपि चेद्वाक्ये पुरुषसंबन्धात्सापेक्षत्वम्, पुरुषबुद्धिपूर्वतैव तर्हि प्रमाणान्तरव्यपेक्षाकारणमन्वयव्यतिरेकाभ्याम् ।

तद्भावे लोके सापेक्षत्वात्, तदभावे वेदे निरपेक्षत्वात् ।

न विषये प्रमाणान्तरसंभवः, तदभावेऽपि लोकनियोगे सापेक्षत्वदर्शनात् ।


अथ मतम्


वेदे नियोगनिष्ठत्वं विनियोगप्रधानता ।

लोके वेदे न व्यपेक्षा तल्लोके च व्यपेक्षणम् ॥ २.२२ ॥


नियोगपर्यवसितं वैदिकं वचः, स च प्रमाणान्तरस्यागोचर इत्यनपेक्षत्वम् ।

साध्यसाधनभावनिष्ठं तु लौकिकं वचः, स प्रमाणान्तरविषय इति सापेक्षता ।


न शब्दमात्रसामर्थ्यप्रविभागोऽयमीदृशः ।

लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः ॥ २.२३ ॥


न तावदयं शब्दमात्रस्यानपेक्षितपुरुषसंबन्धासंबन्धस्य शक्तिप्रविभागः

यदेकत्र नियोगः शब्दार्थः ।

अन्यत्र विनियोगः, यथा गोशब्दस्य सास्नादिमान्, अश्वशब्दस्य केसरादिमान् ।

यतो लोकाधिगतसामर्थ्यो वेदेऽपि प्रतिपादकः ।

लोके चेद्विनियोगः शब्दार्थः, तत्रैवास्य सामर्थ्यमधिगतम्, न नियोगे ।

तत्र वेदेऽपि विनियोग एव प्रमाणार्थः स्यात् ।


अथ मानान्तराज्ज्ञात्वा प्रयुङ्क्ते पुरुषो वचः ।

अर्थे तत्तेन तन्निष्ठमितरत्त्वन्यथा स्थितम् ॥ २.२४ ॥


[कुप्पुस्वामी संस्करण ८३] अथ मतम्

नैष शब्दमात्रस्य सामर्थ्यविभागः ।

शब्दस्य हि निजं सामर्थ्यं कार्यनिष्ठतैव ।

तथा हि

कार्यो नियोगार्थः ।

कार्याय चान्यस्यान्वयः प्रतीयते ।

न तु कार्यस्यान्यार्थोऽन्वयः ।

तस्मात्कार्यत्वान्नियोगस्य तत्प्रधानता ।

पुरुषस्तु प्रमाणान्तरादवगम्यार्थं तत्र प्रयुङ्क्ते वचनम् ।

न च नियोगः प्रमाणान्तरगोचरः ।

तस्मान्न तत्र प्रयोक्तुमर्हति ।

विनियोगस्य तु तथाभावात्तत्र युज्यते प्रयोगः ।

तस्माद्विनियोगप्रधानं पुरुषवचः ।

वैदिकं तु सामर्थ्येन कार्यत्वान्नियोगस्य तत्प्रधानमिति ।


अत्रोच्यते


मानान्तरव्यपेक्षत्वात्संभव्यन्यप्रमाणकः ।

हन्तास्य गोचरो नास्मादपेक्षास्य प्रमान्तरे ॥ २.२५ ॥


यदि पुरुषोऽधिगते विषये वचः प्रयुङ्क्ते इति विनियोगविषयता तस्य कल्प्यते प्रमाणान्तरापेक्षत्वात्, तर्हि संभवत्प्रमाणान्तरोऽस्य विषयः ।

न तु संभवत्प्रमाणान्तरविषयत्वात्पुरुषवचोऽपि सापेक्षम्, सापेक्षत्वनिमित्तत्वात्तद्विधस्य विषयस्य ।


तस्मान्मानान्तराद्गत्वा परस्य प्रतिपत्तये ।

वचः प्रयुङ्क्ते पुरुषो नाकस्मात्तेन तद्गिरि ॥ २.२६ ॥


प्रमाणान्तरसंभेदो व्यपेक्षातो न संभवात् ।


स्वोपलब्धिख्यापनाय पुरुषस्य गीः, ततस्तस्यां प्रमाणान्तरसंभेदः, ’मयोपलब्धोऽयमर्थःऽइत्यर्थः ।

तेन तत्रोपलब्धे संभवासंभवावेवापेक्ष्येयाताम् ।

यत्रोपलब्धेर्निश्चयः ’संभवत्यस्योपलब्धिः, न चानुपलभ्यायं ब्रवीतिऽ इति तत्र प्रामाण्यम्, यथाप्तपुरुषस्य प्रमाणविषये ।

यत्र तूपलब्धेरसंभव एव यथा दृष्टार्थे बुद्धादिवाक्ये, यत्र चानुपलभ्यापि वचनप्रवृत्तिसंभावना, तत्राप्रामाण्यात् ।

न तु प्रमाणान्तरसंभवात्पुरुषवचनेऽपि तदपेक्षा ।


अपौरुषेयता तेन पौरुषेयत्वमेव च ॥ २.२७ ॥


अनपेक्षव्यपेक्षत्वनिमित्ते वर्णिते बुधैः ।

भूतार्थमपि सापेक्षं नातोऽपुरुषबुद्धिजम् ॥ २.२८ ॥


[कुप्पुस्वामी संस्करण ८४] अत एव पौरुषेयत्वापौरुषेयत्वे सापेक्षत्वानपेक्षत्वकारणे न्यायविद्भिर्दशिते पौरुषेयत्वनिराकरणप्रयत्नेन

’ौत्पत्तिकस्तु शब्दस्यार्थेन संबन्धःऽ इति ।

औत्पत्तिके शब्दार्थसम्बन्धेऽस्वातन्त्र्याच्छब्दस्य न पुरुषबुद्धिपूर्वकत्वमिति न प्रमाणान्तरसंभिन्ना शब्दादर्थावगतिरिति निरपेक्षत्वम् ।


ननु प्रमाणान्तरासंभवेऽपि कृत एव यत्नः

’सत्संप्रयोगेऽ इति ।

सत्यम् ।

चोदनैव प्रमाणम्, नान्यत्

इत्यवधारणसिद्धये ।

न तु प्रमाणमेव इति ।


अथ प्रमाणान्तरसंभवेऽपि यदि चोदनाप्रामाण्यं न व्याहन्यते, कोऽर्थः प्रमाणान्तरनिराकरणेन? धर्मतत्त्वज्ञानम् ।

प्रमाणान्तरसंभवे हि सर्वज्ञाभिमतबुद्धाद्युपदिष्टोऽपि धर्मः प्रतीयेत तत्र न धर्मतत्त्वमवधारितं स्यात् ।

तदवधारणार्थश्चायं यत्नः ।

चोदनाप्रामाण्यमपि तदर्थं मृग्यते, नादृष्टाय ।

अथवा तद्विरोधाच्चोदनाया बाधः स्यात्, संशयो वा तुल्यबलत्वे, तेन तस्यासंभवः प्रतिपाद्यते ।

न तु तत्संभवात्सापेक्षतेति ।

ननु तदभावोऽपेक्षणीयः स्यात् ।

कामम् ।

न तु शब्दः प्रमाणान्तरापेक्षमर्थं प्रतिपादयति ।

यतः यदर्थस्य प्रतिपादकम्, न तु तदपेक्ष्यते ।

यदपेक्ष्यते न तदर्थं प्रतिपादयति ।

न हि विरोधिप्रमाणाभावः प्रतिपत्तिहेतुः ।

विरोधसंभवमात्रेण चाप्रामाण्ये प्रत्यक्षादीनामपि तत्स्यात् ।

अपि च विरोधिसंभवादप्रामाण्यं कार्यनिष्ठत्वेऽप्यपरिहार्यम्, कर्तव्यताद्वारेण भूतार्थप्रतिपत्तेरिष्टत्वात् ।

तत्र तु प्रमाणान्तरविरोधिसंभावनात् ।

भूतार्थस्य प्रमाणान्तरविषयत्वात्तेन कार्यनिष्ठता वर्ण्यते ।

प्रमाणान्तरविषयत्वे किलानुवादत्वात्प्रमाणान्तरापेक्षमर्थं प्रतिपादयति

प्रमाणान्तरेणायमधिगतः

इति न स्वातन्त्र्येण ।

कार्यनिष्ठत्वे तु स्वातन्त्र्येण, तस्य प्रमाणान्तरागोचरत्वात् ।

उक्तेन प्रकारेण न सापेक्षत्वमिति ’भूतार्थमपि सापेक्षं नातोऽपुरुषबुद्धिजम्ऽइति सुष्ठूक्तम् ।


अथ संसर्गभाजो नो पदार्थाः क्रियया विना ।

किमायातं विधेः सापि त्वस्त्यादिः सुलभा क्व न ॥ २.२९ ॥

[कुप्पुस्वामी संस्करण ८५] यदि मतम्

आख्यातपदार्थमन्तरेण न नामपदार्थानां संसर्गः ।

क्रिया हि पदार्थसंश्लेषहेतुः तदभावे साकाङ्क्षत्वात् ।

अतः सिद्धोऽर्थो ब्रह्मादिर्न शब्दगोचरः पदस्याविदितसंगतित्वेनानवबोधकत्वात् ।

न वाक्यार्थः तस्य संसर्गात्मकत्वात् ।

क्रियारहितानां च पदार्थानामसंसर्गात् ।

एवमपि क्रियाभ्युपेयताम् ।

तद्द्वारेण च पदार्थसंसर्गसिद्धिराशास्यताम् ।

न विधेः कश्चिदर्थः ।

सापि च क्रिया सर्वत्र सुलभैवाश्रूयमाणाप्यस्त्यादिः ’स्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽपि गम्यतेऽ इति ।

तत्र ब्रह्मस्वरूपप्रतिपत्तिपरं वाक्यमस्त्यर्थनिष्ठम् ।

तन्निबन्धनस्तत्र पदार्थसंश्लेषः ।

सत्तायाश्च प्रकृत्यैव सत्प्रधानत्वात्तद्द्वारेण विशिष्टवस्तुसिद्धिरिति ।


अत्राहुः

न प्रमाणावगम्यताया अन्या काचन सत्ता ।

तथा हि

यत्प्रमाणेनावगम्यते तत्र ’स्तिऽ इति व्यवहारो लौकिकानां विपर्यये ’नास्तिऽ इति ।

न खल्वन्यः सदसद्विभागहेतुर्लक्ष्यते ।

अर्थक्रियाभावाभावौ चेत् ।

न तयोरपि प्रमाणभावाभावाधीनत्वात् ।

तथा हि

कार्येऽपि सद्व्यवहारो यदि कार्यान्तरनिबन्धनः अनवस्था ।

तस्मादन्तेऽपि प्रमाणादेव सद्व्यवहारः तद्विपर्ययाच्चासद्व्यवहारः ।

एवं चेदादावेव प्रमाणाभावाभावनिबन्धनौ सदसद्व्यवहारौ स्ताम् ।

तथा चास्त्यर्थनिष्ठं वाक्यं प्रमाणान्तरापेक्षमेवार्थं बोधयति प्रमाणविषयताया अस्त्यर्थत्वात् ।


अत्रोच्यते


न च मानावगम्यत्वमस्तीति विषयो मतः ।

मानादेव यतो बुद्धिरभूदस्ति भविष्यति ॥ २.३० ॥


धूमादिना मिते हि स्याद्वह्न्यादावियमन्यथा ।

भिद्येतोत्तरकाले वा भवन्ती न खलु त्रिधा ॥ २.३१ ॥

न प्रमाणावगम्यत्वमस्त्यर्थः न ’स्तिऽ इति बुद्धेस्तद्विषयः ।

यतः प्रमाणादेव त्रिधा बुद्धिर्भवति

’धूमादस्त्यत्राग्निःऽ ’नदीपूरविशेषादभूद्वृष्टिःऽ ’मेघोदयविशेषाद्[कुप्पुस्वामी संस्करण ८६] भविष्यति वृष्टिःऽ इति ।

तत्र यदि बुद्धिः प्रमाणविषयतां गोचरयति प्रमिते हि स्यात्न प्रमाणादेव ।

न हि प्राक्प्रमाणोत्पत्तेः सन् प्रमाणसंबन्धः ।

प्रमाणसंबन्धनिबन्धना चेयं बुद्धिः ।

अथ वैयात्यादुत्तरकालतामेवास्या ब्रूयात् ।

त्रैविध्यमनुपपन्नम्, प्रमाणसंबन्धस्याभेदाद्भिन्नकालेष्वप्यर्थेषु ।


स्वसंबन्धितया मानमथ वस्त्वधिगच्छति ।

तथापि नैव भिद्येत नेत्थं चान्यव्यपेक्षता ॥ २.३२ ॥

अथ मतम्

आत्मसंबन्धितयैव प्रमाणेनार्थोऽवगम्यते ।

अतो न ’स्तिऽइति बुद्धेरुत्तरकालता प्रमाणसंबन्धविषयाया अपि, स्वात्मसंबन्धितयैवार्थस्य प्रतीतेः ।

एवमप्यस्तीत्येव सर्वत्र स्यात् ।

न त्रैविध्यम्, सर्वस्य प्रमितौ प्रमाणसंबन्धस्य वर्तमानत्वात् ।

न चेत्थं प्रमाणान्तरव्यपेक्षत्वमस्त्यर्थनिष्ठे वचसि तत्प्रमाणसंबन्धस्यैवास्त्यर्थत्वात् ।


अन्यमानावगम्यत्वमथ लिङ्गात्त्रिधेष्यते ।

स्याल्लिङ्गमपि सापेक्षं तत्सिद्धेस्तत एव चेत् ॥ २.३३ ॥


नैरपेक्ष्यं यदि न तद्वेदे दण्डैर्निवार्यते ।


अथ मतम्

प्रमाणान्तरगम्यतैव लिङ्गेनाधिगम्यते ।

तेन नोत्तरकालता ।

तच्च प्रमाणं त्रिकालमिति त्रैविध्यम् ।

किं पुनस्तत्? प्रत्यक्षम् ।

तथा हि

भूतायां दृष्टौ कस्यचिद्भूतं प्रत्यक्षम्, भविष्यन्त्यां भविष्यत्, वर्तमानेऽग्नौ वर्तमानमिति ।

एतच्च वार्तम्, नित्यानुमेये तस्याभावात् ।

अपि च लिङ्गमप्येवं प्रमाणान्तरापेक्षत्वादप्रमाणं स्यात् ।

अथ लिङ्गादेव प्रमाणान्तरसद्भावस्य सिद्धेर्निरपेक्षत्वम् ।

तथा हि

प्रमाणान्तरसद्भाव एवेदानीं लिङ्गं प्रमाणम् ।

न च तत्रान्यदपेक्ष्यते ।

प्रमाणसद्भावद्वारा प्रमेयसिद्धिरिति ।

[कुप्पुस्वामी संस्करण ८७] नायं विधिर्वेदे दण्डवारितः ।

वैदिकमपि वचोऽस्त्यर्थनिष्ठं विशिष्टार्थप्रमाणसद्भाव एव प्रमाणम् ।

तत्र निरपेक्षम् ।

तत्प्रमाणद्वारा च विशिष्टार्थसिद्धिरिति समानम् ।


तत्संभवोऽलौकिकार्थे (लैङ्गिकेऽर्थे एदितिओन्) बुद्धवाक्यार्थवन्न तु ॥ २.३४ ॥


अत्रेति साक्षात्करणाभ्युपायादसमञ्जसम् ।


स्यान्मतम्

युक्तं लिङ्गस्य प्रामाण्यमेवम्, अर्थे तस्य प्रमाणान्तरस्य संभवात् ।

संभवति हि वृष्ट्यादिषु प्रमाणान्तरम् ।

ततस्तद्द्वारार्थगतिः ।

न तु सर्वविशेषातीते ब्रह्मण्याम्नायैकनिबन्धनेऽभ्युपगम्यते ।

तत्र यथैव बुद्धादिवाक्यानाम् ’ेवमयं पुरुषो वेदऽ इति ज्ञाननिष्ठानामतीन्द्रियार्थे ज्ञानस्यासंभवान्नार्थे प्रामाण्यमतीन्द्रियार्थोपदेशिनाम्, तथात्रापि स्यात् ।

संभविप्रमाणविषयाप्तवचनवत्तु लिङ्गस्य प्रमाणनिष्ठत्वेऽपि युज्यते प्रामाण्यम् ।

तदसत्, ब्रह्मण्यपि साक्षात्करणस्याभ्युपगमादविद्यासंहारे ।

अविद्यावतां तु तदाम्नायैकनिबन्धनमुच्यते ।

अपि च


मेयत्वमेव सत्ता चेन्माने त्रिविधता कुतः ॥ २.३५ ॥


तत्संबन्धादतो नार्थे त्रैविध्यमवकल्पते ।


यदि च लिङ्गेन प्रमाणमेव मीयते, मीयमानतैव च सत्ता, तत्र प्रमीयमाणत्वात्प्रमाणं सर्वं सदेव ।

सच्च वर्तमानमित्युच्यते ।

तत्र वर्तमानत्वात्प्रमाणस्य सर्वत्रार्थे ’स्तिऽ इत्येव स्यात् ।

न प्रमाणत्रैविध्यादर्थे त्रैविध्यम्, मीयमानस्य सत्त्वात्सतश्च वर्तमानत्वादिति ।


अपि च इदमयं प्रष्टव्यः

किं वर्तमानप्रमाणयोगः प्रमाणसंबन्धः सत्ता, तद्विपर्ययोऽसत्ता, आहोस्वित्प्रमाणयोगमात्रमनाश्रितकालविशेषम्? तत्र


वर्तमानप्रमायोगः सत्तासत्ता विपर्ययः ॥ २.३६ ॥


मते यदि ततः प्राप्तमसत्त्वं स्मृतिगोचरे ।


[कुप्पुस्वामी संस्करण ८८] न स्मर्यमाणस्य वर्तमानप्रमाणसंबन्धः ।

ननु स्मर्यमाणे विनाशसंभवान्नैव ’स्तिऽ इति व्यवहारः ।

सत्यम् ।

’नास्तिऽ इत्यपि नास्ति ।

यदि वर्तमानप्रमाणयोगः सत्ता तद्विपर्ययोऽसत्ता, ’नास्तिऽ इत्येव स्यात्न च ’स्तिऽ इति ।

तस्मादन्ये सदसत्त्वे ।


प्रमाणयोगमात्रं चेत्सत्तासत्ता विपर्ययः ॥ २.३७ ॥


प्राप्ता प्रमितनष्टेन घटेन मधुधारणा ।

प्रमिते च न जिज्ञासा पुनः स्यात्सदसत्त्वयोः ॥ २.३८ ॥

अनाश्रितकालविशेषे प्रमाणयोगमात्रे सत्त्वे प्रमितनष्टमपि वस्तु सदिति तेनार्थक्रियाप्रसङ्गेऽनष्टेनेव, सत्त्वाविशेषात् ।

नष्टानष्टयोर्विशेषान्नैवमिति चेत्, स एव तर्हि विशेषः सदसद्व्यवहारव्यवस्थाया हेतुः कार्यव्यवस्थाया इव, न प्रमाणयोगः ।


तदनुसारिण्येवैषा दृश्यते लोके ।

न खलु प्रमितनष्टं ’सत्ऽइत्युपचरति लोकः ।

किं च प्रमितेऽर्थे सदसत्त्वे जिज्ञासेरन्न पुनर्लौकिकाः, सिद्धत्वात्प्रमाणयोगमात्रस्य तल्लक्षणत्वाच्च सत्त्वस्य ।


अथ प्रमाणयोग्यत्वं सत्ता (ंस्साB॑ सत्त्वं एदितिओन्) नष्टाच्च तच्च्युतम् ।

स्मर्यमाणे प्रचलितं क्वचिदित्यप्यसुन्दरम् ॥ २.३९ ॥


अथ मतम्

न वर्तमानप्रमाणयोगः सत्ता, नानाश्रितकालं तद्योगमात्रम् ।

अपि तु प्रमाणं प्रति योग्यता ।

सा च नष्टाच्च्युतेति न तस्य सत्त्वप्रसङ्गः ।

स्मर्यमाणे तु कुतश्चिच्च्युता कुतश्चिन्नेति न सर्वस्यासत्त्वमिति ।

एतदपि न सुन्दरम्, अभ्युपगतहानात् ।

तथा हि

इत्थमर्थस्वभाव एव सत्ता वर्णिता भवति ।

प्रमाणयोग्योऽर्थस्वभावः सत्ता, अर्थस्वभावनिबन्धन एव सदसद्व्यवहारविभागः, न प्रमाणतदभावोपाधिः ।

तस्य त्वेष कथनोपायः, न प्रमाणसंस्पर्शः, यथा ’नीलाकारज्ञानयोग्योऽर्थो नीलःऽइत्याख्यातेऽपि न नीलशब्दो नीलज्ञानोपाधिः ।

तथा च सोऽस्तिशब्देनाभिधीयत इत्यर्थस्वभावनिष्ठम् [कुप्पुस्वामी संस्करण ८९] अस्त्यर्थप्रधानं वाक्यमिति कुतः सापेक्षत्वम्? प्रमाणस्यासंस्पर्शात् ।


स्यादेतत्

भिन्ना एवार्थस्वभावाः प्रमाणं प्रति योग्याः सच्छब्दवाच्याः सन्तु, नैका सत्ता ।

मा भूत्, नैतत्साध्यम् ।

सर्वथार्थस्वभावाभिधाय्यस्तिशब्दो न प्रमाणयोगनिमित्त इति ।

प्रमाणसंस्पर्शे हि सापेक्षता स्यात् ।

अनेकता तु न कञ्चिद्दोषमावहति ।

अपि च यदि तस्यानेकत्वम्, कथमभिन्नशब्दप्रवृत्तिः? तथा हि

भिन्नेष्वभिन्नं विशेषणमुपलक्षणं वाश्रित्यैकः शब्दो वर्तेत, भिन्ननिमित्तो वा साधारणशब्दः स्यादक्षादिवत् ।

तत्र न तावदनन्तार्थस्वभावेषु साधारणत्वमुपपद्यते, संबन्धग्रहणसामर्थ्यात् ।

परिमितजातिविषया ह्यक्षादिशब्दाः परिमितोपलक्षणलक्षिता वा स्युः ।

स्यादेतत्

द्रव्यत्वादिसामान्यत्रयोपलक्षितानामर्थानां सच्छब्दः साधारण इति ।

तन्न ।

यो हि सत्तामवजानीते स द्रव्यत्वादीन्यप्यवजानीत एव ।

न किल तेजो दृष्टवतोऽप्सु तदवमर्शो भवति ।

अपि च सामान्यविशेषसमवाया अपि सन्त एव ।

न तेष्वौपचारिकः सच्छब्दः प्रत्ययस्यावैलक्षण्यात् ।

न च सामान्याद्विनोपचारः ।

सति वा सामान्ये तदेव सच्छब्दार्थः ।

तदेव च सत्ता, तुल्यत्वात्प्रत्ययस्य ।

अथ मतम्

सर्वप्रवादेषु सर्वपदार्थाः परिमितैः कैश्चिद्धर्मैरुपसंगृहीताः ।

तदुपलक्षणानामनन्तानामप्यर्थानां ’सत्ऽ इति साधारणः शब्दः ।

तदयुक्तम् ।

संग्रहो हि नैकमन्तरेण ।

तत्र यदि सच्छब्दार्थतया (सच्छब्दतायां एदितिओन्) संग्रहः ’ेतावत्प्रभेदः सच्छब्दार्थःऽइति, नार्थान्तरनिवृत्तिः स्यात् ।

तत्र न सर्वार्थसंग्रहः स्यात्, यथा ’नवविधो गोशब्दार्थःऽइति नान्येषामभाव एव ।

तत्र न प्रवादेभ्यः काचिदर्थतत्त्वावगतिः स्यात् ।

ननु न प्रवादानामर्थवत्ता साध्या ।

न ब्रूमः प्रवादानामर्थवत्ता साध्येति ।

किं तु प्रतिपद्यन्ते प्रवादिनः कञ्चिदर्थस्वभावमेकम्, यस्यायं ’पञ्च, षट्ऽइत्यादि प्रभेदसंग्रहः ।

यतो नैकमन्तरेणोपसंग्राहकमवान्तरसंख्यानां निवेशः ।

अथैतावान् प्रमाणयोग्योऽर्थक्रियासामर्थ्यो वेति प्रमाणयोग्यत्वेऽर्थक्रियासामर्थ्ये वा संग्रहः, ताभ्यामेव सच्छब्दार्थ उपलक्ष्यताम्, व्यर्थः परिमितधर्मोपन्यासः ।

तत्र सामान्यशब्दतैव स्यात्, न साधारणशब्दता ।

भिन्ननिमित्तत्वे चाक्षादिशब्देभ्य इव [कुप्पुस्वामी संस्करण ९०] निमित्तभेदात्संशयः स्यात्, न विशेषप्रतीतिः ।

न हि ’सन् घटःऽ इति निमित्तभेदेषु प्रतिपत्तारः संशेरते ।

यथैव ’शुक्लः पटःऽइति निराकाङ्क्षः, तथा ’सन् घटःऽ इत्यपि ।

यस्तु द्रव्यं गुणः कर्म रूपं विज्ञानमिति वा संशयः, न स लौकिकानाम् ।

लौकिकास्त्वभिन्नमेव निमित्तं प्रतिपद्यन्ते ।

अर्थाच्च संदेहः, न शब्दात् ।

कुतः? विशेषप्रतीतिमन्तरेणापि प्रतिपत्तुर्नैराकाङ्क्ष्यात् ।

यत्र ह्यर्थसामर्थ्येन संशयः, यथा ’वृक्षश्छिद्यताम्ऽ इति परशुकुठारादिषु, तत्रान्यतरविशेषानवगमेऽपि नैराकाङ्क्षम्, यस्य कस्यचिदुपादानात्, अन्यथानवस्थानात् ।

यत्र तु शब्दात्, तत्र विशेषावगमहेतोर्विना साकाङ्क्षत्वमेव ।

तदेवं न नानानिमित्तः साधारणशब्दः ।

विशेषणमप्येकं प्रमाणं स्यात् ।

तच्च प्रागपि ततः सच्छब्दानुविद्धबुद्ध्युत्पादादनुपपन्नमित्युक्तम्

’मानादेव यतो बुद्धिःऽ इति प्रपञ्चेन ।

अपि च कार्यादपि वृत्तमेव प्रमाणमवसीयते ।

तत्र कुतस्तद्विशिष्टता ।

न खल्वर्थोऽसन्निहितविशेषगुणो विशिष्टो भवति ।

न च निश्चिते विशेषणाभावे विशिष्टाभिधानानुविद्धः संशयो भवति दण्डाभावनिश्चय इव ’दण्डी न वाऽ इति ।

भवति च शून्यनगरादिषु चिरनिखातनिधिषु प्रमाणाभावनिश्चयेऽपि ’सन्ति नऽइति संशयः ।

तस्मादन्यः प्रमाणयोगात्सदर्थः, यत्रैष संशयः ।

नाप्युपलक्षणं प्रमाणम्, प्रमितध्वस्तेषु सच्छब्दाप्रयोगात्स्मर्यमाणे च सच्छब्दानुविद्धात्संदेहात् ।


वृत्तप्रमाणसंबन्धस्य प्रमाणोपलक्षितत्वात्सत्त्वमेव स्यात्, नासत्त्वम्, न संशयः ।

योऽप्यर्थक्रियया सच्छब्दार्थं विशिनष्टि उपलक्षयति वा, तस्यापि प्राक्कार्यदर्शनान्न सच्छब्दयोगः स्यात् ।

अथ प्रमाणजननमेवार्थक्रियां ब्रूयात्, प्रमाणादेवास्तिबुद्धिर्न स्यात् ।

अथ वैकल्पिकीयं प्रमाणोत्तरकालतेति मतम्, लिङ्गान्न स्यात् ।

अथ निर्ज्ञातकार्यसंबन्धमेव लिङ्गेनानुगम्यते, एवं तर्हि प्रमेयाभावः ।

तथा हि

कार्यवत्ता ह्यस्त्यर्थः, सा चाधिगतैव ।

कार्यवत्तयैव कार्यवत्तावगम्यत इत्यचतुरस्रम् ।

कार्यकारणयोश्च यौगपद्याभावाद्विशिष्टतानुपपत्तिः ।

अथोपलक्षणम्, अतीतस्यापि [कुप्पुस्वामी संस्करण ९१] सत्त्वप्रसङ्गः ।

स्मर्यमाणे च संशयो न स्यादित्युक्तम् ।

तस्माद्यथैव नीलादिशब्दार्थोऽर्थस्वभावः, न कार्यलक्ष्यः, न प्रमाणलक्ष्यः, अनवस्थानात् ।

स्वरूपव्यवस्थस्तु यथाप्रमाणमवसीयते ।

तथा सदर्थस्वभावोऽपीति युक्तम् ।

कार्यप्रमाणसदसद्भावनिबन्धने हि सदसद्व्यवहारविभागे तस्याप्रवृत्तिरेव कार्यप्रमाणसदसद्व्यवहारविभागस्यापि तन्निबन्धत्वप्रसङ्गात्, अनवस्थानात् ।

तस्मादर्थस्वभाव एका सत्तेति (॰स्वभाव एकः सत्तेति एदितिओन्) ब्रह्मविदो मन्यन्ते ।


अथ मतम्

नार्थस्वभावो योग्यता, प्रमाणहेतुसद्भावस्तु ।

न चासतां प्रमाणहेतवः सन्तीति ।

तदयुक्तम्


भूमौ निखातं निर्लिङ्गमवेद्यानुपपन्नकम् ।

नष्टद्रष्टृकमत्येति यत्सर्वमितियोग्यताम् ॥ २.४० ॥


भूमौ निखातमविद्यमानेन्द्रियसंबन्धमदृश्यमानाविनाभूतमसंवेद्यमानान्यथानवकल्पमानं वस्तु प्रलीनद्रष्टृकं यत्तस्य न प्रत्यक्षानुमानार्थापत्त्यागमहेतवः सन्ति ।

सादृश्यविषयं ह्युपमानम्, तस्य हेतुर्दूरापेत एव ।

सर्वप्रमाणयोग्यतामतिक्रामति, न च तदसत् ।

ननु सत्त्वमप्यस्य कथम्? एवमपि संशयः ।

तत्र प्रमाणहेतुभावलक्षणयोग्यतारूपे सत्त्वे प्रमाणहेत्वभावस्य निश्चयात्संशयो न स्यात् ।

अथ स्वभावविशेषः कश्चित्प्रमाणं प्रति योग्यः सत्त्वम्, प्रकृतहानादसुन्दरमित्युक्तम् ।

अथ वा प्रमाणविशिष्टः सच्छब्दार्थ इत्येतदनेन निराक्रियते ।

न निश्चिते विशेषणाभावे विशिष्टाभिधायिशब्दानुविद्धः संशयो युक्त इति ।


अपि चाभावस्यापि प्रमेयत्वान्न प्रमाणयोग्यता सत्तालक्षणम् ।

तथा हि


असत्प्रमेयं च तथा यथैव स्थापयत्ययम् ।

अमितं हि तथा कस्मात्तथा न पुनरन्यथा ॥ २.४१ ॥

अवश्यं खल्वनेन सदसद्व्यवहारविभागमिच्छता असत्कथञ्चिद्व्यवस्थाप्यम्, अन्यथा व्यवहारसंकरात् ।

तत्र यदि प्रमाणस्याविषयः, यदि [कुप्पुस्वामी संस्करण ९२] सर्वशक्तिविरहो वासद्बुद्धेर्विषयः ।

सर्वथा तथा प्रमेयम् ।

अपरिच्छिन्नं हि तथा प्रमाणेन किमिति तद्विधम्, न पुनरन्यथा स्यात्? न चेत्तस्य तथाभावेऽतथाभावे वा प्रमाणव्यापारः किंनिमित्त एकपक्षानुरागः?


