इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः। ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥
॥ लिप्यन्तरणम् ॥
iha cedaśakadboddhuṁ prāk śarīrasya visrasaḥ | tataḥ sargeṣu lokeṣu śarīratvāya kalpate ||
॥ अन्वयः ॥
इह शरीरस्य विस्रसः प्राक् तत् ब्रह्म बोद्धुम् अशकत् चेत् संसारबन्धनात् विमुच्यते । न चेत् ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥
॥ अन्वयलिप्यन्तरणम् ॥
iha śarīrasya visrasaḥ prāk ( tat brahma )boddhum aśakat cet ( saṁsārabandhanāt vimucyate )| ( na cet ) tataḥ sargeṣu lokeṣu śarīratvāya kalpate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ शरीरपतनात्पूर्वमेव ब्रह्मज्ञानस्यावश्यसम्पादनीयता ]
सपदि यतितव्यमस्य विज्ञानायेत्याशयेनाह - इह इति ।
इह चेदशकत् बोद्धुं प्राक् शरीरस्य विस्त्रसः ।
ततस्सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥४॥
अयमेव समुचितः समयो विज्ञानाय, यदिह लोके आत्मानात्मविवेचनक्षमं वपुरुपलब्धम्, परमिदं विशरणैकस्वभावम्, अत एव शरीरमिति प्रथते, तद्यावन्न विशीर्येत, तावत्येवावकाशे सर्वस्य प्रशासितृ परमात्मस्वरूपमधिगन्तव्यं नाम । इह शरीरस्य विस्त्रसः प्राक् शरीरविशरणतः प्राक्, उक्तं परमात्मस्वरूपं बोद्धुं चेदशकत् - अशक्नुवश्चेत् । विकरणव्यत्ययश्छान्दसः । स हि ततः सर्गेषु - सृजिकर्मसु पशुपक्ष्यादिषु लोकेषु यत्र क्वचिद्भूत्वा, शरीरत्वाय कल्पते जरामरणादियोगायैवेति यावत् ॥४॥
॥ आङ्गल-अर्थः ॥
If in this world of men and before thy body fall from thee, thou art able to apprehend it, then thou availest for embodiment in the worlds that are His creations.
॥ हिन्दी-अर्थः ॥
''यदि इस मनुष्य-लोक में शरीर-त्याग से पूर्व तुम उसका बोध प्राप्त कर सको तो तुम 'उसके' द्वारा सृष्ट विविध लोकों में शरीर धारण करने के योग्य हो जाते हो।
॥ शब्दावली ॥
इह - iha - in this world of men
शरीरस्य विस्रसः - śarīrasya visrasaḥ - thy body fall from thee
प्राक् - prāk - before
बोद्धुम् - boddhum - to apprehend it
अशकत् - aśakat - thou art able
चेत् - cet - if
ततः - tataḥ - then
सर्गेषु लोकेषु - sargeṣu lokeṣu - in the worlds that are His creations
शरीरत्वाय कल्पते - śarīratvāya kalpate - thou availest for embodiment
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know