पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह। तेजो यत् ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥
॥ लिप्यन्तरणम् ॥
pūṣannekarṣe yama sūrya prājāpatya vyūha raśmīn samūha | tejo yat te rūpaṁ kalyāṇatamaṁ tatte paśyāmi yo'sāvasau puruṣaḥ so'hamasmi ||
॥ अन्वयः ॥
पूषन् एकर्षे यम प्राजापत्य सूर्यरश्मीन् व्युह तेजः। यत् ते कल्याणतमं रूपं तत् ते पश्यामि। यः असौ पुरुषः सः अहम् अस्मि ॥
॥ अन्वयलिप्यन्तरणम् ॥
pūṣan ekarṣe yama prājāpatya sūryaraśmīn vyuha tejaḥ | yat te kalyāṇatamaṁ rūpaṁ tat te paśyāmi| yaḥ asau puruṣaḥ saḥ aham asmi ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ दुष्प्रेक्षतेजोराशेरुपसंहारणार्थप्रार्थना ]
अथ एवं परमात्मसाक्षात्काराय मनसो नैर्मल्यप्रार्थनमुक्तम् । अथ निर्मलेऽपि मनसि तदीयदिव्यमङ्गलविग्रहतेजोराशेर्दुष्प्रेक्षतया तदेकदर्शनलालसस्य परमात्मभक्तस्य दुष्प्रेक्षोग्रतरतेजोराशेरुपसंहरणार्थ: प्रार्थनाप्रकार उच्यते - पूषन्निति ।
पूषन्नकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् ।
समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुष: सोऽहमस्मि ॥१६॥
पूषन् - सर्वशरीरत्वात्सर्वशब्दवाच्यत्वेन पूषन्नित्युक्तिः, यद्वा पूषन् - आश्रितपोषक । एकर्षे ऋषिरतीन्द्रियदर्शी, एकर्षिः - अद्वितीयोऽतीन्द्रियदर्शी, सर्वं सर्वतः सर्वदा स्वयं साक्षात्कर्तुं क्षम इति यावत्। यमयतीति यमः सर्वमन्तः प्रविश्य नियमयसीत्येतत् । सूर्य - सुष्ट्वाश्रितानां धियमीरयति यस्तस्य संबुद्धिः, “ददामि बुद्धियोगं तम् " (भगवद्गीता - १०.१०) इति स्मरणात् । प्राजापत्य - स्वार्थे ष्यञ्, हे प्रजापते ! “पतिं विश्वस्य" (तैत्तिरीयनारायणोपनिषद् - ९२) इति श्रुते: । रश्मीन् - भवदीयदिव्यदेहरश्मीन्, व्यूह - क्षणमात्रमुपसंहर, वयमसमर्थास्तद्दर्शन इति भावः । यत्तेजोऽस्मन्नयनसुखावहं तत्समूह- पुञ्जीकुरु, यत्कल्याणतमं ते रूपम् - सकलमङ्गलावहं ते रूपम्, तत्पश्यामि - पश्येयमित्यर्थः । छान्दसः प्रयोग: । कोटिसूर्यप्रकाशवदत्युग्रं तेज उपसंहृत्य मादृशजनदर्शनक्षमं सौम्यं तेजस्स्वीकृत्य दिव्यामृतमत्याह्लादकं दिव्यरूपं मम लेोचनसात्कुर्विति भावः । ईदृशे दिव्यतेजसि प्रणष्टदृष्टयः कतिचन भगवत्प्रसादविमुखा अविग्रहं भगवन्तमाहुः । श्रुतिस्तु जागर्ति या भगवत: परब्रह्मणो दिव्यं रूपं बोधयति - “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः" (छांदोग्योपनिषद् - १.६.६) " रुक्माभं स्वप्नधीगम्यम्" (मनुस्मृतिः - १२.१२२) “आत्मैवेदमग्र आसीत्पुरुषविधः" (बृहदारण्यकोपनिषद् - ३.४.१) “आदित्यवर्णं तमसस्तु पारे" (पुरुषसूक्तम् तैत्तिरीय आरण्यकम् - ३.१२.१६) “सर्वकर्मा सर्वगन्धस्सर्वरस:" (छांदोग्योपनिषद् - ३.१४.२) "यदा पश्य: पश्यते रुक्मवर्णम्" (मुंडकोपनिषद् - ३.१.३) इति ।
योऽसौ पुरुषः, अहं सोऽसावस्मि - सकलजगद्व्यापकत्वेन यः पुरुष उक्तः सोऽहमस्मि, एतेन स्वातन्त्र्यभ्रमनिवृत्तिरुक्ता । एवं त्वत्पारतन्त्र्यानुसन्धानयुक्ताय मह्यं कल्याणतमं रूपं दर्शयेति भावः ।
यद्वा योऽसौ पुरुषः " अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघित्स: - अपिपासस्सत्यकामस्सत्यसङ्कल्पः " ( छांदोग्योपनिषद् - ८.४.१, ३) इति स्वाभाविकरूपेण श्रूयमाणः पुरुषः प्रत्यगात्मा सोऽहमस्मीत्यर्थः । एतेन देवाद्याकार भ्रमनिवृत्तिपूर्वकपरिशुद्धात्मस्वरूपानुसन्धानमुक्तम् । तदेवं प्रकृतिविविक्तात्मज्ञानवते मह्यं पात्रभूताय दिव्यरूपं दर्शयेति भावः ॥१६॥
॥ आङ्गल-अर्थः ॥
16. O Fosterer, O sole Seer, O Ordainer, O illumining Sun, O power of the Father of creatures, marshal thy rays, draw together thy light; the Lustre which is thy most blessed form of all, that in Thee I behold. The Purusha there and there, He am I.
॥ हिन्दी-अर्थः ॥
हे पोषक, हे एकमात्र द्रष्टा, हे विधाता एवं नियन्ता, हे प्रकाशदाता सूर्य, हे प्रजापति की (प्राणियों एवं प्रजाओं के पिता की) शक्ति! अपनी किरणों को व्यूहबद्ध एवं व्यवस्थित कर, अपने प्रकाश को एकत्र एवं पुञ्जीभूत कर ले जो तेज तेरा सबसे अधिक कल्याणकारी रूप है, तेरा वही रूप मैं देखता हूं। वहां, वहां जो पुरुष है वही हूँ मैं।
॥ शब्दावली ॥
पूषन् - pūṣan - O Fosterer!
एकर्षे - ekarṣe - O sole Seer!
यम - yama - O Ordainer!
सूर्य - sūrya - O illumining Sun
प्राजापत्य - prājāpatya - O power of the Father of creatures
रश्मीन् - raśmīn - thy rays
व्यूह - vyuha - marshal
समूह - samūha - draw together
यत् तेजः - yat tejaḥ - the Lustre which
ते - te - thy
कल्याणतमम् - kalyāṇatamam - most blessed
रूपम् - rūpam - form
तत् - tat - that
ते - te - in Thee
पश्यामि - paśyāmi - I behold
यः असौ - yaḥ asau - there and there
पुरुषः - puruṣaḥ - The Purusha
सः - saḥ - He
अहम् अस्मि - aham asmi - am I

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know