अपि च


अमित्वा कण्टकाभावं चरणं न्यस्यते कथम् ।

नान्यग्रहात्तस्य भावे पुरस्ताच्च प्रसङ्गतः ॥ २.४२ ॥


जिज्ञासा न प्रवर्तेत यदि संवित्त्यभावतः ।


’दृष्टिपूतं पदं न्यसेत्ऽ इति कीटकण्टकाद्यभावेऽप्रमिते कथं तन्न्यासः? तथा हि

कीटकण्टकाद्यर्थान्तरभूतलादिपरिच्छेदात्स स्यात्, कीटाद्यपरिच्छेदात्, अभावपरिच्छेदाद्वा ।

तत्र न तावदर्थान्तरपरिच्छेदात्, कण्टकादिभावेऽपि प्रसङ्गात् ।

तत्रापि वस्त्वन्तरपरिच्छेदस्य सत्त्वात् ।

प्रागपि च भूभागपरिच्छेदात्प्रसज्येत, यस्य कस्यचिद्वस्त्वन्तरस्य परिच्छित्तेर्विद्यमानत्वात् ।

अथ कीटकण्टकाद्यपरिच्छेदात्, न तद्भावाभावजिज्ञासा स्यात् ।

जिज्ञासापूर्वमपि ( जिज्ञासापूर्वकादपि एदितिओन्) प्रयत्नात्तदपरिच्छेदमात्रमेव प्राप्यते यस्याभावो न प्रमेयः ।

तच्च प्रागपि ततोऽस्ति ।

अभावे तु प्रमेयेऽभावनिश्चयाय जिज्ञासा युज्यते ।

न चापरिच्छेद एव जिज्ञास्यः, स्वतः सिद्धत्वात् ।

परिच्छेदेन हि स निवर्त्यते ।

अप्रमेयत्वाच्च सोऽपि खल्वभाव इत्यप्रमेयः ।


अथ मतम्

सत्सूपलम्भहेतुषु प्रमाणविषयस्यापरिच्छेदात्प्रवृत्तिः ।

तदसत्


प्रमाणविषयत्वस्य नोपयोगोऽत्र दृश्यते ॥ २.४३ ॥


असद्बोधेऽनन्यहेतुभानेन ह्युपयुज्यते ।


अपरिच्छेदाच्चेत्प्रवृत्तिर्न प्रमाणविषयत्वस्योपयोगः, इतरत्राप्यपरिच्छेदस्य तुल्यत्वात्ततश्च प्रवृत्तेः ।

यस्य स्वभावः प्रमेयः, तत्परिच्छेदात्प्रवृत्तिः, [कुप्पुस्वामी संस्करण ९३] तस्यानन्यनिमित्तत्वेनोपयोगवत्प्रमाणविषयत्वम् ।

नायमपरिच्छेदः सत्येवार्थे हेतुवैकल्यनिमित्तः, समग्रत्वात्तद्धेतूनाम् ।

तस्मादर्थाभावादिति ।


अथ यत्र प्रवृत्तिः स्यात्तत्र केवलसंविदः ॥ २.४४ ॥


जिज्ञासेत न सूक्ष्मार्थं कैवल्यं संविदो यदि ।

केवलो विषयो नेष्टो रूपोन्मिश्रेऽपि तद्यतः ॥ २.४५ ॥


विशिष्टस्य च नास्त्यन्यदन्याभावाद्विशेषणम् ।


यदि मतम्

यत्र भूभागादौ चरणन्यासादिलक्षणा प्रवृत्तिः, तस्य केवलस्य सा ज्ञानादिति ।

तत्रापि संप्रधार्यम्

किमिदं ज्ञानस्य कैवल्यमभिसंहितमेकविषयप्रतिनियमो विषयान्तरासंसर्गः, आहोस्विद्विषयस्य ।

यदि विज्ञानस्य, प्रमितेऽपि भूभागादौ स्थूले सूक्ष्मकीटकण्टकादिभावाभावपरीक्षा न स्यात् ।

प्रवर्तेतैव, केवलभूतलावग्रहज्ञानात् ।

अथ विषयस्य, तत्रापि संप्रधार्यम्

स्वरूपेण वा विषयस्य कैवल्यम्, विशेषणयोगेन वा ।

तत्र न तावत्स्वरूपेण, मिश्रेऽपि तस्य भावात् ।

विशेषणयोगेन कैवल्ये प्राप्ता कीटकण्टकाद्यभावविशिष्टपरिच्छेदात्पदन्यासादिलक्षणा प्रवृत्तिः ।

यतो नान्याभावाद्विशेषणमन्यादृशं किञ्चिद्दृश्यते, यद्विशेषणं वस्तु केवलं स्यादिति ।


नास्तीति धीव्यवहृती विषयं कमुपाश्रिते ॥ २.४६ ॥


मानाभावं यदि क्षुण्णं मेयाभावस्य तत्र किम् ।


अपि चानेन ’नास्तिऽइति बुद्धिशब्दयोर्विषयो वाच्यः ।

स न वस्तुस्वरूपेण, मिश्रेऽपि प्रसङ्गात् ।

न केवलम्, अभावादन्यस्य विशेषणस्याभावादित्युक्तम् ।

ननु ’नास्तिऽइत्ययमर्थः ’नेदं प्रमीयतेऽ इति, न पुनरभावोऽवगम्यते ।

विरुद्धमिदम्

नास्त्यवगम्यते चेति ।

यद्येवं प्रमाणाभावो विषय उक्तः स्यात्’नास्तिऽ इति धीशब्दयोः, तत्र कोऽपराधः स्यात्प्रमेयाभावस्य, येन [कुप्पुस्वामी संस्करण ९४] तमतिलङ्घ्य प्रमाणाभावो विषय उच्यते? न हि तयोर्निरुपाख्यत्वे कश्चिद्विशेषः ।


अथ मतम्


अग्रहेऽसद्ग्रहभ्रान्तिरभावव्यवहृद्भ्रमः ॥ २.४७ ॥


अभावे च व्यवहृतेरदृष्टौ ध्वान्तदृष्टिवत् ।


नैव स्तां ’नास्तिऽ इति बुद्धिव्यवहारौ ।

कथमिमौ सर्वजनानां प्रतीतावपह्नूयेते? उच्यते

भ्रमोऽयं सद्बुद्ध्यभावे तद्विपर्ययपरिच्छेद इति ।

तथा सद्व्यवहाराभावे तद्विपर्ययव्यवहारभ्रमः यथालोकदर्शनाभावे ’तमः पश्यामिऽइति विभ्रमः ।

न हि तमो नाम किञ्चिद्दृश्यमस्ति ।


नैतत्सारम्


इत्थं भवेत्सुषुप्तादौ त्रैलोक्याभावदृग्भ्रमः ॥ २.४८ ॥


अपरिच्छिन्दतः किञ्चिद्विभ्रमश्च न युज्यते ।

आरोपविषयारोप्ये नाजानन् रजतभ्रमी ॥ २.४९ ॥


नाभावभिन्ना व्यवहृत्तदभावश्च धीपदे ।

तमोदृष्टिस्तु भूच्छायामालोकाभावमेव वा ॥ २.५० ॥


आलम्बते न त्वदृष्टाविष्टो दर्शनविभ्रमः ।


यदि खल्वदर्शने विपर्ययदर्शनभ्रमो भवति सुषुप्ताद्यवस्थासु विश्वाभावदर्शनभ्रमः स्यादालोकादर्शनभ्रमवत् ।

न च किञ्चिदपरिच्छिन्दतो विभ्रमः ।

तथा हि

आरोपस्य विषयं पुरोवर्ति वस्तु आरोपणीयं च रजतं ज्ञानेनानाप्नुवन्न रजतभ्रमवान् भवति ।

अन्यथाप्रतिपत्तिः, स्मृतिः, सामान्यप्रतिपत्तिर्वा ।

न च बुद्ध्यभावो ज्ञानस्य विषयो न व्यवहाराभावः, नाभावबुद्धिर्नाभावव्यवहारः, विशेषणस्याभावस्य ज्ञानाविषयत्वात् ।

तत्रोभयोर्विषयारोपणीययोरग्रहणे न मिथ्याज्ञानमिति ।


अभ्युपगम्य प्रमाणयोग्यतां सत्तां दोषाभाव उच्यते


[कुप्पुस्वामी संस्करण ९५] अस्तु वा मानयोग्यत्वं सत्त्वं तच्च प्रमीयताम् ॥ २.५१ ॥


तस्मिन्मिते वस्तुसत्त्वं भवत्यागमगोचरे ।

न च सापेक्षता नास्मिन्नन्तरार्थविभिन्नताम् ॥ २.५२ ॥


प्रचक्षते येऽपि सत्तामन्यां न प्रतिजानते ।


भवतु वा प्रमाणयोग्यता सत्ता ।

सैव च प्रमेयास्तु ।

तत्प्रमेयं वस्तुसत्त्वमागमार्थः ।

न च प्रमाणान्तरापेक्षता दोषः, प्रमाणान्तरसंभेदस्याभावात् ।

’प्रमाणयोग्यःऽइत्येतावन्मात्राधिगतेः ।

तथा हि

येऽपि प्रमाणयोग्यतां सत्तामाहुर्न तद्व्यतिरेकिणीम्, तेऽपि नात्रान्तरार्थसंस्पर्शमिच्छन्ति ।

तत्संस्पर्शे ह्यन्यत्प्रमाणमन्वेष्यं स्यात् ।

कथं नान्वेष्यम्? यदा वचः प्रमाणयोग्यतायां पर्यवसितं न विशिष्टार्थसत्त्वं बोधयति, तत्र यस्य प्रमाणस्य योग्यो विशिष्टोऽर्थस्तदवश्यापेक्षणीयम् ।

किमर्थं तदपेक्ष्यते? विशिष्टवस्तुसत्त्वाधिगमाय ।

कं पुनर्विशिष्टस्य वस्तुनः सत्त्वम्? प्रमाणयोग्यत्वम् ।

अधिगतमेव तर्हि तदस्त्यर्थनिष्ठाद्वचनात्, प्रमाणयोग्यताया अस्त्यर्थत्वात् ।


प्रमाणान्तरसंभेदाभ्युपगमेऽपि नाप्रामाण्यप्रसङ्गदोष इति दर्शयति


प्रमाणान्तरभिन्नार्थमपि मानं न नो वचः ॥ २.५३ ॥


निरपेक्षमिहार्थे तु प्रमितं वस्त्विदं मया ।

अर्थमात्रे च सापेक्षमन्यापेक्षार्थबोधनात् ॥ २.५४ ॥


अबाधितमपि त्वर्थे प्रमाणांशेऽपबाधनात् ।

तत्राप्रमाणतामेति बुद्धानाप्तवचो यथा ॥ २.५५ ॥


न खलु प्रमाणान्तरसंभिन्नार्थमपि वचो न प्रमाणम्, प्रमाणमेव ह्याप्तवाक्यम् ।

कथं पुनः प्रमाणं सापेक्षमिति चेत्, उच्यते

निरपेक्षमेव तत्’प्रमितोऽयं मयार्थःऽइत्यस्मिन्नर्थे ।

केवले ह्यर्थे ’ेवमयमर्थःऽइत्यप्रतीतेः ’ेवमयं पुरुषो वेदऽइति च प्रतीतेः पुरुषज्ञानापेक्षम् ।

तत्रोपलब्धौ तावदनपेक्षत्वात्प्रामाण्यमश्नुते तत्सिद्धिद्वारश्च पश्चादर्थ इति ।

कथं तर्हि पुरुषवचः किञ्चिदबाधितार्थमपि सापेक्षत्वेनाप्रमाणं कथ्यते? उच्यते

यद्यप्यर्थे बाधो नास्ति, यदपेक्षं त्वस्यार्थे प्रामाण्यं यत्सिद्धिमुखेन तं साधयति तत्र प्रमाणांशे बाध्यते ।

तस्यासिद्धेस्तद्द्वारेण नार्थसिद्धिरित्यर्थेऽप्रमाणम्, यथातीन्द्रियार्थे बुद्धवचः पुरुषस्य दर्शनासंभवात् ।

यथोक्तम्

’पुरुषाशक्तितस्तत्र सापवादत्वसंभवःऽ ।

इति ।

यथा च विप्रलम्भकवाक्यम्, अयथादृष्टार्थवादित्वस्य प्रमाणावगतत्वात् ।


आप्तवाक्यं पुनर्नार्थे न मानांशेऽपबाधितम् ।

निरपेक्षं प्रमाणांशे व्यवहारोऽन्यथा कथम् ॥ २.५६ ॥


आप्तवचः पुनर्नार्थे नापि प्रमाणांशे संभवत्प्रमाणगोचरं बाध्यते ।

प्रमाणांशे चानपेक्षं तन्मुखेन चार्थसिद्धिं विदधन्नाप्रमाणं भवितुमर्हति ।

अन्यथा शब्दनिबन्धनो व्यवहारो न स्यात् ।


मयेति वक्त्रभावेन संभेदरहितं ततः ।

प्रलीनज्ञानविज्ञेयविभागं स्वात्मवेदनम् ॥ २.५७ ॥


[कुप्पुस्वामी संस्करण ९६] प्रवेदयन्तु वेदान्ता मानान्तरमलौकिकम् ।

तत्सिद्धिसिद्धतार्थस्य पुंवचोवद्भविष्यति ॥ २.५८ ॥


एवं च प्रमाणान्तरसंभिन्नार्थत्वेऽपि वेदान्तवचसां न प्रामाण्यव्याहतिः, आप्तवाक्यवत् ।

तथा हि

तान्यपि ज्ञानज्ञेयविभागविकलं स्वप्रकाशरूपमलौकिकं काममवगमयन्तु प्रमाणान्तरम्, तद्द्वारा चार्थसिद्धिराप्तवचनवत् ।

इयांस्तु विशेषः स्यात्

वेदे वक्तुरभावात्’मयाऽइति संस्पर्शो न स्यात् ।


अभ्युपगमवादं परिसमाप्य प्रकृतमुपसंहरति

एवं न मेयता सत्ता

परः पुनः प्रत्यवतिष्ठते

नन्वन्यापि न युज्यते ।


[कुप्पुस्वामी संस्करण ९७] न हि पूर्वावमर्शेन विना सामान्यकल्पना ॥ २.५९ ॥


गामेकामीक्षितवतो जायतेऽन्यत्र यादृशः ।

अवमर्शो दृष्टसतस्तथा न हि सदन्तरे ॥ २.६० ॥


एकशब्दप्रवृत्तिस्तु दण्ड्यादिवदुपेयताम् ।


दृष्टरूपावमर्शः सामान्यकल्पनायां प्रमाणम् ।

यथा

बाहुलेयं दृष्टवतः शाबलेये ’स एवायम्ऽ इति ।

न च किञ्चित्सद्गृहीतवतोऽन्यत्र स भवति ।

एकशब्दप्रवृत्तिस्तु विनापि सामान्येनार्थान्तरयोगनिमित्ता, दण्डिपाचकादिशब्दवत् ।

अत्रोच्यते


को नु पूर्वावमर्शोऽयं पूर्वरूपान्वयो धियः ॥ २.६१ ॥


सदन्तरेऽपि सोऽस्त्येव कयाचित्खलु मात्रया ।

सर्वात्मना त्वनुगमो न दृष्टः खण्डमुण्डयोः ॥ २.६२ ॥


न तादृशश्चेन्नो भेदमात्राद्वेद्यः स्वपह्नवः ।

न भेदमात्रान्मृज्जातिहीनं मणिकमल्लकम् ॥ २.६३ ॥


रूपान्वयः प्रत्ययस्य मणिकेषु हि यादृशः ।

न दृष्टमल्लकस्यास्ति मणिके खलु तादृशः ॥ २.६४ ॥


कः पुनरयं पूर्वावमर्शः

पूर्वरूपावभासो बुद्धेः, अथ ’सोऽयम्ऽ इति पूवार्परानुसन्धानम् ।

तत्र यदि पूर्वः कल्पः, सोऽस्त्येव सदन्तरे मात्रया ।

तथा हि

निरुपाख्यवैलक्षण्येन सतां तुल्यरूपता प्रकाशते ।

अन्यथा निरुपाख्यवत्सन्तोऽप्यत्यन्तविलक्षणाः प्रकाशेरन् ।

अथ सर्वरूपानुगमः, सोऽभिप्रेतेऽपि सामान्यगोचरे नास्ति ।

न हि खण्डमुण्डयोः सर्वात्मनान्वयः, एकत्वप्रसङ्गात्सामान्याभावापत्तेः ।

अथ न तादृशो यादृशः खण्डादिषु ।

तदसत् ।

न विशेषमात्रेण संवेद्यान्वयिरूपप्रत्याख्यानं युज्यते, गोत्वादेरपि तत्संभवात् ।

न हि देवदत्तस्य द्वितीयदर्शने यादृशो रूपानुगमः, [कुप्पुस्वामी संस्करण ९८] तादृशः खण्डं दृष्टवतो मुण्डदर्शने ।

सामान्यगोचरेऽपि च न सर्वत्र तुल्यः ।

नानामणिकविलक्षणो हि मणिकशराबयो रूपान्वयः ।

न च तावता मृज्जातिहीनता तयोः, किञ्चित्तुल्यतयावभासमानत्वात् ।


अथ द्वितीयः कल्पः, अत्रोच्यते


पूर्वावमर्शः स इति प्रख्येत्यपि न शोभते ।

मणिकं वीक्षितवतः सोऽपि नोदेति मल्लके ॥ २.६५ ॥


पूर्वापरानुसन्धानात्मिका ’सोऽयम्ऽइत्यभेदमवगमयन्ती भिन्नेष्वपि सामान्यकल्पनाहेतुर्बुद्धिः पूर्वावमर्श इत्युच्यत इत्येतदपि न शोभते ।

यतो नानुसन्धानादेवाभेदसिद्धिः ।

अभिन्नरूपावभासादपि ।

अन्यथा नाभिन्नदेशकाल एकोऽर्थः स्यात् ।

न हि तत्र देशकालभेदाभावे ’सःऽ इत्यनुसन्धानम् ।

अपि च दृष्टमणिकस्य मल्लके न भवति द्रागिव ’सःऽइत्यनुसन्धानं खण्डमुण्डवत् ।

न चैवं मृज्जातिहीनता ।

विमृशतस्तु ’तज्जातीयमिदम्ऽइति बुद्धिः सदन्तरेऽपि समाना ।


तुल्ये तर्हि सामान्ययोगे कस्मात्क्वचित्’सःऽइत्यवमर्शः नान्यत्र? उच्यते


सामान्यरूपभूयस्त्वे तस्मात्तत्त्वं प्रकाशते ।

विलक्षणत्वमल्पत्वे चकास्ति तदनुद्भवात् ॥ २.६६ ॥


यस्मात्सत्यपि सामान्ययोगे मणिशराबयोः ।


न ।

’सःऽइति प्रख्या मणिकान्तरे च भवति भूयिष्ठसामान्ययुक्ते ।

तस्मात्सामान्यरूपाणां भूयिष्ठत्वेनोद्भवात्’सःऽ इति तत्त्वप्रख्या ।

अल्पत्वे तु न तथा, तेषामनुद्भवात् ।


न च दण्ड्यादिवदेकशब्दप्रवृत्तिरित्याह


प्रमाणं कार्यविज्ञेयमसंयोज्यास्ति धीर्यतः ॥ २.६७ ॥


प्रथमं जायते तस्मान्न दण्ड्यादिसमानता ।


[कुप्पुस्वामी संस्करण ९९] नागृहीतविशेषणा विशिष्टबुद्धिः ।

न च विशिष्टबुद्धेः प्राक्(सद्बुद्धेः प्राकेदितिओन्) प्रमाणग्रहणं तत्कालं वा ।

तथा हि प्रमाणादेव सा भवति ।

प्रमाणं च प्रमितिकार्योन्नेयत्वात्पश्चात्सत्प्रतिपत्तेर्गृह्यते ।

तस्मादग्रहात्प्रमाणस्य तत्संयोजनविकला सा न प्रमाणयोगनिमित्ता ।

यदि तर्हि न प्रमाणयोगोऽस्त्यर्थः, कथं तत्कालानुविधायिनी कालप्रवृत्तिरस्त्यर्थे

’कूपोऽस्तिऽ ’कूपोऽभूत्ऽ ’कूपो भविष्यतिऽ इति? तदुपाधिप्रकल्पितभेदत्वात्, देवदत्तसत्ताया इव पाटलिपुत्रसंयोगोपाधिकल्पितभेदाया इति ।


न च ’क्रियामन्तरेण न संसर्गः पदार्थानाम्ऽ इति शब्दार्थनयविदामविगानमित्याह


संबन्धमात्रावसितमपि चान्ये विपश्चितः ॥ २.६८ ॥


आहुर्वचोऽक्रियमयं राज्ञो ना फलिनो द्रुमाः ।


’राज्ञोऽयं पुरुषःऽफलिता एते वनस्पतयःऽइति क्रियारहितेष्वपि संसर्गः प्रतीयते ।

न चेहापि ’स्तिक्रियाऽ इति युज्यते ।

यतो न निर्ज्ञातराजसंबन्धस्य पुरुषस्य फलवतां च वनस्पतीनां सत्तेह प्रतिपाद्या गम्यते ।

न ह्येते वाक्ये सत्तायां पर्यवस्यतः ।

किं तु पुरुषस्य राजसंबन्धे, द्रुमाणा च फलसंबन्धे

’योऽयं पुरुषः, स राज्ञःऽ ’य एते वनस्पतयः, ते फलिताःऽ, न ’यो राजपुरुषः, सोऽस्तिऽ ’ये च फलिताः ते सन्तिऽ इति ।

यदपि केचित्

’वधार्यताम्ऽ इति प्रतिपत्तिक्रियाविधिना क्रियावत्तां मन्यते, तदपि शब्दादेव प्रतिपत्तेः सिद्धत्वात्प्राङ्निरस्तमेवेति ।


अथापि न क्रियारहितं वाक्यमस्ति क्रियायां च सापेक्षता, तथापि न दोष इत्याह


जनिक्रियावसानाच्च विशिष्टं शक्यबोधनम् ॥ २.६९ ॥


कारणं जायत इदमीदृक्षात्कारणादिति ।


[कुप्पुस्वामी संस्करण १००] ’ीदृक्षात्कारणाज्जगज्जायतेऽ इति जनिक्रियानिष्ठादपि वाक्यात्तद्विधकारणसत्ता शक्यते प्रतिपत्तुम् ।

यथा

’ीदृशात्तरोरिदं फलमजनिऽ इति तद्विधतरुसद्भावः ।

तथा च श्रुतयः काश्चिदेवमेव ब्रह्म प्रतिपादयन्ति

’सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेऽ ’यथाग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्ति एवमेवास्मादात्मनः सर्वे देवाःऽ इत्यादि ।

