हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्। तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥
॥ लिप्यन्तरणम् ॥
hiraṇmayena pātreṇa satyasyāpihitaṁ mukham | tat tvaṁ pūṣannapāvṛṇu satyadharmāya dṛṣṭaye ||
॥ अन्वयः ॥
हिरण्मयेन पात्रेण सत्यस्य मुखम् अपिहितम् अस्ति। पूषन् तत् सत्यधर्माय दृष्टये त्वम् अपावृणु ॥
॥ अन्वयलिप्यन्तरणम् ॥
hiraṇmayena pātreṇa satyasya mukham apihitam asti| pūṣan tat satyadharmāya dṛṣṭaye tvam apāvṛṇu ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
अथोपासकेनोपासनानिष्पत्तये कर्तव्यं भगवत्प्रार्थनाप्रकारमाह - हिरण्मयेनेति ।
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥
अयमेव ह्युपासनोपायेषु मुख्योपायः, यावत्परमात्मा प्रार्थनया न वशीक्रियते तावत्कर्मयोगादिकमपि दुस्संपादम्, अत एव - "इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ।। ” (कठोपनिषद् - ३.१०), "महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥" (कठोपनिषद् - ३.११) इति वशीकार्यतायां परमात्मनः प्राधान्यं श्रूयते, न हि परमात्मन: प्रसादादृते प्रयत्नशतेनापि मनोनैर्मल्यादि सिद्धयेत् । उक्तंच गीतायां - "दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ " (भगवद्गीता - ७.१४) सत्यस्य - जीवस्य परब्रह्मणो वा, उभयस्य वा, सत्यशब्दः 'सत्यञ्चानृतञ्चे' त्यात्मन्यपि श्रुतः, सर्वतः सत्यत्वात् ब्रह्मणि च । मुखम् - द्वारं, मनसा हि द्वारेण आत्मस्वरूपं गृह्यते, तन्मनः सत्यस्य मुखमित्युच्यते । तद्धिरण्मयेन पात्रेणापिहितम् हिरण्मयशब्दोऽत्र प्रलोभकपरः । आच्छादनसाधनत्वात्पात्रमिति रूपकोक्तिः । प्रलोभकेन शब्दादिविषयेणेति यावत् । अपिहितम् आच्छन्नम्, विषयवासनयाऽऽत्मस्वरूपे विरुद्धवृत्तिकमिति भाव: । “ इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः " (भगवद्गीता - २.६०) तदहं किं करोमि सर्वथा त्वमसि सर्वरक्षकः, तत्त्वं पूषन्नपावृणु पूषन् ! - हे सर्वरक्षक ! तत् - उक्तमाच्छादनम्, अपावृणु - उद्घाटय, मनसो विषयवासनादूषितत्वमपनयेत्यर्थः । कस्मै प्रयोजनाय ? दृष्टये - " आत्मा वाऽरे द्रष्टव्यः " (बृ.उ.६.५.६) इत्युक्तदृष्टिविशेषाय । उपासनासिद्ध्यर्थमिति यावत् । तदपि कस्मै ? सत्यधर्माय सत्यं धर्मं प्राप्तुम् । यश्चायं मनुष्यत्वादिधर्मः स त्वौपाधिकः, स्वाभाविको धर्मः सत्यो धर्म उच्यते, तच्च प्रजापतिवाक्योदितमपहतपाप्मत्वादिकम्, तन्निष्पत्तय इति भावः । " परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" (छांदोग्योपनिषद् - ८.३.४) इत्युक्तप्रकारेण स्वस्वरूपाविर्भावं प्रातुमपेक्षितो यो दृष्टिविशेषस्त्वदुपासनं तन्निष्पत्तये । तन्मनसो विपरीतवासनादोषं त्वमेवापनय नान्यश्शरणमिति भावः ॥
यद्वा - सत्यत्वमिह कालत्रयसम्बन्धित्वम्, धर्मः - श्रेयस्साधनम् स च द्विविधः सिद्धसाध्यभेदात्, तत्र साध्यः कर्माद्युपासनान्तस्समग्रोऽपि सिद्धस्तु तैः प्रसाद्यो भगवान्, तदनयोः सिद्ध एव तु धर्मः कालत्रयसंबन्धात्सत्यो धर्म उच्यते, तस्मै सत्यधर्माय, तं प्रसादयितुमित्यर्थः । दृष्टये साध्यधर्मरूपायोपासनाय, अपावृण्विति पूर्ववदन्वयः । व्याख्याद्वयेऽपि सत्यधर्मायेत्यत्रैधेभ्यो व्रजतीत्यत्रेव चतुर्थी बोध्या ।
यद्वा सत्यधर्माय दृष्टय इति विशेष्यविशेषणभावेनान्वयः । दृष्टिफलस्य ब्रह्मणस्सत्यत्वात्तत्प्रापकधर्मे सत्यधर्मत्वोक्तिः ॥१५॥
॥ आङ्गल-अर्थः ॥
The face of Truth is covered with a brilliant golden lid; that do thou remove, O Fosterer, for the law of the Truth, for sight.
॥ हिन्दी-अर्थः ॥
सत्य का मुख चमकीले सुनहरे ढक्कन से ढका है; हे पोषक सूर्यदेव! सत्य के विधान की उपलब्धि के लिए, साक्षात् दर्शन के लिए तू वह ढक्कन अवश्य हटा दे।
॥ शब्दावली ॥
हिरण्मयेन पात्रेण - hiraṇmayena pātreṇa - a brilliant golden lid
सत्यस्य - satyasya - of Truth
मुखम् - mukham - the face
अपिहितम् - apihitam - is covered
पूषन् - pūṣan - O Fosterer!
तत् - tat - that
सत्यधर्माय - satyadharmāya - for the law of the Truth
दृष्टये - dṛṣṭaye - for sight
त्वम् - tvam - do thou
अपावृणु - apāvṛṇu - remove

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know