ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद् भविष्यदिति सर्वमोङ्कार एव। यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥
॥ लिप्यन्तरणम् ॥
omityetadakṣaramidaṁ sarvaṁ tasyopavyākhyānaṁ bhūtaṁ bhavad bhaviṣyaditi sarvamoṅkāra eva| yaccānyat trikālātītaṁ tadapyoṅkāra eva ||
॥ अन्वयः ॥
इदं सर्वं इति एतत् अक्षरम् उपव्याक्षानं भूतं भवत् भविष्यत् इति सर्वम् ओङ्कारः एव। अन्यत् च यत् त्रिकालातीतं तत् अपि ओङ्कारः एव ॥
॥ अन्वयलिप्यन्तरणम् ॥
idaṁ sarvaṁ iti etat akṣaram upavyākṣānaṁ bhūtaṁ bhavat bhaviṣyat iti sarvam oṅkāraḥ eva| anyat ca yat trikālātītaṁ tat api oṅkāraḥ eva ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
माण्डूक्योपनिषत्
स्वामिनारायणमूल भाष्यसमेता
शान्तिमन्त्रः
भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
मङ्गलाचरणम्
जाग्रत्स्वप्नसुषुप्तिवीचिनिचयक्षोभस्य यो नास्पदं यस्मिन्नस्तमुपैत्ययं सुरनरप्रायः प्रपञ्चोऽखिलः ।
यस्मिन्न व्यवहार्यता यदुदये भेदो न सन्दृश्यते सोऽयं ज्ञानघनश्चकास्ति विमलः कैवल्यतेजोमयः ॥१॥
यश्चैतन्यघनः स एव तु गुणैरावेष्टितः संविशन् नानारूपविभेदवेषरचनास्तद्वासनामोहितः ।
बाह्यं स्वाप्नमनर्थमप्यनुभवलीनः सुषुप्तौ क्वचित् कालेनात्मनि तात्त्विक कलयते कश्चित्तुरीयां स्थितिम् ॥२॥
प्रथमः खण्डः
[ प्रणवशब्दवाच्यः परमात्मा ]
इयमुपनिषदात्मकैवल्याविर्भावलक्षणां मुक्तिमधिकृत्य प्रवर्तते । यद्यपि परब्रह्मप्राप्ति- लक्षणा मुक्तिस्तथाप्यविद्यानिवृत्तिगर्भतयाऽस्य मुक्तिपर्वणि समावेशो न्याय्यः । तत्र प्रणवालम्बनमात्मोपासनं विधास्यन्प्रणवमादौ स्तौति - ओमित्येतदिति ।
ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव । यच्चान्यत्रिकालातीतं तदप्योङ्कार एव ॥१॥
ओमित्येतदक्षरमिदं सर्वम् - सर्वमिदमोङ्कार एव, तस्यैवायं विस्तार इति स्तुतं भवति । एवं सङ्ग्रहेणाभिधायोक्तस्य विवेचनं कुर्वन्प्रतिजानीते - तस्योपव्याख्यानमिति । तस्यास्योक्तस्योपव्याख्यानं विवेचनं क्रियते । भूतं भवद्भविष्यदिति सर्वमोङ्कार एव यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव इह हि चिदचित्प्रपञ्चे योऽयमचित्परिणामो भूतभविष्यद्वर्तमानभेदेन विभिन्नः कालपरिच्छिन्नः स सर्वोऽप्योङ्कार एव । यच्चान्यदात्मतत्त्वं कालत्रयातीतं तदप्योङ्कार एव ॥१॥
॥ आङ्गल-अर्थः ॥
OM is this imperishable Word, OM is the Universe, and this is the exposition of OM. The past, the present and the future, all that was, all that is, all that will be, is OM. Likewise all else that may exist beyond the bounds of Time, that too is OM.
॥ हिन्दी-अर्थः ॥
'ओम्' ही है यह 'अक्षर-शब्द', 'ओम्' ही सशृण 'विश्व' है और यह 'ओम्' की ही व्याख्या है! भूत, वर्तमान तथा भविष्य अर्थात् जो कुछ था, जो कुछ है तथा जो कुछ होगा, वह 'ओम्' है। इसी प्रकार 'काल' (त्रिकाल) की सीमा से परे जो कुछ भी हो सकता है वह भी 'ओम्' ही है।
॥ शब्दावली ॥
ओम् इति - om iti - OM is
एतत् - etat - this
अक्षरम् - akṣaram - imperishable Word
इदम् सर्वम् - idam sarvam - (OM is) the Universe and all this is
तस्य उपव्याक्षानम् - tasya upavyākṣānam - the exposition of OM
भूतम् - bhūtam - the past
भवत् - bhavat - the present
भविष्यत् इति - bhaviṣyat iti - and the future
सर्वम् - sarvam - all that was, all that is, all that will be
ओङ्कारः एव - oṅkāraḥ eva - is OM
अन्यत् च - anyat ca - likewise all else
यत्र त्रिकालातीतम् - yat trikālātītam - that may exist beyond the bounds of Time
तत् अपि - tat api - that too
ओङ्कारः एव - oṅkāraḥ eva - is OM

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know