तथा


यथोर्णनाभिः सृजते गृह्णते च

यथा पृथिव्यामोषधयः संभवन्ति ।

यथा सतः पुरुषात्केशलोमानि

तथाक्षरात्संभवतीह विश्वम्ऽ ॥


तदेतत्सत्यम्

ऽयथा सुदीप्तात्पावकाद्विष्फुलिङ्गाः

सहस्रशः संभवन्ते सरूपाः ।

तथाक्षराद्विविधाः सोम्य भावाः

प्रजायन्ते तत्र चैवापियन्तिऽ ॥


तथा

ऽदिव्यो ह्यमूर्तः पुरुषः स बाह्याभन्तरो ह्यजः ।

अप्राणो ह्यमनाः शुभ्रोऽक्षरात्परतः परः ॥



एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।

खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणिऽ ॥

इति ।


इदानीं पदार्थसंसर्गायैव विधिराश्रयितव्य इति प्रत्यवतिष्ठते


[कुप्पुस्वामी संस्करण १०१] ननु प्रमान्तराधीनसंसर्गाः पुरुषोक्तिषु ॥ २.७० ॥


पदार्था विध्यधीनात्मसंश्लेषा इतरत्र तु ।

पदानां रचना तत्र विवक्षापरिपूर्तये ॥ २.७१ ॥


प्रमाणान्तरगम्येऽर्थे विवक्षा च व्यवस्थिता ।

विध्यर्थसिद्धये वेदे तदभावे त्वसंगतेः ॥ २.७२ ॥


विशिष्टार्थगतिर्भ्रान्तिरग्रहे ग्रहविभ्रमः ।


विवक्षितार्थनिष्पत्तये हि लोके पदानां समभिव्याहारः ।

नैकपदसाध्यो विवक्षितार्थः ।

प्रमाणान्तरोपलब्धश्च विवक्षाविषयः ।

तेन तत्र प्रमाणान्तरायत्तः संसर्गः ।

तथा च तद्विरोधेऽसंसर्ग एव पदार्थानाम्

’जरद्गवः पादुककम्बलाभ्याम्ऽ इति ।

वेदे तु प्रमाणान्तराभावाद्विधिनिबन्धनोऽसौ ।

तदभावे त्वसंभवाद्येयं विशिष्टार्थगतिरुच्यते सा भ्रान्तिः, समभिव्याहारात् ।

सोऽयं विवेकाग्रहे संसर्गग्रहविभ्रमः ।

अत्रेदमेव विचार्यम्

कथं लोके प्रमाणान्तराधीनः संसर्गः? इति ।

यदि प्रमाणान्तरेण तदवगमात् ।

तदसत्, अपूर्वस्यापि तस्य प्रतीतेः ।

अन्यथा वचनवैयर्थ्यात् ।

अनधिगतं हि श्रोतुरर्थं बोधयितुं वचः प्रयुज्यते ।

अथ संसर्गयोग्यतामात्रस्य प्रमाणान्तरेणावगमात्, समानमेतद्वेदे ।

तथा हि

अरुणया क्रीणातीति संसर्गः, नारुणयैकहायन्येति ।

तथा भावार्थो नियोगविषयः, न द्रव्यगुणशब्दार्थ इति प्रमाणान्तरावसितयोग्यतासामर्थ्येनैव व्यस्थाप्यते ।


अथ न विवक्षैकपदावगम्या, तदर्थमात्रविवक्षाया निष्प्रयोजनत्वात् ।

तस्माद्विवक्षाविशेषसिद्धिर्नासंसृष्टेषु पदार्थेषु भवतीति तथा विवक्षया प्रयुक्ताः संसृज्यन्ते ।

सा च प्रमाणान्तरसिद्ध इति ।

एवमपि विवक्षानिबन्धनः स्यात्, तत्प्रयुक्तानां संसर्गात् ।

न प्रमाणान्तरनिबन्धनः ।

यतो न तत्तस्य प्रतिपादकम्, [कुप्पुस्वामी संस्करण १०२] न प्रयोजकं वा ।

यत्तु प्रमाणान्तरसिद्धे विवक्षेति ।

भवतु ।

न तु तस्य संसर्ग उपयोगः ।

तथा हि (न तस्य संसर्ग उपयोगः ।

तथा च एदितिओन्) विप्रलम्भकवाक्येऽपि संसर्गप्रतीतिः ।

यत्तु विरोधे न संसर्गः ।

कामम् ।

न तु ततः संसर्गः ।

विरोधेऽपि तु नासंसर्गः, प्रतीतेः ।

प्रतीतोऽपि तु बाध्यते प्रमाणान्तरेण ।

एवं चानृतं किञ्चिद्वचः, किञ्चिदनर्थकम्

दशदाडिमादि, किञ्चित्सत्यम् ।

अन्यथानृतानर्थकविभागो न स्यात् ।


अथ प्रमाणान्तरेणोपलभ्यार्थं विवक्षित्वा परस्मै प्रतिपादयति पुरुषः ।

तेन तद्वचसः प्रमाणान्तरोपलब्धिरेवार्थः ।

सैव प्रयोजिका पदार्थसंसर्गस्य ।

तस्याः प्रयोजिकाया अभावान्न वेदे पदार्थसंसर्गसिद्धिः ।

मा भूत्सा ।

विशिष्टार्थ एव प्रयोजकः ।

अथ लोकावगम्यत्वाच्छब्दसामर्थ्यस्य लौकिकप्रयोजकाभावान्न संसर्गः, विधिमत्त्वेऽपि न स्यात् ।

अथ लोके संसर्गमात्रपरत्वेऽर्थापत्तिः ।

न तद्विशेषे, तन्मात्रेणप्रतीतिप्रयोगयोरुपपत्तेः ।

विनापि प्रमाणान्तरोपलब्ध्या विशिष्टार्थगतिसिद्धिः ।

अथ प्रमाणान्तराल्लोके संसर्गसत्यतावगमः ।

अपूर्वोऽपि हि श्रोतुः संसर्गो वक्तुः प्रमाणानुमानमुखेन सत्यतां लभते तदसंभवेऽसत्यत्वाद्बुद्धादिवाक्येषु ।

तेन प्रमाणान्तरनिबन्धनो लोके संसर्ग उच्यते ।

भवतु ।

वेदे तु प्रमाणान्तरसंभेदाभावात्स्वातन्त्र्येणार्थप्रतीतेः शब्दनिबन्धन एव ।


तदास्तामेतत् ।

भवतु यथा लोके ।

इदं तु पर्यनुयुज्यते


कथं नु विध्यधीनत्वं यदि स्यादन्यथा वृथा ॥ २.७३ ॥


विधिर्निर्विषयस्तुल्यमिदमन्यपदोदिते ।

विशिष्टार्थावगत्यान्यपदार्थोऽपि प्रयुज्यते ॥ २.७४ ॥


अर्थवत्त्वे प्रमाभावादस्त्वसौ चेदनर्थकः ।

विधिर्नैवं कस्य हेतोरथ स्यादपरं पदम् ॥ २.७५ ॥


प्रमाणान्तरसिद्धेऽर्थे प्रयोगि न विधायकम् ।

[कुप्पुस्वामी संस्करण १०३] तदर्थोऽनन्यगम्यो हि मीयमानः समाक्षिपेत् ॥ २.७६ ॥


विषयं न यथासिद्धपदार्थस्त्वनुवादभाक् ।

अव्युत्पन्नप्रवृत्तिः स्यात्संबन्धज्ञाननिह्नवे ॥ २.७७ ॥


पदं स्वधर्मं व्युत्क्रामेदन्यसिद्धार्थतान्यथा ।


न तावद्विधिः साक्षात्संसर्गसामान्यं तद्विशेषं वा बोधयति ।

अथाक्षिपति, अन्यथा नियोगमात्रं निर्विषयमनर्थकं स्यात् ।

पदार्थान्तरेष्वपि तुल्यमेतत् ।

तेऽपि केवलाः पदार्थान्तरसंसर्गमनाप्नुवन्तोऽपूर्वार्थप्रतिपत्तेरभावादनर्थकाः ।

न च लोके पदैः स्वार्थाः स्वरूपमात्रनिष्ठतयैव प्रत्य्यन्ते ।

किं तु विशिष्टार्थप्रत्ययप्रयुक्ताः ।

तथा व्यवहारोपपत्तेः ।

तथा च प्रतिपदार्थं संसर्गाक्षेपः ।


स्यादेतत्

लोके बुद्धिपूर्वप्रयुक्तानां मा भूदानर्थक्यमिति संसर्गार्थता ।

वेदे तु नार्थवत्त्वे प्रमाणमस्ति ।

अतः पदार्थान्तरमनर्थकमेवास्तु ।

नैतत्सारम् ।

नान्यथानर्थक्यमित्यप्रमाणोऽर्थः शक्यः प्रतिपत्तुम्, यस्य कस्यचित्प्रतिपत्तिप्रसङ्गात् ।

तस्माद्व्यवहारात्संसर्गप्रयुक्तस्वार्थावबोधसामर्थ्यमेव पदानां गम्यते ।

ततो वेदेऽपि संसर्गाक्षेपः ।

यदिचान्यपदार्थानामानर्थक्यम्, विध्यर्थस्य तन्न कस्मात्? आथ मतम्

पदान्तराणि प्रमाणान्तरसिद्धेऽर्थे प्रयुज्यन्ते ।

तानि यथावगतार्थानुवादपर्यवसितानि ।

तथा हि

अनूद्यमानोऽर्थो यथावगममनुवादान्नापूर्वार्थाक्षेपायालम् ।

विधायकस्तु शब्दोऽनन्यगम्यार्थविषयस्तदर्थः प्रमीयमाणः शक्नोत्यपूर्वमर्थमाक्षेप्तुमन्यथानवकल्पमानः ।

तस्माद्वेदे विधिनिबन्धनोऽपूर्वसंसर्ग इति ।

तदयुक्तम् ।

प्रमाणान्तराविषयश्चेद्विधायकार्थः, तत्र संबन्धज्ञानमशक्यमिति निह्नूयेत ।

तथा च संबन्धज्ञानानपेक्षत्वादव्युत्पन्नोऽपि प्रवर्तेत ।

संबन्धज्ञानापेक्षता च पदधर्मो व्युत्क्रम्येत ।

तन्निरपेक्षता वाक्यधर्म आश्रीयेत ।

अथ संबन्धापेक्षता नास्य निह्नूयेत, बलात्प्रमाणान्तरसिद्धार्थतापद्येत ।

तथा च न विशेषः ।


[कुप्पुस्वामी संस्करण १०४] शब्दादेव मिते योऽपि मन्यते संगतिग्रहम् ॥ २.७८ ॥


नान्योन्यसंश्रयावद्यं न स्वयं प्रमिते हि सः ।

परेण शब्दावगते तत्प्रवृत्त्या च सूचिते ॥ २.७९ ॥


पदार्थान्तरवत्तत्र सुकरः संगतिग्रहः ।


योऽपि मन्यते

न प्रमाणान्तरसिद्धे विद्ध्यर्थे संबन्धज्ञानम् ।

अपि तु शब्दसिद्ध एव ।

न चान्योन्यसंश्रयदोषः

शब्दात्सिद्धे संबन्धज्ञानम्, संबन्धज्ञानपूर्विका च शब्दात्सिद्धिरिति ।

यतो न स्वयं शब्दात्प्रमिते तदुच्यते ।

किं तु वृद्धप्रयुक्ताद्वृद्धान्तरेणावगतेः ।

तदवगमाच्च तस्य वृद्धस्य या प्रवृत्तिस्तयानुमिते ’नूनमनेन वृद्धेन प्रतिपन्नः कश्चित्प्रवृत्तिहेतुरर्थोऽस्माच्छब्दात्, येनायमेतच्छ्रवणात्प्रवृत्तःऽ इति ।

यथा ’गामानयऽ इति सास्नादिमदानयनदर्शनात्तत्प्रत्ययमनुमाय तत्र संबन्धग्रहणमिति ।


तस्यैवमनुमेयत्वे कथं शब्दैकगोचरः ॥ २.८० ॥


तस्यापि शब्दपूर्वत्वादनुमानैकगोचरः ।

कस्मान्न शब्दबोधोऽपि ह्यनुमानपुरस्सरः ॥ २.८१ ॥

नेदंप्रथमता लभ्या बीजाङ्कुरवदेतयोः ।

शब्दाद्बोद्धुश्चानुमानं सर्वस्यैव पुरः स्थितम् ॥ २.८२ ॥


पदार्थान्तरवत्तेन तस्य शब्दोनुवादकः ।

अनुमानाद्बुध्यमानः शब्दाद्बुद्धं न बुध्यते ॥ २.८३ ॥


प्रतिपत्त्रन्तेरे बोधो नान्यबोधानुवादकृत् ।

प्रवृत्तिहेतुमात्रं च शब्दार्थः स्यादलौकिकः ॥ २.८४ ॥


न स कल्पयितुं शक्यस्तत्सिद्धेर्लौकिकादपि ।


[कुप्पुस्वामी संस्करण १०५] यदि प्रवृत्त्युन्नीयमानप्रत्ययविशेषणत्वेन व्यवस्थितोऽनुमेयो विधायकार्थः संबन्धज्ञानविषयः, न तर्हि शब्दैकप्रमाणकः ।

अथानुमानं शब्दपूर्वकमिति तथोच्यते, शाब्दोऽपि प्रत्ययोऽनुमानपूर्वक इत्यनुमानैकगोचरः स्यात् ।

न खलु बीजाङ्कुरयोरिवानयोरेकस्य प्राथम्यं व्यवस्थापयितुं शक्यम् ।

शब्दावगतस्यानुमानात्, अनुमितस्य विदितसंगतेः शब्दादवगमात् ।

अपि च सर्वप्रतिपत्तॄणामनुमानपूर्वा शब्दात्प्रतिपत्तिरिति तेषां शब्दोऽनुवादक एव ।

तथा हि

शब्दाद्बुद्ध्यमानोऽनुमितं विदितसंगतिं बुध्यते सर्वप्रतिपत्ता, न त्वनुमिमानः शब्दावगतमनुमिमीते ।

ननु शब्दावगत एवानुमीयते ।

सत्यमनेन तु प्रतिपत्त्रा ।

न चान्यदीया प्रतिपत्तिरन्यप्रतिपत्तिमनुवादीकरोति ।

प्रवृत्तिहेतुमात्रे च संबन्धव्युत्पत्तेस्तन्मात्रं शब्दार्थः स्यात् ।

न चालौकिकः कल्पयितुमपि शक्यः, लौकिकादपि प्रवृत्तिसिद्धेः ।

स्यादेतत्

वैदिकीषु प्रवृत्तिषु तदसंभवादलौकिककल्पना ।

नैतत् ।

लोकावगतसामर्थ्यो हि शब्दो वेदेऽपि प्रतिपादकः ।

तत्र लौकिकीषु प्रवृत्तिषु लौकिके विदितसंबन्धे वेदेऽपि तत्प्रतिपत्तिरेव स्यात् ।

असंभवे वा मिथ्यात्वम् ।


अथ बहुविधत्वात्प्रवृत्तिहेतूनां व्यभिचारादशब्दार्थत्वे प्रवृत्तिहेतुसामान्यं शब्दार्थः ।

तत्र वेदे लौकिकानां विशेषणानामसंभवादलौकिकं विशेषान्तरं प्रतीयते ।

एवमपि यः शब्दार्थो वेदे सामान्यं स लोकसिद्ध इति नानुवादता व्यावर्तते पदार्थान्तरवत् ।

योऽपि विशेषः सोऽन्यासंभवेन परिशेषानुमानगोचर इति न प्रमाणान्तराविषयत्वम् ।

न च परिशेषानुमानमपि श्रेयःसाधनतायाः संभवात् ।

अथ मतम्

लोकव्यवहार इव वेदव्यवहारोऽप्यनादिः ।

तत्र वैदिकीषु प्रवृत्तिषु लौकिकप्रवृत्तिहेत्वभावादलौकिके [कुप्पुस्वामी संस्करण १०६] तु प्रवृत्तिहेतौ वैदिकानां विधायकानां संबन्धज्ञानम् ।

न चानुमेयत्वम्, तत्प्रत्ययस्य प्रवृत्त्यानुमानात् ।

तत्सिद्धिस्तु तत्प्रत्ययसामर्थ्येनैव ।

स च प्रत्ययः शब्दोत्थ इत्यनन्यप्रमाणता ।

न च लौकिकस्यैव श्रेयःसाधनत्वस्य संभव इति युक्तम् ।

लौकिकी हि प्रमाणान्तरावगम्या श्रेयःसाधनता ।

तत्र प्रयोगदर्शनाल्लिङादेस्तदनुसारेण च शब्दार्थावधारणात्प्रमाणान्तरगम्यतापि शब्दार्थानुप्रवेशिनी ।


अत्रोच्यते

भवतु नाम वेदव्यवहारादेव शब्दार्थानुगमः, तथापि न प्रमाणान्तरगोचरता व्यावर्तते ।

तथा हि

अलौकिके प्रवृत्तिहेतौ शब्दस्य सामर्थ्यज्ञानकाले प्रमितो वा स्यात्, न वा? प्रमितश्चेत्, शब्दसंबन्धस्य तदैव ज्ञायमानत्वादवश्यं प्रमाणान्तरेणेति वाच्यम् ।

अथ न प्रमितः, कथं तत्र संबन्धज्ञानम्? न ह्यप्रमितयोः संबन्धिनोस्तदाश्रयः संबन्धः प्रमातुं शक्यः ।


योऽपि मन्यते

शक्तिर्हि शब्दस्य संबन्धः ।

सा च नार्थे, तस्य व्यवस्थितत्वात् ।

प्रत्ययस्तु तस्य कार्यः ।

स च प्रवृत्त्यानुमितः ।

तत्रैव सामर्थ्यलक्षणः संबन्धः प्रमीयत इति ।

स इदं प्रष्टव्यः

किं प्रत्ययमात्रे सामर्थ्यं गृह्यते, अथ विशिष्टे प्रवृत्तिहेतुप्रत्यये? यदि प्रत्ययमात्रे, यत्किञ्चित्ततः प्रतीयेत ।

अथ विशिष्टे लौकिकव्यतिरिक्तप्रवृत्तिहेतुप्रत्यये, प्रवृत्तिपरिशेषाभ्यां तस्यानुमितत्वात्प्राप्तं प्रमाणान्तरगोचरत्वम् ।

द्वयी हि विशेषणस्य गतिः

स्मार्ताकृष्टं विशिष्टप्रमितावङ्गत्वमेति, यथाग्निमान् धूमादिति ।

विशिष्टग्राहिप्रमाणप्रमेयं वा, यथा शुक्लो गौरिति ।

उभयथा च प्रमाणान्तरविषयः, शब्दस्यानधिगतसंबन्धत्वात् ।

स्मार्ताकृष्टत्वे प्रमाणान्तरमन्वेष्यम् ।

द्वितीयेऽपि कल्पे विशिष्टप्रत्ययानुमानानुमितत्वात् ।

अथानुमानस्य [कुप्पुस्वामी संस्करण १०७] प्रत्यय एव प्रामाण्यम् ।

प्रतीतिमात्रं तु तत्र विशेषणस्य ।

तावता च तद्विशिष्टप्रतीत्यङ्गम् ।

विशेषणप्रमितिस्त्वनुमितात्प्रत्ययात्, यथा पुरुषवचनाद्विशिष्टार्थप्रमाणेऽनुमितेऽर्थसिद्धिस्तत एव प्रमाणात् ।

तत्र ह्यर्थः प्रतीतिमात्रेणैव वक्तृज्ञानस्य विशेषणम् ।

तदेतदपेशलम्, स्मृतिप्रमाणसंशयविपर्यासविकल्पान्तर्गमात्प्रतीतेः ।

तत्रालौकिकविशेषणप्रतीतिर्न स्मृतिः, प्रागनधिगतेः ।

न संशयः, कोटिद्वयसंस्पर्शाभावात् ।

न विकल्पः, प्रवृत्तिहेतुप्रत्ययस्यापि तथा प्रसङ्गात् ।

तथा न विपर्यासः कथं हि तत्र यथार्थत्वे तथाभूतग्राहिणी तत्प्रतीतिरर्थशून्या स्यात्? परिशेषात्प्रमाणम् ।

परज्ञानेन च परः प्रतिपद्यत इति सुभाषितम् ।

अथ मतम्

न परज्ञानेन परः प्रतिपद्यते, किं तु स्वज्ञानेनैव परज्ञानसामर्थ्यात् ।

अथ तस्य स्वज्ञानं कतमत्प्रमाणमिति वाच्यम्, न तावच्छाब्दम्, शब्दविज्ञानादर्थे विज्ञानमिति लक्षणात् ।

न च तच्छब्दज्ञानात् ।

कुतस्तर्हि? शब्दोत्थज्ञानादनुमितात् ।

अथ तस्य प्रामाण्ये प्रवृत्तिहेतुसद्भावसिद्धिः ।

प्रामाण्यं च तस्य दोषरहितशब्दोद्भवात् ।

तेन शब्दस्य तत्र प्रामाण्यमुच्यते ।

तदधीनस्तत्रार्थनिश्चय इति ।

तदप्यसांप्रतम्, शब्दादर्थज्ञानं शाब्दमिति लक्षणात् ।

पुरुषवचनमपि नार्थे न प्रमाणम् ।

किं तु ज्ञानविशेषणे ।

द्वयी च विशेषणस्य गतिरुक्ता ।

तत्र स्मृत्यसंभवात्प्रमीयमाण एव स विशिष्टार्थप्रमित्यङ्गम् ।

अन्यथार्थे प्रमाणान्तरमन्वेष्यं स्यात् ।

न च वक्तृज्ञानेनैवार्थसिद्धिः, परज्ञानेन न परः प्रतिपद्यत इत्युक्तम् ।


[कुप्पुस्वामी संस्करण १०८] यत्तूक्तम्

वक्तृज्ञानाधीनार्थसिद्धिरिति, तत्तन्मिथ्यात्वे तदसंभवे वा प्रमाणप्रतीतिबाधनेऽर्थप्रतीतेरपि बाधनात्तदबाधे चाबाधात् ।

न तु वचसोऽर्थो न विषयः ।

अन्यथा प्रमाणान्तरपरतन्त्रं पुरुषवचोऽर्थे सापेक्षमित्येतदेव न स्यात् ।

न हि यो यस्याविषयः स तत्र सापेक्षोऽनपेक्षो वा ।

तथा च ’प्रामाण्यस्थापनं तु स्याद्वक्तृधीहेतुसंभवात्ऽ इत्युक्तम् ।

स्थापनमबाधः, न तु प्रामाण्यमेव ।

तच्च वक्तृधीहेतुसंभवाद्वाक्यस्य, न तु वक्तृधिय एव ।

शब्दस्य चार्थेन संबन्धः, न तु ज्ञानेन ।

एवं ह्युक्तम्

’ौत्पत्तिकस्तु शब्दस्यार्थेन संबन्धःऽ इति ।

अर्थग्रहणमत्र ’र्थासंस्पशी शब्दः, ज्ञानेनैव शब्दस्य संबन्धः

इति पश्यतां निराकरणाय ।

तस्मादन्योन्ययोग्यता शब्दार्थयोरेव संबन्धः ।

न चाप्रमितेऽर्थे स शक्यो ग्रहीतुम् ।

प्रमिते प्रमाणान्तरविषयत्वमुक्तम् ।

न च प्रतीतिमात्रे, अर्थवत्याः प्रतीतेः स्मृतिप्रमाणयोरन्यतरत्रान्तर्गमात् ।

आनर्थक्ये केन संबन्ध? यदि च शाब्दप्रतीतिव्यतिरेकिण्यापि प्रतीत्या स विषयीक्रियतेऽप्रमाणात्मिकयापि, भवत्ययमशाब्दस्यापि ज्ञानस्य गोचर इति प्रमाणान्तराशङ्का केन वार्यते? नच प्रमाणान्तरावगम्यता शब्दार्थमनुप्रविशति, यतो नान्वयमात्रेण व्यतिरेकमात्रेण वा शब्दार्थः ।

सति ह्यन्यस्मिन् प्रयोजकेऽर्थे यस्याभावे न प्रयोगः सोऽपि तस्य शब्दस्य प्रयोजक इति गम्यते, यथा सत्सु हेत्वन्तरेषु यस्याभावे न कार्यं सोऽपि हेतुर्गम्यते ।

इह च श्रेयोहेतुविवक्षायां लिङ्गादेर्दर्शनात्, तदभावे सत्यपि प्रमाणान्तरगम्यत्वेऽदर्शनाच्छ्रेयोहेतुत्वं तावच्छब्दार्थः ।

प्रमाणान्तरगम्यत्वे यद्यपि दर्शनम्, तदभावे च यद्यप्यदर्शनम्, न तु श्रेयोहेतुत्वे सति प्रमाणान्तरगम्यताया अभावात् ।

तत्र संदिग्धो व्यतिरेकः

उभयाभावेऽप्रयोगात्किंनिबन्धनोऽप्रयोग इति ।

तत्र श्रेयःसाधनतायाः प्रयोजकत्वस्यावधारितत्वात्[कुप्पुस्वामी संस्करण १०९] तदभावे तन्निबन्धन इति गम्यते ।

तन्मात्रेणान्वयव्यतिरेकोपपत्तौ नान्यस्य शब्दार्थत्वे प्रमाणम् ।

अन्यथा शिंशपाशब्दार्थे सत्त्वादयोऽप्यनुप्रविशेयुः, तेषु सत्सु

प्रयोगात्तदभावे चाप्रयोगात् ।

अथ शिंशपात्वस्य शब्दार्थत्वात्तदभावनिबन्धन एव सत्ताद्यभावेऽप्रयोगः, तत्सद्भावाच्च प्रयोग उपपद्यत इति न तेषु सामर्थ्यकल्पना, समानमेतदत्रापि ।

अथ श्रेयोहेतुत्वस्य प्रमाणान्तरविषयत्वात्तस्य च वेदेऽसंभवादप्रामाण्यम् ।

तदसत् ।

न हि य एकत्र यस्य प्रमाणस्य गोचरः सोऽन्यत्रापि मिथ्या ।

समीपे हि बहिरिन्द्रियविषयः, दूरे त्वागमानुमानगम्यः ।

तथा यागादिषु विप्रकृष्टकालफलेषु वेदावगम्यं श्रेयःसाधनत्वं भविष्यति ।

न च प्रमाणान्तरानुपलब्ध्या प्रमाणान्तरगम्यो बाध्यते, विषयव्यवस्थयापि प्रमाणप्रवृत्तेः ।

अथ प्रमाणान्तरविषयत्वे तद्विरोधादप्रामाण्यम्, अनन्तरफलानुपलब्धेः ।

तदविषये तु शब्दार्थे न तद्विरोध इति ।

स्यात्, यदि विरोधः स्यात् ।

न चासौ ।

’ानन्तर्यं ह्यचोदितम्ऽ इत्युक्तम् ।


अथ मा भूदानन्तर्यचोदना, मा च भूत्प्रमाणान्तरावगम्यता शब्दार्थः ।

सर्वथा प्रमाणान्तरसिद्धश्चेत्पदार्थ आश्रीयते, स यथासिद्ध्याश्रयणीयः ।

अन्यथा न तत्सिद्धः स्यात् ।

अनन्तरश्रेयोहेतुता च तत्सिद्धा ।

तन्न ।

न तावदनन्तरफलसाधनता नियोगतः कर्मणाम्, कृष्यौषधपानादिष्वन्यथापि दर्शनात्, अवान्तरकार्यस्य यागादावपि प्रमाणसामर्थ्येन सिद्धेः ।

अपि च विशिष्टसिद्धौ विशेषणमपि श्रेयोहेतुत्वमात्रं सिद्धम् ।

तावच्च शब्दार्थः ।

न च तावति प्रमाणविरोधः ।

तदेवं लौकिकेऽपि प्रवृत्तिहेतौ दोषाभावाद्व्यर्था अलौकिककल्पना ।

सुखादिवच्चास्यानुमेयत्वात् ।

[कुप्पुस्वामी संस्करण ११०] तथा हि

मुखप्रसादाद्युन्नेयसंवेदनाः सुखादयस्तेनैव सहोन्नीयन्ते ।

नैवं सत्त्वे पृथक्प्रमाणमर्थ्यते ।

यदापीदं दर्शनम्

वक्तृज्ञानमेव पुरुषवचनार्थः ।

तत्र ज्ञानं नार्थमन्तरेण संभवतीत्यर्थापत्त्यानुमानेन वार्थसिद्धिः ।

तदापि प्रवृत्तिप्रमितस्तधेतुप्रत्ययो न तमन्तरेणेत्याप्तवचनार्थवदनुमेयता न व्यावर्तते ।

