षड्रत्नम्
शास्त्र कोथीं स्तथा मूर्खो दानं दुर्मन्त्रिणन्तथा ।
लाभोप्यस्तीति विज्ञेयं क्रमात् षड्रत्नमीरितम् ।
शास्त्रं सुचिन्तितमथो परिचिन्तनीयं
आराधितोऽपि नृपतिः परिशङ्कनीयः ।
अङ्के स्थितापि युवती परिरक्षणीया
शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ॥ १॥
कोर्थान् प्राप्य न गर्वितो विषयिनः कस्यापदो नागताः
स्त्रीभिः कस्त्र न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।
कः कालस्य न गोचरान्तरगतः कोर्थी गतो गौरवं
को वा दुर्जनवाग्रसे प्रपतितः क्षेमेण यातःपुमान् ॥ २॥
मूर्खो द्विजातिःस्थविरो गृहस्थः
कामी दरिद्रो धनवान् तपस्वी ।
वेश्या कुरूपा नृपतिः कदर्यः
लोके षडेतानि विडम्बितानि ॥ ३॥
दानं दरिद्रस्यप्रभोश्च शान्तिर्यूनां तपो ज्ञानवताञ्च मौनम् ।
इच्छानिवृत्तिश्च सुखासितानां दयाचभूतेषुदिबन्नयन्ति ॥ ४॥
दुर्मन्त्रिणं कमुपयान्ति ननीतिदोषाः
सन्तापयन्ति कमपथ्यभुजं न रोगाः ।
कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः
कं स्त्रीकृता न विषया न नु तापयन्ति ॥ ५॥
लोभोप्यस्ति गुणेन किं पिशुनता यद्यस्ति किं पातकैः
सौजन्यं यदि किं परैः सुमहिमा यद्यस्ति किं मण्डनैः ।
सत्यं चेत्तपसा च किं शुचिमनो यद्यस्ति तीर्थेन किं
सद्विद्यिआ यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ६॥
इति षड्ररत्नं समाप्तम् ।
0 Comments
If you have any Misunderstanding Please let me know