Ad Code

यदिदं किं च जगत्सर्वं प्राण एजति निःसृतम्‌।



यदिदं किं च जगत्सर्वं प्राण एजति निःसृतम्‌। महद् भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥

॥ लिप्यन्तरणम् ॥

yadidaṁ kiṁ ca jagatsarvaṁ prāṇa ejati niḥsṛtam | mahad bhayaṁ vajramudyataṁ ya etadviduramṛtāste bhavanti ||

॥ अन्वयः ॥

यत् किंच इदं जगत् सर्वं प्राणे सति निःसृतम् एजति। सः महत् भयं उद्यतं वज्रम्। ये एतत् विदुः ते अमृताः भवन्ति ॥

॥ अन्वयलिप्यन्तरणम् ॥

yat kiṁca idaṁ jagat sarvaṁ prāṇe ( sati ) niḥsṛtam ejati| ( saḥ ) mahat bhayaṁ udyataṁ vajram| ye etat viduḥ te amṛtāḥ bhavanti ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ सर्वं जगत् परमात्माधीनप्रवृत्तिमत् ]

यदिदं किञ्च जगत् सर्वं प्राण एजति निस्सृतम् ।

महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥२॥

यदिदमिति । यत्किञ्चेदं जगत् - वाय्वादित्यादिलक्षणम्, स्वस्मादेव निस्सृतम्, प्राण: - परं ब्रह्म, एजति - कम्पयति । स्वे स्वे कर्मण्यप्रमादेन व्यापारयति । कथम् ? तद्धि महद्भयम् - बिभेत्यस्मादिति भयम् । उद्यतं वज्रमेव तु तत् । अनेनातिशयेन भयाधायकता समर्थ्यते । स्वामिना समुद्यतं वज्रमवलोक्य यथा भीताः स्वे स्वे कर्मणि प्रवर्तेरन्भृत्यास्तथा परस्य ब्रह्मणः प्रशासनवशगाः स्वे स्वे कर्मणि सर्व एव प्रवर्तन्त इति भावः । अत्रैजतिर्ण्यगर्भः ।

यद्वा - उद्यताद्वज्रान्महतो भयात् प्राणाद्धेतोः एजतीत्यन्वयः । सुपां सुः । भावस्तु स एव । एतत् - सर्वस्य जगतः प्रशासकं परंब्रह्म, ये विदुस्तेऽमृता भवन्ति ॥२॥

॥ आङ्गल-अर्थः ॥

All this universe of motion moveth in the Prana and from the Prana also it proceeded; a mighty terror is He, yea, a thunderbolt uplifted. Who know Him are the immortals.

॥ हिन्दी-अर्थः ॥

''यह सम्पूर्ण गतिमय जगत् 'प्राण' में गतिशील है और 'प्राण' से ही निःसृत है। महाभयङ्कर है 'वह' उद्यत वज्रसम है; जो 'उसे' जानते हैं वे अमर होते हैं।

॥ शब्दावली ॥

यत् इदम् सर्वम् - yat idam sarvam - all this

जगत् - jagat - universe of motion

प्राणे - prāṇe - in the Prana

किंच - kiṁca - also

निःसृतम् - niḥsṛtam - from the Prana it proceeded

महत् भयम् - mahat bhayam - a mighty terror is He

उद्यतम् वज्रम् - udyatam vajram - a thunderbolt uplifted

ये - ye - those who

एतत् - etat - Him

विदुः - viduḥ - know

ते - te - they

अमृताः - amṛtāḥ - the immortals

भवन्ति - bhavanti - become / are

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code