अथानुमानह्र्तोः प्रत्ययस्य शब्दसाधनत्वाच्छब्दप्रमाणकत्वम् ।

तदसत् ।

नाप्तवचनार्थज्ञानस्याक्षसाधनत्वात्तदर्थः श्रोतुः प्रत्यक्षप्रमाणको भवति ।

तस्मात्सुष्ठूच्यते

’तस्यैवमनुमेयत्वे कथं शब्दैकगोचरःऽ ।

तथा

’न स कल्पयितुं शक्यस्तत्सिद्धेर्लौकिकदपिऽ ॥

इति ॥


अथ प्रमाणरूपेण स स्वशब्दप्रकाशितः ॥ २.८५ ॥


आक्षेप्ता निरपेक्षश्च कथ्यतेऽन्यप्रमां प्रति ।


अथोच्यते

न ब्रूमो विधिरन्यथा वृथा स्यादिति तदधीनः संसर्गः ।

किं तु प्रमाणान्त्मनैव स स्वशब्देन प्रतिपाद्यते ।

तथा च प्रमाणत्वात्प्रमेयस्याक्षेप्तापूर्वस्य, प्रमाणान्तरानपेक्षश्च ।

न ह्यसौ शब्दवत्संबन्धापेक्षत्वात्पूर्वसिद्धिमपेक्षत इति ।


तथाप्यसिद्धे प्रागुक्तौ दोषौ सिद्धेऽनुवादिता ॥ २.८६ ॥


प्रामाण्यमस्य यत्रास्तु श्रुतेस्तत्र वृथा त्वयम् ।


एवमप्यव्युत्पन्नप्रवृत्तिपदधर्मव्यतिक्रमौ प्रमाणात्मापि स यदि न प्रमाणान्तरसिद्धः ।

अथ सिद्धो यथावगतानुवादान्नापूर्वार्थाक्षेपः ।

अपि च यत्रास्य प्रामाण्यमिष्यते, शब्दस्यैव तत्रास्तु ।

किमनेन? ननूक्तम्

शब्दसंगतिज्ञानापेक्षत्वादनुवादको नापूर्वार्थावगमाय प्रभवति ।

नैतत्सारम् ।

शब्दश्चेदनुवादकः ।

तत्प्रकाश्यं प्रमाणमप्यनूद्यमानं यथाधिगतं कथमपूर्वार्थं बोधयेत्? न प्रमेयसंस्पर्शरहिता प्रमाणावगतिः ।

अतो यथाधिगतप्रमेयमेव तत्प्रतीयते ।


[कुप्पुस्वामी संस्करण १११]


क्व च प्रमाणमेषोऽर्थे न यागादौ स्वशब्दके ॥ २.८७ ॥


लौकिकेऽपूर्वसंसर्गः श्रोतुरस्त्यविधावपि ।

फलसाधनशक्तौ चेछब्दस्तत्र न दूष्यति ॥ २.८८ ॥


पदार्थान्तरतुल्यत्वाद्विध्याकाङ्क्षानिबन्धनः ।

न संसर्गः पदार्थानां स्वशब्दैस्तु प्रकाशिताः ॥ २.८९ ॥


संबन्धयोग्यरूपेण तस्मात्संसर्गभागिनः ।

विशिष्टार्थप्रयुक्ता हि समभिव्याहृतिर्जने ॥ २.९० ॥


अतो न विद्ध्यभावेन संसर्गो न प्रकल्पते ।


न च नियोगस्य प्रमेयं निरूप्यते ।

न तावद्यागादयः प्रमेयाः, तेषां यजत्यादिशब्दविषयत्वात् ।

नापि तेषां प्रमाणान्तरस्यागोचरः संसर्गः ।

तथा हि

अविधिष्वपि लौकिकेषु वाक्येषु श्रोतुरनधिगतोऽपूर्वः संसर्गः प्रतीयते ’ब्राह्मण पुत्रस्ते जातःऽइत्यादिषु ।

अथ फलसाधनसामर्थ्यं प्रमेयमुच्यते ।

न किल कामिनो नियोगोऽकामोपाये धात्वर्थेऽवकल्पते ।

अनुपायत्वे हि तस्य न स कामिन्या कृतः स्यादिति ।

तदप्यसंप्रतम् ।

न हि शब्दस्य तत्र कश्चिदपराधः, येन तमतिक्रम्यान्यत्प्रमाणं मृग्यते ।

प्रमाणान्तरापेक्षता प्रत्युक्ता ।

अनन्तरफलादर्शनेन तु विरोधो नियोगगम्येऽपि तस्मिन्नविशिष्टः ।

आनन्तर्यस्याप्रमाणार्थत्वेन तदभावः शब्देऽपि तुल्यः ।

अथ वा शब्दस्तत्र न दुष्यति फलसाधनसामर्थ्ये, नियोगस्तु दुष्यत्येव ।

न हि ततः पुरुषर्थसाधनावबोधः संभवति ।

तच्चेदं विधिविवेकभावनाविवेकाभ्यामवगन्तव्यम् ।

तस्मात्संबन्धज्ञानापेक्षत्वेन पदार्थान्तरैः समानत्वाद्विधायकार्थस्य न शक्यं विशेषेण वक्तुं

तन्निबन्धनः पदार्थसंसर्ग इति ।

सर्व एव तु पदार्थाः संबन्धयोग्यैः कारकादिभावैः स्वपदेभ्यः प्रतीताः सन्निकर्षेण संसृज्यन्ते, यतो लोकाच्छब्दव्यापारावगमः ।

लोके च [कुप्पुस्वामी संस्करण ११२] पदैः स्वार्थानां प्रतिपादनं सन्निकर्षेण विशिष्टार्थपरतया, न स्वार्थमात्रप्रतिपत्तिपरतया ।

तथा च सर्वपदार्थाकाङ्क्षानिबन्धन एव संसर्गः ।

सर्वे हि ते पदैरपर्यवसितरूपाः स्वरूपमात्रे प्रकाश्यन्ते ।

एवं पदार्थान्तरैस्तुल्यत्वाद्विधेः न विशेषेण तन्निबन्धनः संसर्गः ।

सर्वपदार्थनिबन्धने च संसर्गे न विध्यभावेन संसर्गो नोपपद्यते ।

तदेवं न संसर्गार्थमपि विधिरुपासनीयः ।

कथं नोपासनीयः, यदा नियोगपरतयैव पदानां स्वार्थेषु संसर्गज्ञानम्? प्रवर्तकवचनान्तरप्रवृत्तिदर्शनेन हि तद्धेतुप्रत्ययमनुमाय तत्र तस्य सामर्थ्यं गम्यते ।

नैतत्, अप्रवर्तकेऽपि वाक्ये स्वरूपनिष्ठे संबन्धग्रहणात् ।

सन्निधापिताग्निव्यतिरिक्तपाक्योपकरणमग्न्यर्थिनं प्रति यदोच्यते

’चैत्रगृहे कृशानुःऽ इति, तदा ततस्तेनानयनं दृष्ट्वा गम्यते

’िहानेनाग्निसत्ता प्रतीता, सा चास्माद्वाक्यात्ऽ न च शक्यं वक्तुम्

’तत आनयऽ ’गच्छ वा तत्रऽ इति वाक्यात्प्रत्ययः ।

अग्निसत्तामात्रप्रत्ययेन वाक्यात्प्रवृत्तिसिद्धेर्न वाक्यस्य नियोजनेऽपि सामर्थ्यं शक्यते कल्पयितुम् ।

अर्थान्तरान्वये च प्रयोगप्रत्ययोपपत्तौ न विशेषान्वये प्रमाणम् ।

अन्यथा वेदार्थो निष्प्रमाणक एव स्यादित्युक्तम् ।


अथ कर्तव्यताज्ञानाद्विनानर्थक्यमुच्यते ॥ २.९१ ॥


न प्रवृत्तिनिवृत्तिभ्यामन्यद्वाक्यप्रयोजनम् ।

प्रतिपत्तिविधौ तुल्यं यदि सैव प्रयोजनम् ॥ २.९२ ॥


समानमेत्तदर्थं च समर्पयति चेदयम् ।

प्रज्ञाक्रियोपासनाधिकारसिद्धिव्यपेक्षितम् ॥ २.९३ ॥


हन्त तर्हि स्वरुपे तन्न वचः पर्यवसति ।

[कुप्पुस्वामी संस्करण ११३] तुल्यमेतत्समाप्तं च वाक्यं वाक्यान्तरानुगम् ॥ २.९४ ॥


नियोगानुप्रवेशोऽस्ति तवद्यदि वृथान्यथा ।

तत्त्वावबोधविध्यंशस्तावदेवं समुद्धृतः ॥ २.९५ ॥


अथ मन्यते

वस्तुस्वरूपमात्रज्ञानं कर्तव्यताज्ञानरहितं प्रवृत्तिनिवृत्तिशून्यमनर्थकम् ।

प्रवृत्तिनिवृत्तिप्रयुक्ता हि वाक्यप्रवृत्तिः ।

अथोऽर्थवत्त्वाय विधिः ।

अन्यथानर्थक्यम् ।

तत्रोच्यते

प्रतिपत्तिविधावपि तुल्यमानर्थक्यम् ।

तथा हि

’ेवंविधः प्रतिपत्तव्यःऽइत्यपि न तत्स्वरूपज्ञानातिरिक्ता काचन प्रवृत्तिर्निवृत्तिर्वा ।

अथ स्वरूपज्ञानमेव प्रयोजनम्, तत्स्वरूपमात्रनिष्ठेऽपि तुल्यम् ।

अथ प्रतिपत्तिविधिः ’प्रज्ञां कुर्वीतऽ ’स क्रतुं कुर्वीतऽ ’ात्मेत्येवोपासितऽइत्यधिकारविधिव्यपेक्षितप्रज्ञोपासनाविषयसमर्पणेनार्थवान्, नावगतविषयस्वरूपा प्रज्ञा शक्येति ।

स्वरूपनिष्ठमपि वचस्तथार्थवत् ।

तस्य समर्पणे सुतरां सामर्थ्यम् ।

नन्वेवमस्य स्वरूपनिष्ठा हीयते नियोगानुप्रवेशिनः ।

स्वगतनियोगनिष्ठमपि तर्हि तन्न, नियोगान्तरानुप्रवेशात् ।

अथ मतम्

स्वार्थपर्यवसितमेव वाक्यं वाक्यान्तरेणैकवाक्यतामुपैति ।

सोऽयं प्राकरणिकः संबन्ध उच्यते ।

अन्यथा वाक्यलक्षण एव स्यात् ।

एतदपि समानम् ।

नियोगानुप्रवेशेऽपि न स्वरूपनिष्ठता हीयते ।

नन्वस्ति नियोगानुप्रवेशः, अन्यथा आनर्थक्यात् ।

कामम् ।

तत्त्वप्रतिपत्तिविधिस्तु तावदानर्थक्यान्निराकृतः, विधेर्विनापि तस्माच्छब्दात्तत्वावबोधसिद्धेः ।


ननूत्पत्तिविधिः कर्मरूपबोधे व्यवस्थितः ।

यथा तत्त्वज्ञानविधिस्तथा बोधेऽवतिष्ठताम् ॥ २.९६ ॥

अधिकारात्प्रवृत्तिश्च मता कर्माधिकारवत् ।

[कुप्पुस्वामी संस्करण ११४] अज्ञानज्ञापनमतोऽथाप्रवृत्तप्रवर्तनम् ॥ २.९७ ॥


विधिमाचक्षते धीरा इत्येतदपि तादृशम् ।

कर्मस्वरूपावगमस्तत्र नेष्टं विधेः फलम् ॥ २.९८ ॥


किं तु कार्यव्यपेक्षस्य फलवाक्येन संगतिः ।

इहाधिकारसंबन्धो यस्य तन्न विधीयते ॥ २.९९ ॥


तत्त्वं तत्त्वावबोधस्य नाधिकारप्रवेशिता ।

न हि व्रीह्यादिविषयं प्रत्यक्षमधिकारभाक् ॥ २.१०० ॥


यदपि चोद्यते

यथोत्पत्तिविधेः कर्मरूपप्रतिपत्तिमात्रमर्थः

’ाग्नेयोऽष्टकपालःऽ इति ।

न ततः प्रवृत्तिः ।

अधिकारविधिनिबन्धनत्वात्तस्याः ।

तथा तत्त्वावबोधविधेस्तत्त्वावबोधमात्रमर्थः, प्रवृत्तिरधिकारविधेः

’प्रज्ञां कुर्वीतऽइत्यादेः ।

यतश्च प्रवृत्तिप्रतिपत्तिप्रयोजनभेदो विधेः, अतोऽस्य लक्षणद्वयमाहुः

अज्ञातज्ञापनमप्रवृत्तप्रवर्तनमिति ।

एतदप्यसारम् ।

यतो नोत्पत्तिगतस्य विधायकस्य स्वरूपावगममात्रमिष्यते फलम् ।

अपि त्वधिकारवाक्यसंबन्धः ।

तथा हि

विधेः पुरुषार्थमात्रसाधनत्वेऽवबुद्धे तद्विशेषाकाङ्क्षायामधिकारसंबन्धो लभ्यते ।

न च तत्त्वप्रतिपत्तिविधेरपि तदेव फलम् ।

यतो यस्याधिकारसंबन्ध उपासनादिविषयस्यात्मतत्त्वस्य, तदक्रियात्मत्त्वान्न विधिविषयः ।

यत्तु तद्विषयस्तत्त्वज्ञानम्, तस्य नाधिकारसंबन्धः, व्रीह्यादिप्रत्यक्षवत् ।

न हि व्रीह्यादिस्वरूपग्राहि प्रमाणं प्रयोगैकदेशतां भजते ।

प्रमितानामधिकारसंबन्धान्निष्पन्नानामिवानोवासःप्रभृतीनाम् ।

वानतक्षणादिर्हि तत्क्रिया नाधिकारमनुप्रविशतीति ।


[कुप्पुस्वामी संस्करण ११५] इदानीं तृतीयप्रतिपत्तिगोचरो विधिः परास्यते, तत्त्वावबोधविषयत्वेन संबन्धात् ।

द्वितीयप्रतिपत्तिविषयो हि न तत्त्वावबोधविषयः, किं तु तदभ्यासविषयः ।


सोपायमन्यत्तर्हीदं शाब्दाज्ज्ञानं विधीयते ।

प्रलीनग्रहणग्राह्यविभागोद्ग्राहमद्वयम् ॥ २.१०१ ॥


न हि भिन्नार्थसंसर्गरूपवाक्यार्थधीपदम् ।

आत्मतत्त्वं निष्प्रपञ्चमित्येतदपि पेलवम् ॥ २.१०२ ॥


अद्वयात्मप्रकाशोऽसावनवच्छेदविभ्रमः ।

स्वात्मस्थितिः सुप्रशान्ता फलं तन्न विधेः पदम् ॥ २.१०३ ॥


तत्साधनावबोधे हि विधातृव्यापृतिर्मता ।

अपेक्षितोपायतैव विधिरिष्टो मनीषिभिः ॥ २.१०४ ॥


ततो ह्यध्यवसायादिर्नाकस्मान्नाभिधानतः ।


न ब्रूमः

शब्दोत्थस्तत्त्वबोधो विधीयत इति ।

किं तु प्रत्यस्तमितबुद्धिबोध्यभेदावग्रहः ।

अतश्चाद्वयो द्वितीयतद्विधबोधाभावाद्वा प्रमातृप्रमेयद्वयविरहाद्वा ततोऽन्यः ।

तस्य चालौकिकस्य प्रमाणान्तरादुत्पत्त्युपायस्यानवगमात्सहोपायैः शमदममननध्यानब्रह्मचर्यादिभिर्विधानम् ।

यतो न शाब्दज्ञानविषय आत्मतत्त्वम् ।

वाक्यलक्षणो हि शब्दः प्रमाणम् ।

तस्य च विषयो नानापदार्थसंसर्गात्मा, तदनुगमेन प्रतीतेः ।

तज्ज्ञानस्य च विविधार्थमात्रसंभेदावभासस्यात्मतत्त्वं निष्प्रपञ्चं द्वैतलेशेनाप्यनवमृष्टं कथं गोचरः स्यादिति ।

एतदप्यसारम् ।

यतो योऽसावद्वयो द्वैतलेशसंस्पर्शविकल आत्मतत्त्वबोधः सोऽवच्छेदविभ्रान्तिविरहात्तस्य स्वरूपावस्थानम् ।

अवच्छेदकलुषतया हि तदनात्मरूपेण प्रकाशते ।

न तु ततोऽन्यस्तत्त्वबोधः ।

’सत्यं [कुप्पुस्वामी संस्करण ११६] ज्ञानमनन्तम्ऽ इति श्रुतेः ।

आत्मतत्त्वं च प्रशान्तशोकादिविश्वाशिवम्, अपहतपाप्मादिश्रुतेः ।

प्रकाशमानानतिशयानन्दम्, ’विज्ञानमानन्दं ब्रह्मऽ ’ेषोऽस्य परम आनन्दः, एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तिऽ इति श्रुतिभ्यः ।

तथा च तत्स्वरूपस्थितिर्विश्वाशिवोपशमान्निरतिशयाह्लादावाप्तेश्च सुष्ठु प्रशान्तापरः पुरुषार्थः फलम् ।

उक्तं च

’ात्मलाभान्न परं विद्यतेऽ इति ।

न च पुरुषार्थेऽप्यज्ञातोपाये न प्रवर्तत इति युक्तम्, यतः प्रवृत्तेः पूर्वरूपमिच्छा ।

तथा च तद्वारेण प्रवृत्त्युपदेश क्वचित्

’थातो धर्मजिज्ञासाऽ ।

तथा ’यो हि यदिच्छति स तत्करोतिऽ इत्युक्तम् ।

अपि च अज्ञातोपाये चेन्न प्रवर्तते, अवश्यमुपायज्ञापनया तत्र प्रवर्त्यः फलमुद्दिश्य ।

तावता च तत्रापि प्रवृत्तिसिद्धेर्न विधायकस्य तत्र व्यापार आश्रयितव्यः ।

तदुक्तम्

’तस्य लिप्सार्थलक्षणाऽ इति ।

तस्मात्फलसाधन एव विधिव्यापारः ।

ननु फलवत्यप्यर्थलक्षणा प्रवृत्तिः, क्व तर्हि विधिव्यापारः? इत्थंभावे ।

नैतत्सारम् ।

यतो यथैव साधनसामान्येऽर्थात्, प्रवृत्तिः, तथेत्थंभावसामान्येऽपि ।

यतो नाननुग्रहकं साधनं समर्थम् ।

अथ तद्विशेषे प्रवर्त्यः, साधनविशेषेऽपि तथास्तु ।

अपि च अपेक्षितोपायतैव विधिः, तस्या अप्रवृत्तप्रवर्तनालक्षणत्वात्, प्रवृत्तिहेतोश्च धर्मस्य प्रवर्तनाशब्दाभिधेयत्वात्, इष्टतायास्तत्साधनतायाश्चान्यस्य प्रवृत्तिहेतोरभावात्, इष्टतायाश्च प्रमाणान्तरावसेयत्वात्स्वयं प्रवृत्तेः जानात्येवासौ ’मयैतत्कर्तव्यम्ऽ इति नेष्टतायामप्रवृत्तप्रवर्तनात्वम् ।

इष्टसाधनतायां तु प्रमाणान्तरावगमाभावाच्छब्दैकगम्यायां न शब्दमन्तरेणाप्रवृत्तपुरुषप्रवृत्तिहेतुत्वम् ।

अतः सा शब्दप्रमाणिका सती विधिरिति गीयते ।

अनुतिष्ठतश्[कुप्पुस्वामी संस्करण ११७] च साधनमनुष्ठेयं प्रवृत्तिहेतुः ।

न स्वभावसिद्धम् ।

तेनानुतिष्ठतः साधनताविधिः ।

अतोऽनुष्ठानं साधनविषयमेव विधायकाच्छब्दाद्गम्यते ।


ननु अध्यवसायः, आकूतम्, आद्या प्रवृत्तिः, कालत्रयवियुक्तं प्रवृत्तिमात्रम्, अज्ञातक्रियाकर्तृसंबन्ध इति विधिविदो विधिं व्याचक्षते ।

नैतत्सारम् ।

यतोऽध्यवसायादीनामेव हेतुरत्र मृग्यते ।

स च नान्योऽपेक्षितोपायतायाः ।

न च ते निरस्तहेतवः ।

स्यादेतत्

अभिधानमेषां हेतुः ।

तच्च वार्तम् ।

अभिधानाद्धि प्रतीतिरेषां स्यात्, नोत्पत्तिः ।

न हि प्रतीतिमात्रेण घटादयः प्रवृत्तिहेतव इत्यादि वर्णितं विधिविवेके ।

अथवा

नाभिधानतः ।

न च शब्दादध्यवसायादिः, ज्ञापकत्वादव्युत्पन्नप्रवृत्तिप्रसङ्गादित्यादि तत्रैवोक्तम् ।

अथवा ’यो मन्यते

’मयेदं कर्तव्यम्ऽ इति यतोऽध्यवसायः ’नियुक्तोऽस्मिऽइति यतो बुद्धिः स नियोगो विधिशब्दपर्याय इति, तं प्रत्युच्यते ।

तत एवापेक्षितोपायत्वात्’कर्तव्यम्ऽइत्यध्यवसायः ।

तथा हि

कर्तुरिष्टाभ्युपाये ’कर्तव्यम्ऽइति लोके बुद्धिः ।

तदभावे तु ’कर्तव्यम्ऽ इत्यन्वयव्यतिरेकाभ्याम् ।

ते च तद्विषये गम्येते ।

तथा ’नियुक्तोऽस्मिऽ इति ’प्रवर्तितोऽस्मिऽइति स्वात्मप्रवृत्तिहेतुप्रतीतिः ।

न च सोऽन्य इष्टाभ्युपायतायाः ।

न खलु दृष्टसामर्थ्येऽकस्माद्विना हेतुनाहेतुरिति युक्तिमत् ।

न हि तं परित्यज्य लौकिकमलौकिककल्पने प्रमाणमस्ति ।

कुतश्च? नाभिधानतः ।

न खल्वलौकिकस्याभिधानं संभवति, संबन्धाग्रहादित्युक्तम् ।

अथ वा ततो ह्यध्यवसायप्रारम्भानुष्ठानपरिसमापनाः, अपेक्षितोपायत्वात् ।

तत्सद्भाव एव नियुक्तप्रवृत्तेः यस्य कस्यचिन्नियोगादप्रवृत्तेः ।


[कुप्पुस्वामी संस्करण ११८] स्यादेतत्

’कर्तव्यम्ऽ इति प्रत्ययात्प्रवर्तते ।

अन्यथा कर्तव्यं न कृतं स्यात् ।

तच्च न, नाकस्मात्कर्तव्यप्रत्ययोत्पादः ।

स हि स्वार्थावाप्तिनिमित्तः ।

स्यादेतत्

शब्दादेव कर्तव्यताबुद्धिः ।

तत्रोच्यते

नाभिधानतः ।

न शब्दात्कर्तव्यताबुद्धिः ।

नियोगो हि शब्दार्थः ।

स हि नियोक्तृधर्मः स्वतन्त्रो वा स्यात् ।

कर्तव्यता तु विषयधर्मः ।

अथ विषयधर्मं नियोगं ब्रूयात्, प्राप्तमपेक्षितोपायत्वम् ।

अथ नियोगात्कर्तव्यता स्यात् ।

एवमपि न तस्यां शब्दः प्रमाणम्,साक्षात्तस्य नियोगाभिधायित्वात् ।

नाप्यर्थात्, अकर्तव्येऽप्यनाप्तनियोगदर्शनात् ।

अथ नियोगस्य कार्यता गम्यते ।

तन्निष्पत्त्यधीनेति विषये कर्तव्यतावगमः ।

तदसत्, विषये कार्यताप्रतीतेर्लोके ।

तथा हि ’गौर्दुह्यतां त्वयाऽ इति नियोगे अन्येन दुग्धायां न पुनर्दोहमारभते, विषयस्य कार्यताप्रतीतेः तस्य निष्पादितत्वात् ।

न चान्येनैव नियोगो निष्पादितः, तस्यानियुक्तत्वात् ।

तत्र नियोगसिद्धये पुनर्दोहारम्भः स्यात् ।

विस्तरेण चायमर्थो विधिविवेके विचारित इत्यलमतिप्रसङ्गेन ।


स्यादेतत्

अस्य ज्ञानस्य मोक्षसाधनत्वाद्विधानम् ।

विद्यासाध्यो हि मोक्षः श्रूयते ’विद्यया तदारोहन्तिऽ ’विद्ययामृतमश्नुतेऽयस्तमात्मानमनुविद्य विजानाति स सर्वांश्च कामान्ऽ तथा ’स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्तिऽ इत्यादि ।

न च साध्यत्वेऽप्यन्तवत्त्वम्, शब्दगम्यत्वादनावृत्तेः

’न च पुनरावर्ततेऽ इति ।

न ह्येष तर्कगम्यः ।

येन तर्केणास्य तत्त्वं व्यवस्थाप्येत ।

शब्दगम्यस्य तु शब्दादेव तत्त्वव्यवस्था ।

[कुप्पुस्वामी संस्करण ११९] अनन्तविद्यासाध्यत्वाद्वानन्तत्वम् ।

क्षणिकत्वेऽपि च विज्ञानस्य संततिरूपेणानन्तत्वम् ।

तत्राहुः


न च मोक्षः फलं तस्य साध्यो मोक्षो न चापरः ॥ २.१०५ ॥


अविद्यास्तमयो मोक्षः सा संसार उदाहृता ।

विद्यैव चाद्वया शान्ता तदस्तमय उच्यते ॥ २.१०६ ॥


कः पुनरेष मोक्षः? यद्यनागतदेहेन्द्रियबुद्ध्यनुत्पादः ’शरीरं वावसन्तं न प्रियाप्रिये स्पृशतःऽ

इति दर्शनात्, स प्रागभावो न साध्यः ।

अथ ब्रह्मप्राप्तिः, सा चैत्रग्रामयोरिव वा स्याज्जीवब्रह्मणोर्मार्गश्रुतिभ्यः


ऽशतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभि निस्सृतैका ।


तयोर्ध्वमायन्नमृतत्वमेति


’स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारम्ऽ तथा ’तेऽर्चिषमभिसंभवति अर्चिषोऽहःऽइत्यादि ।

यथा वा मधुनि नानाकुसुमरसानां समुद्रे च नदीनां प्राप्तिरविभागलक्षणा तथा स्यात्, ’यथा लोके मधुकृतो मधु कुर्वन्तिऽ इतिऽ ’यथा सोम्येमा नद्यःऽ इति दर्शनात् ।

कार्यस्य वा कारणभावापत्तिः, ’तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैतिऽइति श्रुतेः ।

तद्रूपपरिणामलक्षणा वा योगव्याघ्रवत्, ’स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतिऽ इति दर्शनात्’ब्रह्म संपद्यतऽ इति च ।

स्फटिकस्येव रागापकर्षणेन [कुप्पुस्वामी संस्करण १२०] स्वरूपप्राप्तिलक्षणा, ’परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽ इति श्रवणात् ।


तत्र न तावत्प्रथमः कल्पः, सर्वगतत्वात्

’तदन्तरस्य सर्वस्यऽ ’नित्यं विभुं सर्वगतम्ऽ इति ।

अनन्यत्वाच्च, तद्विज्ञानेन सर्वविज्ञानोपदेशात्, ’तत्त्वमसिऽ इति साक्षात्प्रतिपादनात्, प्रत्यगात्मवृत्तिना च सर्वत्रात्मशब्देन निर्देशात्, ’थ योऽन्याम्ऽ इति भेददर्शनापवादात् ।

अत एव च न द्वितीयः, निरवयवत्वाच्च, ’निष्कलं निष्क्रियम्ऽइति परस्परावयवसंभेदलक्षणस्याविभागस्यानुपपत्तेः ।

नापि तृतीयः, कार्यस्य सर्वदा कारणत्वात् ।


अथ कार्यरूपनाशः, उच्छेदात्मताप्रसङ्गो मोक्षस्य ।

तत्र ’विद्ययामृतमश्नुतेऽ इति विरोधः, विद्ययैवोच्छेदप्रसङ्गात् ।

आत्मोच्छेदस्य चानिष्टत्वादफलत्वम् ।

प्रतिषिद्धश्च ’क्षरम्ऽइत्यत्र मुख्यः कार्यकारणभावः ’वाचारम्भणं विकारो नामधेयम्ऽइति विकारानृतत्वप्रतिपादनाच्छ्रुत्या ।

