कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः। एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥
॥ लिप्यन्तरणम् ॥
kurvanneveha karmāṇi jijīviṣet śataṁ samāḥ | evaṁ tvayi nānyatheto'sti na karma lipyate nare ||
॥ अन्वयः ॥
इह कर्माणि कुर्वन् एव शतं समाः जिजीविषेत्। एवं त्वयि नरे इतः न अन्यथा अस्ति येन कर्म न लिप्यते ॥
॥ अन्वयलिप्यन्तरणम् ॥
iha karmāṇi kurvan eva śataṁ samāḥ jijīviṣet| evaṁ tvayi nare itaḥ na anyathā asti ( yena ) karma na lipyate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ विदुषो विद्याङ्गतया यावज्जीवं कर्मानुष्ठानम् ]
मुमुक्षोरप्यवर्जनीयं विद्याङ्गं कर्मेत्याह - कुर्वन्नेवेति ।
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेऽतोऽस्ति न कर्म लिप्यते नरे ॥२॥
'शतं समा' इति प्रायिकं वचनम्, यावज्जीवमित्यर्थः । मुमुक्षुरपि विद्यायामधिकृतो विद्यानिष्पत्तये कर्माणि फलाद्यभिसन्धिरहितानि यावज्जीवं कुर्वन्नेवेह लोके जिजीविषेत् । यद्यपि जिजीविषेदिति विधिश्श्रूयते तथाऽपि स्नात्वा भुञ्जीते 'त्यत्र स्नान इव कर्मानुष्ठाने विधिर्योजनीयः
कर्मणः ज्ञाननिष्ठाप्रयोजकत्वम्
मुमुक्षोर्मम किं कर्मणा ? मैवम् । त्वय्येवम् - अनिष्पन्नज्ञाननिष्ठे त्वयि विषय उक्तकर्मानुष्ठानमेवोचितम् । इतः - उक्तप्रकारात्, अन्यथा प्रकारान्तरं नास्ति । मुमुक्षामात्रेण न सहसा ज्ञाननिष्ठासिद्धिः । तत्कर्मण्येवाधिकारस्ते (भगवद्गीता - २.४७), यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवस्तस्य कार्यं न विद्यते (भगवद्गीता - ३.१७), न त्वादृशानामिति भावः ।
ननु कर्मफलेन बन्ध एव भवेत् ? मैवम् । न कर्म लिप्यते नरे । नरे प्रकरणान्मुमुक्षौ, कर्म - उक्तं निष्कामं कर्म, न लिप्यते - न बन्धाय भवति ।
कर्मणः स्वरूपतो न बन्धकत्वम्
वस्तुतः कर्मस्वरूपपर्यालोचनायां यत्किञ्चिदपि यागादिकं कर्म सर्वतनोः परमात्मन आराधनमेव, बुभुक्षाव्याकुलान्त: करणा न जानन्तीत्येतावता न वस्तुस्वरूपं व्याहन्येत, तत्स्वरूपतः कर्म कस्यापि न बन्धाय, बुभुक्षो रागवशात्तु बन्धः, तदुपाधिकं तु बन्धकत्वं कर्मणः, न स्वरूपत इत्यभिप्रेत्य न कर्म लिप्यते नर इति सामान्यनिर्देशोऽपि सुसङ्गतः । तदिदं गीतातात्पर्यचन्द्रिकायां सुव्यक्तम् ।
परमतखण्डनम्
धीकर्मणोर्विरोधं शैलवदविकम्प्यमाकलय्यात्र । अधिकृत्यानात्मविदं विहितं कर्मेति केचिदाचख्युः ॥१॥
आत्मविदामनुरूपे संन्यासे किं न कर्मलेशो वा ? । धीकर्मणोर्विरोधः कथमविचाल्यस्त एव जानन्ति ॥२॥
भिक्षाटनादिनियमं कर्म कथं ते न जानन्ति । यदि मन्यते विरोधो नानेनान्यैर्विरोधः कः ? ॥३॥
अपरिच्छिन्नविशुद्धब्रह्मात्मैकत्वविषयविज्ञाने । ब्राह्मण्याद्यभिमानाद्यदग्निहोत्रादि तद्विरोधाय ॥४॥
इति यदि विभावितं स्यात्कथमिह भिक्षाटनादिनियमो वा । यदि विदुषस्संन्यासान्न मन्यते विधिनिषेधवश्यत्वम् ॥५॥
ननु विधिनिषेधभाक्को भुञ्जीथा मा गृधश्चेति । आत्मैकत्वज्ञाने न चोपदेश्यो न चोपदेष्टा च ॥६॥
यदि नामानिष्पन्ने ज्ञानिनि संन्यासविधिरेषः । तस्मिन्नाश्रमकर्माप्यवश्यमिष्येत नान्ततो गच्छेत् ॥७॥
व्यपगतसमस्तभावं मनो यदाऽऽत्मन्यनारतं रमते । प्रच्यवति कर्म सर्वं प्रसुप्तहस्तस्थतालवृन्त इव ॥८॥
यावन्नैवंभूतस्तावत्कर्मानुवर्तते नियतम् । उपदेशादिकमखिलं स्यादिममधिकृत्य नैव तं सिद्धम् ॥९॥
तदिहाभिमतः को वा विरोधो ज्ञानकर्मणोः । येनाधिकारिभेदेन व्याख्याक्लेशोऽपि सह्यते ॥१०॥
अथवाऽयं विवादस्तु न पृथक्पदमर्हति । मुक्तिसाधनविज्ञानविवादमनुगच्छति ॥११॥
तद्यथा स्वस्वसिद्धान्तं व्याचक्षाणो न दुष्यति । परं पदानां नयनं क्लिष्टं चेद्दूषणं तदा ॥१२॥॥२॥
॥ आङ्गल-अर्थः ॥
Doing verily works in this world one should wish to live a hundred years. Thus it is in thee and not otherwise than this; action cleaves not to a man.
॥ हिन्दी-अर्थः ॥
इस संसार में कर्म करते हुए ही मनुष्य को सौ वर्ष जीने की इच्छा करनी चाहिये। हे मानव! तेरे लिए इस प्रकार का ही विधान है, इससे भिन्न किसी और प्रकार का नहीं है, इस प्रकार कर्म करते हुए ही जीने की इच्छा करने से मनुष्य में कर्म का लेप नहीं होता।
॥ शब्दावली ॥
इह - iha - in this world
कर्माणि - karmāṇi - works
कुर्वन् - kurvan - doing
एव - eva - verily
शतम् - śatam - hundred
समाः - samāḥ - years
जिजीविषेत् - jijīviṣet - one should wish to live
एवम् - evam - thus
त्वयि - tvayi - in thee
नरे - nare - to a man
इतः - itaḥ - than this
न - na - not
अन्यथा - anyathā - otherwise
अस्ति - asti - it is
कर्म - karma - action
न लिप्यते - na lipyate - cleaves not
॥ अथ उपनिषद् ॥
.jpeg)
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know