भयादस्याग्निस्तपति भयात्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥
॥ लिप्यन्तरणम् ॥
bhayādasyāgnistapati bhayāttapati sūryaḥ | bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ ||
॥ अन्वयः ॥
अस्य भयात् अग्निः तपति। अस्य भयात् इन्द्रः च वायुः पञ्चमः मृत्युः च धावति ॥
॥ अन्वयलिप्यन्तरणम् ॥
asya bhayāt agniḥ tapati| ( asya ) bhayāt indraḥ ca vāyuḥ pañcamaḥ mṛtyuḥ ca dhāvati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ इन्द्रादीनां भगवन्नियमितकार्यकरणसामर्थ्यवत्वम् ]
यदिदं किञ्च जगत्सर्वं प्राण एजतीति सामान्यतो निर्दिष्टं विशेषतो निदर्शयति - भयादस्येति ।
भयादस्याग्निस्तपति भयात् तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥३॥
धावति स्वे स्वे कर्मण्यप्रमत्त इत्येतत् । समर्था अपि अग्न्यादयो लोकपाला: अस्मात्प्राणात्प्रशासितुर्भीताः स्वकार्याण्यप्रमादेन कुर्वन्तीति भावः ॥३॥
॥ आङ्गल-अर्थः ॥
For fear of Him the fire burneth, for fear of Him the sun giveth heat, for fear of Him Indra and Vayu and Death hasten in their courses.
॥ हिन्दी-अर्थः ॥
'''इसके' भय से ही अग्नि प्रज्वलित है' इसके भय से ही सूर्य तपता है, 'इसके' भय से ही इन्द्र तथा वायु एवं मृत्यु अपने-अपने पथ पर वेगवान् हैं।
॥ शब्दावली ॥
अस्य भयात् - asya bhayāt - for fear of Him
अग्निः तपति - agniḥ tapati - the fire burneth
अस्य भयात् - asya bhayāt - for fear of Him
इन्द्रः च वायुः च पञ्चमः - indraḥ ca vāyuḥ ca pañcamaḥ - Indra and Vayu and Death
धावति - dhāvati - hasten in their courses
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know