न चतुर्थः, अनन्यत्वादेव, चैतन्यस्य च ब्रह्मरूपस्याविशेषात् ।

अथ विज्ञानात्मनां शोकमोहाद्यभावो विशिष्यत इति चेत्तत्रापि शोकादयश्चेदात्मानो विज्ञानात्मनाम्, अनुच्छेद्याः ।

अथ गुणा अर्थान्तरमागमापायिनः क्षणिकाः, क्षणिकत्वादेव चोच्छिद्यन्त इति न तत्साधनमपेक्ष्यम् ।

न चागामिनामनुत्पत्तयेऽपेक्ष्यत इत्युक्तम् ।

अथ ऐश्वर्यविशेषो ब्रह्मणि ।

तत्प्राप्तिस्तद्रूपपरिणामो मोक्षः, ’स स्वराड्भवतिऽ इति श्रुतेः ।

तदसत्, अनेकेश्वरानुपपत्तेः ।

ब्रह्मणो न्यूनं समं वा विज्ञानात्मनाम् [कुप्पुस्वामी संस्करण १२१] ऐश्वर्यं स्यात्? न्यूनत्वेन ब्रह्मरूपापत्तिर्न स्वाराज्यम् ।

तथा हि

ब्रह्मशब्दवाच्यः परमेश्वरस्तेषामधिपतिः स्यात् ।

तथा चान्यराजता ।

तत्र चान्तवत्वं श्रूयते

’थ येऽन्यथातो विदुः, अन्यराजानस्ते क्षय्यलोका भवन्तिऽ इति ।

उपपद्यते च परमेश्वरेच्छया न्यूनैश्वर्याणामैश्वर्यप्रच्युतिदर्शनाल्लोके ।

’समत्वस्य त्वनपपत्तिरेव युगपत् ।

एकश्चेत्सर्वाधिपतिः सर्वस्य प्रशासिता, परः किं कुर्वन्नीशः स्यात्? विरोधाच्च ।

न खल्वेषामेकमतित्वे हेतुरस्ति ।

तत्रैकस्मिन् वस्तुनि विरुद्धाभिप्राययोरेकाभिप्रायानुविधायित्वे तस्येतरस्यानीश्वरत्वम् ।

उभयानुप्रायानुविधानं न, विरोधात् ।

उभयोरननुविधानेऽनीश्वरत्वमुभयोः ।

कार्यासिद्धश्चेदैकमत्ये हेतुः परिषद्वत्, अन्यथा तस्यासिद्धेरिति चेत्, प्रत्येकमनीश्वरत्वम् ।

अथ पर्यायेणैश्वर्यमविरोधायोच्यते, अन्तवत्ता ।

जगत्सर्गस्य चासंभवान्न ब्रह्मतुल्यमैश्वर्यम् ।

यतः पर एव जगत्सर्गे श्रूयते ।

तदुपासनेन सर्गोत्तरकालोऽपवर्ग इति ।

तस्मात्स्फटिकस्येव रागाद्यपकर्षणेन स्वरूपाविर्भावो ब्रह्मप्राप्तिः, ब्रह्मरूपत्वाद्विज्ञानात्मनः ।

तथा च ’परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽइत्युक्तम्, अन्यरूपनिष्पत्तौ स्वशब्दानुपपत्तेः ।

निष्पद्यमानस्याभेदात्संबन्धाद्वोपपत्तिरिति चेत् ।

न, विशेषणानर्थक्यात्सर्वस्य तस्य निष्पद्यमानस्य स्वत्वात् ।

तत्र यथा मलापगमे शुक्लमेव सद्वस्त्रं ’शुक्लं जातम्ऽइत्युच्यते तथा मोहावरणविगमे स्वरूपाविर्भावे ’स्वेन रूपेणाभिनिष्पद्यतेऽ इत्युच्यते ।

तथा ’ब्रह्मैव सन् ब्रह्माप्येतिऽ इति ।

तदेवं स्वरूपस्थितिलक्षणत्वान्मोहस्य न कार्यता, प्रागपि स्वरूपस्य भावात् ।

आगन्तुकस्यास्वरूपत्वात् ।

न चान्यत्वम्, यतोऽविद्यापगम एवोक्तेन प्रकारेण मुक्तिः ।

अविद्या संसारः ।

विद्यैव चाविद्यानिवृत्तिः यद्यग्रहणमविद्या, यतो भाव [कुप्पुस्वामी संस्करण १२२] एवाभावव्यावृत्तिः ।

अथ विपर्यासः, तथापि विरोधिततत्त्वज्ञानोदय एव तन्निवृत्तिः ।

न हि शुक्तिकाज्ञानोत्पादादन्या रजतज्ञाननिवृत्तिस्तत्साध्या प्रयत्नान्तरसाध्या वा, तयोर्यौगपद्यात्प्रयत्नान्तरानपेक्षणाच्च ।

तथा च विद्याब्रह्मप्राप्त्योस्तुल्यकालता श्रूयते

’ब्रह्म वेद ब्रह्मैव भवतिऽ इति, तथा ’ानन्दं ब्रह्मणो विद्वान्, न बिभेतिऽ ’तदात्मानमेवावेदहं ब्रह्मास्मीति ।

तस्मात्तत्सर्वमभवत्ऽ ’तत्र को मोहः कः शोक एकत्वमनुपश्यतःऽ वेद भवति, विद्वान् न बिभेति, को मोहः पश्यत इति पौर्वापर्याश्रवणात् ।

यत्तु क्वचित्पौर्वापर्यं तत्’व्यादाय स्वपितिऽइति यथा ।

नन्वेकत्वे तुल्यकालताप्यनुपपन्ना ।

न, एकस्यापि वस्तुनो भावाभावरूपेण व्यपदेशात्, तथा

’यदा घटो नश्यति तदा कपालानि जायन्तेऽ इति ।

कथं तर्हि मार्गाविभागसर्गाप्ययैश्वर्यश्रुतयः? तत्राहुः

न मार्गश्रुतयो निरुपाधिविशुद्धब्रह्मविद्याविषयाः ।

यत्र हि सर्वोपाधिविशुद्धमस्थूलादिकं ब्रह्मोपास्यम्, तत्र ’ब्रह्मैव सन् ब्रह्माप्येतिऽ ’न तस्मात्प्राणा उत्क्रामन्ति, अत्रैव समवनीयन्तेऽ इति प्राणानुत्क्रमणेन विज्ञानात्मन एवागतिरुच्यते ।

न हि तदगमने तदुपाधेस्तस्य ब्रह्मणो भेदेन विज्ञानात्मत्वम् ।

यत्र तु ’मनोमयः प्राणशरीरो भारूपःऽ इति सोपाध्युपास्यम्, तद्विषयास्ताः ।

यत्रैतच्छ्रूयते

’रश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो [कुप्पुस्वामी संस्करण १२३] दिवि तदैरंमदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयं वेश्मऽ इति ।

तथा चाब्रह्मविदामपि तद्गतिश्रवणम्

’ये चामी अरण्ये श्रद्धां सत्यं तप इत्युपासतेऽ इति ।

परब्रह्मप्राप्तिस्तु नाब्रह्मविदां युज्यते,


’विद्यया तदारोहन्ति यत्र कामाः परागताः ।

न तत्र दक्षिणा यान्ति नाविद्वांसस्तपस्विनःऽ ॥


इति, तथा ’तमेव विदित्वाति मृत्युमेतिऽ इति वचनात् ।

अपुनरावृत्ति श्रुतिस्तर्हि कथम्? अत्र केचिन्मन्यते

क्रममुक्त्याश्रयणात्तत्प्राप्य तत्रोत्पन्ननिरुपाधितत्त्वज्ञानाः परं पदमश्नुवते ।

यथोक्तम्


’वेदान्तविज्ञानसुनिश्चितार्थाः

संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।

ते ब्रह्मलोकेषु परान्तकाले

परामृताः परिमुच्यन्ति सर्वेऽ ॥



ब्रह्मलोकेष्विति कार्यब्रह्मलोकनिर्देशः, बहुवचनात्तत्रावयवद्वारेण बहुत्वोपपत्तेः ।

परान्तकालो महाप्रलयो ब्रह्मणः स्वाधिकारपर्यवसानम्, तस्मिन् परामृताः परब्रह्मरूपेणामृताः सन्तः संन्यासयोगाद्भेदेन परमेश्वरे स्वकृतानां कर्मणां फलानां च संन्यासाद्योगाच्च सर्वमिदं कर्त्रादि ब्रह्म इत्युपासनात् ।

तथा च स्मृतिः


’ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।

परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्ऽ ॥


अन्ये तु मन्यते

यथा चन्द्रलोके यावत्संपातमुषित्वा स्थित एव तस्मिन् भुक्तभोगा आवर्तन्ते नैवं स्थित एव ब्रह्मलोके तत आवृत्तिः ।

किं तु तत्प्रलयपर्यवसाना [कुप्पुस्वामी संस्करण १२४] तत्र स्थितिः ।

तत्प्रलये हि न तत आवृत्तो भवति ।

ततश्चानावृत्तिः श्रूयते ।

तथा च ’िमं मानवमावर्तं नावर्तन्तेऽ इति ’िमम्(?, इमेदितिओन्), इहऽइति विशेषणम् ’मृतत्वमेतिऽइत्यमृतत्वमापेक्षिकम्, यथा

’मृता देवाःऽ इति ।

तथा च पौराणिकस्मरणम्

’ाभूतसंप्लवं स्थानममृतत्वं हि भाष्यतेऽ इति ।

यत्तु मन्यते

सर्वगतत्वेऽपि ब्रह्मणो विकृताविकृतभेदः ।

ततश्च देशभेदः ।

तथा चाविकृतस्य ब्रह्मणो देशभेदः श्रूयते

’थ यदतः परो दिवो ज्योतिर्दीप्यतेऽ इति ।

अतोऽविकृतस्य नियतदेशस्य ब्रह्मणः प्राप्तये युज्यते मार्गविशेषः ।

तत्संप्रधार्यम् ।

न तावदनुत्पन्नाद्वयविशुद्धविद्यस्यायं मार्गः, ब्रह्मविदः श्रवणात् ।

नापि विद्यावतः ।

विद्योदये निखिलभेदोच्छेदादिति ।

मधुनदीनिदर्शनाविभागश्रुतिरपि विवेकज्ञानाभावपरा, न तु तद्विध एवाविभागः ।


सर्गश्रुतयोऽपि न सर्गपराः ।

किं तर्हि? एकात्मतत्त्वप्रतिपत्तिप्रधानाः ।


ततस्तदनुगुणतयैव तासामर्थव्यवस्थानम्, न तु तद्विरोधेन ।

तथा हि

कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति? ’सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ इत्येकत्वेनोपक्रमात्’ैतदात्म्यमिदं सर्वम् ।

तत्सत्यम्, स आत्मा, तत्त्वमसिऽइत्युपसंहारादेकत्वेनैवैकात्म्यतत्त्वप्रतिपत्तिपरमेकमिदं वाक्यं गम्यते ।

तत्र यद्यपरस्तेजःप्रभृतितत्त्वसर्गः सत्यतया विधीयेत, वाक्यभेदः स्यात् ।

अतो यथोपांशुयाजवाक्येऽजामित्वोपक्रमोपसंहारे ’विष्णुरुपांशु यष्टव्यःऽइत्यादीनि वचांसि [कुप्पुस्वामी संस्करण १२५] वाक्यभेददोषात्पृथग्विधित्वमलभमानानि तादर्थ्यात्तदानुकूल्येन स्तुत्यर्थतया व्यवतिष्ठन्ते, तथा सर्गश्रुतयोऽप्येकत्वोपायतया ।

न च विपरीतं शक्यं वक्तुम्

एकत्वश्रुतिरेव भेदप्रतिपत्त्यर्थेति, सर्वत्रैकत्वेनोपक्रमातुपसंहाराच्च ।

येनोपक्रम्यते येन चोपसंह्रियते स वाक्यार्थः ।

भेदप्रतिपत्तेश्चाफलत्वात् ।

एकत्वप्रतिपत्तेस्तु दृष्टं श्रुतं च फलं शोकादिनिवृत्तः, विशुद्धैकात्म्यदर्शनेन तदवगमात्’तत्र को मोहः कः शोक एकत्वमनुपश्यतःऽ इति श्रवणात् ।

फलवदङ्गता चाफलस्य ।

उपायत्वं च ।

न चेदं जगदसन्मूलम् ।

किं तर्हि? अद्वितीयैकसन्मूलम् ।

कारणाव्यतिरेकाच्च कार्यस्य सदेकमेवेदम्, घटादिवत् ।

मृद्रूपेण हि घटादयो नैकत्वमतिक्रामन्ति ।

नन्वेवं मुख्य एव कार्यकारणभाव उक्तः स्यात् ।

नैतत्, एकत्वावतारोपायमात्रत्वात् ।

न खल्वत्र कार्यकारणभाव एव प्रतिपाद्यः, येनासौ यथाशब्दं मुख्य एव गृह्येत ।

एकत्वोपायत्त्वादित्युक्तम् ।

एकत्वं चानेनोपायेनावतार्यते पुरुषः ।

स च मुख्यः प्रधानविरोधी ।

’ेकमेवाद्वितीयम्ऽइति पुनः पुनः श्रुतेः सर्वभेदनिरासपरत्वान्न शक्यं वक्तुम्

कारणात्मनैकत्वम्, कार्यात्मना नानात्वम्

’तत्सत्यम्, स आत्माऽ इति च कारणस्यैव सत्यत्वावधारणात् ।

अन्यत्र चऽ ’िन्द्रो मायाभिःऽ इति भेदस्य मायागम्यत्वश्रुतेः ।

साक्षाच्च भेदाभावस्य श्रवणात्

’नेह नानास्ति किञ्चनऽ इति ।

भेदाभेदयोश्च विरोधात्प्रागनुपपत्तेर्वर्णितत्वात् ।

तदविरोधेन वर्ण्यते तदुपादानमात्रतया भेदविकल्पस्य, बिम्बप्रतिबिम्बवद्वर्णपदवाक्यादिवच्च ।

यथा हि न बिम्बात्प्रतिबिम्बानामुत्पत्तिर्नानारूपाणाम्, बिम्बोपादानमात्रतया प्रतिबिम्बभेदविकल्पस्य ।

न हि बिम्बात्[कुप्पुस्वामी संस्करण १२६] परस्परतो वा व्यावृत्तानि कानिचिद्वस्तूनि प्रतिबिम्बानि ।

बिम्बोपादानं तु तन्नाना निर्भासमात्रम् ।

तथा न वर्णेभ्यः पदवाक्यप्रकरणादीनि कानिचिद्वस्तूनि सन्ति, तदुपादानमात्रत्वात्तत्कल्पनायाः ’वर्णेभ्यः पदानि निष्पद्यन्ते, पदेभ्यो वाक्यम्ऽ इत्युच्यते ।

अपि च स्वप्नेऽपि सृष्टिः श्रूयते

’न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान् पथः सृजतेऽइति, तद्वदेषा स्यात्, अन्यपरत्वात् ।

स्वयमेव ’वाचारम्भणं विकारो नामधेयम्ऽ इति विकारासत्यतया न पारमार्थिकीत्युक्तम् ।


ऐश्वर्यश्रुतिष्वपि स्वगुणविद्याविपाकोऽयं श्रूयते

’स एकधा भवति त्रिधा भवतिऽ ’सर्वांश्च कामानाप्नोतिऽ ’स स्वराड्भवतिऽ इति, न तु मोक्षः ।

स हि निरुपाधिब्रह्मविद्यानिमित्त एव ।

यदपि क्वचिदपुनरावृत्तिश्रवणम्, तस्यापि द्वयी गतिर्व्याख्यातेत्येकं दर्शनम् ।


अन्ये तु मन्यन्ते

आविर्भूतब्रह्मरूपो ब्रह्मणः सर्वात्मत्वात्सर्वेशितृत्वाच्च सर्वोपभोगानां च भोक्तृत्वात्तदानन्दमात्रारूपत्वाद्देवाद्यानन्दानां ’स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्ऽ ’स स्वराड्भवतिऽइति तस्य तत्संकीर्तनं ब्रह्मरूपाविर्भावलक्षणमोक्षप्रशंसार्थम् ।

ननु सर्वात्मत्वेन सर्वकामावाप्तौ सर्वशोकमोहाद्याप्तिरपि स्यात् ।

न, तेषामब्रह्मरूपत्वादविद्याध्यस्तत्वात् ।

ज्ञानैश्वर्यानन्दभोगास्तु ब्रह्मणो रूपम्, ’विज्ञानमानन्दं ब्रह्मऽ ’नान्योऽतोऽस्ति द्रष्टाऽ ’ेतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तिऽ [कुप्पुस्वामी संस्करण १२७] ’सर्वस्येशानःऽ ’ेतस्य वा अक्षरस्य प्रशासने गार्गिऽइत्यादिश्रुतिभ्यः ।

तथा च यत्किञ्चिदीश्वरत्वं यच्च विज्ञानं यश्चानन्दो ब्रह्मादिषु स्थावरान्तेषु भूतेषु ब्रह्मणि तानि ।

तान्याविर्भूतब्रह्मस्वरूपः समश्नुत इति युक्तम् ।

लोकादयस्त्वविद्याध्यस्ता न ब्रह्मरूपम् ।

ते कथमाविर्भूतब्रह्मस्वरूपमास्कन्देयुः? ननु प्रपञ्चशून्यस्याद्वैतस्य ब्रह्मरूपस्य ज्ञेयाभावादीशितव्याभावाच्च विज्ञानमैश्वर्यं चानुपपन्नम् ।

तत्र ’सर्वज्ञःऽ ’सर्वेश्वरःऽ इत्यपि श्रुती समाधेये एव ।

नैतत्सारम् ।

यतो नेशितव्यकृतमीश्वरत्वम्, ज्ञेयकृतं वा ज्ञातृत्वम् ।

किं तु सिद्धेन ज्ञानरूपेण सिद्धया चेशनशक्त्या ज्ञेयमवाप्नोति, ईशितव्यं च विनियुङ्क्ते प्रशास्ति च प्रकाशदाहवत् ।

सिद्धेन हि प्रकाशरूपेण प्रकाश्यं प्रकाशयति विवस्वान् ।

न तु प्रकाश्याधीनं तस्य प्रकाशरूपम्, दाह्याधीना वा अग्नेर्दाहशक्तिः ।

तथा च तच्चैतन्येनैव कृत्स्नस्य प्रपञ्चस्यावभासनात्’तस्य भासा सर्वमिदं विभातिऽ ’नान्योऽतोऽस्ति द्रष्टाऽइत्यादिश्रुतेः सर्वज्ञत्वम् ।

सर्वेश्वरत्वमपि तदैश्वर्येण यथायथमीश्वरैरीशितव्यानामीशनात् ।

एवं च ’ेष भूताधिपतिःऽ ’ेष लोकपालःऽइति ब्रह्मेन्द्रयमादीनां चैश्वर्यमुक्तम् ।

सर्वकामावाप्तिश्च तदीयत्वाद्देवाद्यानन्दस्य ।

कामेष्वानन्दप्राप्त्या कामा आप्ता भवन्ति, न स्वरूपेण ।

एवं ’स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वाऽ इति वर्णनीयम्, [कुप्पुस्वामी संस्करण १२८] तद्विषयानन्दभोगात्, न तु स्त्र्यादियोगः ।

यथा ’ात्मरतिरात्मक्रीड आत्ममिथुनःऽ इति, न हि मुख्यमात्मक्रीडत्वमात्ममिथुनत्वं वा संभवति ।

यतश्चानवच्छिन्नानि तदीयान्येव सर्वभूतेषु ज्ञानादीनि कल्पितावच्छेदानि, अतो यत्र यत्र नात्यन्तमवच्छेदः समुत्कर्षात्तेषां तानि तानि प्रत्यासत्तेर्भूतान्यात्मत्वेन भगवानुक्त्वा

’मुनीनामप्यहं व्यासःऽइत्यादि, उपसंजहार

’यद्यद्विभूतिमत्सत्त्वम्ऽ इति ।

तथा ’दृष्टं द्रष्टृ, अश्रुतं श्रोतृऽइत्यादि, सर्वभूतदर्शनादीनां तच्चैतन्यनिबन्धनत्वात् ।


अन्ये त्वाहुः

यावान् कश्चित्परस्मिन्नामरूपाश्रयो व्यपदेशः सर्वोऽसावाध्यानाय ।

यथा ’योऽसावादित्ये पुरुषःऽ ’हिरण्यश्मश्रुःऽ इत्यादि ।

न हि स्वमहिमप्रतिष्ठस्य परस्य देशविशेषावरोधः, सर्वविशेषातिगस्य च रूपविशेषयोगः ।

परश्चैषः, सर्वपाप्मोदयश्रुतेः

’ुदितः सर्वेभ्यः पाप्मभ्यःऽ इति, आध्यानं तु तथा विधीयते ।

तथा सर्वज्ञत्वादपि द्रष्टव्यमिति ।

तदेवं ब्रह्मात्मनस्तद्रूपाविर्भावस्तत्प्राप्तिः, स मोक्षः ।

सा च विद्यैव ।

तस्मान्न साध्यो मोक्षः, न च विद्यया अन्य इति पुष्कलम् ।


अथ मतम्

मा भून्मोक्षः साध्यः ।

बन्धहेतुक्षयस्तु साध्यते ।

तत्साधनमात्मदर्शनं स्यात् ।

श्रूयते च तस्य फलं बन्धहेतूनां कर्मणां क्षयः

’क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरेऽ ।

तथा ’तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्तेऽ ’पाप्मशब्देन पुण्यमपि संगृहीतम्, सावद्यफलत्वात्, ।

अन्यत्र च ’नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्ऽ इत्युपक्रम्य [कुप्पुस्वामी संस्करण १२९] ’सर्वे पाप्मानोऽतो निवर्तन्तेऽइत्युपसंहारात् ।

न च तत्क्षयमन्तरेण क्षेमप्राप्तिः ।

अतोऽवश्यकर्तव्यः ।

न चादत्तफलस्य कर्मणो न क्षयः, प्रायश्चित्तानां दोषसंयोगेन चोद्यमानानां तत्क्षयफलत्वात् ।

तस्मात्प्रायश्चित्तैरिव विद्यया बन्धहेतुक्षयः साध्यते ।

सैव च मुक्तिः, बन्धनविश्लेषार्थत्वान्मुचेः ।

एवं च नान्तवत्वदोषः, प्रध्वंसस्य कार्यस्याप्यविनाशात् ।

तत्रोच्यते


प्रायश्चित्तदिशा बन्धहेतूच्छेदोऽपि नो ततः ।

सर्वाविद्याप्रविलये न च्छेद्यमवशिष्यते ॥ २.१०७ ॥


बन्धहेतुरविद्यात्मा विद्यायां सास्तमागता ।


बन्धहेतुध्वंसोऽपि नात्मदर्शनसाध्यः ।

तद्धि विदधदेव निखिलाविद्याव्यवहारप्रविलयमुदीयते ।

कर्मफलभोगविभागश्चाविद्योपादानः ।

तत्रानवयवेनोन्मूलितायामविद्यायां न च्छेत्तव्यमस्ति ।

अविद्याध्यस्तानि हि कर्माणि तत्समुच्छेदे विद्यया समुच्छिन्नान्येव भवन्ति ।

तद्विपाकस्यावकाश एव नास्त्यद्वैतमात्मतत्त्वं पश्यतः, भेददर्शनाश्रयत्वात्तस्य ।

यतश्चाविद्योच्छेदेनैव कर्मोच्छेदः ।

अतस्तुल्यवत्संशयविपर्यासाभ्यां प्रसंख्यातानि कर्माणि


’भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरेऽ ॥


नन्वेवं कर्मक्षयाम्युपगमे तत्त्वदर्शनसमनन्तरमेव मुक्तिः स्यात्, न देहपातप्रतीक्षा ।

’तस्य तावदेव चिरं यावन्न विमोक्षेऽथ संपत्स्येऽ इति देहपातप्रतीक्षाश्रुतिर्बाध्येत ।

यस्य तु विद्या तत्क्षयसाधनं शास्त्राद्गम्यते तस्य [कुप्पुस्वामी संस्करण १३०] तदनुसारेण केषाञ्चित्क्षयो विद्यया, केषाञ्चिदुपभोगेन ।

तत्र ’क्षीयन्ते चास्य कर्माणिऽइत्यविशेषात्सर्वक्षयप्रसङ्गे ’तस्य तावदेव चिरम्ऽ इति देहपातावधिश्रवणान्मुक्तेरारब्धकार्याणां प्रवृत्तभोगानां न ततः क्षयः, भोगेनैव क्षय इति गम्यते ।

न हि सर्वक्षये देहपातप्रतीक्षोपपद्यते ।

तदुक्तम्

’नारब्धकार्ये एव तु पूर्वे तदवधेःऽ ’भोगेन त्वितरे क्षपयित्वा संपद्यतेऽ इति ।

विद्यया त्वविद्योच्छेद कर्मविपाकव्यवहारोच्छित्तावविशेषात्सर्वोच्छेद इति सपद्येव मुच्येत ।

नैव दोषः ।

न हीयं श्रुतिश्चिरकालताविशिष्टं देहपातवधिं मुक्तेराह, किं तु क्षिप्रताम् ।

यथा कश्चित्क्षेपीयस्तं प्रतिपादयन् ब्रवीति क्वचित्कार्ये

’ेतावन्मे चिरं यत्स्नातो भुञ्जानस्य चऽ एवमियमपि ।

अन्यथा ’तावदेवऽइति न वाच्यं स्यात् ।

’चिरम्ऽ इत्येव ब्रूयात् ।

’तावदेवऽइति तु वचनात्क्षैप्र्यपरता गम्यते ।

अतः क्षिप्रैव मुक्तिः, न प्रतीक्षणीयमस्ति ।

देहपातप्रतीक्षा तु तत्र नान्तरीयकत्वाद्भवत्येव ।


अथ वा चिरत्वमनूद्य देहपातावधित्वमत्रोच्यते ।

अन्यथा चिरत्वेऽवधिविशेषे चोच्यमाने वाक्यं भिद्येत ।

तत्रायमर्थः

यदि कस्यचिच्चिरम्, तावदेव यावन्न विमोक्ष्ये इति ।


ननु पूर्वस्मिन् पक्षे तत्त्वज्ञानानन्तरत्वाद्देहपातस्य स्थितप्रज्ञलक्षणाभिधानं न युज्यते

’स्थितप्रज्ञस्य का भाषाऽ इत्यादि ।

द्वितीयोऽपि सर्वक्षये चिरत्वानुपपत्तेस्तत्रावधिविशेषविधानायोगादनुपपन्नः ।

उच्यते

स्थितप्रज्ञस्तावन्न विगलितनिखिलाविद्यः सिद्धः, किं तु साधक एवावस्थाविशेषं प्राप्तः स्यात् ।

न च ब्रूमः

ब्रह्मवेदनानन्तर एव देहवियोगः ।

किं तु आरब्धकार्यकर्मक्षयं [कुप्पुस्वामी संस्करण १३१] भोगेन प्रतीक्षत इति ।

तत्र कस्यचित्तत्कालोऽपवर्गः ।

कस्यचित्कियांश्चित्क्षेपः ।

यथा रज्ज्वां सर्पसमारोपसमुत्थभयजन्मानो वेपथुप्रभृतयस्तत्त्वदर्शनादपावृते भये कस्यचित्तदैव निवर्तन्ते, कस्यचित्कियन्तञ्चित्कालमनुवर्तन्ते, तत्संस्कारात् ।

तथा सर्वकर्मक्षयेऽपि भुज्यमानविपाकसंस्कारानुवृत्तिनिबन्धना शरीरस्थितिः ।

कुलालव्यापारविगम इव चक्रभ्रान्तिः ।


नन्वेवं ब्रह्मविदोऽपि चेद्भोक्रादिविभागदर्शनमनुवर्तते, देहपातादुत्तरकालमप्यनुवर्तेत, तत्र विदुषोऽपि नावश्यंभावि कैवल्यं स्यात् ।

तथा च ’तावदेव चिरम्ऽ इति श्रुत्या विरोधः ।

अथोच्छेदादविद्याया नानुवृत्तिः, क्षणमपि न स्यादिति स एव विरोधः, सैषोभयतःपाशा रज्जुः ।

उच्यते ।

यथा भयविगमे लब्धाश्वासस्यापि संस्कारमात्रात्कम्पाद्यनुवृत्तिः, न च भयविगमेऽप्यनुवृत्तिरित्येतावता चिरकाला भवति ।

न च मूलकारणतुल्यफलः संस्कारः ।

न च स्थायी ।

अन्यथा कम्पादीनां निवृत्तिरेव न स्यात् ।

न च भयविगमहेतोस्तत्त्वदर्शनात्तन्निवृत्तये हेत्वन्तरमपेक्षते ।

तत एव हि स क्रमेण निवर्तते, स्वयमेव वा कुलालचक्रभ्रान्तिसंस्कारवत्

तथा निवृत्तायामविद्यायां कर्मसु चाविशेषेणारब्धकार्येष्वनारब्धकार्येषु च निवृत्तेष्वारब्धविपाकसंस्काराच्छरीरिणं भोक्तारमिव चायमात्मानं प्रत्येत्याभासमात्रेण विद्वानपि, न त्वविद्वानिवारूढाभिनिवेशः ।

स चायमीदृशः स्थितप्रज्ञो वर्णितः वीतकाम आत्मरूपसंतुष्टो दुःखेषु च्छायामात्ररूपेषु तत्त्वदर्शनादभिनिवेशात्कृत्रिमेभ्य इव व्याघ्रादिभ्योऽनुद्विग्नमनाः सुखेषु च कृत्रिमरमणीयेष्विव विगतस्पृहः ।

यथा खल्वविदुषो मृद्दारुरचिते स्त्र्यादौ विषये छायामात्रदर्शनमभिनिवेशविकलम्, तथा विदुषः क्षीणकर्माविद्यस्य [कुप्पुस्वामी संस्करण १३२] तत्संस्कारमात्राद्दर्शनं छायामात्रेणैव विषयेषु ।

तथा च ’तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत एवमेवेदं शरीरम्ऽइति विदुषः शरीरेऽनास्थां दर्शयति ।

यतो न मूलकारणतुल्यफलः संस्कारः कम्पादिवदेव ।

न च चिरकालानुवृत्तिः, अल्पकालस्थायित्वात्संस्कारस्य ।

तद्वदेव च न तन्निवृत्तये हेत्वन्तरमपेक्ष्यते, तत्त्वदर्शनादेव क्रमेण तस्यापि निवृत्तेः, स्वयमेव वा ।

सा चेयमवस्था जीवन्मुक्तिरिति गीयते ।

आरब्धकार्यकर्मसंस्कारक्षयश्च देहपातादेव गम्यते ।

तदनुवृत्तौ देहपात एव न स्यादिति न देहपातोत्तरकाले तद्विपाकस्य छायामात्रेणापि दर्शनं शक्यते ।

येन हि कर्मणा यच्छरीरमारब्धं तत्रैव तद्विपाकशेषाभासः ।

अनारब्धकार्याणां त्वलब्धवृत्तीनामेव निवृत्तत्वान्नास्ति तत्संस्कारः ।

लब्धवृत्तिकारणसंस्काराद्धि कार्यलेशानुवृत्तिः ।

न खलु भयेऽप्रतिलब्धवृत्तावनुपजनितकम्पादौ तत्संस्कारात्कम्पाद्यनुवृत्तिः ।

तस्मादनारब्धकार्याणामनालब्धवृत्तित्वादारब्धकार्यसंस्कारक्षयस्य च देहपातादवगमाद्विदुषः पतितेऽस्मिन् शरीरे कैवल्यमवश्यंभावि ।

अत्र च लब्धवृत्तिकारणसंस्काराद्वा कार्यशेषः, कार्यसंस्कारादेव वा, तथोभयसंस्कारादेव वा कम्पाद्यनुवृत्तिः ।

भयसंस्काराद्वा भयम्, ततः कम्पादयः ।

कम्पादिसंस्काराद्वा कम्पाद्यनुवृत्तिः ।

सर्वथा भवति कारणविगमेऽपि कार्यशेषानुवृत्तिः, संस्कारात् ।

अतो लब्धवृत्तिकर्मसंस्कारात्तद्विपाकाद्वा विदुषोऽपि शरीरस्थितिः ।

तदुक्तं तन्त्रान्तरेऽपि

’तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरःऽ इति ।


ये तु मन्यन्ते

प्रवृत्तभोगानां कर्मणां प्रवृत्तवेगस्येषोरिव चक्रस्येव वा न शक्यः प्रतिबन्धः, अतो भोगेन क्षयप्रतीक्षेति ।

तदसत्, [कुप्पुस्वामी संस्करण १३३] शक्यो हीषुः प्रतिबन्धुं कुड्यादिभिः, नाशयितुं च च्छेदादिभिः ।

स्वप्नादिसूचितोपस्थितविपाकवर्तमानदेहभोग्यकर्मक्षयार्थानि च शान्तिकानि कर्माणि ।

तस्मात्संस्कारादेव स्थितिः ।


ननु संस्कारकार्यशेषावविद्यैव ।

तत्र कथं सर्वाविद्याप्रविलयः, कथं वा न च्छेद्यमवशिष्यते? उच्यते

विशुद्धैकात्म्यदर्शनप्रतिपक्षग्रस्तौ विलीनावेव तावदुदितौ, अकिञ्चित्करत्वादबन्धत्वात्, तन्निवृत्तये हेत्वन्तरस्यानपेक्षणात् ।

विशुद्धं खल्वात्मानं साक्षादनुभवतो विपाकाभासस्तमस्पृशन्नकिञ्चित्करो बन्धात्मा प्रलीन एव ।

यथा चित्रादौ चित्रादितत्त्वमनुभवतः स्त्र्याद्याभासो रागादीनामनिमित्तत्वात्, तथावदातमात्मानं जानतो विपरीतं वा खड्गादिषु श्यामाद्याभास उत्पन्नोऽपि तत्त्वदर्शनादवकाशमलभमानः प्रविलीन एव ।

तथा च न तन्निबन्धनेन मलिनत्वेन शोचत्यात्मानम्, न तेजस्वितयाभिनन्दति ।

अवभासमानयोरपि तयोरात्मनि तत्त्वदर्शनप्रतिहतावभासत्वात् ।

एवं च यदुच्यते

कर्मणो वा शरीरस्थितिः स्यात्संस्काराद्वा, को विशेषः? कश्च कर्मणः क्षयः कार्यानुवृत्तौ? तन्निवृत्त्या हि तत्क्षयो गम्यते ।

तस्मात्’भोगेन त्वितरे क्षपयित्वा संपद्यतेऽ इत्येव युक्तम् ।

तदप्यपास्तम् ।

कर्मविपाको ह्यात्मसंस्पर्शी शोकाभिनन्दनवानविदुषः, विदुषस्तु तदसंस्पर्शादाभासमात्रं मणिकृपाणदर्पणादिनिबन्धनविशेषवत् ।

न विपाकः, अनभिनन्द्यमानत्वादद्विष्यमाणत्वाच्च ।

तथा च ’तत्तत्प्राप्य शुभाशुभम् ।

नाभिनन्दति न द्वेष्टिऽ इति दर्शितम् ।

तथा

’यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेःऽ ।

पश्यत एव शरीरादिप्रपञ्चो निशा, तदसंस्पर्शाददृश्यमानसमत्वात् ।


[कुप्पुस्वामी संस्करण १३४] ननु तत्त्वज्ञानप्रतिहतश्चेदुत्पन्नोऽपि प्रपञ्चावभासो नात्मसंस्पर्शी, न किञ्चित्करः, न बन्धः, शब्दादेव तस्योत्पत्तेः किमर्थमुपासनादि? उच्यते

परोक्षरूपं शाब्दज्ञानम्, प्रत्यक्षरूपः प्रपञ्चावभासः ।

तेन तयोरविरोधेन प्रपञ्चावभासो नात्मासंस्पर्शी, नाकिञ्चित्करः, न न बन्धः, यथा प्रमाणान्तरादवसीयमानमाधुर्येऽपि द्रव्ये प्रत्यक्षसरूप

इन्द्रियद्वारस्तिक्तावभासोऽद्रव्यसंस्पर्शी नाभासमात्रतयावतिष्ठते, तथा च तद्द्रव्यं परमार्थतिक्तमिवानवसितमाधुर्यमिव दुःखाय भवति ।

उपासनादिना साक्षात्कृतात्मतत्त्वस्य तु विरोधात्सन्नपि प्रपञ्चावभासो नात्मसंस्पर्शी, देवदत्त इव सिंहावभासः ।

’सिंहो देवदत्तःऽ इति समारोपेऽवभासमानोऽपि तदसंस्पर्शी, अकिञ्चित्करः, न भयहेतुः ।

नित्यश्चात्मतत्त्वप्रकाशः, तत्र न पुनर्विपयर्यावकाशोऽस्ति ।

शाब्दं तु प्रमाणाधीनं क्षणिकं ज्ञानम्, तत्र पुनरपि विपर्ययावकाशः ।

दृष्टं हि प्रमाणाननुसन्धाने पुनः सर्पभ्रान्त्या रज्जोर्भयम् ।

अथात्रापि सततं शाब्दं ज्ञानमनुसंदधीत ।

किमन्यदुपासनमस्मात्? तस्माद्बन्धहेतुच्छेदोऽपि विद्यैव, न तया साध्यः ।

एवमुत्तराघाश्लेषेऽपि वाच्यम्, ’यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यतेऽइति कर्तृकर्मप्रविभागस्य विद्यया प्रविलयात् ।

एवं न विद्याया अनेकफलकल्पना भविष्यति, वर्तमानापदेशानां च फलविधित्वेन न विपरिणतिरिति ।

यदुक्तं न शाब्दज्ञानविषयो ब्रह्मेति, तत्रोच्यते


न ब्रह्म शब्दधीगम्यं यद्यशक्यो धियो विधिः ॥ २.१०८ ॥

धीविशेषप्ररूपाय नासिद्धो विषयः क्षमः ।

[कुप्पुस्वामी संस्करण १३५] विधिर्नारूपितपदो धीमात्रं न विधीयते ॥ २.१०९ ॥


न खलु ज्ञानमात्रं विधीयते, ज्ञानविशेषवस्तु ।

न चाप्रसिद्धेऽनिरूपिते तत्र नियोगः ।

न ह्यप्रसिद्धे विषये नियोक्तुं शक्यते ।

ज्ञानस्य च विशेषोऽर्थद्वारः ।

न चाप्रसिद्धोऽर्थस्तद्विशेषनिरूपणाय प्रभुः ।

न चात्मरूपस्य शब्दादन्यतः सिद्धिः ।

शब्दादपि चेन्न सिद्धिः, तद्द्वारज्ञानविशेषासिद्धौ विषयानुपपत्तेर्नियोगानुपपत्तिः ।


अपि च ज्ञानविशेषविधिवादिन आत्मतत्त्वे प्रामाण्यमेव हीयत इति दर्शयति


विधिः स्वसिद्धिनिष्ठो वा क्रियासिद्धिपरोऽथवा ।

अद्वैतब्रह्मतत्त्वस्य प्रतिपत्तिरहेतुका ॥ २.११० ॥


विनियोगादधिगतिर्यास्या ज्ञानक्रियार्थता ।

अतत्परा न प्रमाणं सार्थवादोत्थबुद्धिवत् ॥ २.१११ ॥


विधिः क्रियागोचरत्वान्न द्रव्ये व्यापृतिक्षमः ।

सत्तान्वयात्तु तत्सिद्धिः प्रत्युतेति स दुष्यति ॥ २.११२ ॥


विशिष्टान्यक्रियाबोधः प्रमाणं न विशेषणे ।

प्रतिपत्तिर्विशिष्टापि विषयस्य नियोगतः ॥ २.११३ ॥


सत्तां न साधयत्येव समारोपेण संभवात् ।


यदि तावन्नियोगस्यैव कार्यता प्रतीयेत, तदा स स्वनिष्पत्तौ पर्यवसितः सह शब्देन ।

अथ विनियोगाद्विषये कर्तव्यतावगमः, तथापि विषयसिद्धौ ।

उभयथा न वस्तुतत्त्वं संस्पृशति ।

तत्राद्वैतात्मतत्त्वप्रतिपत्तिरप्रमाणिका स्यात् ।


स्यादेतत्

’य आत्मापहतपाप्मा विजरःऽ इति पदानां सामानाधिकरण्येन सम्बन्धादन्यथा वा वस्तुतत्त्वप्रतिपत्तिरिति ।

तच्च न, अन्यपरत्वात् ।

[कुप्पुस्वामी संस्करण १३६] सा हि न ’ेवमिदम्ऽइति पर्यवसिता, किं तु ’ेवमिदं प्रतिपत्तव्यम्ऽइति कर्तव्यतानिष्ठा न वस्तुतत्त्वे प्रमाणं वृत्तान्तेष्विवार्थवादोत्थज्ञानम्, अन्यपरत्वात् ।

न चात्मतत्त्वमेव विधेर्विषयः, तस्यानुष्ठेयविषयत्वात्, क्रियायाश्च तथाभावात्, सिद्धवत्स्वशब्दोपादानेऽननुष्ठेये द्रव्ये व्यापारायोगात् ।

प्रत्युताविधेयकालत्रयान्यतमसंस्पृष्टसत्तानुगमेन द्रव्यस्वरूपसिद्धिः

’ीदृशं वस्त्वभूत्, अस्ति, भविष्यति वाऽ इति ।

तस्मात्स्वरूपसिद्धौ दुष्यति ।

न हि विधेयस्य कालत्रयेऽपि सत्तावगमः ।

न हि ’यजेतऽइत्युक्ते यागस्य भूतकाला वर्तमानकाला भविष्यत्काला वा सत्ता प्रतीयते ।

ननु भविष्यत्कालावगम्यते, भविष्यत्कालविषयत्वाद्विधेः ।

नैतत् ।

न हि ’विहितं नियोगतोऽनुष्ठास्यते, विहिताकरणदोषाभावप्रसंगात् ।

ननु विशिष्टक्रियाभिधानं विशेषणेऽपि प्रमाणमिष्यते

यथा ’सोमेन यजेतऽ ।

तथा ’ङ्गदी कुण्डली व्यूढोरस्को देवदत्तस्य पुत्रोऽधीतेऽइत्यध्ययनक्रियावत्सर्वो विशेषणकलापः प्रतीयते ।

सत्यम् ।

विशिष्टक्रियाप्रमाणं विशेषणेऽपि प्रमाणमन्यत्र प्रतिपत्तेः ।

प्रतिपत्तिर्हि विषयविषेशविशिष्टा प्रमीयमाणा न विषयविशेषस्य सद्भावं गमयति, अन्यथाभूते तथाभाससमारोपेणापि संभवात्’सौ वाव लोको गौतमाग्निःऽइति यथा द्युप्रभृतिष्वनग्निदृष्टेः ।


अत्राह


ननु नो विपरीतार्था धीः प्रतीतिविरोधतः ॥ २.११४ ॥


अनाश्वासाच्च रजतप्रत्ययो रजते स्मृतिः ।


न खल्वन्यदन्यथा प्रतीयत इति युक्तम्, प्रतीतिविरोधात् ।

कथमन्यस्मिन् प्रतिभासमानेऽन्यो विषयः? अनाश्वासाच्च ।

विषयरूपव्यभिचारिणि ज्ञाने न ततो विषयनिश्चयः स्यात् ।

अपि च विषयरूपमननुकुर्वदविषयमनालम्बनं ज्ञानमग्राह्यमेव स्यात् ।

ज्ञानहेतुमात्रस्यानालम्बनत्वाच्चक्षुरादिवत् ।

तथा [कुप्पुस्वामी संस्करण १३७] चावेदकत्वान्नान्यापेक्षादपि ततोऽर्थसिद्धिः ।

किं तर्हीदं शुक्तिसंनिकृष्टे चक्षुषि ’रजतम्ऽ इति? स्मृतिः, सामान्यग्रहणात् ।

भ्रान्तिस्तर्हि कथम्? प्रत्यक्षस्मर्यमाणयोर्विवेकाग्रहणात् ।

सोऽयं भेदाग्रहणेऽभेदग्रहणाभिमानो विवेकरहितानाम्, यथा दूरादन्तरालाग्रहणे वृक्षादिषु संश्लेषग्रहणाभिमानः ।

तस्मात्’स्मरामिऽइति विवेकशून्या रजतस्मृतिरेषा ।

अत्रोच्यते


नैतन्न हि प्रवर्तेत शुक्तिकाशकले तदा ॥ २.११५ ॥


रजते सा प्रवृत्तिश्चेन्न तस्यासंनिधानतः ।

असंनिधानाबोधाच्चेत्प्रवृत्तिनियमः कुतः ॥ २.११६ ॥


प्रवर्तते यत्तत्रैव तत्तत्संनिधिकारितम् ।

अन्यत्र भेदग्रहणाद्विवेकाग्रहणात्तथा ॥ २.११७ ॥


प्रवृत्तिभेदः सादृश्याद्विवेकाग्रहणं यदि ।

अदृष्टेषु प्रवर्तेत लोष्टादिष्वविवेकतः ॥ २.११८ ॥


न तत्र यदि तद्बुद्धिः शुक्तिकाशकलेऽपि न ।

अथास्ति विपरीतार्था ख्यातिर्निह्नूयते कथम् ॥ २.११९ ॥


अदृष्टत्वादप्रवृत्तिः शुक्तिकाशकले समा ।

दृष्टं तद्येन रूपेण तत्प्रवृत्तेरकारणम् ॥ २.१२० ॥


दृष्टस्मृताविवेकाच्चेदिदमत्र परीक्ष्यताम् ।

तत्त्वबोधादथातत्त्वाबोधाद्रजतवेदनात् ॥ २.१२१ ॥


दृष्टे प्रवृत्तिः पूर्वस्मिन्विपरीतार्थता मतेः ।

न दृष्टादृष्टयोर्भेदः परस्मिन्नोपयोगिनी ॥ २.१२२ ॥


स्वयोगदर्शने ते हि समारोपोपयोगिनी ।

नादृष्टेऽसंप्रयुक्ते वा चाक्षुषः स्याद्विपर्ययः ॥ २.१२३ ॥


यदि चक्षुषा संप्रयुक्तं शुक्तिशकलं ’न रजतम्ऽ इति प्रतीयात्, रजतं वा तथा, न शुक्तिकाशकल आदित्सया प्रवर्तेत रजतार्थी, तस्य ’रजतम्ऽ [कुप्पुस्वामी संस्करण १३८] इत्यनवगतेर्लोष्टादिवत् ।

न च स्मर्यमाणे रजते सा प्रवृत्तिः, तद्देशासंनिधेः ।

न हि प्रतीतिमुपगतेऽपि वस्तुनि यत्र तस्यासंनिधिस्तत्र तेनार्थी प्रवर्तते ।

स्यादेतत्

रजतस्य प्रतीतेरसंनिधेश्चाप्रतीतेस्तत्र प्रवृत्तिः ।

तन्न, शुक्तिकाशकल एव प्रवृत्तेः ।

तत्रैव तु प्रवृत्तिस्तत्संनिधिनिबन्धना ।

रजतमात्रप्रतीतेः स्मृतिविवेकशून्यत्वाच्च प्रवृत्तिरन्यत्रापि स्यात्, असंनिधानाग्रहणस्य तत्राप्यविशेषात् ।

अथ मतम्

अन्यदेशेषु वस्तुषु सविशेषप्रत्यक्षावगतेषु रजताद्विवेकग्रहणादप्रवृत्तिः, शुक्तिकाशकले तु रजतसाधारणशुक्लभास्वररूपमात्रप्रतीतेर्विशेषात्प्रत्ययाच्च स्मृतिविपरिवर्तिनो रजताद्विवेकग्रहणात्प्रवृत्तिः ।

एवमप्यदृष्टेषु लोकादिषु ततोऽन्यतानवधारणात्प्रवृत्तिः स्यात् ।

अथ न तेषु रजतावगमः, इतरत्रापि न ।

भावे वा विपरीता ख्यातिरभ्युपगता स्यात् ।

अथादृष्टत्वादेवादृष्टेषु न प्रवर्तते, शुक्तावपि न प्रवर्तेत ।

ननु यत्तु तथा रजतरूपम्, न तेनावगमः ।

स यथा चक्षुषासंप्रयुक्तस्य नास्ति, तथा संप्रयुक्ताया अपि शुक्तेः ।

यदि मन्येत

दृश्यमानस्मर्यमाणयोगविवेकाच्चक्षुःसंप्रयुक्त एव प्रवर्तते, नेतरस्मिन् ।

तत्रापीदं विचार्यम्

विवेकग्रहणस्य विवेककृतोऽभावात्संनिधिप्रतीतेरभेदबोधस्ततो वा प्रवृत्तिः, भेदावबोधाभावमात्राद्वा? पूर्वस्मिन्विपर्ययः, उत्तरस्मिन् दृश्यमानादृश्यमानयोः संप्रयुक्तासंप्रयुक्तयोर्वा न विशेषः, भेदाग्रहणस्य तुल्यत्वात् ।

न हीन्द्रियसंयोगस्य दर्शनस्य वा कश्चिदग्रह उपयोगः, अभूतसमारोपे त्वस्ति ।

न कथञ्चिदगृहीतेऽसंप्रयुक्ते वैन्द्रियकः समारोप उपपद्यते ।

स्मृतं प्रत्यक्षतो भिन्नं स्वज्ञानादेव चेत्कुतः ।

[कुप्पुस्वामी संस्करण १३९] अविवेकोऽन्यथा तु स्यात्सदा सामान्यदर्शने ॥ २.१२४ ॥


विपर्ययोऽन्यं स्मरतो न च संशयदर्शनात् ।

स्मृतद्वयाविवेकोत्थं संशयं यदि मन्यते ॥ २.१२५ ॥


तन्नोभयोरपि यतः स्मृतौ दृष्टो विपर्ययः ।

विशेषज्ञानतोऽध्यक्षे स्मृतं यदि विविच्यते ॥ २.१२६ ॥


न स्वज्ञानादसत्यस्मिन्द्विस्मृतौ कथमेकधीः ।

एकत्वमेव स्मरतः प्राग्रूपं शशिनि स्फुटम् ॥ २.१२७ ॥


तिमिरादिप्रदोषेण कथं ते द्वित्वविभ्रमः ।

पिपासतश्च सलिलं शुक्तिकाहितचेतसः ॥ २.१२८ ॥


विपर्ययो न हि भवेद्भवन्वा सलिले भवेत् ।


अपि चेदं तत्र भवान् व्याचष्टाम्

स्मर्यमाणं दृश्यमानात्स्वज्ञानादेव विविच्यते, न वा

स्मृतिज्ञानस्य स्वरूपमेव तादृशं यत्प्रमातव्याद्भेदेनावभासयति, स्वरूपमात्रनिष्ठं वा ।

तत्र पूर्वस्मिन् स्मरणगोचरयोरविवेकः कुतः, स्वज्ञानादेव विविक्तत्वात्? इतरस्मिन्नपि सदा स्मृतौ विपर्ययः स्यात्, सामान्यदर्शने चान्यस्मृतावविवेकात् ।

न च तत्तथा, संशयस्यापि दर्शनात् ।

अथ मतम्

एकस्मृतौ विपर्ययः, ततोऽविवेकात् ।

अनेकस्मृतौ तु संशयः ।

नैकस्मादविवेकात् ।

तदसत् ।

अनेकस्मरणेऽपि हि दृश्यते विपर्ययः ।

यदि च प्रत्यक्षेऽर्थे विशेषज्ञानात्स्मर्यमाणं विविच्यते, न स्वज्ञानात् ।

असति तत्र विशेषज्ञाने च द्वयोः स्मृतौ संशय एव स्यात्, नैकावभासो विपर्ययः ।

अथ तु स्वज्ञानात्स्मृतं विविच्यते, स्मृतिविपर्ययभेदश्चाभ्युपगम्यते ।

तदानेकस्मरणेऽपीन्द्रियदोषविशेषाद्युक्तो विपर्ययः ।

दर्शितं चेदम्

सामान्यदर्शनेऽपि कदाचिदेकां कोटिं स्मरतो न संशयो न विपर्ययः, दोषाणामपुष्टेः ।

अतः स्वज्ञानादेव तदा स्मृतं विविच्यते, न दृश्यविशेषपरिच्छेदात् ।

एवं चेत्कुतो दृश्यमानस्मर्यमाणाविवेकः?


[कुप्पुस्वामी संस्करण १४०] अपि च अन्यदेव स्मरतः पूर्वरूपमेकत्वं शशिनि द्वित्वविभ्रमः, न स्मर्यमाणाविवेकजः ।

न च ज्ञानेन्द्रियवृत्तिभेदाविवेकात्, तयोरप्रत्यक्षत्वात्स्मर्यमाणत्वाच्च ।

शुक्तिकाहितचेतसश्च सलिलं पिपासतो न स्याद्विपर्ययः ।

सलिलाभासो वा, स्मर्यमाणस्य स्वज्ञानविवेकात् ।


न च सर्वा नियोगेन भ्रान्तिः सादृश्यबन्धना ॥ २.१२९ ॥


श्वेते पीतभ्रमो दृष्टो मधुरे तिक्तविभ्रमः ।

किञ्चित्सादृश्यतो हि स्यान्न कश्चित्तत्र न भ्रमः ॥ २.१३० ॥


तस्मादिन्द्रियदोषाणां सामर्थ्यस्य विभागतः ।

भ्रमेषु नियमो दोषादग्रहे न भ्रमे यमः ॥ २.१३१ ॥


यदि च सदृशदर्शनात्सदृशस्मृतेर्भ्रमः, कथं श्वेते पीतभ्रमः मधुरे वा तिक्तभ्रान्तिः? आन्तरपित्तसंवेदनेऽव्यापारयतोऽपि बहिरिन्द्रियं स्यात्, अञ्जनवच्चाक्षिगतस्य तद्गतकृष्णिमादिवच्चादृश्यत्वात् ।

किञ्चित्सादृश्ये सर्वप्रकारभ्रमप्रसंगः ।

तस्मादिन्द्रियदोषसामर्थ्यभेदान्नियता विपर्ययोत्पत्तिः ।

अग्रहमात्रे तु दोषव्यापारे कामिलादिदोषाद्भ्रान्तिनियमो न स्यात् ।

न हि सादृश्यनिमित्तः, असदृशेऽपि भ्रान्तिदर्शनात् ।


विशेषस्मरणान्नापि स्मृतावपि तदग्रहः ।

देशकालविशेषाच्च न स्मृतं प्रविविच्यते ॥ २.१३२ ॥


अनेकदेशाधिगतं विविक्तं न पुनस्ततः ।

स्मृतिरित्यपि विज्ञानं स्मृतेरन्यदुदाहृतम् ॥ २.१३३ ॥


न च मानफलाद्भिन्नात्तत्सिद्ध्यति फलादृते ।

सति स्मृतिविवेके च प्रत्यभिज्ञानविभ्रमः ॥ २.१३४ ॥


अथानसंनिहितो व्यर्थो वेद्यः संनिधिमत्तया ।

अविविक्तस्मृतेरेवं विपरीतार्थता भवेत् ॥ २.१३५ ॥


मनसोऽनुपघाताच्च नासंनिध्यपरिग्रहः ।

दोषो ह्यग्रहणे हेतुरिन्द्रियाणामुदाहृतः ॥ २.१३६ ॥


[कुप्पुस्वामी संस्करण १४१] प्रवृत्तिनियमो न स्यादिति चात्र निवेदितम् ।

सर्वज्ञानानि मिथ्या च प्रसज्यन्तेऽत्र कल्पने ॥ २.१३७ ॥


सर्वात्मनार्थो ज्ञानेन केनचिन्न हि गृह्यते ।

तथाज्ञातविवेकस्य द्विचन्द्रादिविपर्ययात् ॥ २.१३८ ॥


अनुवृत्तिमतः पश्यन् कस्य स्वात्मापनिह्नुते ।


अथ मतम्

स्वज्ञानादेव स्मृतं विविच्यते ।

कदाचित्तु तत्र प्रत्यक्ष इव विशेषाग्रहस्ततोऽविवेकः ।

सतो तु विशेषग्रहण इन्द्रियसंयुक्ते सामान्यदर्शनेऽपि नाविवेकः, तत उभयकोटिस्मरणे न संशयः, एकस्मृतौ न संशयो न विपर्ययः ।

एवमपि द्वयोः स्मरणे न विपर्ययः स्यात् ।

न च स्मृतौ विशेषग्रहणम्, विशेषस्मरणात् ।

अथ देशकालविशेषात्स्मर्यमाणं विविच्यते, तत्र देशकालभेदाग्रह इति ।

तन्न, अनन्तदेशकालभेदावगतं तद्देशावगतं च दृश्यात्स्मर्यमाणं विविक्तं गम्यते ।

न च देशकालभेदग्रहणात्, अनन्तस्मरणानुपपत्तेः, तद्देशावगते च देशभेदाभावात् ।

अथ स्मर्यमाणतया अग्रहणादविवेकः स्मर्यमाणताज्ञानाच्च विवेकः, तस्मात्’स्मरामिऽ इति ज्ञानशून्यानि रजतादिज्ञानानि भ्रान्तिहेतवः ।

परिपूर्णैव तर्हि स्मृतिः, न तया स्वविषयस्य किञ्चिन्न गृहीतम् ।


स्वयमेव सा स्वविषयं दृश्याद्विविनक्तीति नास्ति दृश्यमानस्मर्यमाणयोरविवेकः ।

यतः स्मरामि इति ज्ञानमन्यदेव दर्शनस्मरणविवेककारि स्मृतेः ।

तत्रेदं विचार्यम्

स्मृतिः स्वविषयं विविनक्ति वा न वा? यदि विविनक्ति, तदा विपर्ययाभावः ।

अथ न स्मृतिः स्वविषयं विविनक्ति, तदा सामान्यदर्शने चान्यस्मृतौ विपर्ययः स्यादित्युक्तम् ।

न ’स्मरामिऽइति विवेकाच्चेत्, स एव स्मृतेः स्वयमविवेचकत्वेन स्यात्, कार्यगम्यस्य हि ज्ञानस्य भेदः कार्यविशेषोन्नेयः ।

न चेत्स्मृतेः प्रमाणकार्यात्कार्यं विविक्तं स्यात्, केन सा विविक्ता गम्येत? सत्यपि स्मृतिविवेके दृष्टः प्रत्यभिज्ञाभ्रमः ’स एवऽ इति न च प्रत्यक्षस्याविवेकः, एकविवेकेनोभयोर्विकारात्स्मृतादविवेकाच्च स्मृतिविभ्रमः स्यात्, न प्रत्यक्षभ्रमः ।

तस्मान्न ’स्मरामिऽइति प्रमोषादविवेकः ।

अथासंनिहितस्य [कुप्पुस्वामी संस्करण १४२] संनिहितात्मना प्रतीतिरविवेकः, स्मृतेर्विपरीतार्थत्वप्रसंगः ।

अथासंनिध्यग्रहणात्, भवतु स स्वप्नज्ञाने, नत्विन्द्रियजायां भ्रान्तौ ।

मनसोऽनुपघातादुपघातहेतुत्वाच्चाग्रहणस्य ।

न चेत्थं प्रवृत्तिनियमः स्यादित्युक्तम् ।

सति च वस्तुग्रहे कस्यचिदंशस्याग्रहाद्भ्रान्तौ सर्वज्ञानभ्रमत्वम् ।

न हि कस्यचिज्ज्ञानस्य सर्वात्मना वस्तु विषय इति ।

सत्यपि च विवेकज्ञाने प्रमाणान्तराद्द्विचन्द्रदिङ्मोहाद्यनुगतिर्दृष्टेति नाग्रहणमात्रं विपर्ययः ।


प्रसक्तप्रतिषेधात्मा ख्यातिः प्राप्तौ प्रकल्पते ॥ २.१३९ ॥


नाग्रहः प्रापकोऽभावः प्रापिका विपरीतधीः ।

ये च ख्याती तु रजतश्चक्षुःसंयुक्तवस्तुनोः ॥ २.१४० ॥


नायं तदुपनीतार्थप्रतिषेधोऽवगम्यते ।

न चाग्रहणमेवैषा प्रतीतिरपबाधते ॥ २.१४१ ॥


सर्वा ह्यग्रहबाधेन जन्म न स्यात्तथेदृशी ।

विवेकविज्ञानमिदं न प्रसक्तनिषेधधीः ॥ २.१४२ ॥


इति ब्रुवाणो वैयात्यात्स्वां प्रतीतिमपह्नुते ।

न क्रमे यौगपद्ये वा विवेकमतिरीदृशी ॥ २.१४३ ॥


प्राप्ते स्यादैक्यसंवित्तौ न भेदस्यानिरूपणे ।

रजतस्य स्मरंश्चक्षुःसंयुक्तस्य च वस्तुनः ॥ २.१४४ ॥


सामान्यदृष्ट्या रजतादबुद्ध्वा च विविक्तताम् ।

पश्चाद्विविञ्चन् प्रत्येति नैवं सामान्यदर्शने ॥ २.१४५ ॥


कोटिद्वयस्मृत्यभावे संशयो न नियोगतः ।

विवेकग्रहणाभावात्कालसंनिधिसंविदः ॥ २.१४६ ॥


तद्वदाभासनात्प्राप्ताविष्टः स्यादन्यथाग्रहः ।

तत्राग्रहो निमित्तं स्यादथवा संनिधिग्रहः ॥ २.१४७ ॥


भेदग्रहापवादेन रहितो भावरूपतः ।

विपर्ययानभ्युपाये भ्रमोऽग्रहनिबन्धनः ॥ २.१४८ ॥


[कुप्पुस्वामी संस्करण १४३] शब्दैकगम्य उक्तः स्यादग्रहोऽग्रहबन्धनः ।


’नेदं रजतम्ऽइति प्रसक्तप्रतिषेधरूपा प्रतीतिर्नाग्रहणेऽवकल्पते, प्रसङ्गाभावात् ।

न खल्वग्रहणं कस्यचित्प्रसञ्जकम् ।

अभावो हि सः ।

विपरीता तु ख्यातिः संनिहितस्य रजततामभूतां रजतस्य वा संनिहिततामादर्शयन्ती प्रसञ्जयति ।

ननु च रजतनयनघटितवस्तुनोः ख्याती स्तः ।

ते एव प्रसञ्जिके ।

सत्यम् ।

न तु तदुपनीतयोरियं निषेधावगतिः ।

न हि ’नेदं रजतम्ऽइति रजतमात्रं चक्षुःसंयुक्तवस्तुमात्रं वा निरस्यमानमवस्यामः ।

किं तु चक्षुःसंयुक्तस्य तु रजततां रजतस्य वा चक्षुसंयुक्ताम् ।

न चैतयोरग्रहणं प्रापकम्, अग्रहणत्वादेव ।

तस्मादवश्यं प्रतिषेध्यप्राप्तये विपरीतख्यातिरुपासनीया ।

न च ’नेदम्ऽइत्यग्रहणमेव वार्यते, सर्वज्ञानेषु ताद्रूप्यप्रसंगात् ।

सर्वज्ञानानामग्रहबाधेनोत्पत्तौ च विवेकज्ञानमात्रमिदं न प्रसक्तप्रतिषेधरूपमिति प्रतीत्यनुसारिणोऽनुरूपम् ।

न हि रजतशुक्तिकाशकलयोर्युगपद्विविक्तयोर्ग्रहणे ईदृशी प्रतीतिर्न क्रमेण ।

अविविक्तयोर्ग्रहण ईदृशी स्यादिति चेत् ।

युक्ता, विविक्तयोर्ग्रहणेऽविवेकप्रतिषेधरूपत्वात् ।

विविक्तयोर्ग्रहणे प्राप्त्यभावयुक्ता ।

अपि च भवति कदाचित्

यः स्मरति च रजतस्य, चक्षुःसंयुक्तस्य वस्तुनः सामान्यमात्रदर्शी, न रजताद्विवेकं गृह्णाति, पुनश्चक्षुःप्रसादात्प्रत्येति ।

न च तदा तथा प्रतीतिरविवेकग्रहणाभावात् ।

ननु सामान्यदर्शने न चेद्विपर्ययः, संशयः स्यात् ।

तदपनोदि च निर्णयज्ञानमीदृशमेव ।

नैतत्सारम् ।

न ह्यसति कोटिद्वयस्मरणे सामान्यदर्शनेऽपि संशयः, न च विपर्ययः ।

भवति हि पुरोऽवस्थिते भास्वररूपमात्रप्रतीतिः, रजते च स्मृतिः ।

न च तयोरन्यत्वं प्रतिपद्यते, नैकत्वं च ।

तत्र न विवेकज्ञानमेवंरूपम्, एकत्वाप्रतिपत्तेः ।

अथ मतम्

विवेकाग्रहणात्कालसंनिधिप्रतीतेश्च रजतं वा चक्षुःसंप्रयुक्तवदवभासते, चक्षुःसंयुक्तं वा रजतवत् ।

अतः प्राप्तिरिति प्रतिषेधोपपत्तिः ।

अभ्युपेता तर्हि विपरीतख्यातिः ।

न ह्यन्या सा, अतदात्मनस्तथावभासनात् ।

कामं [कुप्पुस्वामी संस्करण १४४] तत्त्वाज्ञाननिमित्ता स्यात् ।

न हि सा तत्त्वज्ञाने सत्युदेति, विरोधादिति ।

तत्रापि संनिधिख्यातिरेव निबन्धनम् ।

तस्यास्तु विवेकग्रहोऽपवादः ।

अग्रहणे निरपवादा सैव कारणम्, नाभावः ।

विपरीतख्यात्यनभ्युगमे चाग्रहणनिबन्धनो भ्रम इत्यग्रहणमग्रहणनिबन्धनमिति सुव्याहृतम् ।

स्वप्ने च द्वितीयाभावात्कुतोऽविवेकः, स्मृतत्वेनाविविक्तस्य तथा विवेके धर्मिणि प्रतिपन्ने धर्मान्तरप्रतिपन्ने धर्मान्तरप्रतिपत्तेर्बाधकत्वं पूर्वस्याश्च भ्रान्तित्वं स्यातामिति ।


यः प्रतीतिविरोधस्तु स स्वदोष उदाहृतः ॥ २.१४९ ॥


सामानाधिकरण्येन बोधाद्रूप्यमिदं मितम् ।


ऽइदं शुक्लं रजतम्ऽइति सामानाधिकरण्येन प्रतीतेरात्मोपालम्भः परस्मिन्नासज्यते प्रतीतिविरोधः, ज्ञानभेदकल्पनायाः प्रमाणाभावात् ।


अनाश्वासो ज्ञायमाने ज्ञानेनैवापबाध्यते ॥ २.१५० ॥


व्यभिचारादसामर्थ्यं न तत्कार्यस्य लाभतः ।

व्यभिचारात्प्रमेयत्वे कार्यमेव न लभ्यते ॥ २.१५१ ॥


यो हि ज्ञायमानेऽर्थेऽन्यथापि स्यादित्यनाश्वासस्तस्य तेनैव ज्ञानेन तथात्वपरिच्छेदिनोत्पत्तिर्निरुध्यते ।

तथा हि

अनाश्वासनिवृत्तये तद्विधं ज्ञानमेवापेक्ष्यते ।

तच्चास्त्येव ।

न च व्यभिचारदोषादसमर्थप्रमाणं ज्ञानमिति युज्यते, प्रमाणकार्यस्य परिच्छेदस्य ज्ञानरूपादेव सिद्धत्वात् ।

परिच्छेदतो हि प्रामाण्यम् ।

अतन्त्रता तु व्यभिचाराव्यभिचारयोः, असति तस्मिन् धूमादेरव्यभिचारस्याप्यप्रमाणत्वात्, व्यभिचारवतोऽपि च सितासितादिषु चक्षुषः सति तस्मिन् प्रामाण्यात् ।

न च व्यभिचारो बाधहेतुर्दोषवत्प्रामाण्योपघाती क्वचिद्दृष्टः, चक्षुरादौ व्यभिचारवति प्रमाणत्वात् ।

ननु दृष्टो व्यभिचारः प्रामाण्योपघाती प्रमेयत्वोर्ध्वत्वादौ ।

नैतत्सारम् ।

न [कुप्पुस्वामी संस्करण १४५] तत्र व्यभिचारादप्रामाण्यम्, अपि तु परिच्छेदकार्याभावात् ।

तदभावश्च हेत्वभावात् ।

अव्यभिचाराद्धि लिङ्गाल्लिङ्गिपरिच्छेदः ।

यत्र त्वव्यभिचारो न कारणं तत्र व्यभिचारेऽपि सति परिच्छेदे प्रामाण्यमविवादम् ।

अक्षेषु तद्वदेव च ज्ञानं परिच्छेदनिमित्तम्, न लिङ्गवत् ।

न च संशयोत्पत्त्या व्यभिचारः प्रामाण्यमुपहन्ति, सम्यक्परिच्छिन्ने द्वैविद्ध्यस्यासंशयहेतुत्वात् ।

न निश्चिते स्थाणावूर्ध्वत्वेन संशेरते ।

उत्पत्त्यैव ज्ञानमर्थमवधारयति ।

अनवधारकं तु नैवेहाधिकृतम् ।

एवं चावधारणादेवानवधारणमिति विप्रतिषिद्धम् ।

य एव त्वव्यभिचारमर्थयते ज्ञानस्याश्वासार्थं तस्यैवानाश्वासः, अव्यभिचारज्ञानेऽप्यनाश्वासात् ।

न हि तदसिद्धव्यभिचारमात्मनि ज्ञानान्तरेषु चाश्वासकारणम् ।

ज्ञानान्तरात्सिद्धावनवस्था ।

अपि च ज्ञानरूपाच्चेन्नार्थाश्वासः, तस्यासिद्धौ केन सहाव्यभिचारो ज्ञानस्य गृह्येत? किं च ज्ञानरूपादेवाव्यभिचारोऽपि कथ्यते, विपरीतख्यातौ तद्विरोधात् ।

तथा सति तदेव विषयस्य साधकम्, व्यर्थोऽव्यभिचारः ।

न च व्यभिचारः प्रामाण्यमुपहन्तीत्युक्तम् ।


अपि चाग्रहणेऽभीष्टं यद्विवेकनिबन्धनम् ।

न पराणुद्यते दण्डैस्तद्विपर्ययदर्शने ॥ २.१५२ ॥


नोद्रेकहेतवो दोषाः कार्यसामर्थ्यघातिनः ।

ग्रहाग्रहविभागः स्यादतस्तत्सदसत्त्वतः ॥ २.१५३ ॥


विपर्यये हि नितरामुपघातः प्रकल्पते ।

इष्टकार्योपरोधेन विपरीतोदयेन च ॥ २.१५४ ॥


तस्मात्तत्सदसत्त्वाभ्यां विवेकोऽत्रापि कल्पते ।

दोषेऽसत्यग्रहाशङ्का कथं च विनिवर्तते ॥ २.१५५ ॥


[कुप्पुस्वामी संस्करण १४६] न हि कारणसद्भावे कार्यसत्ता नियोगतः ।

प्रत्यक्षं कार्यमेवं च हेतुनानुमितं भवेत् ॥ २.१५६ ॥


विपर्यये फलाभावो हेत्वभावात्तु युज्यते ।


विवेकोपायश्च दोषाभावभावौ ग्रहणाग्रहणयोर्न दण्डवारितौ ।

विपर्यये विपर्ययहेतवोऽभ्युपघातकाः, सुतरामिष्टकार्योपरोधाद्विपरीतोदयाच्च ।

न चादुष्टेष्वपीन्द्रियादिषु अग्रहाशङ्कानिवृत्तिः, यतो हेतुभावेऽपि न नियोगतः कार्यम्, विपर्ययश्च स्यात् ।

प्रत्यक्षासंवित्तिर्हेतुनानुमीयेत ।

फलात्तु हेतोर्हेतुभावानुमानम् ।

दोषाभावात्तु विपर्ययकार्यासत्त्वं युक्तानुमानम्, हेत्वभावे कार्यानुत्पादात् ।


अनालम्बनतापत्तिर्यथाकारान्तरार्पणम् ॥ २.१५७ ॥


स्वरूपानर्पणादेवं भवेदग्रहणेऽपि ते ।

कस्यचित्त्वर्पणं तुल्यमथ तत्र न तत्तथा ॥ २.१५८ ॥


परस्यापि हि तत्रैवमथ तत्र तथा स्थितेः ।

सर्वत्र स्यात्तथाभावः स्यादेवं ग्रहणेऽपि ते ॥ २.१५९ ॥


यथा तत्रानिमित्तत्वात्सम्यज्ञानेऽनिमित्तता ।

शङ्क्यते ग्रहणेऽप्येवमग्रहे सा निरूपिता ॥ २.१६० ॥


ज्ञानादेव निमित्तत्वमन्येषां न विशिष्यते ।


आलम्बनत्वहानं च यथाकारान्तरावभासे चक्षुःसंयुक्तस्य तथाग्रहणेऽपि, स्वरूपानर्पणस्य तुल्यत्वात् ।

अथ कस्यचित्सामान्यरूपस्य स्वाकारत्वात्

अथ कानिचिच्चक्षुःसंयुक्तानि वस्तूनि स्वेन रूपेण गृह्यन्त इति कस्यचिदग्रहणेऽपि नानालम्बनत्वम्

तुल्यम् ।

आकारान्तरावभासेऽपि केषाञ्चित्[कुप्पुस्वामी संस्करण १४७] स्वाकाराणामवभासनात् ।

अथाग्रहणे नैव चक्षुःसंयुक्तस्यालम्बनत्वमिष्यते, परोऽपि नैव विपर्यय इच्छति ।

एवं ह्युक्तम्


ऽतस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते ।

तन्निरालम्बनं ज्ञानमभावालम्बनं च तत्ऽ ॥

अथ विपर्यये चक्षुःसंयुक्तस्यालम्बनत्वादन्यत्राप्यनालम्बनताशङ्का, अग्रहणेऽपि तुल्या ।

यथा खलु विपर्ययज्ञाने चक्षुःसंप्रयुक्तवस्तुस्वभावनिरपेक्षता दृष्टा सम्यग्ज्ञानेऽपि शङ्क्यते ज्ञानत्वसामान्यात्तथा चक्षुःसंप्रयुक्तमपि वस्तु नाविकलरूपं गृह्यते, तेनानालम्बनं भवति, सदृशस्मृतिहेतुतां च प्रतिपद्यते

इत्यग्रहणे दृष्टानालम्बनता ग्रहणेष्वपि कस्मान्न शङ्क्यते? दोषाभावादिति चेत्, विपर्ययेऽपि तुल्यम्, न चान्यथालम्बने निरालम्बनत्वम् ।

चक्षुस्त्वन्यथापि नालम्ब्यते ।

आलम्बनार्थश्च रजतव्यवहारयोग्यता शुक्तेः, तथा हि रजतार्थी तामादत्ते ।

घटस्यापि हि नैवान्यत्स्वज्ञानालम्बनत्वमन्यत्र व्यवहारयोग्यतायाः, यतो न विषयाकारं ज्ञानम् ।

तत्र शुक्तिः स्वरूपेण नालम्बिता रजतज्ञानेन, तन्निबन्धनव्यवहारभावात् ।

रजतरूपेण तु तन्निबन्धनस्योपादानव्यवहारस्य तत्र भावादिति ।


क्रियानिष्ठेऽपि विधौ वस्तुस्वरूपसिद्धये कश्चिदाह


अवघातप्रोक्षणादेर्यथा द्रव्यार्थता स्थिता ॥ २.१६१ ॥


ज्ञानं स्वभावाद्द्रव्यार्थं कर्मत्वाच्चात्मनस्तथा ।

भवत्वेवं तथापीष्टरूपसिद्धिः कुतो मता ॥ २.१६२ ॥


शब्दस्तदर्थकार्यत्वे तावज्ञानस्य निष्ठितः ।

ज्ञानाज्ज्ञेयस्य कोऽन्योऽर्थः स्वरूपप्रतिभासनात् ॥ २.१६३ ॥


अदृष्टकल्पना युक्ता न च दृष्टस्य संभवे ।

[कुप्पुस्वामी संस्करण १४८] तस्माद्यथा प्रोक्षणादिविधेर्व्रीहिषु गम्यते ॥ २.१६४ ॥


अदृष्टा संस्कृतिर्ज्ञानविधे रूपं तथात्मनः ।


यथा अवघातप्रोक्षणादयः स्वरूपेणैव द्रव्यार्थाः, द्वितीयया च द्रव्यस्य कर्मत्वेन निर्देशात्, तथा ज्ञानमपि स्वरूपेण परार्थम् ।

कर्मत्वेन चात्मनो निर्देशात्तदर्थम् ।

अतो ज्ञानविषयोऽपि विधिरात्मरूपं संस्पृशति, न ज्ञानमात्रे पर्यवस्यति, ज्ञानस्यात्मरूपार्थत्वेन कर्तव्यतावगमाज्ज्ञाननियोगेनैवात्मरूपस्याक्षेपात् ।

स्यादेतत्

भवतु ज्ञानस्यात्मार्थताभिप्रेता ।

अपहतपाप्मादिरूपात्मप्रतीतौ तु प्रमाणं वाच्यम् ।

शब्दस्तावदेवंविधात्मज्ञानकर्तव्यतायां पर्यवसितः

’ेवंविधात्मोद्देशेन ज्ञानं कुर्यात्ऽ न तु ’ेवंविध आत्माऽ इति ।

तत्रोच्यते

न हि तत्राकिञ्चित्करस्य तादर्थ्येन कर्तव्यता युज्यते ।

ज्ञानस्य च कर्मणि नान्यत्फलं तद्रूपसंवित्तेः, न हि तस्यां दृष्टायामन्यस्यादृष्टस्य कल्पना ।

तत्र यथा ’व्रीहीन् प्रोक्षतिऽइति प्रोक्षणविधेरेव व्रीहिष्वदृष्टसंस्कारावगमः प्रोक्षणविषयादपि ।

नान्यथा व्रीह्यर्थे प्रोक्षणे कर्तव्यता युज्यते ।

न हि तत्र किञ्चिदकुर्वत्प्रोक्षणं तदर्थं कृतं स्यादित्येवं विधेरेवादृष्टसंस्कारसद्भावसिद्धिः, यथा ’स्वर्गकामो यजेतऽ इति ।

नान्यथा स्वर्गकामस्य यागकर्तव्यताप्रतीतिर्युज्यते यदि न स्वर्गोपायो यागः ।

अनुपाये चेन्नियुज्यते, न स्वर्गकामो नियुक्तो भवति ।

अनुष्ठितोऽपि न स्वर्गकामेनानुष्ठितो भवतीति क्रियाविषयादपि विधेः साध्यसाधनभावावगमः शाब्दः

तथा ज्ञानविषयादपि विधेरात्मरूपबोधः ।

न हि तद्विधमात्मानमुद्दिश्यज्ञाननियोगो युज्यते, अतद्विधश्चेदात्मा तेन ज्ञानेन प्रतीयत इति ।


उक्तोत्तरमिदं यस्मादरूपेणापि भासकम् ॥ २.१६५ ॥


ज्ञानं प्रदर्शितं न स्यादन्यथा तद्विधेः फलम् ।

लयो निवर्त्यो न तथा विक्षेपो हि यथासुखः ॥ २.१६६ ॥


[कुप्पुस्वामी संस्करण १४९] लयविक्षेपभेदश्च न स्यादग्रहमात्रके ।

नन्वरूपावभासे स्याददृष्टफलकल्पना ॥ २.१६७ ॥


रूपावभासे दृष्टं तु फलं तत्सिद्धिलक्षणम् ।

न दृष्टमात्राद्दृष्टार्थं पुरुषार्थानुगं तु तत् ॥ २.१६८ ॥


न भिद्यते च तद्भावो रूपारूपावभासयोः ।

यथा प्रपञ्चशून्यत्वे तत्त्वे ज्ञानावभासिते ॥ २.१६९ ॥


दुःखकर्मक्लेशहानमतत्त्वेऽपि तथा भवेत् ।

एतच्चात्र भवेद्युक्तं प्रत्यक्षाद्यविरोधतः ॥ २.१७० ॥


अनौपचारिकार्थाश्च स्युः कर्मविषयो यतः ।

आत्मार्थज्ञानविधेरेतावद्गम्यते

ज्ञानेन सोऽवभास्यते, आलम्ब्यते, व्यवहारयोग्यतामापद्यते ।

तच्चावभासनं स्वरूपेण च दृष्टम्, पररूपेण च ।

रजतात्मना शुक्तिकायाः ।

प्रतिपादितमेतत्

नाग्रहमात्रमेतत्, अन्यथाख्यातिस्तु ।

तत्रोभयथा संभवे कुत एतत्

तत्त्वप्रतिपत्तिरवश्याभ्युपेया, नातस्मिंस्तत्ख्यातिः? अन्यथा नात्मज्ञानविधिः फलवान् स्यात् ।

स खल्वनात्मरूपप्रविलयार्थः ।

अनात्मरूपविलयेन हि वस्तुनोऽवगतिर्दृष्टेति ।

यदि च नात्मनो नामरूपप्रपञ्चरूपेण प्रकाशनम्, किं प्रविलाप्येत? अथ मतम्

द्विप्रकारेयमविद्या, प्रकाशस्याच्छादिका विक्षेपिका च ।

स्वप्नजागरितयोर्विक्षेपिका, सुषुप्त आच्छादिका लयलक्षणा ।

तत्राच्छादकाविद्यानिवृत्तिर्ज्ञानविधेः फलम् ।

तच्चासत् ।

यतो नाच्छादिकाया अविद्याया निवृत्तिः पुरुषेणार्थ्यते तथा यथा विक्षेपस्य ।

स हि विविधदुःखात्मकः ।

लयस्तु विविधदुःखनिवृत्तेरसकृदानन्दत्वेन श्रुतौ गीतः प्रत्युतार्थनीयः स्यात् ।

अपि च विपर्यासमनिच्छतोऽविद्याभेद एव न स्यात्, अवस्थात्रयेऽप्यग्रहणमात्रत्वात् ।

तस्मादग्रहणविपर्ययग्रहणे द्वे अविद्ये कार्यकारणभावेनावस्थिते ।

[कुप्पुस्वामी संस्करण १५०] स्वप्नजागरितयोरुभे, कारणभूताग्रहणलक्षणा सुषुप्त इत्यविद्याप्रविभाग उपपद्यते ।

तदुक्तम्


कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।

प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिध्यतःऽ ॥

नन्वन्यथायं भेदः

अग्रहणसम्यग्ग्रहणाभ्याम् ।

अग्रहणलक्षणाच्छादिका सुषुप्ते, असम्यग्ग्रहणमितरयोः ।

तथा हि

अभिन्नस्य वस्तुनोऽप्रदेशस्य ग्रहणे तथाभावस्य चाग्रहणात्पृथक्त्वेन प्रत्यवभासः ।

नैतत्सारम् ।

यदि तावदसम्यग्ग्रहणमात्रं तदपटुत्वं वा ज्ञानस्य केनचिद्द्रूपेण वा ग्रहणम्, न सर्वात्मना ।

तत्र दूरस्थे सूक्ष्मे च भवत्यपटु ज्ञानं सामान्यज्ञानम् ।

न च तदविद्या ।

न च किञ्चिज्ज्ञानं सर्वात्मनार्थस्य ग्राहकमिति सर्वज्ञानमिथ्यात्वापातः ।

अभेदस्याग्रहणेऽपि भेदस्यावर्तनेऽपि भेदस्यासंवित्तेर्न निवर्तनीयमस्ति विद्यया ।

न खल्वभेदाग्रहणं निवर्तनीयम् ।

न हि तत्किञ्चिदपराध्यति ।

भेदस्तु विविधदुःखायतनम् ।

अथासम्यग्ग्रहणं पृथक्प्रत्यवभासोऽपृथगात्मनः, अभ्युपेता तर्हि विपर्ययख्यातिः

अपृथक्पृथक्प्रकाशत इति ।


अथोच्येत

न ब्रूमः पृथक्प्रकाशते, किं तु पृथगिव प्रकाशत इति ।

क इवार्थः? यदि यथा पृथग्भूतमप्रकाशमानैकत्वं प्रकाशते तथैकमप्यात्मतत्त्वमगृह्यमाणैकत्वं प्रकाशत इति ।

केनचिदंशेन ग्रहणं सर्वात्मना चाग्रहणमुक्तं भवति, तत्र चोक्तम् ।

अथ प्रकाशत इव, न तु प्रकाशते ।

प्रकाशने क उपमार्थः? तन्निबन्धनव्यवहारप्रवृत्तिः ।

तन्निबन्धनश्चेद्व्यवहारः ।

प्राप्तं प्रकाशनम्

नासति कारणे कार्यं भवतीति ।

अथाभेदाग्रह एव पृथक्त्वग्रहाभिमानः ।

तदसत्, अग्रहणस्याभावस्य स्वरूपेण पररूपेण वा ग्रहणानभ्युपगमात् ।

अप्रकाशमाने च पृथक्त्वे कुतस्तदवग्रहः? अभिन्ने च भेदाभिमानं परित्यज्याभेदाग्रहणे भेदग्रहाभिमानमूरीकुर्वता किं परिहृतं स्यात्? तस्मात्सुष्ठूच्यते

’लयविक्षेपभेदश्च न स्यादग्रहमात्रकेऽ इति ।


[कुप्पुस्वामी संस्करण १५१] नन्वनात्मरूपेण प्रतिपत्तेर्न दृश्यते किञ्चित्फलम् ।

तत्रादृष्टकल्पना स्यात् ।

आत्मरूपप्रतिपत्तेस्तु दृष्टं फलं तत्स्वरूपसिद्धिः ।

उच्यते

न यस्य कस्यचिद्दर्शनाद्दृष्टार्थता, किं तु पुरुषार्थसंस्पर्शिनः ।

तेन हि तद्विधिर्निराकाङ्क्षा भवति ।

न च पुरुषार्र्हभेदस्तत्त्वातत्त्वप्रतिपत्त्योः ।

यथा हि विशुद्धमद्वैतमात्मानं प्रतिपद्यमानस्तथाभूतो न शोकेन संस्पृश्यते, शोचनीयाभावात् ।

न कर्माशयमुपचिनोति, कर्तव्याभावात् ।

न क्वचिद्द्रज्यति किञ्चिद्द्वेष्टि वा, विषयाभावात् ।

’ेवं जीवन्नेव विद्वान्विमुक्तो भवति ।

तथा अतथाभूतमपि तथाभावनापुरःसरं साक्षादिव प्रतिपद्यमानः ।

अभूतोऽप्यर्थः परिभावनातिशयाद्भूतव्यवहारहेतुर्भवति ।

इदमेव चात्र युज्यते, प्रत्यक्षादीनामविरोधात्, कर्मविधीनां च भूतार्थत्वात् ।

परमार्थे हि प्रपञ्चशून्यत्वे प्रत्यक्षादीनि प्रमाणानि बाध्येरन् ।

कर्मविधयश्चाभूतकल्पनोपादानव्यवहारसिद्धार्थगोचराः स्युः ।

तस्मादपरमार्थेनैवाद्वैतात्मज्ञानविधिर्युज्यते ।


जानातिस्तत्त्वबोधे चेन्न मिथ्यादिविशेषणात् ॥ २.१७१ ॥

नात्मा ज्ञातस्तथा स्याच्चेन्न तद्रूपाविधानतः ।

प्रमाणान्तरसिद्धत्वे नतरामन्यथा यदि ॥ २.१७२ ॥


शब्दार्पितेन रूपेण तस्य ज्ञानं विधीयते ।

अतत्त्वेनापि तेनास्य विज्ञानमवकल्पते ॥ २.१७३ ॥


यदि मतम्

’स विजिज्ञासितव्यःऽ इति जानातिस्तत्त्वपरिच्छेद एव वर्तते ।

तेन नाभूतसमारोपेण ज्ञानविधिः स्यादिति ।

तन्न, मिथ्यात्वादिभिर्ज्ञानं विशेष्यते

मिथ्याज्ञानं सम्यग्ज्ञानं संशयज्ञानमिति ।

तदेकनियमे नोपपद्येत, पौनरुक्त्याद्विरोधाच्च ।

स्यादेतत्

अस्वरूपेण प्रतिपत्तौ न तदात्मज्ञानम्, अन्यज्ञानमेव भवति ।

तत्त्वज्ञानं च विधीयते ।

तस्मात्तत्त्वसिद्धिरिति ।

तच्च न ।

न खल्वेतावदेव तत्

’ात्मा ज्ञातव्यः इति ।

[कुप्पुस्वामी संस्करण १५२] यदि स्यात्तद्रूपज्ञानविधिः ।

तच्च न, उभयथानुपपत्तेः ।

प्रमाणान्तरसिद्धं चेदात्मरूपं न तज्ज्ञानं विधेयम् ।

अथासिद्धम्, अशक्यमेव तत् ।

स्यादेतत्

’पहतपाप्मा विजरो विमृत्युःऽ ’िदं सर्वं यदयमात्माऽइति शब्दसमर्पितरूपस्य तस्य ज्ञानं विधीयते, तेन च तत्त्वेनापि तत्संभवति समारोपितेनापि, तेन न नियोगतस्तथाभूतज्ञानविधेस्तथाभावोऽस्य प्रतीयते ।


ज्ञानं यदि च दृष्टार्थं प्राप्तं दृष्टत एव तत् ।

आत्मरूपविजिज्ञासोरजिज्ञासोर्वृथैव तत् ॥ २.१७४ ॥


तदुपायो न चेज्ज्ञातस्तस्यैवास्तु विधिस्ततः ।

अवघातादिविधयो नादृष्टस्पर्शवर्जिताः ॥ २.१७५ ॥


अलौकिकमिदं ज्ञानमतो यदि विधीयते ।

न रूपसिद्धये तावद्यतः कर्तव्यता विधेः ॥ २.१७६ ॥


कर्तव्यता च दृष्टार्थे दृष्टादेव प्रसिद्ध्यति ।

अलौकिकेऽर्थरूपेऽतः शब्देन प्रतिपादिते ॥ २.१७७ ॥


ज्ञाने ज्ञेयाभ्युपायत्वात्स्वयमेवोन्मुखः पुमान् ।

तदुपाये त्वविज्ञाते विधिना स प्रवर्त्यताम् ॥ २.१७८ ॥


नियोगानुप्रवेशोऽतो विहन्त्येव प्रमाणताम् ।

भूतर्थ इति नोपास्यो भूतार्थगतिमिच्छता ॥ २.१७९ ॥

यदि च ज्ञानस्य दृष्टं फलम्, तत एव प्रवृत्तिसिद्धे व्यर्थो विधिः ।

यो ह्यात्मरूपमनुभवितुकामः, स तस्य ज्ञाने स्वयमेव यतते ।

यस्तु न तथा, तस्य तद्व्यर्थमिति विधिशतेनापि स न प्रवर्त्यते ।

अथोपायाज्ञानाद्दृष्टफलेऽपि न प्रवर्तते स्वयम्, अतो विधीयत इति ।

तच्च वार्तम् ।

यतः स एवोपायो विधीयताम्, यत्रायमज्ञानान्न प्रवृत्तः ।

ज्ञाने तु दृष्टफलत्वात्प्रवर्तत [कुप्पुस्वामी संस्करण १५३] एव ।

स्यादेतत्, अवघातादिषु दृष्टफलेष्वपि दृष्टो विधिः ।

सत्यम्, न त्वदृष्टसंस्पर्शरहितः ।

तत्रापि हि नियमादृष्टं फलं तण्डुलेषु तत्प्रणाड्या वा प्रधानपूर्वसिद्धिरदृष्टैव ।

अथ मतम्

अद्वैतात्मज्ञानमदृष्टपूर्वमलौकिकम् ।

अतोऽनन्तरफलमपि विधीयत इति ।

तत्रोच्यते

किमर्थं विधीयते ।

प्रमाणान्तरागोचरस्य स्वरूपप्रतिपत्त्यर्थम्, आहोस्विदनुष्ठानार्थम्? तत्र न स्वरूपसिद्ध्यर्थम्, अनुष्ठानफलो हि विधिर्नानुष्ठानाय, दृष्टार्थत्वादेव तत्सिद्धेः ।

तस्मादलौकिकेऽपहतपाप्मादिरूप आत्मतत्त्वे शब्दात्प्रतिपन्ने तस्य साक्षाज्ज्ञानं प्रति तदनुभवोपायत्वात्स्वयमेव पुरुषस्याभिमुख्यं भवतीति व्यर्थं तद्विधानम्, यथाश्चर्यभूते कस्मिंश्चिदर्थे आगमात्प्रतिपन्ने तस्य साक्षात्करणे स्वयमेवोन्मुखत्वं भवति ।

तदुपायेषु त्वज्ञातेषूपायत्वज्ञापनाय विधानं युज्यते ।

तदेवं ज्ञाने नियोगानुपपत्तेर्नियोगे च वस्तुरूपावगमे प्रामाण्यायोगाद्व्यवस्थितात्मतत्त्वप्रतिपत्तिमिच्छता शब्दान्न तस्य नियोगानुप्रवेशोऽभ्युपगन्तव्य इति ।


इदानीं द्वितीयप्रतिपत्तिविधिनिरासायाह


अत एव न विज्ञानसंतानविधिनिष्ठता ।

तत्रापि पूर्ववन्न स्यात्स्वरूपावगतिप्रमा ॥ २.१८० ॥


स्वरूपनिष्ठाच्छब्दात्तु प्रमितस्य वचोऽन्तरात् ।

उपासनविधानं स्यात्प्राप्तेस्तदपि वा वृथा ॥ २.१८१ ॥


अभ्यासेन प्रत्ययस्य प्रकर्षस्याभिवीक्षणात् ।

तस्माद्भवत्यकार्येऽर्थे वेदान्तानां प्रमाणता ॥ २.१८२ ॥

यदपि मतम्

’स क्रतुं कुर्वीतऽप्रज्ञां कुर्वीतऽ ’निदिध्यासितव्यःऽ इति, यत्रापि स्वरूपनिष्ठतैव लक्ष्यते ’तत्त्वमसिऽ इति तत्रापि ’सदस्मि

इति चेतो धारयेत्ऽइति विवक्षितत्वाच्छ्रवणादन्यदनुचिन्तनं ध्यानं प्रत्ययप्रवाहो विधीयते कर्मवदेवामृतत्वफलम् ।

[कुप्पुस्वामी संस्करण १५४] तदप्यत एव न युज्यते, पूर्वोक्तात्तत्त्वावगतिप्रमाणाभावप्रसङ्गादन्यनिष्ठत्वाद्वाक्यस्य ।

अथ तु वाक्यान्तरात्तत्त्वनिष्ठादधिगते तद्विषयप्रत्ययप्रवाहविधानमिष्यते ।

भवतु ।

न कश्चिद्दोषः ।

तथा च ’विज्ञाय प्रज्ञां कुर्वीतऽइत्यात्मतत्त्वविज्ञानस्य सिद्धतां दर्शयति ।

तदपि वा व्यर्थमेव, प्राप्तार्थत्वात् ।

साक्षात्करणफलं हि तत्तदनुचिन्तनं दृष्टार्थम्, न ततोऽन्यत्फलमाकाङ्क्ष्यते ।

अमृतत्वं हि न स्वरूपाविर्भावादन्यदिति प्राग्वर्णितम् ।

दृष्टा च ज्ञानाभ्यासस्य सम्यग्ज्ञानप्रसादहेतुता लोके ।

भावनाविशेषाद्धि अभूतमप्यनुभवमापद्यते, किं पुनर्भूतम् ।

’स क्रतुं कुर्वीतऽ इति तु न सकलविशेषातिगात्मतत्त्वानुचिन्तनं विधीयते तद्भावफलम्, अपि तु नामरूपोपाधिमनोमयप्राणशरीरादिरूपानुध्यानमैश्वर्यफलम्, क्रमेण वा साक्षात्करणफलम् ।

’तमेव धीरो विज्ञायऽ इति न प्रज्ञाकरणविधिः ।

’तमेवऽइत्यन्यनिवृत्तेः श्रुतत्त्वान्निवृत्तौ तात्पर्यं गम्यते, ’रक्तः पटो भवतिऽइति तया रक्तपरत्वं वाक्यस्य ।

अत्र आकाशादितत्त्वभेदपूर्वमविभागः प्रतिपादितः, तत्र तथैव प्रज्ञाकरणप्रसङ्गे ’तमेवऽ इति विधीयते ।

तथा च पूर्वार्धे

’विरजः पर आकाशादज आत्मा महान् ध्रुवःऽ ।

इत्याकाशादिभ्यः परत्वेनात्मतत्त्वं दर्शितम् ।

तस्य तथैव प्रज्ञाकरणप्रसङ्गे तन्निवृत्तये ’तमेवऽ इत्युच्यते ।

अन्यथा न एवशब्दस्य फलम्, न च निवर्त्यं विज्ञायेत ।

तथा च तदेवोत्तरेण प्रपञ्च्यते ’नानुध्यायाद्बहूञ्छब्दान्ऽ इत्येकवाक्यता ।

अन्यथा वाक्यं भिद्येत ।

शब्दमात्रे चानुध्यानाप्रसङ्गात्शब्दपूर्वत्त्वात्तस्य शब्दार्थविषयमेवेदमिति ।

एवम् ’ात्मेत्येवोपासीतऽइत्येवकारश्रुतेस्तदर्थविधिः ।

’निदिध्यासितव्यःऽ इत्यपि ’ात्मनस्तु कामायऽ इत्युपक्रमात्’िदं सर्वं [कुप्पुस्वामी संस्करण १५५] यदयमात्माऽइत्युपसंहारादात्मस्वरूपपरमेकं वाक्यम् ।

तदन्तर्गताः ’द्रष्टव्यः श्रोतव्यो निदिध्यासितव्यःऽ इति न पृथग्विधयः कृत्यप्रत्यययोगेऽपि ।

कृत्यप्रत्ययस्यार्थान्तरेऽपि स्मरणादर्हादौ स्तुत्यर्थाः यथोपांशुयाजवाक्यान्तर्गताः ’विष्णुरुपांशु यष्टव्यःऽइत्येवमादयः ।

’ैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसिऽइति भूत एव पर्यवसितं वाक्यम् ।

तत्र ’सदस्मि

इति धारयेत्ऽ इति कल्पनेयम् ।

तस्मात्त्रिविधस्यापि ज्ञानस्य विधेयत्वायोगात्, विना च विधेर्वाक्यार्थप्रतिपत्तेः, अपौरुषेयत्वेन निरपेक्षत्वाद्भूतेऽप्यर्थे वेदान्तानां प्रामाण्यसिद्धिः ।

तथा च ’तत्तु समन्वयात्ऽइति चोदनालक्षणाद्धर्मात्तुशब्देन विशेष्यं ब्रह्म समन्वयगम्यमुक्तम् ।

समन्वयो हि पदार्थानां संसर्गो विनियोगस्ततो ब्रह्म गम्यते, न चोदनात इत्यर्थः ।


नन्वविशेषेण कार्येऽर्थे वेदस्य प्रामाण्यं वर्णितम्

’चोदनालक्षणोऽर्थो धर्मःऽ इति ।

चोदनालक्षणो वेदार्थ इत्यर्थः ।

नैतत्सारम् ।

एवं हि सिद्धप्रामाण्यवेदार्थविचारोऽयं स्यात्तदुत्तरलक्षणवत् ।

तत्रानन्तरं प्रामाण्यप्रतिपादनं न युज्येत, ’वृत्तं प्रमाणलक्षणम्ऽ इति च ।

मन्त्रार्थवादेषु च कार्यार्थत्वेन विप्रतिपत्तिर्न स्यात् ।

सा चोपरिष्टादेव निरसिष्यते बहु चात्र वक्तव्यमित्यलं प्रसङ्गेन ।

यथान्यमानव्यतिभेदमुक्ता मतिः प्रमाणत्वमुपैति कार्ये ।

अपौरुषेयागमलब्धजन्मा तथैव सिद्धे निरपेक्षभावात् ॥ २.१८३ ॥

॥इति नियोगकाण्डस्तृतीयः ॥


सिद्धिकाण्डः (चतुर्थः)

मण्डनमिश्रः

॥ सिद्धिकाण्डः ॥

एवं तावत्प्रतिपत्तिकर्तव्यताप्रामाण्यव्याजेन यैरप्रामाण्यमुक्तं तत्प्रतिबोधनाय कृतः प्रयत्नः॑ इदानीं त्वप्रामाण्यमेवाहुर्ये तद्बोधनाय प्रयत्यते ।

तत्र पूर्वपक्षः

नन्वन्वितपदार्थत्वाद्वाक्यार्थस्य पदार्थताम् ।

अप्राप्य न स्याद्वाक्यार्थः पदार्थत्वेऽन्यमानकः ॥ ४.१ ॥

न तावद्ब्रह्मान्तर्याम्यादिपदं प्रमाणम्, संबन्धज्ञानापेक्षया पूर्वसिद्धे प्रत्ययहेतुत्वेन ।

नापि वाक्यम्॑ न हि तत्साक्षाद्वाचकम्॑ पदार्थद्वारा तु तत्प्रतिपत्तिः॑ अपदार्थे ज्ञानस्याभावात् ।

ते हि संसर्गाद्गुणप्रधानभावेनेतरपदार्थविशिष्टमेकं पदार्थं गमयन्ति ।

तत्र पदार्थ एव विशिष्टो वाक्यार्थो भवति ।

न चानधिगतेषु प्रमाणान्तरेण पदार्थत्वम्॑ सम्बन्धज्ञानापेक्षणातित्युक्तम् ।

तत्रापदार्थत्वे न वाक्यविषयत्वम्॑ अनवबोधकं तेषां वाक्यम् ।

पदार्थत्वे प्रमाणान्तराधिगतेरनुवादकम् ।

तत्रात्यन्तापरिदृष्टब्रह्माद्यर्थप्रमाणाभिमतेषु वाक्येषु तद्वाचीनि पदानि स्युः, न वा ।

यदि न सन्ति न त इतरैः संसृज्येरन्न भिद्येरन्निति न तेषां प्रमेयाः लोष्टादिवत् ।

अथ तु सन्ति, तथापि तैरधिगतसंबन्धैर्न प्रतिपाद्येरनप्रतिपन्नाश्च न विशिष्टवाक्यार्थप्रतिपत्तिहेतवः॑ तत्र यथाऽवनात्पिक आनीयतम्ऽ इति पिकपदार्थज्ञानेऽवबोधकत्वं तथा तेषामपि ।

तस्मान्न चोदनातोऽपूर्वपदार्थावगमः॑ सा हि विधिप्रतिषेधाभ्यां क्रियासु पुरुषमधिकरोति॑ त्रैविध्यवृद्धपरिग्रहस्तु जपोपयोगात्, उपनिषदो वेदान्ताः॑

इति तत्र विनियोगात् ।

तत्रोच्यते

सामान्येन पदार्थत्वे सिद्धेऽसाधारणैर्गुणैः ।

शक्यापूर्वविशेषस्य लोकवत्प्रतिपादना ॥ ४.२ ॥

[कुप्पुस्वामी संस्करण १५७] यथा लोके ’द्वीपविशेषे एवंनामानो मरतकमयपादाः पद्मरागमयचञ्चवः सौवर्णराजतपक्षाः पक्षिणःऽइति पक्षिसामान्यं प्रमाणान्तरधिगतमनन्यसाधारणेन धर्मकलापेन संसृज्यमानं प्रमाणान्तरानधिगतं विशेषरूपमासादयति, वाक्येन च प्रमीयते प्रमाणान्तरानधिगतेन विशेषरूपेण

सर्वस्यैव हि वाक्यस्यानधिगतो विशेष एव प्रमेयः तथा कारणसामान्यं वा सत्सामान्यं वा ’यतो वा इमानि भूतानि जायन्तेऽ इति ’स्थूलमनण्वह्रस्वम्ऽइत्यादिपदार्थैः संसर्गाद्भेदाच्च प्रमाणान्तरानधिगतं विशेषरूपमासादयति, वाक्यस्य च प्रमेयं भवति ।

तदेवं लोकसिद्धपदार्थान्वयेनैवापूर्वार्थप्रतिपत्तेर्नानवबोधकत्वमनुवादकत्वं वा ।

सर्वप्रत्ययवेद्ये वा ब्रह्मरूपे व्यवस्थिते ।

प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते ॥ ४.३ ॥

प्रविलीनप्रपञ्चेन तद्रूपेण न गोचरः ।

मानान्तरस्येति मतमाम्नायैकनिबन्धनम् ॥ ४.४ ॥

अथवा न लोकेऽत्यन्तमप्रसिद्धं ब्रह्म, सर्वप्रत्ययवेद्यत्वात्, ब्रह्मणो व्यतिरेकेण प्रत्येतव्यस्याभावात्, विशेषप्रत्ययानां च सामान्यरूपानुगमात्, भेदोपसंहारावशिष्टं च सत्यं ब्रह्म

इति प्रतिपादनात्, ’वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ इति दृष्टान्तात् ।

किं तर्हि शब्देन प्रतिपाद्यते? प्रपञ्चाभावः ।

तत्र प्रपञ्चपदार्थोऽपि सिद्धः, निषेधोऽपि सिद्धः, तयोः संसर्गात्तदभावप्रतिपत्तिः ।

आम्नायैकनिबन्धनत्वं तु तस्योच्यते, प्रत्यक्षादीनामविद्यासंभिन्नत्वात्॑ प्रत्यस्तमितनिखिलभेदेन रूपेणाविषयीकरणाद्भेदप्रत्यस्तमयस्याम्नायावगम्यत्वादिति ।

परः पुनः प्रत्यवतिष्ठते

ननु चापुरुषार्थत्वं भूतनिष्ठे प्रसज्यते ।

यत्खलु वाक्यं न पुरुषं क्वचिद्धितसाधने प्रवर्तयति अहितसाधनाच्च [कुप्पुस्वामी संस्करण १५८] निवर्तयति, केवलं सिद्धमर्थमन्वाचष्टे, तदपुरुषार्थम्॑ अपुरुषार्थत्वाच्चोन्मत्तप्रलापवदप्रमाणम्॑ तथा च प्रायेण वेदान्ताः ।

उच्यते

प्रमाणस्य न चैतावत्पुरुषार्थैकनिष्ठता ॥ ४.५ ॥

(उपेक्षामपि हि फलं प्रमाणस्य प्रचक्षते) ।

(अनेन श्लोकार्धेनात्र भवितव्यमित्यभ्यूहः॑ परं तु मातृकासु न दृश्यते ।

एदितोर्)

अपि चाज्ञानतः शोकी दुःखी जीवः प्रकाशते ॥ ४.६ ॥

तन्निवृत्तिश्च विज्ञानं पुरुषार्थः स्वयं मतम् ।

कस्मिंश्चिदर्थे विज्ञाते कुतूहलवतां नृणाम् ॥ ४.७ ॥

आकुलानां ज्ञानजन्म पुरुषार्थत्वसंमतम् ।

अक्षादौ च यथारूपनिष्ठे नापुरुषार्थता ॥ ४.८ ॥

न च प्रवृत्तिनिष्ठत्वं तथास्मिन् केन वार्यते ।

ज्ञेयस्य पुरुषार्थत्वं तत्र चेदत्र तत्समम् ॥ ४.९ ॥

पुरुषार्थः स्वयं ब्रह्म प्रशान्तं विजरादिकम् ।

अतस्तत्त्वमसीत्येवमनुशिष्याय शिष्यते ॥ ४.१० ॥

परप्रवृत्तेरङ्गत्वं प्रत्यक्षादेर्मतं यदि ।

अत्रापि साक्षात्करणप्रवृत्तावङ्गतेष्यताम् ॥ ४.११ ॥

न तावन्नियोगतः प्रमाणस्य पुरुषार्थफलता ।

न खलु हितोपादानाहितहाने एव प्रमाणफले॑ उपेक्षामपि हि प्रमाणफलं प्रमाणविद आचक्षते ।

न च पुरुषार्थता प्रमाणलक्षणम्, प्रमाहेतुत्वं तु ।

तस्मान्न पुरुषार्थाभावेनाप्रामाण्यम् ।

अपि च ’शोक्यहम्ऽदुःख्यहम्ऽऽधनादीनि मम नष्टानिऽइति विशुद्धब्रह्मात्मनो जीवस्य मिथ्याज्ञानम्॑ एतन्निवृत्तिरूपं च विशुद्धानन्दप्रकाशब्रह्मात्मतत्वज्ञानम् ।

तत्स्वरूपेणैव पुरुषार्थः॑ अनिष्टनिवृत्तिरूपत्वादिष्टाविर्भावाच्च ।

यद्यपि च संस्कारात्तस्यानुवृत्तिस्तथापि शाब्दज्ञानमनुसंतन्वतो विदुषो न पूर्ववद्भवति निवर्तते चात्यन्ताय ।

दृष्टा च ज्ञानोत्पत्तेरेव पुरुषार्थता क्वचित्कुतूहलाकुलितानामज्ञातेऽर्थे ।

न हि [कुप्पुस्वामी संस्करण १५९] तज्ज्ञानात्परमन्यदर्थ्यते ।

न च प्रवृत्तिनिवृत्तिविषयस्यैव पुरुषार्थतेति नियमः॑ प्रत्यक्षादीनि हि प्रमाणानि॑ न च तावत्प्रवृत्तिनिवृत्तिपराणि सिद्धवस्तुविषयाणि॑ न च पुरुषार्थतां जहति ।

यदि मतम्

प्रत्यक्षादिज्ञेयं हि सिद्धं वस्तु पुरुषार्थः सलिलादिः, तदुपकारात्॑ ततः प्रत्यक्षादीनां पुरुषार्थता भूतनिष्ठानामपि ।

अत्रापि च शब्दप्रमेयं स्वयमेव ब्रह्म पुरुषार्थो जरादिविविधाशिवोपशमात्परमानन्दप्रकाशत्वाच्च सुप्रसन्नम् ।

अत एवऽतत्त्वमसिऽइति श्वेतकेतुमुखेनाशासनीयाय पुरुषाय श्रुत्याभिन्नमुपदिश्यते॑ अभिन्नं हि तदनुशासनीयात् ।

भेदेन च प्रतीयमानं न पुरुषार्थः ।

तत्त्वे तादात्म्यज्ञाने च तथाभावात्विश्वाशिवोपशमात्परमशिवभावाच्च परिपूर्णः पुरुषार्थो आप्तो भवति ।

यदि मतम्

प्रत्यक्षादीन्यपि प्रवृत्यङ्गान्येव,

प्रमितेऽर्थे हानोपादानादिलक्षणायाः प्रवृत्तेस्तन्मूलत्वात्॑

ईदृशं प्रवृत्यङ्गत्वमत्राप्यस्त्येव, शब्दात्प्रमिते ब्रह्मणि साक्षात्करणाय प्रवृत्तेरिष्टत्वादिति ॥

एषा वेदान्ततत्त्वप्रविचयचतुरप्रस्फुरन्न्यायतेजा

मार्गं मुक्तेर्निरुन्धन्निबिडमपि तमोऽनादि निर्दारयन्ती ।

सद्यः प्रक्षालयन्ती घनमपि जगतां तीर्थदुस्तर्कपङ्कं

व्याख्यातोत्खातविश्वा शिवनिरतिशयश्रेयसे ब्रह्मसिद्धिः ॥ ४.१२ ॥

॥ इति मण्डनमिश्राणां कृतिर्ब्रह्मसिद्धिः समाप्ता ॥



 



एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने